शतपथब्राह्मणम्/काण्डम् १/अध्यायः ६/अग्नीषोमीये पूर्णमासोपचारः

विकिस्रोतः तः
Jump to navigation Jump to search

१.६.३ अग्नीषोमीये पूर्णमासोपचारः

त्वष्टुर्ह वै पुत्रः । त्रिशीर्षा षडक्ष आस तस्य त्रीण्येव मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम - १.६.३.[१]

तस्य सोमपानमेवैकं मुखमास । सुरापाणमेकमन्यस्मा अशनायैकं तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद - १.६.३.[२]

स यत्सोमपानमास । ततः कपिञ्जलः समभवत्तस्मात्स बभ्रुक इव बभ्रुरिव हि सोमो राजा - १.६.३.[३]

अथ यत्सुरापाणमास । ततः कलविङ्कः समभवत्तस्मात्सोऽभिमाद्यत्क इव वदत्यभिमाद्यन्निव हि सुरां पीत्वा वदति - १.६.३.[४]

अथ यदन्यस्मा अशनायास । ततस्तित्तिरिः समभवत्तस्मात्स विश्वरूपतम इव सन्त्येव घृस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवं रूपं हि स तेनाशनमावयत् - १.६.३.[५]

स त्वष्टा चुक्रोध । कुविन्मे पुत्रमवधीदिति सोऽपेन्द्रमेव सोममाजह्रे स यथायं सोमः प्रसुत एवमपेन्द्र एवास - १.६.३.[६]

इन्द्रो ह वा ईक्षां चक्रे । इदं वै मा सोमादन्तर्यन्तीति स यथा बलीयानबलीयस एवमनुपहूत एव यो द्रोणकलशे शुक्र आस तं भक्षयांचकार स हैनं जिहिंस सोऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्रावाथ सर्वेभ्योऽन्येभ्यः प्राणेभ्योऽद्रवत्तददः सौत्रामणीतीष्टिस्तस्यां तद्व्याख्यायते यथैनं देवा अभिषज्यन्- १.६.३.[७]

स त्वष्टा चुक्रोध कुविन्मेऽनुपहूतः सोममबभक्षदिति स स्वयमेव यज्ञवेशसं चक्रे स यो द्रोणकलशे शुक्रः परिशिष्ट आस तं प्रवर्तयांचकारेन्द्रशत्रुर्वर्धस्वेति सोऽग्निमेव प्राप्य सम्बभूवान्तरैव सम्बभूवेत्यु हैक आहुः सोऽग्नीषोमावेवाभिसम्बभूव सर्वा विद्याः सर्वं यशः सर्वमन्नाद्यं सर्वां श्रीं - १.६.३.[८]

स यद्वर्तमानः समभवत् । तस्माद्वृत्रोऽथ यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायूश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः - १.६.३.[९]

अथ यदब्रवीदिन्द्रशत्रुर्वर्धस्वेति । तस्मादु हैनमिन्द्र एव जघानाथ यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रुर्वर्धस्वेति शश्वदु ह स एवेन्द्रमहनिष्यत् - १.६.३.[१०]

अथ यदब्रवीद्वर्धस्वेति । तस्मादु ह स्मेषुमात्रमेव तिर्यङ्वर्धत इषुमात्रं प्राङ्। सोऽ वैवावरं समुद्रं दधावव पूर्वं स यावत्स आस सहैव तावदन्नाद आस - १.६.३.[११]

तस्मै ह स्म पूर्वाह्णे देवाः । अशनमभिहरन्ति मध्यन्दिने मनुष्या अपराह्णे पितरः - १.६.३.[१२]

स वा इन्द्रस्तथैव नुत्तश्चरन् । अग्नीषोमावुपमन्त्रयांचक्रेऽग्नीषोमौ युवं वै मम स्थो युवयोरहमस्मि न युवयोरेष किं चन कं म इमं दस्युं वर्धयथ उप मा वर्तेथामिति - १.६.३.[१३]

