शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १/ब्राह्मण ६

विकिस्रोतः तः

१३.१.६

विभूर्मात्रा प्रभूः पित्रेति इयं वै माताऽसौ पिताऽऽभ्यामेवैनं परिददात्यश्वोऽसि हयोऽसीति शास्त्येवैनं तत्तस्माच्छिष्टाः प्रजा जायन्तेऽत्योऽसि मयोऽसीत्यत्येवैनं नयति तस्मादश्वः पशूनां श्रैष्ठ्यं गच्छत्यर्वासि सप्तिरसि वाज्यसीति यथायजुरेवैतद्वृषासि नृमणा असीति मिथुनत्वाय ययुर्नामासि शिशुर्नामासीत्येतद्वा अश्वस्य प्रियं नामधेयं प्रियेणैवैनं नाम्नाभिवदति तस्मादप्यामित्रौ संगत्य नाम्ना चेदभिवदतोऽन्योऽन्यं समेव जानाते - १३.१.६.१

आदित्यानां पत्वान्विहीति आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वम्
मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनम्परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम्बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागच्छति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तो बन्धनं न जहाति - १३.१.६.२

राष्ट्रं वा अश्वमेधः राष्ट्र एते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं भवन्त्यथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्माद्राष्ट्र्यश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रा अश्वं विन्देरन्यज्ञोऽस्य विच्छिद्येत पापीयान्त्स्याच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अव्यवच्छेदाय न पापीयान्भवत्यथान्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः - १३.१.६.३