वाचस्पत्यम्/घ

विकिस्रोतः तः
← वाचस्पत्यम्/ग वाचस्पत्यम्/घ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/च →
पृष्ठ २७७८

घकारस्योच्चारणं स्थानं जिह्वामूलं “जिह्वामूले तु कुः

प्रोक्तः” शिक्षोक्तेः “अकुहविसर्जनीयानां कण्ठः” इत्यु-
क्तिस्तु जिह्वामूलरूपकण्ठपरा । अस्योच्चारणे आभ्यन्तरः
प्रयत्नः स्पर्शः जिह्वामूलस्पर्शनेन तदुच्चारणात् अतएवास्य
स्पर्शवर्णत्वम् । बाह्यप्रयत्नास्तु घोषनादसंवार महाप्राणाः
सि० कौ० मूलं दृश्यम् । तस्य तन्त्रे वाचकशब्दा उक्ता यथा
“घः खड्गी घुर्घुरा मण्डी मुण्डीशस्त्रिपुरान्तकः ।
वायुः शिवोत्तमः सत्यकिङ्किणी घोरनादकः ।
मरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरी
ज्वालमाला नंन्देशो हननं ध्वनिः । त्रैलीक्यविद्या
संहर्त्ता कामाख्या मनघा मघा” वर्ण्णोद्धारतन्त्रम्
अस्य ध्येयरूपं यथा “मालतीपुष्पवर्ण्णाभां षड्भुजां
रक्त लोचनाम् । शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषि-
ताम् । सदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम् । एवं
ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत्” । अस्य मातृ-
कान्यासे दक्षिणकराङ्गुलीषु न्यस्यता ।

पु० घट--बा० ड । १ घटायां २ घर्घरशब्दे च मेदि० ।

घकार पु० घ--स्वरूपे कार । घस्वरूपे वर्ण्णे “एवं ध्वात्वा

वकारन्तु” वर्ण्णोद्धारत० ।

घग्ध हसने भ्वा० पर० अक० सेट् । घग्धति अघग्धीत् । जघग्ध ।

घट चेष्टायां भ्वा० आत्म० अक० सेट् घटादि । घटते

अघटिष्ट जघटे घटमानः । षित् अङ् घटा । “घटस्व
परया शक्त्या मुञ्च त्वमपि सायकान्” भा० व० १५८१
श्लो० । “कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः”
१०४७३ श्लो० । “प्रागेव मरणात्तस्माद् राज्यायैव घटा०
महे” १३८१ श्लो० । “अङ्गदेन समं योद्धुमघटिष्ट
नरान्तकः” भट्टिः । णिच् योजने सक० मित्त्वात् ह्रस्वः
घटयति । अजीघटत् त “अनेन भैभीं घटयिष्यतोवि-
धेः” नैष० । “अन्यथा घटयिष्यामि” शकु० । “इत्थं
नारीर्धटयितुमलं कामिभिः काममासः” माघः ।
  • उद् + घटि--आवरणनिवारणे निरावरणकरणे । “द्वारे
पुरस्योद्घटितापिधाने” कुमा० ।
  • प्र + प्रारम्भे “ततः प्रजघटे युद्धम्” भट्टिः ।
  • वि + वियुक्तो अक० “ततोविजघटे शैलैः” भट्टिः । “कार्य्य
मुद्घाटितं क्वापि मध्ये विजघटे यतः” हितो० ।
“विघटितास्तृष्णालताग्रन्थयः” प्रबो० । णिच्--वियो-
जने सक० विघटयति ते ।
  • सम् + सम्यक्श्लेषे संयोगे अक० । संघटते संयुज्यते इत्यर्थः
णिच् संयोजने सक० संघटयति--संयोजयतीत्यर्थः ।

घट हिंसे सक० संघाते अक० चु० उभ० सेट् । घाटयति--ते

अजीघटत्--त । घाटा ।
  • उद् + निरावरणे उद्घाटयति द्वारम् “उद्घाटिनी कुञ्जिका”
मृच्छक० । “उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं
कुलविनाशः” वृ० स० ५३ अ० ।

घट द्यु तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् ।

घाटयति ते घटति । अजीघटत-त अघाटीत् अघटीत् ।

घट शब्दकरणे चुरा० उभ० अक० सेट् इदित् । घण्टयति

ते अजघण्टत् त । घण्टा निघण्टुः ।

घट पु० घटते अच् । कम्बुग्रीवादिमति पृथुबुध्नोदराकृतियुक्तं

पदार्थे अमरः कुम्भतुल्यनिश्चलताहेतुत्वात् प्राणायाम-
भेदे २ कुम्भके । ३ हस्तिकुम्भ च मेदि० । “कुम्भस्तु द्रो-
णविंशतिः” कात्यायनोक्ते द्रोणविंशतिपरिमाणे
इति शब्दक० । तच्चिन्त्यम् कुम्भशब्दस्यैव तदर्थे
परिभाषितत्वात् तदर्थकशब्दमात्रस्य तत्रापरिभाषितत्वाच्च ।
वैद्यकोक्तद्रोणपरिमाणार्थकतापि तत्रोक्ता चिन्त्या तत्र
कुम्भशब्दस्यैव परिभाषितत्वात् । ४ कुम्भराशौ “हरिः
कीटघटेन च” ज्यो० त० पताकीवेधे

घटक त्रि० घटयति घट--णिच्--ण्वुल् । १ योजके । तद्भेदाः

“धावकोभावकश्चैव योजकश्चांशकस्तथा । दूषकः स्तावक-
श्चैव षड़ेते घटकाः स्मृताः” इत्युक्ताः । “घटकं ब्राह्मणं
देवि! स्पर्शेषु यत्नतस्त्यजेत्” महिषमर्द्दिनीत० तस्यास्मृ
श्यतोक्ता । योजकश्च वरकन्ययोर्विवाहे योजकः, वस्तु-
मात्रयोर्योजकश्चेति द्विधा ।
२ स्वविषयताव्यापकविषयताविशिष्टे “यः स्वार्थघटका-
र्थस्य स्वार्थान्वयिनि बोधने । अनुकूलोबहुव्रीहिः सत्त-
योरथवादिमः” शब्द० प्र० “साध्याभावाधिकरणत्वं
च साध्यवत्ताग्रहविरोधिताघटकसम्बन्धेनेति साध्या-
भावप्रतियोगित्वञ्च साध्यताघटकसम्बन्धेन इति च
नव्यनंया० । तस्य भावः त्व घटकत्वम् स्वभिन्नत्वस्व-
व्यापकत्वोभयसम्बन्धेन विषयताविशिष्टत्वे । भवति च
वह्न्यभावे वह्नेर्घटकत्वम् वह्न्यभावज्ञानीयविषयताया
वह्निविषयताव्याप्यत्वात् ।
पृष्ठ २७७९

घटकर्पर पु० विक्रमादित्यसभ्ये नवरत्नान्तर्गते कविभेदे ।

“धन्वन्तरिःक्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परका-
लिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचि र्नव विक्रमस्य” ज्यीतिर्विदाभरणम् ।
तत्कृतकाव्यञ्च नीतिसाराख्यं तन्नाम्ना प्रसिद्धमस्ति ।
तच्च “गिरौ कलापी गगने पयोदाः” इत्यादिकं
“यथा करोतु नीतिज्ञो व्यवसायमितस्ततः । फलं
पुनस्तदेव स्याद् यद्विधेर्मनसि स्थितम्” इत्यन्तम् । ६ त० ।
२ भग्नघटावयवभेदे (खावरा) “तस्मै वहेयमुदकं
घटकर्परेण” नीतिसारः “घटकर्परतीक्ष्णाग्रः” पञ्चत० ।

घटकार त्रि० घटं करोति कृ--अण् उप० सु० । कुम्भकारे

(कुमार) शिल्पिभेदे “घटकारपुरोहिताव्दज्ञाः” वृ० स०
१६ अ० । ण्वुल् । घटकारकोऽप्यत्र ।

घटकृत् त्रि० वटं करोति कृ--क्विप् । कुम्भकारके “विद्वदमा-

त्यबणिग्जनघटकृच्चित्रान्त्यजास्त्रिफलाः” वृ० स० १६ अ० ।

घटग्रह त्रि० घटं गृह्णाति कर्मण्युपपदेऽपि न अण् किन्तु

“शक्तिलाङ्गूलाङ्कुशतोमरयष्टिषटघटीधनुष्षु ग्रहेरुप-
संख्यानम्” वाति० अनुद्यमने अच् । कुम्भग्राहके ।
उद्यमने तु अण् । घटग्राह तत्रार्थे त्रि०

घटज पु० घटात् जायते जन--ड । कुम्भसम्भवे अगस्त्ये-

मुमौ । कुम्भयोनिशब्दे २११७ पृ० दृश्यम् । “किं
बहूक्तेन घटज! काशी प्राप्ताथ तेन वै” काशीख० ३० अ० ।
घटजातादयोऽप्यत्र ।

घटदासी स्त्री घटयति नायकौ परस्परं योजयति घटि अच् ह्रखः । कुट्टिन्यां त्रिका० ।

घटन न० घष्टि + त्युट् । योजने संमेलने “अघटनघटना पटीयमी

माया” वेदा० । “तप्तेन तप्तमयसा घटनाय योग्यम्” विभा० ।

घटना स्त्री चु० घट--युच् । १ संहतकरणे, २ योजने ४ मेलने,

४ करिणां समूहे च अमरः । “वाच्यं स्पष्टनिजपराङ्ग
घटनामालोक्य कालविज्ञः” वृ० स० ५१ अ० । “प्रियजन
घटनामाशु दुःशीलतां च” वृ० स० ५२ अ० ।

घटराज पु० घटेन योजनेन राजते राज--अच् । कुम्भे

हारा० कपालद्वययोजनात्तस्य जातत्वात्तथात्वम् ।

घटपर्य्यसन न० ६ त० । प्रायश्चित्ते पराङ्मुखस्य पतितस्य

त्यागार्थं जीवतएव तस्य प्रेतकार्य्यार्थं च ज्ञातिभिः
क्रियमाणे दास्याः पादेन कुम्भस्य निरुदककरणे
ततद्विधिः मनुना दर्शितो यथा
“पतिस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः । निन्दि-
तेऽहनि सायाह्ने ज्ञात्य त्विग्गुरुसन्निधौ । दासी घटमपां
पूर्णं पर्य्यस्येत् प्रेतवत् पदा । अहोरात्रमुपासीरन्नशौचं
बान्धवैः सह । निवर्त्तेरंश्च तस्मात्तु सम्भापणसहासने ।
दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी । ज्येष्ठता च
निवर्त्तेत ज्येष्ठाबाप्यञ्च यद्धनम् । ज्येष्ठांशं प्राप्नुयाच्चास्य
यवीयान् गुणतोऽधिकः” “पतितस्येति । महापातकिनो
जीवतएव प्रेतस्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैः
समानोदकैश्च ग्रामाद्वहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधाने
रिक्तायां नवम्यादौ तिथौ दिनान्ते कर्त्तव्या । दासीति ।
सपिण्डसमानोदकप्रयुक्ता दासी उदकपूर्णं वटं प्रेतव-
दिति दक्षिणाभिमुखीभूय पादेन क्षिपेत् यथा स निरु-
दको भवति तदनु ते सपिण्डाः समानोदकैः सहाहो-
रात्रमशौचमाचरेयुः । निवर्त्तेरन्निति । तस्मात्
पतितात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनं च तस्मै
रिक्थदानं सांवत्सरिकादौ निमन्त्रणादिरूपो
लोकव्यवहारः एतानि निवर्त्तेरन् । ज्येष्ठतेति । ज्येष्ठस्य
यत् स्तुत्युत्थानादिकं कार्य्यं तत्तस्य न कार्य्यं ज्येष्ठ-
लभ्यं च तस्य विंशोद्धारादिकं घनं न देयं यद्यपि
रिक्थप्रदानप्रतिषेधादेवाप्युद्धारप्रतिषेधः सिद्धः तथापि
यवीयसस्तत्प्राप्त्यर्थमनूद्यते तस्यैव ज्येष्ठस्य सम्बन्धि
धनं सोद्ध्वारांशं तदनुजो गुणाधिको लभते” कुल्लू० ।
विस्तरस्तु मिताक्षरायामुक्तोयथा
“यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्य्यमित्याह
“दासीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः । पतितस्य
वहिः कुर्युः सर्वकार्येषु चैव तम्” या० । “जीवतएव
पतितस्य स्वज्ञातयोबान्धवाः मातृपक्षाश्च ते सर्वे सन्निपत्य
दासी प्रेष्या तया सपिण्डादिप्रेषितयाऽऽनीतं कुम्भमपा-
म्पूर्णं ग्रामाद्बहिर्निनयेयुः । एतच्चतुर्थ्यादिरिक्ततिथिष्वह्रः
पञ्चमे भागे गुर्वादिसन्निधौ कार्यम् “पतितस्योदकङ्कार्यं
सपिण्डैर्वान्धवैःसह । निन्दितेऽहनि सायाह्ने ज्ञात्यृ-
त्विग्गुरुसन्निधाविति” मनुस्मरणात् । अथ वा दास्येव
सपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः “दासी घट
मपाम्पूर्णम्पर्यस्येत् प्रेतवत्तदा । अहोरात्रमुपासीरन्नशौचं
वान्धवैः सहेति” । प्रेतवदिति दक्षिणामुखापसव्यत्वयोः
प्राप्त्यर्थम् । तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियो-
त्तरकालं द्रष्टव्यम् । “तस्य विद्यागुरुयोनिसम्बन्धांश्च
सन्निपात्य सर्वाण्युदकादीनि प्रेतकर्म्माणि कुर्युः पात्र-
ञ्चास्य विपरिषिञ्चेयुर्दासः कर्म्मकरोवावचारात्पात्रमा-
नीय दासी घटं पूरयित्वा दक्षिणामुखी पदा विपर्थ-
पृष्ठ २७८०
स्येदगुदकमुदकङ्करोति नामग्राहान्तं सर्वे त्वालभेरन्
प्राचीनावीतिनोमुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्च
वीक्षेरन्नपौपस्पृश्य ग्रामम्प्रविशेयुरिति” गौतमस्मरणात् ।
अयञ्च त्यागोयदि बन्धुमिः प्रेर्यमाणोऽपि प्रायश्चित्तं
न करोति तदा द्रष्टव्यः “तस्य गुरोर्बान्धवानां राज्ञश्च
समक्षन्दोषानप्रिख्याप्यानुभाय्य पुनः पुनराचारं
लभस्वेति स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं
विपर्यस्येदिति” शङ्खस्मरणात् । ततस्तं लब्धोदकम्पतितं
सर्वकार्येषु सम्भाषणसहासनादिषु वहिःकुर्युर्वर्ज-
येयुः । तथा च मनुः “निर्बर्त्तेरंस्ततस्तस्य सम्भाषण-
सहासने । दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी” ।
यदि स्नेहादिना सम्भाषणङ्करोति तदा प्रायश्चित्तं
कार्यम् । “अत ऊर्द्धन्तेन सह सम्भाष्य तिष्ठेदेकरात्रं
जपन् सावित्रीमज्ञानपूर्ब्बं ज्ञानपूर्ब्बं त्रिरात्रमिति” ।
घटनिनयनादयोऽप्यत्र ।

