शतपथब्राह्मणम्/काण्डम् १/अध्यायः ६

विकिस्रोतः तः

१. प्रयाजानामिष्टौ प्राथम्यम्

प्रयाजानामिष्टौ प्राथम्यं, वसन्ताद्यृतुरूपप्रयाजदेवेष्वग्नेः सम्बन्धोपपादनार्थाऽऽख्यायिका, प्रयाजदेवतानां प्राथम्यप्रशंसनार्थाऽऽख्यायिका च, आदिमध्यावसानेष्वनुष्ठेयानामाज्यभागप्रधानस्विष्टकृद्यागानामग्निदेवता- सम्बन्धाभिधायक इतिहासः, अग्नेः पुरस्तान्मध्ये पश्चाच्च स्थापनप्रकारः सप्रयोजनमाज्यभागप्रधानस्विष्टकृद्यागानामाग्नेयत्वकरणप्रशंसनं, तेन
यजमानस्य किंचिद्दृष्टफलसिद्धिः, प्रयाजसम्बन्धिवेदितव्यविज्ञानस्य फलकथनम्, आज्यस्य प्रजापतिदेवताकत्वरूपेण प्रशंसनं, तथा यजमानदेवताकत्वरूपेण प्रशंसनम्, उक्तार्थज्ञस्य प्रशंसनं चेत्यादि.


२. आवाप प्रदेशः

आवापप्रदेशस्तत्र-आग्नेयपुरोडाशविधानं तदाख्याधिका च, पुरोडाशस्य कूर्माकारता, दृष्टांतमुखेन पुत्रस्योपनायने पितुरधिकारप्रतिपादने, पुरोडाशनामनिरुक्तिः, आग्नेयपुरोडाशस्य दर्शपूर्णमासोभयसाधारण्ये, पौर्णमासयागोऽग्नीषोमीयहविष्को दार्शः सान्नाय्यहविष्कः, उभयत्राग्नेययागस्य प्राथम्यं तत्कारणं च, आग्नेयस्य हविषः प्रतिकामं पृथक् प्रयोगानुष्ठानं तदर्थवादश्चेत्यादि

३. अग्नीषोमीये पूर्णमासोपचारः

अग्नीषोमीयैकादशकपालपुरोडाशविधिस्तदाख्याधिका च, तस्यां च त्वाष्ट्रस्य विश्वरूपस्य स्वरूपं, नामनिरुक्तिः, शक्रकृतः शीर्षत्रय्च्छेदः, तस्मात्कपिञ्जल-कलविङ्क-तित्तिरि-- पक्षिणामुत्पत्तिः, तेषां शारीरवर्णशब्दस्वरूपवर्णनं च, विश्वरूपवधात्क्रुद्धस्य त्वष्टुरिन्द्रं विना सोमयागकरणं तत्रेन्द्रेणानुपहूतेन द्रोण- कलशस्थसोमस्य बलाद्भक्षणं, तन्निमित्तयाऽऽर्त्या मुखभिन्ननासादीन्द्रियेभ्यः सोमोद्वमनं च, तदार्त्युपशमाय देवैः कृता सौत्रामणीष्ट्या चिकित्सा च, ततस्त्वष्टुरिन्द्रशातनार्थं वृत्रासुरोत्पादनं, वृत्रस्य संभवत एव जगत्कारणाग्नीषोमीया-

४. दर्शोपचारः

४ दर्शोपचारास्तत्र आमावास्यानां हविषा विधानाख्यायिका, ऐन्द्राग्न- द्वादशकपालपुरोडाशविधिः,सान्नाय्य- हविर्विधिः, अमावास्यानामनिरुक्तिः, सान्नाय्योत्पत्तिप्रकारः, सान्नाय्यस्य सोमतुल्यताभिधानं, सोमयाज्यसोमयाजिनोः सान्नाय्यविधिः, दर्शपूर्णमासयागयोः क्रमाद्वृत्रहत्या- वार्त्रघ्नशब्दवाचकत्वप्रवृत्तिनिमित्तकथनं, वृत्रशब्दार्थश्चन्द्र इति कथनं,चन्द्रदर्शनयुक्तचतुर्दश्युपवासपक्षं निरस्य चन्द्रादर्शनवत्याममायामुपवासपक्षस्थिरीकरणं, दर्शयागे सान्नाय्यहविषो दानावश्यकतानिरूपणं, चन्द्रस्य क्षयोदयकारणाभिधानपूर्वकं चन्द्रवर्जिताया अमायाः प्रशंसनं, सान्नाय्यहविषो महेन्द्रदेवताकत्वं निराकृत्येन्द्रदेवताकत्वस्य स्थापनमित्यादि