सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १

विकिस्रोतः तः


ब्राह्मण १

१ अश्वमेधयागः --तत्र प्रथमं सार्थवादमध्वर्युकर्तृकब्रह्मौदनपचनं विधाय तत्र यदाज्यमवशिष्यते तेनाश्वाभिधानिकां रशनामभ्यज्यादत्ते इति सार्थवादं विधानं, रशनाभ्यञ्जनद्वाराऽश्वस्य प्रजापतिदेवताकत्वात्प्रजापतिरेव तेजसा समृद्धो भवत्यश्वश्च पूतो मेध्यो भवतीत्यर्थवादाभिधानम् , उक्ताया रशनाया दर्भमयत्वं सार्थवादं प्रदर्श्य तया पूतं मेध्यं चैवाश्वमालभते इत्यर्थस्य प्रदर्शनम्, आलब्धादश्वाद्यद्रेत उत्क्रान्तं तस्मात्सुवर्णमुत्पन्नं तच्च सुवर्णं महर्त्विग्भ्यो दद्यात्तेन रेतसोक्तपरम्परयाऽश्व एव समृद्धो भवतीति निरूपणम्, ऋत्विजां महत्त्वकारणमभिधाय तैश्च ब्रह्मौदनः प्राशितव्य इत्यपि सार्थवादं विधाय तत्र ब्रह्मौदनप्राशने सुवर्णं हिरण्यं शतमानं दद्यादिति सार्थवादं विधानं, मध्यमस्याह्नः कृते चतसृभ्यो दिग्भ्यः समाहृताश्चतुरवयवा वसतीवरीरपो गृहीत्वा गृहीत्वा समासिच्य परिहरेदिति सार्थवादं
विधानं चेति.


ब्राह्मण २

२ अश्वाभिधानिकाया रशनाया आदाने सप्रयोजनं मन्त्रं विनियुज्य सैषा रशना द्वादशारत्निपरिमाणा भवतीति सार्थवादं विधानं, रशनायाः परिमाणविषये विकल्पमभिधातुं विहितं द्वादशारत्नित्वमनूद्य मतान्तरेण त्रयोदशारत्निरूपं परिमाणं विधाय तस्यार्थवादेन प्रशंसनं, विहितयोक्तपरिमाणया रशनयाऽश्वस्य बन्धने मन्त्रं विधाय तस्य साभिप्रायं व्याख्यानम् , अश्वबन्धनार्थं ब्रह्मामन्त्रणमन्त्रं ब्रह्मणोऽनुज्ञादानसाधनमन्त्रं च विधाय तयोरभिप्रायकथनं, बद्धस्याश्वस्य प्रोक्षणे पञ्च मन्त्रान्विधाय तेषां व्याख्यानं, ततश्चतुरक्षस्य शुनोऽश्वस्य पादान्तराले उपप्लावनस्य समन्त्रकं सार्थवादं विधानं चेति.


ब्राह्मण ३

३ अश्वसम्बन्धिप्रस्रवणबिन्दूनां निष्क्रयणतया सम्बन्धिनीर्दशाश्वस्तोमीया आज्याहुतीरग्नये स्वाहेत्यनुवाकेन प्रतिमन्त्रं जुहुयादथवाऽनुवाकावृत्त्या प्रतिमन्त्रं सहस्रसंख्या आहुतीर्जुहुयादिति विकल्पेन सार्थवादं सोपपत्तिकं विधानम्. अश्वरूपाणां हिङ्कारादीनां निष्क्रयणात्मिका रूपाख्याः प्रक्रमाख्या वा आज्याहुतीर्हिङ्काराय स्वाहेत्यादिभिर्मन्त्रैर्जुहुयादिति सार्थवादं सप्रयोजनं विधानम् , एताश्चाहुतयो न होतव्या इति सकारणं पूर्वपक्षीकृत्य होतव्या एवेति कारणपुरःसरमेव सिद्धान्तस्थापनं, पुनश्चैता आहुतयोऽग्नेरन्यत्रानायतने न होतव्या इति सकारणं प्रतिषिध्य सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेवाहवनीयरूपे आयतने एव जुहुयादिति सप्रयोजनं विधानं, पुनरन्येषां मतेनैता आहुतयो दीक्षणीयाद्युदवसानीयान्तेषु प्रतियज्ञमुखे होतव्या इति सार्थवादं पक्षं प्रतिपाद्य तस्मिन्पक्षे निन्दार्थवादेनारुचिं दर्शयित्वा प्रागुक्तावसरे एव सकृदेव होतव्या इत्यस्य पक्षस्यैव सार्थवादं दृढीकरणं, ताश्चाहुतय एकोनपञ्चाशत्संख्याका भवन्तीत्येतस्यार्थस्य सार्थवादं विधानं चेत्यादि.

ब्राह्मण ४

४ तिसृणां सावित्रीष्टीनां सेतिहासं सार्थवादं सप्रयोजनमुत्पत्तेरभिधानं, चतस्रो धृतिसंज्ञका आज्याहुतीर्जुहुयादिति सार्थवादं विधाय तासां सायमनुष्ठेयत्वस्य सावित्रीष्टीनां प्रातरनुष्ठेयत्वस्य च सार्थवादमभिधानं चेति.