तौ होचतुः । किमावयोस्ततः स्यादिति ताभ्यामेतमग्नीषोमीयमेकादशकपालम्पुरोडाशं निरवपत्तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति - १.६.३.[१४]

तावेनमुपाववृततुः । तावनु सर्वे देवाः प्रेयुः सर्वा विद्याः सर्वं यशः सर्वमन्नाद्यं सर्वा श्रीस्तेनेष्ट्वेन्द्र एतदभवद्यदिदमिन्द्र एष उ पौर्णमासस्य बन्धुः स यो हैवं विद्वान्पौर्णमासेन यजत एतां हैव श्रियं गच्छत्येवं यशो भवत्येवमन्नादो भवति- १.६.३.[१५]

तद्वेव खलु हतो वृत्रः । स यथा दृतिर्निष्पीत एवं संलीनः शिश्ये यथा निर्धूतसक्तुर्भस्त्रैवं संलीनः शिश्ये तमिन्द्रोऽभ्यादुद्राव हनिष्यन्- १.६.३.[१६]

स होवाच । मा नु मे प्रहार्षीस्त्वं वै तदेतर्ह्यसि यदहं व्येव मा कुरु मामुया भूवमिति स वै मेऽन्नमेधीति तथेति तं द्वेधान्वभिनत्तस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमाः प्रजा उदरेणाविध्यत्तस्मादाहुर्वृत्र एव तर्ह्यन्नाद आसीद्वृत्र एतर्हीतीदं हि यदसावापूर्यतेऽस्मादेवैतल्लोकादाप्यायतेऽथ यदिमाः प्रजा अशनमिच्छन्तेऽस्मा एवैतद्वृत्रायोदराय बलिं हरन्ति स यो हैवमेतं वृत्रमन्नादं वेदान्नादो हैव भवति - १.६.३.[१७]

ता उ हैता देवता ऊचुः । या इमा अग्नीषोमावन्वाजग्मुरग्नीषोमौ युवं वै नो भूयिष्ठभाजौ स्थो ययोर्वामिदं युवयोरस्मानन्वाभजतमिति - १.६.३.[१८]

तौ होचतुः । किमावयोस्ततः स्यादिति यस्यै कस्यै च देवतायै हविर्निर्वपांस्तद्वाम्
पुरस्तादाज्यस्य यजानिति तस्माद्यस्यै कस्यै च देवतायै हविर्निर्वपन्ति तत्पुरस्तादाज्यभागावग्नीषोमाभ्यां यजन्ति तन्न सौम्येऽध्वरे न पशौ यस्यै कस्यै च देवतायै निर्वपानिति ह्यब्रुवन् - १.६.३.[१९]

स हाग्निरुवाच । मय्येव वः सर्वेभ्यो जुह्वतु तद्वोऽहं मय्या भजामीति तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुरग्निः सर्वा देवता इति - १.६.३.[२०]

अथ ह सोम उवाच । मामेव वः सर्वेभ्यो जुह्वतु तद्वोऽहं मय्याभजामीति तस्मात्सोमं सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा देवता इति - १.६.३.[२१]

अथ यदिन्द्रे सर्वे देवास्तस्थानाः । तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा देवा इत्येतद्ध वै देवास्त्रेधैकदेवत्या अभवन्त्स यो हैवमेतद्वेदैकधा हैव स्वानां श्रेष्ठो भवति - १.६.३.[२२]

द्वयं वा इदं न तृतीयमस्ति । आर्द्रं चैव शुष्कं च यच्छुष्कं तदाग्नेयंयदार्द्रं तत्सौम्यमथ यदिदं द्वयमेवाप्य किमेतावत्क्रियत इत्यग्नीषोमयोरेवाज्यभागावग्नीषोमयोरुपांशुयाजोऽग्नीषोमयोः पुरोडाशो यदत एकतमेनैवेदं सर्वमाप्नोत्यथ किमेतावत्क्रियत इत्यग्नीषोमयोर्हैवैतावती विभूतिः प्रजातिः - १.६.३.[२३]

