शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७

विकिस्रोतः तः

ब्राह्मण १ सौत्रामणीयागः

१ सौत्रामणीयागः - तत्र प्रथमं सौत्रामणीयागोत्पत्त्यर्थं विश्वरूपाख्यायिकाकथनं, तस्यां चेन्द्रकृतं विश्वरूपहनं -- विश्वरूपपुत्रकृतमिन्द्रोद्देशकाभिचारयागं कृत्वाऽपेन्द्रं सोमापहरणं - इन्द्रकृतं तदीययज्ञविनाशं कृत्वा बलात्सोमपानं-- स सोमः शक्रशरीरं सर्वतो व्याप्याङ्गादङ्गाद्वीर्यरूपेणास्रवत्--इत्याद्यर्थजातस्य संक्षेपेण वर्णनं, इन्द्रस्याक्षिनासिकामुखश्रोत्रेन्द्रियेभ्यः क्रमशस्तेजोवीर्यबलयशोरूपेण स्रुतात्सोमादजाविगोऽश्वाश्वतरगर्दभानां पशूनां पक्ष्माश्रुश्लेष्मस्नीहाफेनेभ्यो गोधूमकुवलोपवाकबदरयवकर्कन्धूनां चोत्पत्तेरभिधानं, स्तनाभ्यां शुक्ररूपेण स्रुतात्सोमात्पयः -- उरसस्त्विषिरूपेण स्रुतात्सोमाच्छयेनः पक्षी -- नाभीतः शूषात्मना स्रुतात्सोमात्सीसं -- रेतसो रूपात्मना स्नुतात्सोमाद्धिरण्यं -- शिश्नाद्रसात्मना स्रुतात्सोमात्परिस्रुत्स्फिगीभ्यां क्रोधरूपेण स्रुतात्सोमात्सुरा -- मूत्रादोजोरूपेण स्रुतात्सोमाद्वृकः पशुः -- ऊवध्यान्मन्युरूपेण स्रुतात्सोमाद्व्याघ्रः -- लोहितात्सहोरूपेण स्रुतात्सोमात्सिंहः -- लोमभ्यश्चित्तरूपेण स्रुतात्सोमाच्छयामाकाः -- त्वचोऽपचितिरूपेण स्रुतात्सोमादश्वत्थवृक्षः -- मांसेभ्य ऊर्ग्रूपेण स्रुतात्सोमादुदुम्बरो वृक्षः - अस्थिभ्यः स्वधारूपेण स्रुतात्सोमान्न्यग्रोधो वृक्षः-- मज्जभ्यः:सोमपीथरूपेण स्रुतात्सोमाद् व्रीहयश्चेत्यादि सौत्रामण्युपकरणजातं समुत्पन्नमिति क्वचित् क्वचिद्विशेषणविशिष्टमभिधानं, ततः कदाचिदिन्द्रो नमुचिनाऽसुरेण सह चचार, तदा नमुचिस्तमिन्द्रं पुनर्भूतं विलोक्य सुरया तस्येन्द्रियं सोमपीथमन्नाद्यं च वीर्यमपाहरदिन्द्रश्चार्दितः सञ्छयितवानित्याद्याख्यायिकांशकथनं, ततो देवास्तमुपगम्यायमिन्द्रोऽस्माकं प्रशस्यतम आसीदधुना तु पाप्मानं प्राप्तो हन्तेमं भिषज्यामेति विचार्य क्रमादश्विनौ सरस्वतीं चाब्रुवन् -- यतो युवां भिषजौ त्वं च भैषज्यमतो यूयमिमं भिषज्यतेत्याख्यायिकांशकथनम्, एवं सुरैः प्रार्थितास्ते तान्सुरानब्रुवन्नस्तु नो भाग इति, तदा देवैरश्विभ्यां धूम्रोऽजः पशुः, सरस्वत्यै च मेषः पशुः, यस्माच्चायमिन्द्रोऽस्माकमृषभस्तस्मात्तस्मा ऋषभः पशुर्भागत्वेन परिकल्पित इत्याद्याख्यायिकांशकथनं, ततोऽश्विनौ सरस्वती च यथा यथा स्रुतं तत्सर्वं नमुचेः सकाशादाहृत्य तस्मिन्निन्द्रे पुनरदधुरित्याख्यायिकोपसंहरणम्, एवमाख्यायिकया सौत्रामण्यङ्गपशुयागत्रयस्योत्पत्तिमभिधाय प्रसङ्गात्सौत्रामणीशब्द निर्वचनं तद्वेदितुः फलकथनं च, दक्षिणाधिकारविधिनिरूपणं चेत्यादि.