घटप्रक्षेप न० ६ त० । “कृतप्रायश्चित्तेन महापुण्यजलाशये

स्नानोत्तरं सपिण्डसमीपे पुण्यजलपूर्ण्णघटस्यापवर्जने
तद्विघिः मिता० दर्शितो यथा
“यदा तु वन्धुत्यागादन्यथा वा जातबैराग्यः प्रायश्चित्तं
कुर्य्यात्तदा किं कार्य्यमित्याह “चरितव्रत आयाते
विनयेरन्नवं घटम् । जुगुप्सेरन्न चाप्येनं संवसेयुश्च
सर्वशः” या० । “कृतप्रायश्चित्ते वन्धुसमीपम्पुनरायाते
तत्सपिण्डाद्यास्तेन सहिता नवममुपहतं घटमुदकपूर्णं
निनयेयुः । एतच्च निनयनं पुण्यह्रदादिस्नानो त्तरकाल
न्द्रष्टव्यम् । “प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।
तेनैव सार्द्धभ्प्रास्येयुः स्नात्वा पुण्वजलाशये” इति मनु
स्मरणात् । गोतमेन तु विशेष उक्तः “यस्तु प्रायश्चित्ते-
न शुध्येत्तस्मिंश्छुद्धे शातकुम्भमयस्पात्रं पुण्यतमाद्ध्रदा-
त्पूरयित्वा स्रवन्तीभ्यो वा त एनमप्युपस्पर्शयेयुरथास्मै-
तत्पात्रन्दद्युस्तत्सम्प्रतिगृह्य जपेत् शान्ता द्यौः शान्ता
पृथिवी शान्तं शिवमन्तरिक्षं योरोचनस्तमिह गृह्णा-
मीत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डै-
श्चाज्यं जुहुयाद्धिरण्यं दद्याद्गाञ्चाचार्याय यस्य तु
प्राणात्तिकम्प्रायश्चित्तं स मृतः शुध्येदेतदेव शान्त्युदकं
सर्वेषूपपातकेप्विति तत एनङ्कृतप्रायश्चित्तन्तं नैव
कुत्सयेयुस्तथा सर्वकार्य्येषु क्रयविक्रयादिषु तेन सह
संव्यवहरेयुः” । “प्रकृतएव चरितव्रतविधौ विशेषमाह
“घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । प्रदद्यात् प्रथमं
गोभिः सत्कृतस्य हि सत्क्रिया” या० मिताक्ष०
अत्रेदं बोध्यम् घटेऽपवर्जिते इत्यादि याज्ञ० वचनस्य
प्रायश्चित्ते तु चरिते इत्यादि मनुवचनस्य च प्रकरणात्
घटप्रक्षेपस्य पतितविषयकत्वावधारणे “स्वशिरसा
यवसमादाय गोभ्योदद्यात्” इति हारीतवचनस्य गोग्रास-
मात्रदानप्रतिपादकत्वेन तस्य सर्वप्रायश्चित्तशेषत्वेनावधा-
रणेऽपि “एवं हारीतयाज्ञवल्क्यवचनैकवाक्यतया
वक्ष्यमाणमनुवचनद्वयमपि सामान्यप्रायश्चित्तोत्तरकर्त्त-
व्यतापरं न तु प्रकरणादसत्प्रतिग्रहमात्रपरं तस्या-
सत्प्रतिग्रहमात्रपरतया यत् कुल्लूक भट्टव्याख्यानं
तत्प्रदर्शनमात्रम् एवं घटापवर्जनमपि न पतितमात्रविष-
यम् यथाह मनुः “उपवासकृशं तं तु गोव्रजात्
पुनरागतम् । प्रणतं परिपृच्छेयुः साभ्यं सौम्येच्छसी-
ति किम् । सत्यमुक्ता तु विप्रेषु विकिरेत् यवसं गवाम्” ।
इत्यन्तेन प्रा० त० यद् घटापवर्जनस्यापि सर्वप्रायश्चित्त-
शेपतया व्यवस्थापितम् तच्चिन्त्यम् दर्शितहारीतवाक्ये
“उपवासकृशमित्यादिमगुवाक्ये च घटापवर्जनस्यानुक्तेः
पतितविषये च प्रागुक्तमनुयाज्ञवल्क्यवाक्ययोर्घटापवर्जन-
स्योक्तेः उभयस्येकविषयत्वाभावात् ततश्च सर्वप्रायश्चित्ते
केबलं गोग्रासदानमात्रं शेषकर्त्तव्यं पतितप्रायश्चित्ते तु
घटापवर्जमरूपविशेषकार्य्यसहितगोग्रासदानमिति विषय
विवेकसम्भवे मनुयाज्ञवल्क्यवचनसङ्कोचस्मायुक्तत्वात्
किञ्च हारीतवचनस्य गोग्रासदानविषयकत्वेन श्रवणे-
ऽपि याज्ञवल्क्यवाक्ये “घटेऽपवर्जिते इत्यनेन प्राप्तपतित
विषयकघटापवर्जनमनूद्य गोग्रासमात्रविधायकत्वात्
न सामान्यपरत्वं यद्विषये घटापवर्जनं विहितं
तद्विपयेऽपि गोग्रासदानाधिक्यविधानार्थं तस्य प्रवृत्तेः
घटापवर्जनं तु पतितविषयकं प्रकरणादवगस्यते ।
किञ्च पतितविषये दासीपदा घटप्रक्षेपपूर्व्वकं निरुदक
घटकरणं घटपर्य्यसनशब्दे मन्वादिवाक्येन दर्शितम्
तदुत्तरमेव मनुयाज्ञवल्क्याभ्यां घटापवर्जनं विहितमिति
तस्य तद्विषयकत्वौचित्यात् न तु तत्सङ्कोचः इति ।
वस्तुतस्तु घटपर्य्यसनशब्दे दर्शितगौतमवाक्ये “एतदेव
शान्त्युदकं सर्व्वेषू पपातकेषु” इत्युक्तेः शान्त्युदकग्रहणस्य
सर्वोपपातक प्रायश्चित्तशेषत्वावधारणात् शान्त्युदकग्रह-
णस्य च पूर्ण्णघटनिनयनपूर्वकत्वौचित्येन सर्व्वोपपातकप्राय-
श्चित्ते शान्त्युदकग्रहणार्थं घटनिनयनं कार्य्यमिति
सुधीभिर्भाव्यमिति । घटापवर्जनघटनिनयनादयोऽप्यत्र ।
पृष्ठ २७८१

घटसम्भव पु० सम्भवत्यस्मात् सम् + भू--अपादाने अप् घटः

सम्भवोऽस्य । कुम्भसम्भवे अगस्त्ये घटोद्भवादयोऽप्यत्र

घटसृञ्जय पु० ब० व० । दक्षिणस्थे जनपदभेदे “अथापरे

जनपदा दक्षिणा भरतर्षभ!” इत्युपक्रमे “मूषकास्तनबालाश्च
सनीपा घटसृञ्जयाः” जम्बुखण्डनिर्म्माणे भा० भी० ९ अ० ।

घटा स्त्री घट--भावे अङ् । १ सघाते “यदगारघटाट्ट कुट्टिम-

स्रवदिन्दूपलतुन्दिलापया” नैष० । २ घटनायां ३ गोष्ठ्यां
४ सभायाञ्च मेदि० । ५ करिणां युद्धादावेकत्र संघाते अमरः
“आयामवद्भिः करिणां षटाशतैः” माघः । ६ घटने
योजने च अच् । ७ तत्रार्थे पु० ।

घटाटोप पु० घटया आटोपः । आडम्बरे ।

घटाभ पु० हिरण्यकशिपुसेनापतौ असुरभेदे । “तत्रासीनं

महाबाहुं हिरण्यकशिपुं प्रभुम् । उपासन्ति” इत्यु-
पक्रमे “घटाभोविकटाभश्च संह्रादश्चेन्द्रतापनः” हरिवं०
२३२ अ० । कुम्भाकारत्वात्तस्य तथात्वम् ।

घटाल त्रि० घटा घटनाऽस्त्यस्य निन्दिता सिध्मा० ।

“जटाघटाकटाकालाः क्षेपे” ग० सू० लच् । निन्दितघट-
नायुक्ते ।

घटालाबू स्त्री घटैवालाबूः । कुम्भतुम्ब्याम् (गोललाउ) राजनि० ।

घटिक न० घटेन तरति तरतीत्यधिकारे “नौद्व्यचष्ठन्”

पा० ठन् । घटेन नद्यादितारिणि ।

घटिका स्त्री “गुर्वक्षराणामुदितं च षष्ट्या पलं पलानां

घटिका किलैका” इति ज्योतिर्विदाभरणोक्ते १ षष्टिपलात्मके
दण्डरूपे काले घटयति विहितकार्य्यकरणाय
घटणिच्--ण्वुल् । २ दण्डद्वयरूपे मुहूर्त्तात्मके काले । अल्पो
घटः ङीप् ततः स्वार्थे क । ३ स्वल्पे घटे । इवार्थे कन् ।
४ नितम्बे न० शब्दच० । “चतस्नो घटिकाः प्रातररुणोदय
उच्यते । यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः
स्मृतः । त्रियामां रजनी प्राहुस्त्यक्त्वाद्यलचतुष्टयम् ।
नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” कालमा०
व्रह्मवै० । “व्रतोपवासस्नानांदौ घटिकैका यदा भवेत् ।
उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु-
धर्म्मो० । “अत्र घटिका सुहूर्त्तं श्राद्धयोग्यकालानु-
रोघादिति वक्ष्यते व्रह्मवै० घटिकादण्डरूपा परवचने
नाडीनामाद्यन्तचतुष्टयमित्यनुरोधात्” ति० त० रघु० ।
“त्रिंशत् कलार्क्षी घटिका क्षणः स्यात् नाडीद्वयं ते
खगुणैर्दिनञ्च” सि० शि० “आर्क्षी भचक्रभ्रमस्य षष्टि-
भागः घटिका” प्रमिता० ।

घटिघट पु० घट्या घटते घट--अच् संज्ञात्वात् ह्रस्वः ।

महादेवे तस्य कालरूपेण घटीवत् स्थितत्वात् तथात्वम् ।
“नमोऽघटाय घण्टाय नमो घटिघटाय च” हरिवं०
२७८ अ० शिवस्तुतौ ।

घटित त्रि० घट--णिच्--क्त । १ योजिते रचिते २ स्ववि-

षयताव्याप्यविषयताविशिष्टे भवति च वह्न्यभावः वह्नि-
घटितः वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वात्”
“प्रतियोगिवैयधिकरण्यघटितव्यापकताया निवेशः”
व्युत्पत्तिवादे गदाधरः । तस्य भावः त्व घटितत्व तद्भावे
न० । विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वम्
इति च सामान्यनिरुक्तौ गदाधरः ।

घटिन् पु० घट + स्तदाकारो अस्त्यस्य इनि १ कुम्भराशौ “मत्स्यौ

घटी नृमिथुनं सगदं सवीणम्” ज्यो० त० । तस्य कुम्भा-
कारत्वात् शिरसि तद्युक्तत्वाच्च तथात्वम् २ कुम्भयुक्ते त्रि०
स्त्रियां ङीप् ।

घटिन्धम त्रि० घटीं धमति ध्मा--खश् मुम् ह्रस्वश्च ।

मुखमारुतेन घटीवादके ।

घटिन्धय त्रि० घटीं धयति घेट--खश् मुम् ह्रस्वश्च । कुम्भधायके ।

घटिल त्रि० घटोऽल्यस्य पिच्छा० इलच् । कुम्भयुक्ते ।

घटी स्त्री घटः कालमानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतयाऽ

स्त्यस्याम् अच् गौरा० ङीष् । १ दण्डात्मके काले ।
“गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः । षड्भिः पलं तैर्घटिका
खषड्भिः । स्याद्वा घटीषष्टिरहः खरामैः” सि० शि० ।
अल्पार्थे ङीप् । २ क्षुद्रे कुम्भे ।

