शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः


१.३.३ इध्माबर्हिषोः प्रोक्षणस्तरणपूर्वकं परिधिपरिधानम्

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा जुष्टं प्रोक्षामीति तन्मेध्यमेवैतदग्नये करोति - १.३.३.[१]

अथ वेदिं प्रोक्षति । वेदिरसि बर्हिषे त्वा जुष्टां प्रोक्षामि तन्मेध्यामेवैतद्बर्हिषे करोति - १.३.३.[२]

अथास्मै बर्हिः प्रयच्छति । तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्षति बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामि तन्मेध्यमेवैतत्स्रुग्भ्यः करोति - १.३.३.[३]

अथ याः प्रोक्षण्यः परिशिष्यन्ते । ताभिरोषधीनां मूलान्युपनिनयत्यदित्यै व्युन्दनमसीतीयं वै पृथिव्यदितिस्तदस्या एवैतदोषधीनां मूलान्युपोनत्ति ता इमा आर्द्रमूला ओषधयस्तस्माद्यद्यपि शुष्काण्यग्राणि भवन्त्यार्द्राण्येव मूलानि भवन्ति - १.३.३.[४]

अथ विस्रंस्य ग्रन्थिम् । पुरस्तात्प्रस्तरं गृह्णाति विष्णो स्तुपोऽसीति यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुप एतामेवास्मिन्नेतद्दधाति पुरस्ताद्गृह्णाति पुरस्ताद्ध्ययं स्तुपस्तस्मात्पुरस्ताद्गृह्णाति - १.३.३.[५]

अथ संनहनं विस्रंसयति । प्रकॢप्तं हैवास्य स्त्री विजायत इति तस्मात्संनहनं विस्रंसयति तद्दक्षिणायां श्रोणौ निदधाति नीविर्हैवास्यैषा दक्षिणत इव हीयं नीविस्तस्माद्दक्षिणायां श्रोणौ निदधाति तत्पुनरभिच्छादयत्यभिच्छन्नेव हीयं नीविस्तस्मात्पुनरभिच्छादयति - १.३.३.[६]

अथ बर्हि स्तृणाति । अयं वै स्तुपः प्रस्तरोऽथ यान्यवाञ्चि लोमानि तान्येवास्य यदितरं बर्हिस्तान्येवास्मिन्नेतद्दधाति तस्माद्बर्हि स्तृणाति - १.३.३.[७]

योषा वै वेदिः । तामेतद्देवाश्च पर्यासते ये चेमे ब्राह्मणाः शुश्रुवांसोऽनूचानास्तेष्वेवैनामेतत्पर्यासीनेष्वनग्नां करोत्यनग्नताया एव तस्माद्बर्हिस्तृणाति - १.३.३.[८]

यावती वै वेदिः । तावती पृथिव्योषधयो बर्हिस्तदस्यामेवैतत्पृथिव्यामोषधीर्दधाति ता इमा अस्यां पृथिव्यामोषधयः प्रतिष्ठितास्तस्माद्बर्हि स्तृणाति - १.३.३.[९]

तद्वै बहुलं स्तृणीयादित्याहुः यत्र वा अस्यै बहुलतमा ओषधयस्तदस्या उपजीवनीयतमं तस्माद्बहुलं स्तृणीयादिति तद्वै तदाहर्तर्येवाधि त्रिवृत्स्तृणाति त्रिवृद्धि यज्ञोऽथो अपि प्रवर्हं स्तृणीयात्स्तृणन्ति बर्हिरानुषगिति ह्यृषिणाभ्यनूक्तमधरमूलं स्तृणात्यधरमूला इव हीमा अस्याम्पृथिव्यामोषधयः प्रतिष्ठितास्तस्मादधरमूलं स्तृणाति - १.३.३.[१०]

स स्तृणाति । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्य इति साध्वीं देवेभ्य इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थां देवेभ्य इति स्वासदां देवेभ्य इत्येवैतदाह - १.३.३.[११]

