शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४/ब्राह्मण ४
सस्वरः
[सम्पाद्यताम्]तं वा᳘ एत᳘मग्निं स᳘मैन्धिषत॥
स᳘मिद्धे देवे᳘भ्यो जुहवामे᳘ति त᳘स्मिन्नेते᳘ एव᳘ प्रथमे आ᳘हुती जुहोती म᳘नसे चैव᳘ वाचे᳘ च म᳘नश्च हैव वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतः॥
स य᳘दुपांशु᳘ क्रिय᳘ते॥
तन्म᳘नो देवे᳘भ्यो यज्ञं᳘ वहत्यथ य᳘द्वाचा नि᳘रुक्तं क्रिय᳘ते तद्वा᳘ग्देवे᳘भ्यो यज्ञं᳘ वहत्येतद्वा᳘ इदं᳘ द्वयं᳘ क्रियते त᳘देते᳘ एवै᳘तत्सं᳘तर्पयति तृप्ते᳘ प्रीते᳘ देवे᳘भ्यो यज्ञं᳘ वहात इ᳘ति॥
स्रुवे᳘ण तमा᳘घारयति॥
यं म᳘नस आघार᳘यति वृ᳘षा हि म᳘नो वृ᳘षा हि स्रुवः᳘॥
स्रुचा तमा᳘घारयति॥
यं᳘ वाच आघार᳘यति यो᳘षा हि वाग्यो᳘षा हि स्रु᳘क्॥
तूष्णीं तमा᳘घारयति॥
यं म᳘नस आघार᳘यति न स्वाहे᳘ति चना᳘निरुक्तं हि मनो᳘ ऽनिरुक्तं ह्ये᳘तद्य᳘त्तूष्णीम्॥
म᳘न्त्रेण तमा᳘घारयति॥
यं᳘ वाच᳘ आघार᳘यति नि᳘रुक्ता हि वाङ्नि᳘रुक्तो हि म᳘न्त्रः॥
आ᳘सीनस्तमा᳘घारयति॥
यम् म᳘नस आघार᳘यति ति᳘ष्ठ्ंस्तं यं᳘ वाचे म᳘नश्च ह वै वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतो यतरो वै᳘ युजोर्ह्र᳘सीयान्भ᳘वत्युपवहं वै त᳘स्मै कुर्वन्ति वाग्वै म᳘नसो ह्र᳘सीयस्य᳘परिमिततरमिव हि म᳘नः प᳘रिमिततरेव हि वाक्त᳘द्वाच᳘ एवै᳘त᳘दुपवहं᳘ करोति ते᳘ सयु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतस्त᳘स्मात्ति᳘ष्ठन्वाच आ᳘घारयति॥
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः॥
ते᳘ ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्त᳘ एतद्दक्षिणतः᳘ प्रत्यु᳘दश्रयन्नु᳘छ्रितमिव हि᳘ वीर्यं᳘ त᳘स्माद्दक्षिणतस्ति᳘ष्ठन्ना᳘घारयति स य᳘दुभय᳘त आघार᳘यति त᳘स्मादिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव शि᳘रो ह वै᳘ यज्ञ᳘स्यैत᳘योरन्यतर᳘ आघार᳘योर्मू᳘लमन्यतरः᳘॥
स्रुवे᳘ण तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य स्रुचा तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य॥
तूष्णीं᳘ तमा᳘घारयति॥
यो मू᳘लम् यज्ञ᳘स्य तूष्णी᳘मिव ही᳘दंमू᳘लं नो᳘ ह्य᳘त्र वाग्व᳘दति॥
म᳘न्त्रेण तमा᳘घारयति॥
यः शि᳘रो यज्ञ᳘स्य वाग्घि म᳘न्त्रः शीर्ष्णो ही᳘यम᳘धि वाग्व᳘दति॥
आ᳘सीनस्तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य नि᳘षणमिव ही᳘दम् मू᳘लं ति᳘ष्ठंस्तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य ति᳘ष्ठतीव ही᳘दं शि᳘रः॥
स᳘ स्रुवे᳘ण पू᳘र्वमाघार᳘माघा᳘र्याह॥
अग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति य᳘था धु᳘रमध्यू᳘हेदेवं तद्यत्पू᳘र्वमाघार᳘माघार᳘य्३अत्यध्यु᳘ह्य हि धु᳘रं युञ्ज᳘न्ति॥
अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्येवै᳘नमेत᳘द्युक्तो᳘ देवे᳘भ्यो यज्ञं᳘ वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि परिक्रा᳘मं स᳘म्मार्ष्टि परिक्रा᳘मं हि यो᳘ग्यं युञ्ज᳘न्ति त्रि᳘स्त्रिः स᳘म्मार्ष्टि त्रिवृद्धि᳘ यज्ञः᳘॥
स᳘ स᳘म्मार्ष्टि॥