घटीकार स्त्री घटीं करोति अण् । कुम्भकारे शिलिपभेदे ।

घटीग्रह त्रि० घटीं गृह्णाति ग्रह--अनुद्यमने घटग्रहवत्

अच् । घटीग्राहके उद्यमेन तु अण् । घटीग्राह तदर्थेत्रि० ।

घटीयन्त्र न० घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् ।

कालमानज्ञापके यन्त्रभेदे । (घडि) तच्च यन्त्रं नाना-
विधं सू० सि० रङ्गनाथयोर्दर्शितं तत्र दिवसे
कालज्ञानस्य शङ्कुच्छायादियन्त्रैकसाध्यत्थमुक्त्वा घटीयन्त्रा-
दिकं तु अहर्निशतज्ज्ञानसाधनमिति घटीयन्त्रादिक-
मेवात्रतत्रोक्तं प्रदर्श्यते यथा
“अथ घटीयन्त्रादिमिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं
सूक्ष्मं साधयेदिति कालसाधनमुपसंहरति”
“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च
सम्यक् कालं प्रसाधयेत्” सू० सि० ।
“जलयन्त्रं तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणं
पृष्ठ २७८२
तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः
सापेक्षघटीयन्त्रैर्मयूरनरगनरैः । मयूराख्यं स्वयंवहयन्त्रं
निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टं
वानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्मैः सूत्र-
सहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः
षष्टिसङ्ख्याका मृद्वटिता मयूरोदरस्था मुखाद् घटिका-
न्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रै-
रित्यर्थः । यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे
उदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम् । तेन
महितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्वालुकायन्त्रेण चेति
सिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेन
समुच्चयार्थकः । कालं दिनगतादिकं सम्यक् सूक्ष्मं प्रसा-
धयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः । जानी-
यादिव्यर्थः । ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्या-
नीत्यतस्तसाधनप्रकारा वहवो दुर्गमाश्च सन्तीत्याह” र० ना०
“पारदाराम्बुसूत्राणि शुल्वतैलजलानि च । वीजानि
पांसवस्तेषु पयोगास्तेऽपि दुर्लभाः” सू० । “तेषु मयूरादि-
यन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः ।
प्रकर्षस्तु यावदभिमतसिद्धेः । एते क इत्यत आह ।
पारदाराम्बुसूत्राणीति । पारदयुक्ता आराः । तथा च
सिद्धान्तशिरोमणौ” लघुकाष्ठगसमचक्रे समसुषिराराः
समान्तरा नेम्याम् । किञ्चिद्वक्रा योज्याः सुषिरस्यर्धि पृथक्
तासाम् । रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयंभ्र-
मति” । (१) इति । अब्धु जलस्य प्रयोगः । सूत्राणि
सूत्रसाचनप्रयोगः । शुल्वं ताम्रम् । तैलजलानि
तैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक् प्रयो-
गोऽपि । तथा च सिद्धान्तशिरोमणौ “उत्कीर्य नेमि(२)
मथवा परितो मदनेन संलग्नम् । तदुपरि तालदलाद्यं
कृत्वा सुषिरे रसं क्षिपत् तावत् । यावद्रसैकपार्श्वे क्षि-
प्तजलं नान्यतो याति । पिहितच्छिद्रं तदतश्चक्रं
भ्रमति स्वयं जलाकृष्टम् । (३) ताम्रादिमयस्याङ्कुशरूपनल-
स्य म्बुपूर्णस्य । एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधो-
मुखं च बहिः । युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः
पतति । नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथा
धार्य्यम् । नलकप्रच्युतसलिलं पतति यथा तद्वटीमध्ये ।
भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् । चक्र-
च्युतं स्वमुदकं कुण्डे याति प्रणालिकया” इति । बीजानि
केवलं तुङ्गवीजप्रयोगाः । पांसवो घूलिप्रयोगास्तैर्युक्ताः ।
अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः । दुर्लभाः साधा-
रणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहं
स्वयंवहानां प्राचुर्यापत्तेः । इयं स्वयंवहविद्या
समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति ।
कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः । अथ
कपालाख्यं जलयन्त्रमाह” रङ्गन० । “ताम्रपात्रमधश्छिद्रं-
न्यस्तं कुण्डेऽमलाम्भसि । षष्टिर्मज्जत्यहोरात्रे स्फुटंयन्त्रं
कपालकम्” सू० “यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागे
छिद्रं यस्य तत् । अमलाम्भसि निर्मलं जलं विद्यते
यस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहो-
रात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेब न न्यूनाधिकं
मज्जति अधश्छिद्रमार्गेण जलागमनेन जलपूर्ण्णतया
निमग्नं भवति । तत् कपालकं कपालमेव कपालकं
घटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्धाकारं
यन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु । “शुल्बस्य
दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् ।
तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात् ।
सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला
स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकया-
म्बुभिस्तत्” इति व्यक्तम् । भगवता तु सूक्ष्ममुक्तम् ।
अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह”
रङ्गन० “नरयन्त्रं तथा साधु दिवा च विमले रवौ ।
छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्” सू० सि० ।
रङ्गनाथ धतसि० शि० वाक्यानि प्रमि० व्याख्यातानि यथा
लघुदार्व्विव्यादि (१) ग्रन्थिकीलरहिते लघुदारुमये भ्रम-
सिद्धे चक्रे आराः । किंविशिष्टाः । समप्रमाणाः
समसुषिराः समतौल्याः समोन्तरा नेम्यां योज्याः । ताश्च
नद्यावर्तवदेकत एव सर्वाः किञ्चिद्वक्रा योज्याः । ततस्ता-
सामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेव
पूर्ण्णं भवति । ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाण-
वद्द्व्याधारस्थं स्वयं भ्रमति । अत्र युक्तिः । यन्त्रै-
कभागे रसो ह्यारामूलं प्रविशति । अन्यभागे त्वाराग्रं
धावति । तेनाकृष्टं तत् स्वयं भ्रमतीति” प्रमि० ।
उत्कीर्य्येत्यादि “(२) यन्त्रनेमिं भ्रमयन्त्रेण समन्तादुत्कीर्य
द्व्यङ्गुलमात्रं सुषिरस्य वेघो विस्तारश्च यथा भवति
ततस्तस्यु सुषिरस्योपरि तालषत्रादिक मदनादिना संलग्नं
कार्य्यम् । तदपि चक्रं द्व्याधाराक्षस्थितं कृत्वोपसि
नेम्यां तालदलं बिद्ध्वा सुषिरे रलस्तावत् क्षेप्यो यावत्
पृष्ठ २७८३
सुषिरस्याधोभागो रसेन मुद्रितः । पुनरेकपार्श्वे जलं
प्रक्षिपेत् । तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतः
सारयितुं न शक्यते । अतो मुद्रितच्छिद्रं तच्चक्रं
जलेनाकृष्टं खयं भ्रमतीति” प्रमि० ।
ताम्रादिमयस्येत्यादि (३) “ताम्रादिधातुमयस्याङ्कुशरूपस्य
वक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्य-
दग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदा
भाण्डजलं सकलमपि नलेन बहिः क्षरति । तद्यथा
छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्य
जलपूर्णसुषिरस्यैकमग्रं भाण्डाद्बहिरधोमुखं द्रुतं
यदि ध्रियते तदा भाण्डजलं सकलमपि नलेन
बहिर्याति । इदं कुक्कुटनाडीयन्त्रमिति शिल्पिनां
हरमेखलिनां च प्रसिद्धम् । अनेन बहवश्चमत्काराः
सिद्ध्यन्ति । अथ चक्रनेम्यां घटीर्बद्धा जलयन्त्रवत् द्व्या-
धाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं
तस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं
तद्भ्रमत् केन निवार्य्यते । अथ चक्रच्युतस्योदकस्याधः-
प्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैर-
पेक्षम्” प्रमि० ।
विष्णु पु० अन्यथा तन्निर्माणप्रकार उक्तो यथा
“नाड़िका तु प्रमाणेन कला दश च पञ्च च । उन्माने-
नाम्भसः सा तु पलान्यर्द्धत्रयोदश । हेममाषैः कृतच्छिद्रा
चतुर्भिश्चतुरङ्गुलेः । मागधेन प्रमाणेन जलप्रस्थस्तु
संस्मृतः” विष्णु० पु० ।
“अम्भस उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम् ।
अर्द्धेन योगे त्रयोदश सार्द्धद्वादशेत्यर्थः । उन्मानरूपेण
घटितानि सार्द्धद्वादशपर्वाणि सा नाडिका सार्द्धद्वादश-
पलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः ।
किं प्रमाणं तत् पात्रं कार्य्यं तदाह । सार्द्धद्वादशपलजले-
न हि मागधदेशप्रस्थः पूर्यते तत्प्रमाणं पात्रं कार्य्यम्
इत्यर्थात् सिद्धम् । ननु तथापि पात्रेण कथं नाड़िका-
ज्ञानं क्रियापरिच्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासि-
द्धये प्रस्थादि विशिनष्टि हेमेति । माषः पञ्चगुञ्जः ।
हेम्नोमाषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः
कृतच्छिद्रा । एतदुक्तं भवति । सार्द्धद्वादशपलताम्र-
मयं मागधप्रस्थसंमितमूर्द्ध्वायतं पात्रं चतुर्माषचतु
रङ्गुलहेमशलाकया कृताधश्छिद्रं जले स्थापितं तेन
छिद्रेण यावता कालेन पूर्यते तावान् कालो नाड़िवति ।
तथाच शुकः “द्वादशार्द्धपलोन्मानं चतुर्भिद्यतुरङ्गुलैः ।
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति” ।
श्रीधरव्याख्या । ६ त० । ङ्यपोः संज्ञायां ह्रस्वः ।
घटियन्त्रमप्यत्र “ततः संसारचक्रेऽस्मिन् भ्राम्यते
घटियन्त्रवत्” मार्क० पु० । वट्या कूपात् उद्धारणार्थं यन्त्रम् ।
२ कूपात् कुम्भोद्धारणार्थे यन्त्रमेदे । घटीयुक्तं यन्त्रं
घटीयन्त्रं तच्च घटीयुक्तजलोद्धारणयन्त्रं पश्चिमदेशे प्रसि-
द्धम् । (जलतोलार कल) । “कमलपत्रपुटघटितवटीयन्त्र-
काणि” काद० ।

घटोत्कच पु० भीमेन हिडिम्बायामुत्पन्ने राक्षसभेदे तदुत्-

पत्तिकथा भा० आ० हिडिम्बवधप० १५५ अ० यथा
“बिभ्रती परमं रूपं रनयामास पाण्डवम् । रमयन्ती
तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं
भीमसेनान्महाबलम् । बिरूपाक्षं महावक्त्रं शङ्कुकर्णं
विभीषणम् । भीमनार्द सुताम्रोष्ठं तीक्ष्णदंष्ट्रं
महारवम् । महेष्वासं महावीर्य्यं महासत्वं महाभुजम् ।
महाजवं महाकायं महामायमरिन्दमम् । दीर्घघाणं
महोरस्कं विकटोद्वद्ध्वपिण्डिकम् । अमानुषं मानुषजं
भीमवेगं महाबलम् । यः पिशाचानतीत्यान्यान्
बभूवातीव राक्षसान् । वालोऽपि यौवनं प्राप्तो मानुषेषु
विशाम्पते! । सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ।
सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैब भवन्ति बहुरूपिकाः । प्रणम्य विकचः
पादावगृह्णात् स पितुस्तदा । मातुश्च परमेष्वासस्तौ च
नामास्य चक्रतुः । घटो हास्योत् कच इति माता तं
प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ।
अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कचः । तेषाञ्च
दयितो नित्यमात्मभूतो बभूव ह । संवाससमयो
जीर्ण इत्याभाष्य ततस्तु तान् । हिड़िम्बा समयं कृत्वा
स्वां गतिं प्रत्यपद्यत । कृत्यकाल उपस्थास्ये पितॄनिति
घटोत्कचः । आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चीत्तरां
दिशम् । स हि सृष्टो मघवता शक्तिहेतोर्म्महात्मना ।
कर्णस्याप्रतिवीर्य्यस्य प्रतियोद्धा महारथः” ।
स च द्रोणप० घटोत्कचबधप० इन्द्रदत्तशक्त्या
कर्णेन निहतः । तत्कथा तत्र १८० अ० दृश्या यथा
“ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपाञ्च
मायाम् । शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते
कुरवो धार्त्तराष्ट्राः । करिष्यतः किञ्च नो भीमपार्थौ
पृष्ठ २७८४
तपन्तमेनं जहि पापं निशीथे । यो नः संग्रामाद्घोर-
रूपाद्विमुच्येत् स नः पार्थान् सबलान् योधयेत । तस्मा-
देनं राक्षसं घोररूपं जहि शक्त्या वै दत्तया वासवेन ।
मा कौरवाः सर्व्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण! नेशुः
सयोधाः । स बध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजं
स्त्रास्यमानं वलञ्च । महच्च श्रुत्वा निनदं कौरवाणां
मतिं दध्रे शक्तिमोक्षाय कर्णः । स वै क्रुद्धः सिंह
इवात्यमर्षी नामर्षयत् प्रतिघातं रणे तम् । शक्तिं श्रेष्ठां
वैजयन्तीमसह्यां समाददे तस्य वर्ध चिकीर्षन् । यासौ
राजन्! निहिता वर्षपूगान् बधायाजौ सत्कृता फाल्गु-
नस्य । यां वै प्रादान् सूतपुत्राय शक्रः शक्तिं श्रेष्ठां
कुण्डलाभ्यां निनाय । तां वै शक्तिं लेलिहानां प्रदीप्तां
पाशैर्युक्तामन्तकस्यैव रात्रिम् । मृत्योः स्वसारं ज्वलि-
तामिवोल्कां वैकर्त्तनः प्राहिणोद्राक्षसाय । तामुत्तमां
परकायावहन्त्रीं दृष्ट्वा सौतेर्ब्बाहुसंस्थां ज्वलन्तीम् । भीतं
रक्षो विप्रदुद्राव राजन्! कृत्वात्मानं विन्ध्यतुल्यप्रमाणम् ।
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरीक्षे नरेन्द्र! ।
ववुर्वातास्तुमुलाश्चापि राजन्! सनिर्घाता चाशनिर्गां
जगाम । सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा
गाढं हृदयं राक्षसस्य । ऊर्द्ध्वं ययौ दीप्यमाना निशायां
नक्षत्राणामन्तराण्याविशन्ती । युद्ध्वा चित्रैर्विविधैः
शस्त्रपूगैर्दिव्यैर्वीरो मानुषैराक्षसैश्च । नदन्नादान् विविधान्
भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या । इदञ्चान्य-
ज्ञित्रमाश्चर्य्यरूपं चकारासौ कर्म्म शत्रुक्षयाय । तस्विन्
काले शक्तिनिर्भिन्नमर्म्मा बभौ राजन्! शैलमेघप्रकाशः ।
ततोऽन्तरीक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्न-
देहः । अवाक्शिरास्तब्धगात्रो विजिह्वो घटोत्कचो
महदास्थाय रूपम् । स तद्रूपं भैरवं भीमकर्म्मा भीमं
कृत्वा भैमसेनिः पपात । हतोऽप्येवं तव सैन्यैकदेशम-
पोथयत् खेन देहेन राजन्!” ।