सूर्य एवाग्नेयः । चन्द्रमाः सौम्योऽहरेवाग्नेयं रात्रिः सौम्या य एवापूर्यतेऽर्धमासः स आग्नेयो योऽपक्षीयते स सौम्यः- १.६.३.[२४]

आज्यभागाभ्यामेव । सूर्याचन्द्रमसावाप्नोत्युपांशुयाजेनैवाहोरात्रे आप्नोति पुरोडाशेनैवार्धमासावाप्नोतीत्यु हैक आहुः - १.६.३.[२५]

तदु होवाचासुरिः । आज्यभागाभ्यामेवातो यतमे वा यतमे वा द्वे आप्नोत्युपांशुयाजेनैवातोऽहोरात्रे आप्नोति पुरोडाशेनैवातोऽर्धमासावाप्नोति सर्वं म आप्तमसत्सर्वं जितं सर्वेण वृत्रं हनानि सर्वेण द्विषन्तं भ्रातृव्यं हनानीति तस्माद्वा एतावत्क्रियत इति - १.६.३.[२६]

तदाहुः । किमिदं जामि क्रियतेऽग्नीषोमयोरेवाज्यस्याग्नीषोमयोः पुरोडाशस्य यदनन्तर्हितं तेन जामीत्यनेन ह त्वेवाजाम्याज्यस्येतरं पुरोडाशस्येतरं तदन्यदिवेतरमन्यदिवेतरं भवत्यृचमनूच्य जुषाणेन यजत्यृचमनूच्यर्चा यजति तदन्यदिवेतरमन्यदिवेतरं भवत्यनेन ह त्वेवाजाम्युपांश्वाज्यस्य यजत्युच्चैः पुरोडाशस्य स यदुपांशु तत्प्राजापत्यं रूपं तस्मात्तस्यानुष्टुभमनुवाक्यामन्वाह वाग्घ्यनुष्टुब्वाग्घि प्रजापतिः - १.६.३.[२७]

एतेन वै देवाः । उपांशुयाजेन यं यमसुराणामकामयन्त तमुपत्सर्य वज्रेण वषट्कारेणाघ्नंस्तथो एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तम्भ्रातृव्यमुपत्सर्य वज्रेण वषट्कारेण हन्ति तस्मादुपांशुयाजं यजति - १.६.३.[२८]

स वा ऋचमनूच्य जुषाणेन यजति तदन्विमा अन्यतरतोदन्ताः प्रजाः प्रजायन्तेऽस्थि
ह्यृगस्थि हि दन्तोऽन्यतरतो ह्येतदस्थि करोति - १.६.३.[२९]

अथर्चमनूच्यर्चा यजति । तदन्विमा उभयतोदन्ताः प्रजाः प्रजायन्तेऽस्थिह्यृगस्थि हि दन्त उभयतो ह्येतदस्थि करोत्येता वा इमा द्वय्यः प्रजा अन्यतरतोदन्ताश्चैवोभयतोदन्ताश्च स यो हैवं विद्वानग्नीषोमयोः प्रजातिं यजति बहुर्हैव प्रजया पशुभिर्भवति - १.६.३.[३०]

स वै पौर्णमासेनोपवत्स्यन् । न सत्रा सुहित इव स्यात्तेनेदमुदरमसुर्यं व्लिनात्याहुतिभिः प्रातर्दैवमेष उ पौर्णमासस्योपचारः - १.६.३.[३१]

स वै संप्रत्येवोपवसेत् । संप्रति वृत्रं हनानि संप्रति द्विषन्तं भ्रातृव्यं हनानीति- १.६.३.[३२]

स वा उत्तरामेवोपवसेत् । समिव वा एष क्रमते यः संप्रत्युपवसत्यनद्धा वै संक्रान्तयोर्यदीतरो वेतरमभिभवतीतरो वेतरमथ य उत्तरामुपवसति यथा पराञ्चमावृत्तं संपिंष्यादप्रत्यालभमानं सोऽन्यतोघात्येव स्यादेवं तद्य उत्तरामुपवसति- १.६.३.[३३]

