शतपथब्राह्मणम्/काण्डम् १२/अध्यायः २/ब्राह्मण ४

विकिस्रोतः तः

१२.२.४ गवामयनीयसंवत्सरस्य पुरुषविधोपासनम्।

पुरुषो वै संवत्सरः। तस्य प्राण एव प्रायणीयोऽतिरात्रः। प्राणेन हि प्रयन्ति। वागेवारंभणीयमहः। वाचा ह्यारभन्ते। तद्यदारभन्ते॥१२.२.४.१॥

अयमेव दक्षिणो हस्तोऽभिप्लवः षडहः। तस्येदमेव प्रथममहः। तस्येदमेव प्रातःसवनम्। इदं माध्यंदिनं सवनम्। इदं तृतीयसवनम्। गायत्र्या आयतने। तस्मादियमासां ह्रसिष्ठा॥१२.२.४.२॥

इदमेव द्वितीयमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। त्रिष्टुभ आयतने। तस्मादियमस्मै वर्षीयसी॥१२.२.४.३॥

इदमेव तृतीयमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। जगत्या आयतने। तस्मादियमासां वर्षिष्ठा॥१२.२.४.४॥

इदमेव चतुर्थमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। विराज आयतने। अन्नं वै विराट्। तस्मादियमासामन्नादितमा॥१२.२.४.५॥

इदमेव पंचममहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्।इदं तृतीयसवनम्। पंक्तेरायतने। पृथुरिव वै पंक्तिः। तस्मादयमासां प्रथिष्ठः॥१२.२.४.६॥

इदमेव षष्ठमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यंदिनं सवनम्। इदं तृतीयसवनम्। अतिच्छंदस आयतने। तस्मादयमासां वर्षिष्ठः। गायत्रमेतदहर्भवति। तस्मादिदं फलकं ह्रसिष्ठम्। स इतोऽभिप्लवः षडहः। स इतः। स इतः। स इत आत्मा पृष्ठ्यः॥१२.२.४.७॥

एतद्ध स्म वै तद्विद्वानाह पैंग्यः।प्लवन्त इव वा अभिप्लवाः। तिष्ठतीव पृष्ठ्य इति। प्लवत इव ह्ययमंगैः। तिष्ठतीवात्मनेति॥१२.२.४.८॥

शिर एवास्य त्रिवृत्। तस्मात्तत् त्रिविधं भवति। त्वगस्थि मस्तिष्कः॥१२.२.४.९॥

ग्रीवाः पंचदशः। चतुर्दश वा एतासां करूकराणि। वीर्यं पंचदशम्। तस्मादेताभिरण्वीभिः सतीभिर्गुरुं भारं हरति। तस्मात् ग्रीवा पंचदशः॥१२.२.४.१०॥

उरः सप्तदशः। अष्टावन्ये जत्रवोऽष्टावन्ये। उरः सप्तदशम्। तस्मादुरः सप्तदशः॥१२.२.४.११॥

उदरमेकविंशः। विंशतिर्वा अंतरुदरे कुंतापानि। उदरमेकविंशम्। तस्मादुदरमेकविंशः॥१२.२.४.१२॥

पार्श्वे त्रिणवः। त्रयोदशान्याः पर्शवस्त्रयोदशान्याः। पार्श्वे त्रिणवे। तस्मात्पार्श्वे त्रिणवः॥१२.२.४.१३॥

अनूकं त्रयस्त्रिंशः। द्वात्रिंशद्वा एतस्य करूकराणि। अनूकं त्रयस्त्रिंशम्। तस्मादनूकं त्रयस्त्रिंशः॥१२.२.४.१४॥

अयमेव दक्षिणः कर्णोऽभिजित्। यदिदमक्ष्णः शुक्लम्। स प्रथमः स्वरसामा। यत् कृष्णं, स द्वितीयः। यन्मंडलं, स तृतीयः। नासिके विषुवान्। यदिदमक्ष्णो मंडलम्। स प्रथमोऽर्वाक्सामा। यत् कृष्णं, स द्वितीयः। यत् शुक्लं, स तृतीयः॥१२.२.४.१५॥

अयमेवोत्तरः कर्णो विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याववांचौ प्राणौ, ते गोआयुषी। अंगानि दशरात्रः। मुखं महाव्रतम्। उदान एवोदयनीयोऽतिरात्रः। उदानेन ह्युद्यंति। स एष संवत्सरोऽध्यात्मं प्रतिष्ठितः स यो हैवमेतं संवत्सरमध्यात्मं प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके, अमृतत्वेनामुष्मिन्॥१२.२.४.१६॥