घटोत्कचान्तक पु० ६ त० । कर्णे त्रिका० । घटोत्कचारिप्रभृतयोप्यत्र ।

घटोदर पु० घट इव उदरमस्य । असुरभेदे । “घटोदरो

महापार्श्वः प्रथनः पिठरस्तथा” हरिवं० २३२ अ० ।
हिरण्यकशिपुसेनापत्युक्तौ । स च वरुणसभ्यः यथाह
भा० स० ९ अ० । घटोदर इत्यादि समानम् ।

घट्ट चालने भ्वा० आत्म० सक० सेट् । वट्टते अघट्टिष्ट ।

जवट्टे । घट्टितः घट्टनम् ।

घट्ट चालने चुरा० उभ० सक० सेट् । घट्टयति--ते अज-

घट्टत्--त । घट्टित “विघट्टितानां सरलद्रुमाणाम्”
कुमा० । “तदीयमातङ्गघटाविघट्टितैः” “त्रस्यन्ती
चलशफरीविघट्टितघट्टनारुः” माघः । परिस्फुरन्मीनविघ-
ट्टितोरवः” किरा० । “रणद्भिराघट्टनया नभस्वतः माघः” ।

घट्ट पु० घट्यतेऽत्र घञ् । १ स्नानायावतरणस्याने (वाट) २

शुल्कग्रहणस्थाने (घाटि) “घट्टादिदेये शुल्कोऽस्त्री”
अमरः । भावे घञ् । ३ चालने । अमरः ।

घट्टकुटीप्रभात न० घट्टस्था कुटी तत्र प्रभातमिव । न्यायभेदे

शुक्लदानभिया विपथेन रात्रौ पलायमानस्य
चौरबणिजः घट्टस्थकुटीसमीपे प्रभाते यथा अभीष्टसिद्ध्य-
भावः एवं विपथेन धावमानस्य तद्दोषतादवस्थ्यरूपो हि
न्यायभेदस्तथाभूतः “तदिदं घट्टकुटीप्रभातवृत्तान्तमनुह-
रति” । खण्डनखण्डखाद्यम् ।

घट्टगा स्त्री नदीभेदे । राजनि० ।

घट्टजीविन् पु० घट्टं तरिकशुल्कस्थानं नद्यवतरणस्थाने देयं

शुल्कं वा जीवति जीव--णिनि । (पाटुनि) नौकातारके
वर्णसङ्करजातिभेदे स च “वैश्यायां रजकाज्जातः”
विबादूभङ्गार्णवसेतुः

घट्टना स्त्री चु० घट्ट--युच् । १ चालने “रणद्भिराघट्टनया

नभस्वतः” माघः । २ वृत्तौ च हेमच० । भ्वा० घट्ट-
ल्युट् । ३ चालने न० । “वृहच्छिलानिष्ठुरकण्टघट्ट-
नात्” माघः । “कम्पयन्तौ महावृक्षानुरुपादपघट्टनैः”
हरिवं० ३७० अ० । “सुप्तसर्पैव दण्डघट्टनात्” रघुः ।

घट्टित त्रि० घट्ट--कर्मणि क्त १ निर्मिते, २ चालिते, चित्र-

पटादेरञ्जनार्थम् अन्नचूर्ण लिप्ते वसनादौ (कलप दिया
घ्ॐटा) । शब्दार्थचि० ।

घण दीप्तौ तना० उभ० अक० सेट् । घणोति घणुते ।

अघाणीत्--अघणीत् अघणिष्ट जघाण जघणे । उदित्
घणित्वा--घण्ट्वा । क्त्वोवेट्कत्वात् निष्ठा त्वनिट् घण्टः ।

घण्ट त्रि० घण--क्त उदित्त्वेन नेट् । १ दीप्ते २ स्वनामख्याते

व्यञ्जनभेदे पु० ।

घण्टक पु० वण्ट + संज्ञायां कन् । (घट्काण)क्षुपभेदे राजनि०

घण्टकर्ण पु० घण्टोदीप्तः कर्ण्ण इव पत्रमस्य । (घट्काण्ण)

क्षुपभेदे राजव०

घण्टा स्त्री चु० घटि--शब्दकरणे अच् । कांस्यनिर्मिते वाद्य-

भेदे । “घण्टां वा परशुं वापि वामतः सन्निवेशयेत्”
दुर्गाध्यानम् । तन्निर्माणप्रकारमाहात्म्ये स्कान्दे
ब्रह्मनारदसंवादे “स्नानार्च्चनक्रियाकाले घण्टानादं
पृष्ठ २७८५
करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ।
वर्षकोटिसहंस्राणि वर्षकोटिशतानि च । वसते देवलोके
तु अप्सरोगणसेवितः । सर्ववाद्यमयी घण्टा केशवस्य
सदा प्रिया । वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम् ।
वादित्रनिनदैस्तुर्य्यगीतमङ्गलनिस्वनैः । यः स्नापयति
गोविन्दं जीवन्मुक्तो भवेद्धि सः । वादित्राणामभावे तु
पूजाकाले हि० सर्वदा । घण्टाशब्दो नरैः कार्य्यः सर्व-
वाद्यमयी यतः । सर्ववाद्यमयी र्घण्टा देवदेवस्य वल्लभा ।
तस्मात् सर्वप्रयत्नेन घण्टानादन्तु कारयेत् । मन्वन्तरसह-
स्राणि मन्वन्तरशतानि च । घण्टानादेन देवेशः प्रीतो
भवति केशवः” । विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसं-
वादे “शृणु दैत्येन्द्र! वक्ष्यामि घण्टामाहात्म्य-
मुत्तमम् । प्रह्लाद! त्वत्समो नास्ति मद्भक्तो भुवन-
त्रये । मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।
अर्च्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज! ।
वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि । ममाग्रे स्थाप-
येद्यस्तु देहे तस्य वसाम्यहम् । यस्तु वादयते घण्टां
वैनतेयेन चिह्निताम् । धूपे नीराजने स्नाने पूजाकाले
विलेपने । ममाग्रे प्रत्यहं वत्स! प्रत्येकं लभते फलम् ।
मखायुतं गोऽयुतञ्च चान्द्रायणशतोद्भवम् । विधिना
ह्यकृता पूजा सफला जायते नृणाम् । घण्टानादेन
तुष्टोऽहं प्रयच्छामि स्वकं पदम् । नागारिचिह्निता घण्टा
रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्ममृत्यु-
भयस्य च । गरुड़ेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं
सदा । प्रीतिं करोमि दैत्येन्द्र! लक्ष्मीं प्राप्य यथाऽधनः ।
दृष्ट्वाऽमृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम् । सुपर्णे
च तथा प्रीतिं घण्टाशिखरमास्थिते । स्वकरेण प्रकु-
र्व्वन्ति घण्टानादं सुमक्तितः । मदीयार्च्चनकाले तु फलं
कौट्यैन्दवं कलौ” । अन्यत्र च “घण्टादण्डस्य शिखरे
सचक्रं स्थापयेत्तुयः । गरुड़ं वै प्रियं विष्णोः स्थापितं
भुयनत्रयम् । मचक्रघण्टानादन्तु मृत्युकाले शृणोति यः ।
पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः । सर्व्वे दोषाः
प्रलीयन्ते घण्टानादे कृते, हरेः । दैवतानां मुनीन्द्राणां
पितॄणामुत्सवोभवेत् । अभावे वैनतेयस्य चक्रस्यापि
न संशयः । घण्टानादेन भक्तानां प्रसादं कुरुते हरिः ।
गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता । न सर्पाणां
तत्र भयं नाग्निविद्युत्समुद्भवम् । यस्य घण्टा गृहे नास्ति
शङ्खश्च पुरतो हरेः । कथं भागवतं नाम गीयते तस्य
देहिनः” “अतो भगवतः प्रीत्यै घण्टा श्रीगरु-
डान्विता । संग्राह्या वैष्णवै र्यत्नाच्चक्रेणोपरिमण्डिता ।
स्नाने शङ्खादिवाद्यन्तु नामसंकीर्त्तनं हरेः । गीतं
नृत्यं पुराणादिपठनञ्च प्रशस्यते” हरिभक्तिविलासः ।
सर्ब्बदेवपूजने धूपदीपदानोत्तरं वामहस्तेन घण्टावाद-
नं तन्त्रसारे उक्तं यथा
“धूपभाजनमस्त्रेण (फट्) प्रोक्ष्याभ्यर्च्य हृदानुना
(नमः) । अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं
दहेत्” । श्यामादौ तु तन्मन्त्रविशेषः तन्त्रसारे उक्तः
“तथा जयध्वनिमन्त्रमातः स्वाहेत्युदीर्य्य च ।
अभ्यर्च्च्य वादयेद् घण्टामस्त्रेण धूपयेत्ततः” गौतमोये
“उत्तोल्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम् ।
वादयन् वामहस्तेन दक्षहस्तेन चार्चयेत्” । एवं
नीराजनेऽपि । २ घण्टापाटलिवृक्षे शब्दर० । ३
अतिबलायां ४ नागबलायां च राजनि० ।

घण्टाक पु० वण्टेव कायति फनेन कै--क । घण्टापाटलि वृक्षे शब्दर० ।

घण्टाकर्ण्ण पु० शिवानुचरभेदे (घेँटु) ख्याते “घण्टाकर्णो-

गणः श्रीमान् शिवस्यातीव बल्लभः” शिवपु० । मीनसंक्रा-
न्तौ तस्य पूज्यतामाह कृत्यचिन्तामणौ “चैत्रे मासि
च संपूज्यो घण्टाकर्णो घटात्मकः । आरोग्याय
स्नुहीमूले संक्रान्त्यां तत्र कारयेत्” । पूजामन्त्रः ।
“घण्टाकर्ण! महावीर! सर्व्वव्याधिविनाशन! ।
विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल!” ति० त० ।
२ काशीस्थे ह्रदभेदे । “इयञ्च चित्रघण्टेशी घण्टाकर्ण-
स्त्वयं ह्रदः” काशी० ३३ अ० ।

घण्टाताड पु० घण्टां कालज्ञापकघण्टां ताडयति ताडि-

अण् उप० स० । १ कालसूचकघण्टावादके (घण्टापाँड़े)
“मैत्रेयकन्तु वैदेहो माधुकं संप्रसूयते । नॄन् प्रशंसत्यज
स्रं यो घण्टाताडोऽरुणादये” मनूक्ते २ सङ्कीर्णजातिभेदे च

घण्टानाद पु० ६ त० । १ घण्टाशब्दे । घण्टाया नाद इव

नादोऽस्य । २ कुवेरमन्त्रिभेदे शब्दार्थचि० ।

घण्टापथ पु० घण्टानां घण्टादिवाद्यानां घण्टायुक्तह-

स्त्यादीनां वा पन्थाः ६ त० अच् समा० । महति १
राजपथे “दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः”
कौटिल्यः ।

घण्टापाटलि पु० हन्यते हन--कर्मणि ट टस्य नेत्त्वम्

नि० घत्वं पट--गतौ घञ् पाटस्तं लाति ला--वा०
डि कर्म० । (घण्टापाटलि) वृक्षभेदे अमरः ।
पृष्ठ २७८६

घण्टारवा स्त्री घण्टोवारौति आ + रु--अच् । (वनशण)

वृक्षभेदे अमरः यस्य फलं पक्वं सत् घण्टेवारौति

घण्टाली स्त्री घण्टां तच्छब्दमलति अल--अण् ङीप् ।

१ कोषातक्याम् । ६ त० । २ घण्टाश्रेणौ । राजनि० ।

घण्टावीज पु० घण्टेव वीजमस्य । जयपालवृक्षे । राजनि०

घण्टाशब्द पु० घण्टायाः शब्दैव शब्दोयस्य । १ कांस्ये

हेमच० । ६ त० । २ तच्छव्दे

घण्टिका स्त्री क्षुद्रा घण्टा स्वल्पार्थे कन् । क्षुद्रघण्टायां

तत्तुल्याकारत्वात् २ तालुस्थजिह्वायाञ्च (आलजिव)
हेमच० ।

घण्टिनीवीज न० घण्टाऽस्त्यस्याःतदाकारफलत्वात् इनि

ङीप् घण्टिन्याः घण्टायुक्ताया वीजम् । जयपाले
राजनि० ।

घण्टु पु० घटि--उन् । १ गजघण्टायां २ प्रतापे च उणादिकोषः

घण्टेश्वर पु० मङ्गलपुत्रे व्रणदातरि देवभेदे “मङ्गलस्य

प्रिया मेधा तस्यां घण्टेश्वरोमहान् । व्रणदाता च
तेजस्वी विष्णुतुल्यो वभूव ह” ब्रह्मवै० ।

घण्ड पु० घण--बा० ड तस्य नेत्त्वम् । भ्रमरे संक्षिप्तसारः ।

घतन त्रि० हन्ति हन--हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे” उणा०