स वै संप्रत्येवोपवसेत् । यथा वा अन्यस्य हतं संपिंष्यादेवं तद्य उत्तरामुपवसति सोऽन्यस्यैव कृतानुकरोऽन्यस्योपावसायी भवति तस्मादु संप्रत्येवोपवसेत् - १.६.३.[३४]

प्रजापतेर्ह वै प्रजाः ससृजानस्य । पर्वाणि विसस्रंसुः स वै संवत्सर एव प्रजापतिस्तस्यैतानि पर्वाण्यहोरात्रयोः संधी पौर्णमासी चामावास्या चर्तुमुखानि - १.६.३.[३५]

स विस्रस्तैः पर्वभिः । न शशाक संहातुं तमेतैर्हविर्यज्ञैर्देवा अभिषज्यन्नग्निहोत्रेणैवाहोरात्रयोः संधी तत्पर्वाभिषज्यंस्तत्समदधुः पौर्णमासेन चैवामावास्येन च पौर्णमासीं चामावास्यां च तत्पर्वाभिषज्यंस्तत्समदधुश्चातुर्मास्यैरेवर्तुमुखानि तत्पर्वाभिषज्यंस्तत्समदधुः - १.६.३.[३६]

स संहितैः पर्वाभिः । इदमन्नाद्यमभ्युत्तस्थौ यदिदं प्रजापतेरन्नाद्यं स यो हैवं विद्वान्त्संप्रत्युपवसति संप्रति हैव प्रजापतेः पर्व भिषज्यत्यवति हैनं प्रजापतिः स एवमेवान्नादो भवति य एवं विद्वान्त्संप्रत्युपवसति तस्मादु संप्रत्येवोपवसेत् - १.६.३.[३७]

चक्षुषी ह वा एते यज्ञस्य यदाज्यभागौ । तस्मात्पुरस्ताज्जुहोति पुरस्ताद्धीमे चक्षुषी तत्पुरस्तादेवैतच्चक्षुषी दधाति तस्मादिमे पुरस्ताच्चक्षुषी - १.६.३.[३८]

उत्तरार्धपूर्वार्धे हैके । आग्नेयमाज्यभागं जुह्वति दक्षिणार्धपूर्वार्धे सौम्यमाज्यभागमेतत्पुरस्ताच्चक्षुषी दध्म इति वदन्तस्तदु तदाविज्ञान्यमिव हवींषि ह वा आत्मा यज्ञस्य स यदेव पुरस्ताद्धविषां जुहोति तत्पुरस्ताच्चक्षुषी दधाति यत्रो एव समिद्धतं मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन ह्येव समृद्धा आहुतयः - १.६.३.[३९]

स वा ऋचमनूच्य जुषाणेन यजति । तस्मादिमे अस्थन्त्सत्यनस्थिके चक्षुषी आश्लिष्टे अथ यदृचमनूच्यर्चा यजेदस्थि हैव कुर्यान्न चक्षुः - १.६.३.[४०]

ते वा एते । अग्नीषोमयोरेव रूपमन्वायत्ते यच्छुक्लं तदाग्नेयं यत्कृष्णं तत्सौम्यं यदि वेतरथा यदेव कृष्णं तदाग्नेयं यच्छुक्लं तत्सौम्यं यदेव वीक्षते तदाग्नेयं रूपं शुष्के इव हि वीक्षमाणस्याक्षिणी भवतः शुष्कमिव ह्याग्नेयं यदेव स्वपिति तत्सौम्यं रूपमार्द्रे इव हि सुषुपुषोऽक्षिणी भवत आर्द्र इव हि सोम आजरसं ह वा अस्मिंल्लोके चक्षुष्मान्भवति सचक्षुरमुष्मिंलोके सम्भवति य एवमेतौ चक्षुषी आज्यभागौ वेद - १.६.३.[४१]