ब्राह्मण ५

५ सायं धृतिहोमसमये वीणायां वीणागाथिनौ ब्राह्मणौ संवत्सरं गायत इति सार्थवादं विधानं, विहितस्य ब्राह्मणद्वयकर्तृकस्य वीणायां गाथागानस्य प्रशंसार्थमर्थवादकथनम्, अथवा पक्षान्तरेणोभावपि राजन्यौ एतच्च वीणायां गाथागानं कुरुत इति सार्थवादं विधानम्, अथवा पक्षान्तरेणैको ब्राह्मणोऽपरश्च राजन्यस्तावुभौ वीणागाथिनौ गायेतामिति सार्थवादं विधानं, तत्रैतस्मिन्पक्षे ब्राह्मणराजन्यावुभावपि यदि दिवा गायेतां यदि वा रात्रौ गायेतां तदोभयत्राप्यनिष्टं फलमुत्पद्यतेति निन्दार्थवादेन प्रतिपाद्य दिवा ब्राह्मणो गायेनक्तं राजन्यो गायेदिति प्रशंसार्थवादेन व्यवस्थाकरणं, तत्र ब्राह्मणकर्तृकगानस्य राजन्यकतृर्कगानस्य च सार्थवादं प्रकारनिरूपणं, वीणागाथिभ्यां पृथक् पृथक् गोशतं दद्यादिति सार्थवादं विधानं चेति.


ब्राह्मण ६

६ वक्ष्यमाणस्य तृतीयस्याः सावित्रीष्टेरन्ते अध्वर्युयजमानाभ्यां क्रियमाणस्याश्वदक्षिणकर्णे जपस्य साधनभूतमन्त्रस्य साभिप्रायं व्याख्यानं, प्राग्विहितधृतिहोमसाधनभूतं मन्त्रचतुष्टयमभिधाय संवत्सरमध्ये ता धृतिसंज्ञका आहुतयः षोडशनवतयोऽर्थाच्चत्वारिंशदधिकाश्चतुर्दशशतपरिमिता भवन्तीत्यभिधाय चार्थवादेन धृतिहोमस्य प्रयोजनाभिधानम्, अन्वयव्यतिरेकाभ्याम् अश्वमेधयज्ञस्य कारणमुक्त्वाऽश्वमेधयज्ञस्योत्पत्तिविधेरभिधानं, दुर्बलस्याश्वमेधयाजिनोऽश्वो यद्यमित्रैरपहृतस्तदा का प्रायश्चित्तिरित्याशङ्क्यान्यमश्वमानीय प्रोक्षयेयुरिति कारणनिर्देशपुरःसरं प्रायश्चित्तेरभिधानं चेत्यादि.


ब्राह्मण ७

७ आश्वमेधिक्या दीक्षाया उत्पत्तेः सेतिहासमभिधानम्, उत्पन्नाया दीक्षाया अवरोधार्थं वैश्वदेवसंज्ञकौद्ग्रभणहोमस्योत्पत्तेरभिधानं, तत्र सप्ताहं दीक्षया प्रचरन्ति देवतानां त्रेधा विभागं कृत्वा प्रत्यहं त्रिकेणेत्येवंक्रमेण सप्त वैश्वदेवसंज्ञकानौद्ग्रभणहोमाञ्जुह्वति चेति सोपपत्तिकं सप्रयोजनं सार्थवादं विधानं, तानि च सप्त त्रिकाण्येकविंशतिर्भवन्ति तस्या एकविंशतेरधिदैवसम्पत्तेर्निरूपणं, सप्तानां दीक्षाहानां मध्ये षट्सु दिनेषु प्रत्यहं सौमिकानि औद्ग्रभणानि सप्तम उत्तमेऽह्नि तु सौमिकान्याग्निकानि च मिलित्वा षडौद्ग्रभणानि तथाऽन्तिमैका पूर्णाहुतिर्वैश्वदेविकेति संकलनया त्रिंशदौद्ग्रभणानि हवनानि भवन्तीति त्रिंश त्संख्यामभिधाय तस्या विराडात्मना प्रशंसनम्, आध्वरिकाणामाश्वमेधिकानां चौद्ग्रभणानां प्रत्यहं सप्तसंख्या भवतीत्यभिधाय शीर्षण्यप्राणसप्तकरूपत्वेन प्रशंसनम् उत्तमाया: पूर्णाहुत्याः सप्रयोजनं विधानं चेति.

ब्राह्मण ८

८ अश्वमेधयज्ञस्यर्ग्यजुषात्मत्वं सामयजुषात्मत्वं चोपपाद्य वैश्वदेवसंज्ञकाश्वमेधीयौद्ग्रभणहोमस्य प्रयोजनकथनम्, एकविंशत्याश्वमेधिकवैश्वदेवसंज्ञकौद्ग्रभणहोममन्त्राणां त्रिकशः साभिप्रायं प्रदर्शनं, प्राग्विहितायाः पूर्णाहुत्या मन्त्रस्य च साभिप्रायं प्रदर्शनं चेति.

ब्राह्मण ९

९ कृष्णाजिनदीक्षामारभ्योखायां त्रयोदशसमिदाधानान्तस्य कर्मजातस्य करणानन्तरमध्वर्युकर्तव्यस्यैव जपस्य साधनभूतं " आ ब्रह्मन् " इति मंत्रमभिधाय तस्य व्याख्यानं चेति.