युन् । मारके उज्ज्वलद० तत्रार्थे घातनेति पाठोऽयुक्तः

घन पु० हन--मूर्त्तौ अप् घनादेशश्च । १ मेघे २ मुस्तके ३ समूहे

४ दार्द्ये ५ विस्तारे च ६ लौहमुद्गरे मेदि० ७ शरीरे ८ कफे
९ अभ्रके राजनि० । “समत्रिघातश्च घनः प्रदिष्टः” इति
१० सीलावत्युक्ते समाद्धत्रयबधे । ११ निविडे सान्द्रे
त्रि० अमरः १२ वृढ़े त्रि० मेदि० । १३ पूर्णे १४ सस्पुटे
त्रि० शब्दर० । १५ करतालादिकांस्यवाद्यमेदे १६ मध्यम
नृत्ये च न० अमरः । १७ लौहे न० हेमच० १८ त्वचे
न० राजनि० । तत्र मेघस्योत्पत्तिभेदादिकं पुराणमर्वस्वे
ब्रह्माण्डपु० उक्तं यथा
“सूर्य्यः किरणजालेन वायुयुक्तेन सर्व्वतः । जगतो
जलमाटत्ते कृत्स्नस्य द्विजसत्तमाः! । आदित्यभूतं भूतेभ्यः
सोमं संक्रमते जलम् । नाडीभिर्वायुयुक्ताभिर्लोकाधारः
प्रवर्त्तते । यत् सोमाच्च्यवते सूक्ष्मं तदब्भ्रेष्ववतिष्ठते ।
मेघावाव्वभिवातेन विसृजन्ति जलं भुवि । एवं प्रकरणे-
नैव पतते चासकृज्जलम् । न नाशमुदकस्यास्ति तदेव
परिवर्त्तते । मन्धारणार्थं भूतानां मायैषा विष्णुनिर्मिता ।
अनया मायया व्याप्तं त्रैलोक्यं सचराचरम् । विश्रशो
लोककृद्देवः सहभ्रांशुः प्रजापतिः । धाता कृत्स्नस्य
लोकस्य प्रभविष्णुर्दिवाकरः । सार्व्वलौकिकमम्भोय
त्तत् सोमो नभसोरसः । एवं भूतं जगत् सर्व्वमेतत्तथ्यं
प्रकीर्त्तितम् । सूर्य्यादुष्णं निस्रवति सोमाच्छीतं प्रवर्त्तते ।
शीतोष्णवीर्य्यौ द्वावेतौ युक्त्या पालयतो जगत् । सोमा-
मृतोद्भवा गङ्गा पवित्रा विमलोदका । भद्रासोमपुरो-
गाश्च महानद्यो द्विजोत्तमाः! । सर्व्वभूतशरीरेषु
यास्त्वापोऽपसृताभुवि । तेषु सन्दह्यमामेषु जङ्गमस्थावरेषु
च । पूर्य्यन्ते सर्वभूतेभ्यो निष्क्रामन्तीह सर्वशः । तेन
चाब्भ्राणि जायन्ते स्थानमब्भ्रमयं स्मृतम् । तेजोऽर्कः सर्वभू-
तेभ्य आदत्ते रश्मिभिर्जलम् । समुद्राद्वायुसंयोगाद्रश्मयः
प्रवहन्त्यपः । ततस्त्वृतुगते काले परिवृत्तो दिवाकरः ।
नियच्छत्यपोमेघेभ्यः शुक्लकृष्णैर्गभस्तिभिः । अब्भ्रस्थाः
प्रपतन्त्यापो वायुना समुदीरिताः । सर्वभूतहितार्थाय
रस्यभूताः समन्ततः । ततो वर्षति षण्मासान् सर्वभूत
विवृद्धये । वायव्यं स्तनितञ्चैव विद्युदग्निसमुद्भर्वा ।
मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्त्युत । न भ्रश्यन्ति
यतश्चापस्तदभ्रं कवयो विदुः । मेघानां पुनरुत्पत्तौ
त्रिविधा योनिरुच्यते । अग्निजा ब्रह्मजा चैव पक्षजा च
पृथग्विधाः । त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि
सम्भवम् । आग्नेयाः सूक्ष्मजाः प्रोक्तास्तेषां धूमात् प्रव-
र्त्तनम् । शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ।
महिपाश्च वराहाश्च मत्तमातङ्गरूपिणः । भूत्वा धरणि
मभ्येत्य रमन्ति विचरन्ति च । जीमूता नाम ते मेघा ये
तेभ्यो वीजसम्भवाः । विद्यद्गुणविहीनाश्च जलधारा-
वलम्विनः । सका मेघा महाकाया आवहस्य वशानुगाः ।
क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः । पर्वताग्र
नितत्वेषु वर्षन्ति गह्वरेषु च । वलाकागर्भदाश्चैव वालाका
गर्भधारिणः । ब्रह्मजाश्चैव ये मेघा ब्रह्मनिश्वाससम्भवाः ।
ते ह विद्युद्गणापेताः स्तनयित्नुप्रियस्वनाः । तेषु
शब्दप्रणादेन भूमेःस्वाङ्गरुहोद्भवैः । वायुवाह्याभिषिक्तेषु
वायुर्यौवनमश्नुते । तेष्विय प्रावृडासक्ता भूतानां जीवि-
तोद्भवा । जीमूता नाम ते मेघा ये तेभ्यो जीवसम्भवाः ।
द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः । इतो
योजनमात्राच्च सार्द्धार्द्धादपि वा च ते । वृष्टिधर्मो द्वधा तेषां
धाराऽऽसारः प्रकीर्त्तितः । पुष्करावर्त्तका नाम ये मेवाः
पक्षमम्भताः । संयोगाद्वायुनोच्छिन्नाः पर्वतानां
महौजसाम् । कामगानां च लोकानां सर्व्वेपां
शितमिच्छताम् । पुस्करा नाम ते मेघा वृहत्तो {??}ःसमत्-
पृष्ठ २७८७
सराः । पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ।
नानारूपधरांश्चैव महाघोरस्वनाश्च ये । कल्पान्तवृष्टेः
स्रष्टारः संवर्त्ताग्नेर्नियामकाः । वर्षन्ति ते युगान्तेषु
तुतीयास्ते प्रकीर्त्तिताः । अनेकरूपसंस्थानाः
पूरयन्तो महीतलम् । वायुं परिवहं ते स्युः श्रिताः
कल्पान्तसाधकाः । योऽण्डस्य च विभिन्नस्य प्राकृतस्या-
भवत्तदा । यस्मात् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः ।
तस्यैवाण्डकपालानि सर्वमेघाः प्रवर्त्तिताः । तेषामाप्या-
यनं धूमः सर्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्जन्य
श्चत्त्वारश्चैव दिग्गजाः । गजानां पर्वतानाञ्च मेघानां
भोगिभिः सह । कुलमेकं पृथक् भूतं योनिस्त्वेकं जलं
स्मृतम् । पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः ।
तुषारवृष्टिं वर्षन्ति हिमं सस्यविवृद्धये” ।
वायुविशेषकृतएव घनभेदो भा० शा० ३३० अ० दर्शितो यथा
“प्रेरयत्यभ्रसंघातान् धूमजांश्चोष्मजांश्च यः । प्रथमः
प्रथमे मार्गे प्रवहो नाम योऽनिलः । अम्बरे स्नेह-
मभ्येत्य तडिद्भ्यश्चोतमद्युतिः । आवहो नाम संभाति
द्वितीयः श्वसनोनदन् । उदयं ज्योतिषां शश्वत् सोमादोनां
करोति यः । अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ।
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् । उद्धृत्याददते
चापो जीमूतेभ्योऽम्बरेऽनिलः । योऽद्भिः संयोज्य जीमू-
तान् पर्ज्जन्याय प्रयच्छति । उद्वहो नाम वंहिष्ठ
स्तृतीयः स सदागतिः । समुह्यमाना बहुधा येन नीताः
पृथग्घनाः । वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ।
संहता येन चाविद्धा भवन्ति नदता नदाः । रक्षणार्थाय
सम्भूताः मेघत्वमुपयान्ति च । योऽसौ वहति भूतानां
विमानानि विहायसा । चतुर्थः संवहो नाम वायुः
स गिरिमर्द्दनः । येन वेगवता रुगणा रूक्षेणारुजता
नगान् । वायुना सहिता मेघा स्ते भवन्ति वलाहकाः ।
ष्टारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् । पञ्चमः स
महावेगो विवहो नाम मारुतः । यस्मिन् पारिप्लवा
दिव्या वहन्त्यापोविहायसा । पुण्यञ्चाकाशगङ्गाया
स्तोयं विष्टभ्य तिष्ठति” ।
समत्रिघातश्चेत्यादेरयमयः समसंख्यानां त्रयाणां घातः
यद्यप्यत्र समयोर्द्वयोर्घातेन वर्गरूपेण तन्मूलस्य समत्वं
नास्ति तथापि समशब्देन सदृशघातद्विथातत्वेन समत्वं
तोध्यं यथा १ घनः? । द्वाभ्यो द्वयोर्गुणने ४ चत्वारः
तेषां द्वाभ्यां गुणने ८ । एवं त्रयाणां त्रिभिर्गुणने ९ नव
तेषां पुनस्त्रिभिर्गुणने २७ । एवं क्रमेण वारद्वयं
समसमद्विघातरूपवर्गगुणनात् घनरूपत्वं जायते तत्रैकादीनां
दशपर्य्युन्तानां घनसंख्याः सुवोधाय प्रदर्श्यन्ते यथा
१ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १०
१ । ८ । २७ । ६४ । १२५ । २१६ । ३४३ । ५१२ ७२९ । १०००
अस्य प्रकारान्तरं स्थाप्योघनोत्यस्येत्यादि लीलावत्यां
दृश्यं विस्तरभयान्नोक्तम् ।
“जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः” इत्युक्ते
१९ वेदपाठभेदे ऋग्वेदशब्दे १४०९ । ११ । १२ पृ० विवृतिः
तत्र सान्द्रे प्रचण्डघनगर्जितप्रतिरुतानुकारी (रवः)
मुहुः” वेणी० । “जघनेन घनेन सा” “लौहोद्घनघनस्कन्धाः”
भट्टिः । लौहमुद्गरे “प्रतिजघान घनैरिव मुष्टिभिः”
किरा० । मेघे “प्रावृषमिव घनकेशजालाम्” काद० ।
“रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविह्वलाः”
कुमा० “असम्भवद्घनरसा शतालीपरिषेविता” उद्भटः ।
घनश्यमः । मूर्त्तौ--काठिन्थे “द्वारं तमोघनप्रख्यम्” भट्टिः ।
“तमसोघनो मूर्त्तिः काठिन्यम् तेन मूर्त्तिमत्तमःसमम्”
जयम० ।

घनकफ पु० घनस्य मघस्य कफ इव । मेघोपले करके । त्रिका० ।

घनकाल पु० घनप्रधानः कालः । वर्षर्त्तौ शब्दच० ।

घनगोलक पु० घनेन मूर्त्त्या गोल इव कायति कै--क ।

संश्लिष्टस्वर्ण्णरजते हेमच० ।

घनच्छद पु० घना निविडाश्छदा यस्य । शिग्रौ । शब्दार्थ चि० ।

घनजम्वाल पु० कर्म० । सान्द्रजम्बाले चुलुके (घनसेओयाला)

त्रिका० ।

घनज्वाला स्त्री घनस्य ज्वालेव । १ वज्राग्नौ । ६ त० । २ मेघदीप्तौ च शब्दर० ।

घनताल पुंस्त्री० घनतायां निविडतायाम् अलति पर्य्याप्तोति

अल्--अच् । १ सारङ्गखगे स्त्रियां जातित्वात् ङीष्
कर्म्म० । २ वाद्यादितालभेदे ।

घनतोल पुंस्त्री० घनं मेघं तोलयति ऊर्द्धं नयति आह्वानेन

तुल--उन्मितौ अण् उप० स० । चातके खगे तदारावेण
हि मेथोत्थानमनुमीयते इति तस्य तथात्वम् । स्त्रियां
जातित्वात् ङीष् ।

घनत्वच पु० घना निविडा त्वक् यस्य । शिग्रौ शब्दार्थचि० ।

घनदुम पु० कर्म० । विकण्टकवृक्षे राजनि० ।

घननाभि पु० घनस्य मेथस्य नाभिरिव योनित्वात् । धूमे

शब्दर० धूमस्य मेघयोनित्वात् तथात्वम् मेघस्य धूमयो-
नित्वं च घनशब्दे २७८६ पृ० दर्शितम् ।
पृष्ठ २७८८

घनपत्र पु० थनानि पत्राण्यस्य । १ पुनर्णवायाम् राजनि० ।

२ घनच्छदे शिग्रौ च ।

घनपदवी स्त्री ६ त० । आकाशे शब्दार्थेचि० । तस्य मेघा-

धारतया तत्सञ्चारस्थानतया च तथात्वम् । “क्रामद्भि-
र्घनपदवीमतेकसंख्यैः” किरा० ।

घनपल्लव पु० घना निविड़ाः पल्लवा अस्य । शोभाञ्जने जटा० ।

घनपाषण्ड पुंस्त्री घनेन मेघध्वनिना पाषण्ड इव उन्मत्त-

त्वात् । मयूरे शब्दमा० । स्त्रियां जातित्वात् ङीष् ।

घनफल पु० घनानि निविडानि फलान्यस्य । विकङ्कटवृक्षे

राजनि० तत्फलानां निविडतया जायमानत्वात्तथात्वम् ।

घनमूल न० घनस्य सनात्रघातस्य मूलमाद्यम् । यस्य

समाङ्गत्रयघातस्य घनरूपता तादृशे अङ्के । एकाद्यङ्कानां
घनमूलादि प्रदर्श्यन्ते
१ । ८ । २७ । ६४ । १२५ । २१६ । ३४३ । ५१२ । ७२९ । १०००
१ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १०
तस्य मूलानयनं लीला० उक्तं यथा
“अथ घनमूले करणसूत्रं वृत्तद्वयम् । “आद्यं घनस्थान
मथाघने द्वे पुनस्तथान्त्याद्घनतो विशोध्य । घनं
पृथक्स्थं, पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलन्तु ।
पंक्त्यां न्यसेत्, तत्कृतिमन्त्यनिघ्नीं त्रिघ्नीं त्यजेत्तत्-
प्रथमात्, फलस्य । घनं तदाद्याद्घनमूलमेवं पङ्क्तिर्भ-
वेदेवमतः पुनश्च”
अस्यार्थः यस्य घनमूलं गृह्यते तस्याद्यंस्थानं घनस्थानं स्यात्
घनशोधनस्थानमित्यथः । अथ द्वे स्थाने अघने तद्व्यति-
रिक्ते तथा पुनः घनस्थानम् अघने द्वे इति पुनःपुन-
रित्यर्थः । अन्त्यात्घनतः स्थानात्घनं विशोध्य तस्य घनस्य
पदं पृथक्स्थं स्थाप्यं तस्य पदस्य कृत्या त्रिघ्न्या तदाद्यम्
अघनस्थानं विभजेत् । फलं तु पूर्ब्बमूलपङ्क्त्यां न्यसेत् ।
तस्य फलस्य कृतिम् अन्त्यनिघ्नीं पङ्क्तिस्थतद्व्यतिरिक्त
पूर्वकृतिनिघ्नीमित्यर्थः । त्रिघ्नीञ्च तत्प्रथमादाद्यघनस्थानात्
त्यजेत् । तदाद्यात्घनस्थानात्फलघनं त्यजेत् । एवं पुनः
तद्यथा अस्य पङ्क्त्यात्मकपदस्य कृत्या त्रिघ्न्या
तदाद्यं विभजेत् । फलन्तु पङ्क्त्यां न्यसेत् । तत्कृतिम्
अन्त्यनिघ्नीं त्रिघ्नीं तत्प्रथमात् त्यजेत् । तदाद्यात् फलस्य
घनं त्यजेदिति । एवंकृते या पङ्क्तिर्भवेत् तद् घनमूलं
भवति” । “अङ्कस्य वामागतिः” इत्युक्तेः वामस्यिता-
ङ्कस्वान्त्यत्वं दक्षिणस्थस्य चाद्यत्वमिति सर्वत्र ज्ञेयम् ।
घनदमप्यत्र । “घनपदञ्च ततोऽपि घतात् सस्वे! यदि
घनेऽस्ति घना भवतोमतिः” लोला० । घनं मूलमस्य ।
२ मोरटवृक्षे पु० राजनि० ।