अ᳘ग्ने वाजजिद्वा᳘जं त्वा सरिष्य᳘न्तं त्वा वाजजि᳘तं स᳘म्मार्ज्मी᳘ति यज्ञं᳘ त्वा वक्ष्य᳘न्तं यज्ञि᳘यं स᳘म्मार्ज्मी᳘त्येवै᳘त᳘दाहा᳘थोप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘था युक्त्वा प्रा᳘जेत्प्रेहि वहे᳘त्येव᳘मेवै᳘तत्क᳘शयो᳘पक्षिपति प्रे᳘हि देवे᳘भ्यो यज्ञं᳘ वहे᳘ति त᳘स्मादुप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते त᳘स्मादिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
विस्वरः
[सम्पाद्यताम्].४.४आघारयोर्निदानम्
तं वा एतमग्निं समैन्धिषत । समिद्धे देवेभ्यो जुहवामेति तस्मिन्नेते एव प्रथमे आहुती जुहोती मनसे चैव वाचे च मनश्च हैव वाक्च युजौ देवेभ्यो यज्ञं वहतः - १.४.४.१
स यदुपांशु क्रियते । तन्मनो देवेभ्यो यज्ञं वहत्यथ यद्वाचा निरुक्तं क्रियते तद्वाग्देवेभ्यो यज्ञं वहत्येतद्वा इदं द्वयं क्रियते तदेते एवैतत्संतर्पयति तृप्ते प्रीते देवेभ्यो यज्ञं वहात इति - १.४.४.२
स्रुवेण तमाघारयति । यं मनस आघारयति वृषा हि मनो वृषा हि स्रुवः - १.४.४.३
स्रुचा तमाघारयति । यं वाच आघारयति योषा हि वाग्योषा हि स्रुक् - १.४.४.४
तूष्णीं तमाघारयति । यं मनस आघारयति न स्वाहेति चनानिरुक्तं हि मनोऽनिरुक्तं ह्येतद्यत्तूष्णीम् - १.४.४.५
मन्त्रेण तमाघारयति । यं वाच आघारयति निरुक्ता हि वाङ्निरुक्तो हि मन्त्रः - १.४.४.६
आसीनस्तमाघारयति । यं मनस आघारयति तिष्ठ्ंस्तं यं वाचे मनश्च ह वै वाक्च युजौ देवेभ्यो यज्ञं वहतो यतरो वै युजोर्ह्रसीयान्भवत्युपवहं वै तस्मै कुर्वन्ति वाग्वै मनसो ह्रसीयस्यपरिमिततरमिव हि मनः परिमिततरेव हि वाक्तद्वाच एवैतदुपवहं करोति ते सयुजौ देवेभ्यो यज्ञं वहतस्तस्मात्तिष्ठन्वाच आघारयति - १.४.४.७
देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुस्त एतद्दक्षिणतः प्रत्युदश्रयन्नुच्छ्रितमिव हि वीर्यंतस्माद्दक्षिणतस्तिष्ठन्नाघारयति स यदुभयत आघारयति तस्मादिदं मनश्चवाक्च समानमेव सन्नानेव शिरो ह वै यज्ञस्यैतयोरन्यतर आघारयोर्मूलमन्यतरः - १.४.४.८
स्रुवेण तमाघारयति । यो मूलं यज्ञस्य स्रुचा तमाघारयति यः शिरो यज्ञस्य - १.४.४.९
तूष्णीं तमाघारयति । यो मूलं यज्ञस्य तूष्णीमिव हीदं मूलं नो ह्यत्र वाग्वदति - १.४.४.१०
मन्त्रेण तमाघारयति । यः शिरो यज्ञस्य वाग्घि मन्त्रः शीर्ष्णो हीयमधि वाग्वदति - १.४.४.११
आसीनस्तमाघारयति । यो मूलं यज्ञस्य निषण्णमिव हीदं मूलं तिष्ठंस्तमाघारयति यः शिरो यज्ञस्य तिष्ठतीव हीदं शिरः - १.४.४.१२
अग्निसंमार्जनम्
स स्रुवेण पूर्वमाघारमाघार्याह । अग्निमग्नीत्सम्मृड्ढीति यथाधुरमध्यूहेदेवं तद्यत्पूर्वमाघारमाघारयत्यध्युह्य हि धुरं युञ्जन्ति - १.४.४.१३
अथ सम्मार्ष्टि । युनक्त्येवैनमेतद्युक्तो देवेभ्यो यज्ञं वहादिति तस्मात्सम्मार्ष्टि परिक्रामं सम्मार्ष्टि परिक्रामं हि योग्यं युञ्जन्ति त्रिस्त्रिः सम्मार्ष्टि त्रिवृद्धि यज्ञः - १.४.४.१४
स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं त्वा वाजजितं सम्मार्ज्मीति यज्ञं
त्वा वक्ष्यन्तं यज्ञियं सम्मार्ज्मीत्येवैतदाहाथोपरिष्टात्तूष्णीं त्रिस्तद्यथा युक्त्वा प्राजेत्प्रेहि वहेत्येवमेवैतत्कशयोपक्षिपति प्रेहि देवेभ्यो यज्ञं वहेति तस्मादुपरिष्टात्तूष्णीं त्रिस्तद्यदेतदन्तरेण कर्म क्रियते तस्मादिदं मनश्च वाक्च समानमेव सन्नानेव - १.४.४.१५