ब्राह्मण २

२ सोमातिपूतसोमवामिनोस्तत्राप्यलम्भूतेरसम्भूतेरलम्पशोरपशोश्चायं सौत्रामणीयागो भवतीति सौत्रामणीयागप्रयोजकं सोपपत्तिकं निमित्तद्वयनिरूपणम्, आश्विनसारस्वतैन्द्रेतिपशुयागत्रयस्य प्रातिस्विकफलनिर्देशद्वारा प्रयोजनप्रतिपादनं, अश्विसरस्वतीन्द्रदेवतास्वध्यात्मसम्पत्तेर्निरूपणम्, एताभिरेव देवताभिरजादीन्पशूनवरुन्ध इति धूम्रादीनामविभूतसम्पत्तेर्निरूपणम्, अनुपदं निरूपिताजाविगवाख्यपशुत्रयेण सह वडवाऽनुशिशुर्भवतीत्यारभ्यापाष्ठिहस्य पत्रे भवत इत्यन्तं सौत्रामण्युपकरणभूतानां षट्त्रिंशतां द्रव्याणां सार्थवादमभिधानं, तत्र प्रसङ्गाद्यतः सौत्रामणीयागः स्त्रीपुंरूपेष्टिपशुबन्धविलक्षणस्तस्मात्तत्र क्लीबात्सीसेन शष्पाणि क्रीणीयादिति चरकाध्वर्युमतमनूद्य तन्मतं सौत्रामण्या इष्टिपशुबन्धोभयात्मकत्वस्य सोपपत्तिकप्रतिपादनेन प्रत्याख्याय च सोमविक्रयिणः पुरुषादेव शष्पाणि क्रीणीयान्न क्लीबादिति सोपपत्तिकं स्वमतप्रतिष्ठापनम्, उक्तानां षट्त्रिंशतां द्रव्याणां बृहतीत्वसम्पादकार्थवादस्य निरूपणं, देवतान्तरसम्बन्धप्रदर्शनार्थं " अन्यदेवत्याः पशवोऽन्यदेवत्याः पुरोडाशा भवंति विलोमैतत्कथं सलोम भवति" इत्यादिपशुपुरोडाशानामुपन्यासस्योपक्रमणम्, तत्रैन्द्रपुरोडाशस्य प्राथम्यं--सावित्रपुरोडाशस्य द्वैतीयीकत्वं--वारुणपुरोडाशस्य तातीयीकत्वं च भवतीति सार्थवादं देवतानां द्रव्यस्य क्रमस्य च निरूपणं, विहितेषु पुरोडाशेषु कपालसंख्यायाः सार्थवादमुपपादनं विधानं च, सौत्रामण्यां वडवाऽनुशिशुरश्वोऽश्वतरश्च दक्षिणा भवतीति सकारणमभिधानं चेत्यादि.