घनरस पु० घनस्य मेघस्य मुस्तकस्य वा रसो निष्यन्दः ।

१ जले । २ कर्पूरे च कर्म० । ३ सान्द्ररसे । घनोरसोऽस्य ।
४ पीलुपर्ण्टां ५ मोरटवृक्षे च मेदि० । ६ निविड़रसके
त्रि० । जले तु न० रत्नको० ।

घनवर्त्मन् न० ६ त० । आकाशे “घनवर्त्म सहस्रधेव कुर्वन्” किरा० ।

घनवल्लिका स्त्री घना निविड़ा वल्ली यस्याः कप् ह्रस्वः ।

१ अमृतस्नवालतायाम् । घनस्य वल्लीव २ विद्युति राजनि०

घनवल्ली स्त्री घनस्य मेघस्य वल्लीव । १ विद्युति २ अमृतस्रवा-

लतायाम् राजनि० ।

घनवात पु० घनो निविड़ोवातोऽत्र । १ नरकभेदे हेमच० । ६ त० । २ मेघवाते ।

घनवास पु० घनोवासो गन्धोऽस्य । कुष्माण्डे हारा० ।

घनवाहन पु० घन इव शुभ्रं वाहनमस्य । १ शिवे ।

घनोमेघो वाहनमस्य । २ इन्द्रे च हेमच० ।

घनवीथि स्त्री घनानां वीथिः । आकाशे । “घनवीथिवीथि

मवतीर्णवतः” माघः ।

घनश्याम पु० घनः मेघैव श्यामः । निविड़कृष्णवर्णे ।

“अये राम घनश्याम! चुम्बामि मुखपङ्कजम् । यदि
जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम्” महानाटकम् ।
“समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं
घनश्यामं श्रीवत्सं श्रीनिकेतनम्” भाग० श्रीकृष्णरूपोक्तौ ।

घनसार पु० घनस्य मुस्तकस्य सारः । १ कर्पूरमेदे १७२३ पृ०

विवृतिः । “शरदिन्दुकुन्दघनसारनीहारहारेत्यादि”
दशकुमा० । घनोनिविड़ः सारोऽस्य । २ दक्षिणावर्त्त-
पारदे मेदि० । ३ वृक्षभेदे ४ जले च घरणी । ६ त० ।
५ श्रेष्ठ वारिदे ।

घनस्कन्ध पु० घनः स्कन्धो यस्य । कोशाम्रवृक्षे राजनि० ।

घनस्वन पु० ६ त० । १ मेथध्वमौ । घनेन तज्जलेन सुष्ठु अनिति

अन--अच् ३ त० । २ तण्डुलीयशाके राजनि० ।

घनहस्त पु० घनः समत्रिघातमितोहस्तोऽत्र । दीर्घविस्तारो-

र्द्धेषु १ हस्तमाने २ मागधप्रस्यखारिकायां च “हस्तो-
न्मितैर्विस्तृतिदैर्घ्यपिण्डैर्यद्द्वादशास्रं घनहस्तसंज्ञम् ।
घान्यादिके तद्घनहस्तमातं शास्त्रोदिता मागधखारिका
सा” लीला० ।

घना स्त्री घन + अस्त्यर्के अच् । १ माषपर्स्थां २ रुद्रजटायाञ्च

राजनि० तयोर्निविडपत्रत्वात् तथत्विम् । ३ निविडायां
स्त्रियाम् । “म्रदीयसीमपि घनाम्” (वाचम्) माथः ।
पृष्ठ २७८९

घनाकर पु० ६ त० । घनानामाकरः घनान् आकिरति

आ + क--अच वा । वर्षाकाले शब्दरत्ना० ।

घनागम पु० आगम्यतेऽत्र आ + गम--आधारे घञ् । घनानां

मेघानामागमः ६ त० । वर्षाकाले “घनागमे राजपथे
हि पिच्छिले” नैष० । भावे घञ् ६ त० । २ मेघा-
गमने च ।

घनाघन पु० हन--अच नि० । १ इन्द्रे २ वर्षुकमेघे मत्ते

घातुके ३ गजे, अमरः ४ अन्योन्यघट्टने पु० । ५ निरन्तर-
घातुके त्रि० हेमच० । “ततोऽर्ज्जुनं भिन्नकटेन
दन्तिना घनाघनेनानिलतुल्यवर्च्चसा” भा० क० १८ अ० ।
वर्षुकमेघश्च भा० शा० ३३० अ० दर्शितो यथा “समु-
ह्यमाना बहुधा येन नीताः पृथक्घनाः । वर्षमोक्ष
कृतारम्भास्ते भवन्ति घनाघनाः” “असज्जद्वायुनाक्षिप्ते
यथा खस्थो घनाघनः” हरि० ८७ । ७ काकमाच्यां स्त्री

घनात्यय पु० थनानामत्ययोयत्र । शरत्काले हेमच० ।

“वातिकानां घनात्यये” सुश्रु० । ६ त० । २ घनातिक्रमे पु० ।
घनव्यवाथोऽप्यत्र । “घनव्यवायेन गभस्तिमानिव” रघुः

घनामय पु० घनो दृढ़ः आमयो यस्मात् ५ व० । खर्ज्जूर-

वृक्षे त्रिका० ।

घनामल पु० घनोऽमलः विशेषणस० । वास्तूकशाके त्रिका०

घनाश्रय पु० ६ त० । आकाशे हेमच० ।

घनोदधि पु० घन उदधिरत्र । नरकभेदे हेमच० ।

घनोपल पु० ६ त० । करके (शिल) हेमच० ।

घम्ब गतौ भ्वा० पर० सक० सेट् । घम्बति अघम्बीत् । जघम्ब

घर पु० हम्यते गम्यतेऽतिथिभिः हन-- “हन्तेरन् घश्च”

उणा० नलोपश्च । गृहे दशपादीवृत्तिः ।

घरट्ट पु० घृ--सेके विच् घरं सेकमट्टते अट्ट--अतिक्रमे अण्

उप० स० । (याँता) प्रसिद्धे सक्तुपेषण्याम् “प्रतिहट्ट-
पथे घरट्टजात्” नैष० ।

घर्घट पु० घृ--विच् घरे सेकाय घटते घट अच् । (ट्याङ्गारा) मत्स्यभेदे शब्दर० ।

घर्घर पु० घर्घेत्यनुकरणशब्दं राति रा--क । १ घरट्टजादि-

ध्वनिभेदे । २ घद्युक्ते त्रि० “कलहान्न घनान् यदुत्थिता-
दधुनाप्युज्झति घर्घरस्वरः” नेष० । ३ पर्व्वतद्वारे ४ द्वारे
५ उलूके ६ नदभेदे च पु० मेदि० । ६ ध्वनिमात्ने ७ हास्ये
हेमच० । घर्घरनदश्च अङ्गदेशान्तर्गतः विन्ध्याद्रेर्निर्गतः
गङ्गायां सङ्गतः चम्पानगरीतोऽनतिदूरपूर्वस्थः । (घाघर)
लोकप्रसिद्धः ८ क्षुद्रघण्ट्यां स्त्री । “घर्घरा क्षुद्रघण्टी
स्यात्” मल्लि० घृतवाक्यम् । “चलावचूडाः कलघर्घरा-
रवैः” माघः । घर्घरेति शब्दानुकरणम् तथा ध्वनि-
भेदः । तादृशध्वनिभेदएव घर्घरेति मल्लि० । ९ वीणा-
भेदे मेदि० । वर्घर + अस्त्यर्थे अच् । घर्घर नदसङ्ग-
तायां १० गङ्गायां स्त्री वा गौरा० ङीष् । घर्घरस्व-
नाप्यत्र । “घृणावती घृणिनिधिर्घर्घरी घूकनादिनी ।
घूसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना” काशीख० २९ अ०
गङ्गानामोक्तौ । स्वार्थे क नदभेदे पु० । “शोणे घर्घरके
जलं तु रुचिदं सन्तापशोषापहम् । पथ्यं वह्निकरम्
तथा तु बलदं क्षीणाङ्गवृद्धिप्रदम” राजनि० ।

घर्घरिका स्त्री घघरीऽस्त्यस्याः ठन् । १ क्षुद्रघण्टिकायां

२ नदीभेदे ३ वादित्रभाण्डे ४ भ्रष्टधान्थे हेमच० । ५ वाद्य-
भेदे विश्वः ।

घर्घरित न० घर्घरं करोति णिच्--भावे क्त । शूकरजातीय

घ्वनिभेदे । “निशम्यते घर्घरितं स्वस्वेदं क्षयिष्णु माया
मयशूकरस्य” भाग० ३ । १३ । २५ ।

घर्घुर्घा स्त्री घृ--विच् घुर--ध्वनौ क्विप् तौ हन्ति हन--ड

नि० हस्य घः! (घुरघुरिया) कीटभेदे यमकीटे रत्नमा०

घर्ब गतौ भ्वा० पर० सक० सेट् । घर्बति अघर्बीत् । जघर्ब

घर्म्म पु० घरति अङ्गात् घृ--सेके (क्षरणे) कर्त्तरि मक् नि०

गुणः । १ अङ्गनिष्यन्दे स्वेदे श्रमजवारिणि । घरत्यङ्ग-
मनेन करणे मक । २ आतपे ३ ग्रीष्मकाले तयोः अङ्गस्वेद
साधनत्वात्तथात्वम । ४ आतपयुक्ते दिवसे निघ० । घर्घश्च
आतपादिव स्मरविकारसत्वादपि भवति यथाह सा० द०
“विकाराः सत्वसम्भूता सात्विकाः परिकीर्त्तिताः । सत्व-
मात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः । स्तम्भः स्वेदोऽथ
रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ
सात्विकाः स्मृताः” इति विभज्य “वपुर्जलोद्गमः स्वेदो
रतिघर्म्मश्रमादिभिरिति” सकारणं स्वेदोलक्षितः
५ यज्ञे निघ० । “पितृभिर्घर्म्मसद्भिः” ऋ० १० । १५ । ९ ।
“धर्मसद्भिः यज्ञसादिभिः” भा० । वै० वृ--दीप्तौ मक् ।
वैदिकप्रयोगे ६ दीप्ते त्रि० घर्मस्वरस्शब्दे उदा० ।
७ रसे “मधुनः सारघस्य घर्मं पात वसवः” यजु०
३८ । ६ । “घर्मं रसम्” वेददी० ८ गवादि निष्यन्दे दुग्धे
पु० तस्य गोःक्षरणात्तयात्वम् । “घर्माय दीष्व” यजू०
३८ । २ । हे वत्स! धर्माय धर्मार्थं दीष्य देहि पयः शेषय
मा सर्व्वं पासीत्पर्थः” वेददी० । “रज्जुसंदानमादाय”
कात्या० श्रौ० २६ । ४ । १ । “सन्दानम् घर्मधुग्वन्धनार्थाय
प्राशवती रज्जः कर्कः । “उपयमन्यामासिञ्चति घर्म्मम्”
पृष्ठ २७९०
कात्या० श्रौ० २६ । ६ । १७ । “घर्म्यं धर्मसंवन्धि तन्मध्यस्थि-
तमाज्यमुपयमत्यां स्रुचि आसिञ्चति” कर्कः परीसाभ्यां
घर्म्ममुत्पाद्य स्रुक्पुष्करस्योपर्य्यधोमुखं करोतीत्यर्थः”
सं० व्या० घर्मसम्बन्धि घृतमुपयमन्यामासिञ्चति पूर्वं स्रुक्स्थम्
नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः” यजु० ३८ । १६ ।
वेददी० । तत्र निदाघकाले “निःश्वासहार्य्यंशुकमाज-
गाम घर्मः प्रियादेशमिवोपदेष्टुम्” रघुः । ऊष्मणि
“स वमन् रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः” माघः ।

घर्म्मचर्चिका स्त्री घर्मकृता चर्चिकेव । (घामाचि) इति

ख्याते घर्मविचर्चिकायाम् । “स्वेदवाहीनि दुष्यन्ति
क्रोधशोकश्रमैस्तथा । ततः स्वेदः प्रवर्त्तेत दौर्गन्ध्यं
घर्मचर्चिका । राजिकाकृतिरुष्णेत्था यतो घर्मवि-
चर्चिका” इति प्रयोगामृतम् । घर्मविचर्चिकाप्यत्र ।

घर्म्मदीधिति पु० घर्म्मोदीधितौ यस्य । सूर्य्ये “यः

ससोम इव घर्म्मदीधितिः” रघुः । घर्म्मद्युति घर्म्मभानु
घर्म्मरश्मिप्रभृतयोऽप्यत्र “घर्म्मद्युतेरिह दुहः पटलेन
धाम्नाम्” किरा० । “या घर्म्मभानोस्तनयापि शीतलैः”
माघः । “लोकालोकव्याहतो घर्म्मरश्मिः” भावः ।

