शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण ३

विकिस्रोतः तः

१३.५.३ वपाप्रचरणम्

ऐन्द्राग्नस्य वपायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माहतुः सौमापौ मानुतन्तव्याविन्द्राग्नी वै सर्वे देवास्तदेवैनान्यथादेवतं प्रीणातीति - १३.५.३.१

कायस्य वपायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माह शैलालिः प्रजापतिर्वै कः प्रजापतिमु वा अनु सर्वे देवास्तदेवैनान्यथादेवतं प्रीणातीति - १३.५.३.२

एकविंशतिं चातुर्मास्यदेवता अनुद्रुत्य एकविंशतिधा कृत्वा प्रचरेयुरिति ह स्माह भाल्लवेयः एतावन्तो वै सर्वे देवा यावत्यश्चातुर्मास्यदेवतास्तदेवैनान्यथादेवतम्प्रीणातीति - १३.५.३.३

नानैव चरेयुः इतीन्द्रोतः शौनकः किमुत त्वरेरंस्तदेवैनान्यथादेवतम्प्रीणातीत्येतदह तेषां वचोऽन्या त्वेवात स्थितिः - १३.५.३.४

अथ होवाच याज्ञवल्क्यः सकृदेव प्राजापत्याभिः प्रचरेयुः सकृद्देवदेवत्याभिस्तदेवैनान्यथादेवतं प्रीणात्यञ्जसा यज्ञस्य संस्थामुपैति न ह्वलतीति - १३.५.३.५

हुतासु वपासु प्रपद्याध्वर्यू रजतेन पात्रेण प्राजापत्यं महिमानमुत्तरं ग्रहं गृह्णाति तस्य पुरोरुग्यः प्राणतो निमिषतो महित्वेति विपर्यस्ते याज्यानुवाक्येऽअयातयामताया एष एव प्रैषो वषट्कृते जुहोति यस्ते रात्रौ सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति तस्योक्तं ब्राह्मणम् - १३.५.३.६

नान्येषां पशूनां तेदन्या अवद्यन्ति अवद्यन्त्यश्वस्य दक्षिणतोऽन्येषाम्पशूनामवद्यन्त्युत्तरतोऽश्वस्य प्लक्षशाखास्वन्येषां पशूनामवद्यन्ति वेतसशाखास्वश्वस्य - १३.५.३.७

तदु होवाच सात्ययज्ञिः इतरथैव कुर्युः पथ एव नापोदित्यमिति पूर्वा त्वेव स्थितिरुक्थ्यो यज्ञस्तेनान्तरिक्षलोकमृध्नोति सर्वस्तोमोऽतिरात्रऽउत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै - १३.५.३.८

तस्य त्रिवृद्बहिष्पवमानम् पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमानऽएकविंशानि पृष्ठानि त्रिणवस्तृतीयः पवमानस्त्रयस्त्रिंशमग्निष्टोमसामैकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिर्यद्द्वितीयस्याह्नः पृष्ठ्यस्य षडहस्य तच्छस्त्रमतिरात्रो यज्ञस्तेनामुं लोकमृध्नोति - १३.५.३.९

एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानं कर्मेत्यु हैकऽआहुश्चतुर्विंशतिं त्वेवैतान्गव्यानालभेत् द्वादशभ्यो देवताभ्यो द्वादश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै - १३.५.३.१०