ब्राह्मण ३

३-यदा च नमुचिरसुर इन्द्रस्येन्द्रियमन्नस्य रसं सोमरूपं भक्षमाहरत्तदेन्द्रोऽश्विनौ सरस्वतीं चोपाधावच्छेपानोऽस्मि नमुचये इति सप्रकारकां प्रतिज्ञां चाकरोदित्याख्यायिकांशकथनं, तत इन्द्रः प्रतिज्ञामनुसृत्य व्युष्टायां रात्रौ अनुदिते चादित्ये नमुचेः शिर उदवासयत्ततश्छिन्ने शिरसि सोमं लोहितमिश्रं सम्पन्नं दृष्ट्वा उद्विग्ना देवा एतच्छुक्रमन्धसो विपानं विलोक्य तेनैनं सोमं पुनः स्वदनयोग्यं कृत्वा चात्मनि स्थापितवन्त इत्याद्याख्यायिकाशेषकथनं, तत्रापि मध्ये उक्तेतिहासस्य दार्ढ्याय मन्त्रद्वयसंवादकथनं ' यो भ्रातृव्यवान्स एतया सौत्रामण्या यजेत" इति सार्थवादं सौत्रामण्यधिकार्यन्तरप्रदर्शनं च, मन्त्रमन्त्रार्थसहितं सुरार्थानामोदनचूर्णमासराणां सन्धानस्य सार्थवादं त्रिरात्रस्थापनस्य च विधानं, वरुणप्रघासवद्दक्षिणा चोत्तरा च द्वे वेदी कर्तव्ये इति सार्थवादं विधानं, पयश्च सुरा चेति द्वे द्रव्ये भवत इति सार्थवादं विधानं, "सुरां पूत्वा पयः पुनाति" इति साभिप्रायं पावनक्रमप्रदर्शनं, सोमातिपूतस्य यजमानस्य सोमवामिनो यजमानस्य समृद्धिकामस्य यजमानस्य च सौत्रामणीयागे क्रमात्प्रत्यङ्पदघटितेन " वायोः तः" इति मन्त्रेण प्राङ्पदघटितेन "वायोः पूतः" इति मन्त्रेण "पुनाति ते" इति मन्त्रेण च मन्त्राभिप्रायसहितं सुरापावनविधानं, मन्त्रमन्त्रार्थविवरणोपेतं पयसः पावनविधानम्, आदौ पयोग्रहान्गृहीत्वा पश्चात्सुराग्रहा ग्राह्या इति सकारणं ग्रहग्रहणक्रमप्रदर्शनं, "कुविदङ्ग" इति मन्त्रेण पयोग्रहान्गृह्णीयादिति सार्थवादं विधानं, “ नाना हि वाम्" इति मन्त्रेण सुराग्रहान्गृह्णीयादिति सार्थवादं विधानं, पयोग्रहाणां क्षत्रत्वं सुराग्रहाणां विट्त्वं च प्रतिपाद्य तेषामुभयेषामव्यतिषिक्तग्रहणं न कुर्यादिति निन्दार्थवादेन सूचयित्वा व्यतिषिक्तग्रहणं कुर्यादिति प्रशंसार्थवादेन सूचनं, पयोग्रहाणां प्राणत्वं सुराग्रहाणां शरीरत्वं च प्रतिपाद्य पूर्ववत्तेषामुभयेषामव्यतिषिक्तग्रहणं न कुर्यादिति निन्दार्थवादेन सूचयित्वा व्यतिषिक्तग्रहणं कुर्यादिति प्रशंसार्थवादेन सूचनं, पयोगहाणां सोमत्वं पशुत्वं ग्राम्यपशुत्वं च सुराग्रहाणामन्नत्वमारण्यपशुत्वं चाभिधाय तत्र पयोगहाणां ग्रहणेन सोमपीथः पशवो ग्राम्याः पशवश्च सुराग्रहाणां ग्रहणेनान्नाद्यमारण्याः पशवश्चावरुद्धा भवन्तीत्यर्थवादस्य निरूपणं, यदि ग्राम्येणारण्येन चान्नेन पयोग्रहाञ्छ्रीणीयात्तदा ग्राम्याणां पशूनां ग्राम्यं चारण्यं चान्नाद्यमवरुद्धं भवतीत्यस्यार्थवादस्य निरूपणं, पापघ्न्या देवताया एतद्रूपमिति दर्शयितुं वक्ष्यमाणार्थवादकथनं, तत्र घोराणामारण्यकपशूनां लोमभिः पयोग्रहान्न श्रीणीयादिति निन्दार्थवादेन सूचयित्वा सुराग्रहानेवैतेषां घोराणामारण्यकपशूनां लोमभिः श्रीणीयादिति प्रशंसार्थवादेन सूचनं, प्रसङ्गाल्लोकेऽपि यज्ञानुकरणेन सुरां पीत्वा रौद्रमनाः पुरुषो ग्राम्याणां पशूनामहिंसायै मृगयाव्याजेनारण्येषु पशुषु रौद्रमायुधं दधातीति लौकिकव्यवहारप्रदर्शनम्, अध्वर्युप्रतिप्रस्थातारौ जघनेन वेदिम्प्राञ्चमावृत्तं यजमान " या व्याघ्रं" इति मन्त्रद्वयेन श्येनपत्राभ्यामूर्ध्वञ्चावाञ्चञ्च पावयत इति सार्थवादं प्रतिपादनं, “ सम्पृचः स्थ" इति मन्त्रेण पयोग्रहान् “विपृचः स्थ" इति मन्त्रेण सुराग्रहान्संमृशेदिति सार्थवादं विधानं चेत्यादि.