घर्म्मदुह् स्त्री घर्म्मं दुग्धं दोग्धि दुह--क्विप् ६ त० ।

दुग्धदुहायां धेन्वाम् “घर्म्मधुग्घ्वाले चादोहे च” कात्या०
श्रौ० २५ । ६ । २ । घर्म्मदुघाप्यत्र । “घर्म्मदुघाया दोहन
प्रदेशे” तत्सूत्रे कर्कः ।

घर्म्मपावन् घर्म्ममूष्माणं पिबति पा--वनिप् । ऊष्मपाख्ये

पितृगणभेदे । “स्वाहा पितृभ्य ऊर्द्ध्वबर्हिभ्यो घर्म्म-
पावभ्यः” यजु० ३८ । १५ ।

घर्म्मसद् पु० घर्म्म यज्ञे सोदति सद--क्विप् । यज्ञसादिषु

पिपृषु । पूर्व्वैः पितृभिर्घर्म्मसद्भिः” ऋ० १० । १५ । ९ । १० ।
“घर्म्मसद्भिः यज्ञसादिभिः” भा० ।

घर्म्मस्तुभ् पु० घर्म्मं स्तुभ्राति स्तुभ--क्विप् । वायौ ।

प्रचारेण घर्म्मनाशात्तस्य तथात्वम् । “घर्मस्तुभे (मारु-
ताय) दिव आ पृष्ठे यज्वते” ऋ० ५ । ५४ । १ ।

घर्म्मस्वरम् पु० जिघर्त्ति वै० घृ--क्षरणं दीप्तौ मक् नि० ।

घर्म्माः दोप्ताः स्वृ--असुन् स्वरसोयेषाम् । दोप्तध्वनौ ।
“घर्म्मस्वरसोनद्यो अप व्रन्” ऋ० ४ । ५५ । ६ “घर्म्म
स्वरसोदीप्तध्वनयः” भा० ।

घर्म्मस्वेद पु० घर्मोदोप्तः क्षरन् वा स्वेदो, घर्मे यज्ञे स्वेदो

गतिर्वाऽस्य । १ दीप्तगमने २ क्षरत्स्वेदजले ३ यज्ञे गन्तरि च
“ब्रह्मणस्पतिर्वृषेभिर्वराहैर्घर्मखेदेभिर्द्रविणं व्यानट्”
ऋ० १० । ६७ । ७ । घर्मस्वेदेभिः दीप्तागमनैर्यद्वा क्षरदुदकैः
अथवा घर्मो यज्ञः तं प्रति गन्तृभिः” भा० ।

घर्म्मान्त पु० घर्मस्य ऊष्मणोऽन्तोयत्र । वर्षाक्राले राजनि०

“घर्मान्ते तोयदोर्म्मिभिः” हरिवं० १७७ अ० ।

घर्म्मान्तकामुकी स्त्री ७ त० वलाकायाम् राजनि० । वर्षा

काले एव तस्याः कामयमानत्वात् तथात्वम् ।

घर्षण न० घृष--भाते ल्युट् । (घषा) व्यापारभेदे ।

घर्षणाल पु० घषर्णायालति अल + पर्य्याप्तौ अच् । शिला-

पुत्रे (लोटा) त्रिका० ।

घर्षणी स्त्री वृष्यतेऽसौ कर्मणि ल्युट् ङीप् । हरिद्रायां त्रिका० ।

घल न० घोल + पृपो० । तक्रो घोले शब्दच० ।

घष(स) क्षरणे भ्वा० आत्म० अक० सेट् इदित् । घंष(स)ते

अघषि(सि)ष्ट । जघंषे(से)

घस भक्षणे भ्वा० पर० सक० अनिट् । घसति । ऌदित्

अघसत् । जघास जक्षतुः जघसिथ जघस्थ । घस्तः
वेदे ग्धिः लोके, घस्तिः ।

घसि पु० घस--भावे इन् । भक्षणे हेमच० ।

घस्मर त्रि० घस--क्मरच् । भक्षणशीले । “सुराध्वरे घस्मर-

जित्वरेण” भट्टिः । “घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुमः”
भा० क० ४० अ० । कौशिकपुत्राणां गर्गशिष्याणां गुरु
गवीमांसभक्षणात् व्याधमृगादियोनिमाप्तानां सप्तानां
मध्ये मृगमेदे “शुभेन कर्मणा तेन जाता जातिस्मरा
मृगाः । त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ।
उन्मुखोनित्यवित्रस्तः स्तब्धक्रर्णो विलोचनः । पण्डितो
घस्मरोनादी नामतस्तेऽभवन्मृगाः” हरिवं० २१ अ० ।

घस्र पु० घसत्यन्धकारं घस--रक् । १ दिवसे अमरः । २ हिंस्रे

त्रि० मेदि० ३ कुङ्कुमे न त्रिका० ।

घा स्त्री हन--बा० ड हस्य घश्च । १ काञ्च्यां २ घाते च मेदि० ।

घाट पु० चु० घट--अच् । ग्रीवायाः पश्चाद्भागे अवटौ (षाड़)

शब्दर० । तत्रैवार्थे स्त्री टाप् अमरः । “दोषास्तु
दुष्टास्त्रय एव मन्यां संपीड्य घाटां सुरुजाः सतीव्राम्”
सुश्रु० । ३ घट्टे ४ गवादिप्रचारस्थानभेदे “घाटाः किं
वहबोमातरभिन्नाः सर्व्वतोव्रजे” हरिवं० ३२१ अ० ।
घाटा अस्त्यस्व अर्श० अच् । ५ घाटायुक्ते त्रि० ।

घाटाल पु० घाटा + सिध्मा० अस्त्यर्थे लच् । सुश्रुतोक्ते

सान्निपातिकविद्रधिरोगलक्ष्मभेदे “नानारूपरुजास्रावो
घाटालोविषमोमहान् । विषमं पच्यते वापि विद्रधिः
सान्निपातिकः” सुश्रुतः” । घाटालस्य नद्याद्यवता-
रस्थानवत् गम्भीरतायुक्तत्वात् तद्वदुन्नतानतत्वेन च
तथात्वम् ।
पृष्ठ २७९१

घाटिका स्त्री घाटा स्वार्थे क । घाटायाम् शब्दच० ।

घाण्टिक पु० घण्टया चरति ठक् । “राज्ञां प्रबोधसमये

घण्टाशिल्पास्तु घाण्टिकाः” इत्युक्तलक्षणे राज्ञां प्रबो-
धनाय घण्टां वादयित्वा १ स्तुतिपाठके २ घण्टावादके
त्रि० अमरः । अमुं घाटिकैत्यप्यमरटीकायां भरतः
पपाठ । घण्टा तदाकारं पुष्पमस्त्यस्य ठन् । ३ धूस्तुरे हारा०
तस्य तदाकारकुसुमत्वात्तथात्वम् “पुष्पे घाण्टिकघोषि-
कयवनबणिक्कितवकुसुमानि” । “उपतापं यान्ति च
घाण्टिका विभेदश्च मित्राणाम् । वृ० स० १० अ० । शपथवचनेन
४ व्यवहारिणि” प्रा० वि० । “राजपौरुषिके विप्रे
घाण्टिके परिचारके” । दैवषैत्रयोः अपात्रोक्तौ
तस्याभोज्यान्नतामाह यमः “राजान्नं हरते तेजः”
इत्युपक्रमे “पाप्मा तथान्नं शौण्डस्य घाण्टिकस्य
तथैव च । इतरे ये त्वभोज्यान्नास्तेषामन्नं विवर्जयेत् ।
कृच्छ्रं द्वादशरात्रं वा तप्तकृच्छ्रमथापि वा” । “घाण्टि-
कोदिव्यवाचकः” प्रा० वि० ।

घात पु० हन--घञ् । १ प्रहारे, २ मारणे, ३ पूरणे, गुणनें

च । “चरेत् व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः”
याज्ञ० । “पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः”
भा० आ० १४८ अ० । “समद्विघातः कृतिरुच्यतेऽथ”
लीला० । करणे घञ् । ४ वाणे मेदि० । चतुरङ्गक्री-
डायां वट्यादिबलानां स्थानविशेषेषु ५ अन्यबालनामागमे
तदपसारणेन तत्स्थाने तदाक्रमे । चतुरङ्गशब्दे दृश्यम् ।
जन्मतारापेक्षया ६ निधनाख्ये सप्तमषोडशपञ्चविंशति-
तमनक्षत्रे च ।