अथाग्निं कल्पयति । शिरो वै यज्ञस्याहवनीयः पूर्वोऽर्धो वै शिरः पूर्वार्धमेवैतद्यज्ञस्य कल्पयत्युपर्युपरि प्रस्तरं धारयङ्कल्पयत्ययं वै स्तुपः प्रस्तर एतमेवास्मिन्नेतत्प्रतिदधाति तस्मादुपर्युपरि प्रस्तरं धारयङ्कल्पयति - १.३.३.[१२]

अथ परिधीन्परिदधाति । तद्यत्परिधीन्परिदधाति यत्र वै देवा अग्रेऽग्निं होत्राय प्रावृणत तद्धोवाच न वा अहमिदमुत्सहे यद्वो होता स्यां यद्वो हव्यं वहेयं त्रीन्पूर्वान्प्रावृढ्वं ते प्राधन्विषुस्तान्नु मेऽवकल्पयताथ वा अहमेतदुत्साक्ष्ये यद्वो होता स्यां यद्वो हव्यं वहेयमिति तथेति तानस्मा एतानवाकल्पयंस्त एते परिधयः - १.३.३.[१३]

स होवाच । वज्रो वै तान्वषट्कारः प्रावृणग्वज्राद्वै वषट्काराद्बिभेमि यन्मा वज्रो वषट्कारो न प्रवृञ्ज्यादेतैरेव मा परिधत्त तथा मा वज्रो वषट्कारो न प्रवर्क्ष्यतीति तथेति तमेतैः पर्यदधुस्तं न वज्रो वषट्कारः प्रावृणक्तद्वर्मैवैतदग्नये नह्यति यदेतैः परिदधाति - १.३.३.[१४]

त उ हैत ऊचुः । इदमु चेदस्मान्यज्ञे युङ्क्थास्त्वेवास्माकमपि यज्ञे भाग इति - १.३.३.[१५]

तथेति देवा अब्रुवन् । यद्बहिष्परिधि स्कन्त्स्यति तद्युष्मासु हुतमथ यद्व उपर्युपरि होष्यन्ति तद्वोऽविष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यदेनानुपर्युपरि जुह्वति तदेनानवत्यथ यद्बहिष्परिधि स्कन्दति तदेतेषु हुतं तस्मादु ह नाग इव स्कन्नं स्यादिमां वै ते प्राविशन्यद्वा इदं किंच स्कन्दत्यस्यामेव तत्सर्वं प्रतितिष्ठति - १.३.३.[१६]

स स्कन्नमभिमृशति । भुवपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्येतानि वै तेषामग्नीनां नामानि यद्भुवपतिर्भुवनपतिर्भूतानाम्पतिस्तद्यथा वषट्कृतं हुतमेवमस्यैतेष्वग्निषु भवति - १.३.३.[१७]

तद्धैके । इध्मस्यैवैतान्परिधीन्परिदधाति तदु तथा न कुर्यादनवकॢप्ता ह तस्यैते भवन्ति यानिध्मस्य परिदधात्यभ्याधानाय ह्येवेध्मः क्रियते तस्यो हैवैतेऽवकॢप्ता भवन्ति यस्यैतानन्यानाहरन्ति परिधय इति तस्मादन्यानेवाहरेयुः - १.३.३.[१८]

ते वै पालाशाः स्युः । ब्रह्म वै पलाशो ब्रह्माग्निरग्नयो हि तस्मात्पालाशाः स्युः - १.३.३.[१९]

यदि पालाशान्न विन्देत् । अथो अपि वैकङ्कता स्युर्यदि वैकङ्कतान्न विन्देदथो अपि कार्ष्मर्यमयाः स्युर्यदि कार्ष्मर्यमयान्न विन्देदथो अपि वैल्वाः स्युरथो खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञियास्तस्मादेतेषां वृक्षाणां भवन्ति - १.३.३.[२०]