घातक त्रि० घातयति हन--ण्वुल् । हननकर्त्तरि । “अनु-

मन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता
चोपहर्त्ता च खादकश्चेति धातकाः” मनुः । अत्र खादक-
स्यापि घातकत्वमुक्तं मिताक्षरायां तु कर्त्तप्रयोजका-
दीनां घातकत्वं समर्थितं यथा
“हन्तिरयं प्राणवियोगकरे व्यापारे रूढः । यद्व्यापार-
समनन्तरङ्कालान्तरे वा कारणान्तरनिरपेक्षः प्राण-
वियोगो भवति स ब्राह्मणं हतवानिति ब्रह्महा” ।
“तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्त्तृसं
ग्रहार्थः । अनुग्राहकश्च यः पलायमानममित्रमुपरुन्धन्
परेभ्यश्च हन्तारम्परिरक्षन् हन्तुर्द्रढिमानमुपजनयन्नुप-
करोति स उच्यते । अतएव मनुना अनुग्राहकस्य
हिंसाफलसम्बन्धो दर्शितः “बहूनामेककार्याणां सर्वे-
षाम् शस्त्रधारिणाम् । यद्येकोघातयेत्तत्र सर्वे ते घातकाः
स्मृताः” इति । तथा प्रयोजकादीनामप्यापस्तम्बेन फल
सम्बन्ध उक्तः “प्रयोजयिताऽनुमन्ता कर्त्ता चेति स्वर्ग
नरंकफलेषु कर्म्मसु योभूय आरभते तस्मिन् फलविशेषः”
इति । तत्राप्रवृत्तस्य प्रवर्त्तकः प्रयोजकः स च त्रि
प्रकारः । आज्ञापयिताऽभ्यर्थयमान उपदेष्टेति । तत्राज्ञा-
पयिता नाम स्वयमुच्चः सन्नीचम्भृत्यादिकं यः प्रेषयति
मदीयममित्रञ्जहीति स उच्यते । अभ्यर्थयमानस्तु यः
स्वयमसमर्थः प्रार्थनादिना मच्छत्रुं व्यापादयेति समर्थं प्रव-
र्त्तयति सोऽभिधीयते । अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयो-
क्तृत्वम् । उपदेष्टा पुनः त्वं शत्रुमित्थं व्यापादयेति
मर्मोद्घाटनाद्युपदेशपुरःसरम्प्रेरयन् कथ्यते । तत्र च
प्रयोज्यगतमेव फलमिति तेषाम्भेदः । अनुमन्ता तु
प्रवृत्तस्य प्रवर्त्तकः स च द्विप्रकारः कश्चित् स्वार्थसिद्ध्यर्थ
मनुजानाति कश्चित्परार्थमिति । नन्वनुमननस्य कथं
हिंसाहेतुत्वं न तावत् प्राणवियोगोत्पादनेन, तस्य
साक्षात्कर्त्तृव्यापारजन्यत्वात् नापि प्रयोजकस्येव साक्षात्
कर्तृप्रवृत्त्युत्पादनद्वारेण, प्रवृत्तस्य प्रवर्त्तकत्वात् । न च
साधु त्वया व्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्क-
नीयम् । तादृशस्यानुमननस्य हिंसाम्प्रत्यहेतुत्वाद्व्यर्थ-
त्वाच्च । उच्यते यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा
प्रवृत्तोऽपि प्रवृत्तिविच्छेदादागामिदण्डभयाद्वा शिथिलप्र-
यत्नो राजाद्यनुमतिमपेक्षते तत्रानुमतिर्हन्तुः प्रवृत्तिमुपो-
द्वोलयन्ती हिसाफलम्प्रति हेतुतां प्रतिपद्यते । तथा योऽपि
भर्त्सनेन ताडनधनापहारादिना परान् कोपयति
सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर्भवत्येव ।
अतएव विष्णुनोक्तम् “आक्रुष्टस्ताडितोवापि धनैर्वापि
वियोजितः । यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” ।
तथा “ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च ।
यमुदिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकमिति” । न च
कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारण-
तेति शङ्कनीयम् पुरुषस्वभाववैचित्र्यात् येऽल्पतरे-
णापि निमित्तेन जातमन्यबोभवन्ति तेष्वव्यभिचार
इति नाकारणता । एतेषाञ्चानुग्राहकप्रयोजकादीनां
प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवा-
पेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवम्बोद्ध-
पृष्ठ २७९२
व्यम् “यो भूय आरभते तस्मिन् फलविशेषः” इति
वचनात्तथाह्यनुग्राहकस्य तावत् स्वयमेव हिंसायां प्रवृत्त-
त्वेन स्वतन्त्वकर्पृत्वे सत्यपि साक्षात्प्राणवियोग-
फलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्पृ-
वद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तं
च, प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यव-
हितत्वात्ततोऽल्पफलत्वं, प्रयोजकादीनां मध्ये परार्थ
प्रवृत्तेरुपदेष्टुरल्पफलत्वम् । ननु प्रयोजकस्य हस्तस्था-
नीयत्वात् प्रयोज्यस्य न फलसम्बन्धो युक्तः यदि पर
प्रयुक्त्या प्रवर्त्तमानस्यापि फलसम्बन्धस्तर्हि स्थपतितडाग
खनितृप्रभृतीनामपि मूल्येन प्रवर्त्तमानानां स्वर्गादि-
फलप्राप्तिप्रसङ्गः । उच्यते । “शास्त्रफलम्प्रयोक्तरीति”
न्यायेनाधिकारिकर्तृगतफलजनका देवकुलतडागनि-
र्माणादयः । न च स्थपतितडागखनित्रादयी देवकुल-
तडागादिकरणादिष्वधिकारिणोऽस्यर्गकामित्वात् । अत्र
पुनः परप्रयुक्त्या प्रवर्त्तमानानामप्यहिंसायामधि-
कारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः ।
अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वम्प्रयोजकव्यापारा-
द्बहिरङ्गत्वाल्लघुत्वाच्च अनुमननस्य, निमित्तकर्त्तुः पुनरा-
क्रोशकादेः प्रवृत्तिहतुभूतमन्युजनकत्वेन व्यवहितत्वा-
न्मरणानुसन्धानं दिना प्रवृत्तत्वाच्चानुमन्तुः सकाशादल्प-
फलत्वम् । ननु यदि व्यवहितस्यापि कारणत्वन्तर्हि
मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हननकर्वृत्व
प्रसङ्गः । उच्यते नहि पूर्वभावित्वमात्रेण कारणत्वम्
अकारणस्यापि तथा भावित्वापत्तेः । यत् खलु स्वरू-
पातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धि-
कारणं, “यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान्
ग्रहान् गृह्णीयादिति” रथन्तरसामतैव क्रतीरैन्द्रवाय-
वाग्रताक रणुं” न हि तत्र सोमयागः स्वरूपेण कारणं
व्यभिचारात् । न च पित्रोस्तादृग्विधकारणलक्षण
योगित्वमिति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभि-
सन्धिना निर्मितकूपवाप्यादौ प्रमादपतितव्राह्मणादि
मरणे खानयितुर्दोषाभावः । न हि कूपोऽनेन खानितः
अतोऽहमात्मानं व्यापादयामीत्येवं कूपखननंनिमित्त-
व्यापादनं यथाऽऽक्रोशादौ अतः कूपकर्तुरपि कारण-
खमेव न पुनर्हिंसाहेतुत्वमिति मातापिवृतुल्यतैव ।
तथा क्वचिसत्यपि हिंसानिमित्ततायोगित्वे परोपकारार्थ
प्रवृत्तौ वचनाद्दोषाभावः यथाह संवर्त्तः “बन्धने गो-
श्चिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते--विपत्तिश्चेत्
प्रायश्चित्तं न विद्यते । ओषधं स्नेहमाहारन्ददद्गो
ब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ।
दाहच्छेदसिराभेदप्रयत्नैरुपकुर्वताम् । प्राणसन्त्राण
सिद्ध्यर्थं, प्रायश्चित्तं न विद्यते” इति । एतच्चदानं निदान
निपुणभिषग्विषयम् । इतरत्र “भिषग्मिथ्या चरन् दाप्यः”
इत्यत्र दोषो दर्शितः । यत्र तु मन्युनिमित्ताक्रोशनादि
कमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति
तत्रापि न दोषः । “अकारणं तु यः कश्चित् द्विजः प्राणान्
परित्यजेत् । तस्यैव तत्र दोषः स्यान्नतु यम्परिकीर्त्तयेदिति”
स्मरणात् । तथा यत्राप्याक्रोशकादिजनितमन्युरात्मानं
खङ्गादिना प्रहृत्य मरणादर्वागाक्रोशनादिकृता धनदा-
नादिना सन्तोषितो यदि जनसमक्षमुच्चैः श्रावयति नात्रा-
क्रोशकस्यापराध इति तत्रापि वचनान्न दोषः । यथाह
विष्णुः “उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः ।
तस्मिन्मृते न दोषो ऽस्ति द्वयोरुच्छ्रावणे कृते” इति ।
एतेषाञ्च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनया
प्रायश्चित्तविशेष’ वक्ष्यामः” मिता० ।
प्राय० वि० तस्य पञ्चविधत्वमुक्तं यथा
“प्राणवियोगफलकव्यापारोबधः तन्निष्पादकत्वञ्च साक्षात्
परम्परोदासीनं स्मृतिकारपरिगणितं बधित्वम् अतो
नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं स्मृतिस्वरसात्
कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहको निमित्ती चेति
यथा आपस्तम्बः “प्रयोजयिता अनुमन्ता कर्त्ता चेति
सर्व्वेस्वर्गनरकफलभोक्तारो योभूय आरभते तस्मिन्फले
विशेषः” । अनुग्राहकमाह याज्ञवलक्यः “चरेद्व्रत
महत्वापि घातार्थञ्चेत् समागतः” तथा मनुः “वहू-
नामेककार्य्याणां सर्व्वेषां शस्त्रधारिणाम् । यद्येको-
घातकस्तत्र सर्व्वते घातकाः स्मृताः” । भविष्ये “यद्येकं-
वहवो विप्रा घ्नन्ति विप्रमनागसम् । तदेषां निष्कृतिं वच्मि
शृणुष्वेकमना गुह! । तेषां यस्य प्रहारेण स विप्रोनिध-
नंगतः । सरस्वतीप्रतिस्रोतः सञ्चरेत् पापशुद्धये” ।
सचद्विविधः । एकोबध्यप्रतिरोधकः अन्यः स्वल्पप्रहर्त्ता ।
निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्याय-
मर्थयते तु यः । यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघा-
तकम्” । अत्र नरान्तरव्यापार व्यवधानेन बधनिष्पादकः
कर्त्ता यः कर्त्तारं कारयति स प्रयोजकः सोऽपि द्विविधः ।
एकःस्वतोऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति
पृष्ठ २७९३
अपरः स्वतःप्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साह-
यति । अनुमतिदाता अनुमन्ता अनुमतिश्च द्विविधा ।
एका यद्विरोधाद्धननं न सम्भवति तस्य विरोधिनोमया
निरोधः कर्त्तव्यैति युक्तिरनुमतिः । अपरा एनं हन्मी-
तिवचने शक्तस्याप्रतिषेधः । अतएव कात्यायनः “स्वं-
द्रव्यं दीयमानन्तु यत् स्वामी न निवारयेत् । ऋक्थिभि-
र्वा परेर्वापि दत्तं तेनैव तद्भृगुः” दत्तमिति दातुमनुमत-
मित्यर्थः । तथा “प्रार्थ्यमानोऽर्थिना यत्र योह्यर्थो न
विघातितः । दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनु-
मोदितः” । अत्राप्रतिषेध एवानुमतिरुक्ता । अतएव
“परवचनमप्रतिषिद्धमनुमतं भवतीति” न्यायविदः ।
घध्यस्य पलायनादिरोधकोऽनुग्राहकः । उद्देश्यत्वे सति
हन्तुर्मन्यूत्पादके निमित्ती । तत्र प्रयोजकस्य कर्तृ-
प्रयुक्तिद्वारेण बधकारणत्वम् अनुमन्तुश्च हन्तुर्निर्भयत्वेन
दृढतरप्रहारोत्पत्तिद्वारेण, अनुग्राहकस्य पलायनाद्य-
सम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरूपोत्पत्ति
द्वारेण कारणत्वं, निमित्तिनो हन्तृमन्यूत्पादनद्वारेण
इति प्रयोजकादीनां च चतुर्णां व्यवहितहनन
कारणानाम् अवान्तरव्यापारप्रकारभेदाद्भेदः । अतः
पञ्चविधं बधित्वम्” ॥
ततोजिकनमतं प्रदर्श्य दूषयित्वा स्वमतं तेन दर्शितं यथा
“तस्माच्चेतनान्तरव्यापाराव्यवधानेन धात्वर्थनिष्पादक-
श्चेतनः कर्त्ता, कर्म्मकरणादिकारकचक्रप्रयोक्ता वा कर्त्तेति
सामान्येन कर्तृलक्षणः । यश्च पदातिद्वारा व्राह्मणं-
हन्ति तत्र न पदातेः करणत्वं हननकर्म्मकाले कर्तृव्या-
पारव्याप्यत्वाभाबात् न वा तस्याव्यवधायकत्वं प्रमाणा
भावात् खङ्गस्य तु व्यबधायकत्वेऽपि न दोषः तस्य चेत
नत्याभावात् न वा तस्य व्यवधायकत्वं हन्तृव्यापारे
हन्तुः साक्षादेव कारणत्वात् द्वैधीभावफलनिष्पत्तौ खङ्ग-
व्यापारस्य सहकारितामात्रम् अतएवाश्वेन पदातिना च
राजा सञ्चरतीति सत्यपि चेतनान्तरव्यापारे तस्य
सहकारितामात्रं न तु व्यवधायकत्वं स्वव्यापारे राज्ञः
साक्षात्कारणत्वात् एवञ्च यजमानस्य स्वव्यापारे यागे
देवतोद्देशेन द्रव्यत्यागलक्षणे साक्षात्कारणत्वमेव
प्रक्षेपादौ च तदङ्गे ऋत्विगादिव्यापरः सत्रेऽपि
साधारणद्रव्यत्यागात् सप्तदशानामेब कर्त्तृत्वम् एकस्य
तदसम्भबात् यागव्यतिरिक्तकर्म्मणि प्रत्येकं सप्तदशानां
कर्म्मव्यबस्थ । अथ बा “स्वर्गकामोयजेत” “सप्तदशावरा-
ऋद्धिकामाः सत्रमुपासीरन्निति” वेदे कामिनां कर्तृत्वा-
वगतेस्तदनुपपत्त्या ऋत्विग्व्यापारान्तर्भावो न व्यव-
धायकः आग्नेयादिकरणत्वानुपपत्तिकल्पितोत्पत्त्यपूर्व्व-
मिव । न चेह तथा, कर्तृत्वे प्रमाणाभावात् तस्मात्
पूर्व्वोक्तकर्तृलक्षणानाक्रान्तत्वादस्वतःप्रवृत्तपदातिप्रेरको न
बधकर्त्ता किन्तु प्रयोजक एव । अनुग्राहकोऽपि न
कर्त्ता कर्तृलक्षणाव्याप्यत्वात् सत्रे तु विशेष उक्त
एव । पाक्षिकमरणानुमन्तृत्वान्निमित्तिनोऽनुमन्तृत्वमयु-
क्तम् एवं प्रयोजकस्यानुमन्तृत्वापत्तेः अतो मन्यूत्पादन
द्वारा योनिमित्तवान् स निमित्तीत्यनुमन्तृतः प्रका-
रान्तरएवायं प्रयोजकादिवत् अतो यथा कथञ्चि
न्निमित्ततामात्रेण यदि निमित्तबधः तद मातापित्रो
रिषुकारस्यापि निमित्तत्वं स्यादिति निरस्तं, ननु
सत्यपि मन्यूत्पादने, न निमित्तत्वं यथा वध्यस्य
बधकमन्यूत्पादकस्य, नह्यनुत्पादितमन्युः कश्चित्
कमपि व्यापादयति, असत्यपि मन्यूत्पादे निमित्तत्वं यथा
मरणाभिसन्धानेन अन्ने विषप्रक्षेप्तुर्नहि तस्य कर्त्तृत्वं
सम्भवतिं नरान्तरविषभक्षणव्यापारव्यबधानात्
अतस्तत्रापि कर्त त्वमस्तीति भवदेवमतं निरस्तं सत्यं कर्त्त्रा-
दिचतुष्टयविलक्षणो वाचनिकनिषिद्धनिमित्तमावएव
निमित्तीति निमित्तिलक्षणं नेषुकारस्य बध्यस्य वा निमित्त
भावोंनिषिद्धः अभक्ष्यान्नदातुश्च निषिद्ध एव । अहितमाहा
रादिकं मरणफलकं हितनिश्चयेन क्रियमाणं न
पापहेतुरिति वदता अहितं मरणफलकमहितबुद्ध्या क्रिय-
माणं पापहेतुरिति दर्शितं निमित्तबधापवादकवचनेन,
एतच्च वक्ष्यते एवं यत्रामिसन्धानं नास्ति हेत्वनरव्यवस्था-
पितं विषं खादित्वा कश्चिन्म्रियते तत्र न बधित्वम् एवं
व्याघ्रादिमारणार्थकृतयन्त्रादावन्यस्य मरणे न बधित्वम्
एवंकूपखातादावपि । मरणाभिसन्धाने तु तत्रास्त्येव । तथा
यः कश्चित् संशयस्थाने प्रस्थाप्यते बलवती च मरणाशङ्का
भवति तत्र प्रस्थापितोयदि म्रियते तत्र बधित्वं, पाक्षिक
मरणाभिसन्धानात् अतएवेतरनिमित्तिनो विषक्षेप्तुर्जघन्य-
त्वम् तथा च याज्ञवल्क्यः “कृच्छ्रत्रयं गुरुः कुर्य्यात
म्रियेत प्रहितो यदि” । वौधायनः “गुरुः प्रयुक्तश्चेन्म्रियते
गुरुस्त्रीन् कृच्छ्रान् चरेत्” । उपकाराचरणेन बधनिष्पत्तौ
निमित्तबधापवादमाह संवर्त्तः” “औषधं स्नेहमाहारं
ददद्गोव्राह्मणेषु च । प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं
न विद्यते” । यन्त्रणे गोश्चिकित्सायां मूढगर्भविमोचने ।
पृष्ठ २७९४
यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते” । मूढगर्भो
ऽन्तर्मृतगर्भः । तथा “दाहच्छेदसिराभेदप्रयत्नैरुपकुर्व्व-
ताम् । द्विजानां गोहितार्थेषु प्रायश्चित्तं न विद्यते” ।
याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
यिपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च” । विशेष
माहाङ्गिराः “औषधे तु न दोषोऽस्ति स्वेच्छया
पिवते यदि । अन्यथा दीयमाने तु प्रायश्चित्तं न
संशयः” । मन्यूत्पादने निमित्तवधमाह वृद्ध शातातर्पः
“गोभूहिरण्यहरणे स्त्रीसम्बन्धकृतेऽपि च ।
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्व्रह्मघातकम्” विष्णुः
“अन्थायेन गृहीतस्वो न्यायमर्थयते तु यः । यमुद्दिश्य
त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” । तथा वृहस्पति
नाम्ना पठितानि वचनानि “ज्ञातिमित्रकलत्रार्थं सुहृत्-
क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्म
घातकम् । गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च ।
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम् । गुर्व्वर्थं
पितृमात्रर्थमात्मार्थमथ वा पुनः । यमुद्दिश्य त्यजेत् प्राणां
स्तग्राहुर्ब्रह्म घातकम्” षट्त्रिंशन्मतमिति कृत्वा पठितम्
“आक्रोशितस्ताडितो वा धनै र्वा परिपीडितः । यमुद्दिश्य
त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” । अत्रोद्दिश्येति
सर्वत्र कीर्त्तनात् उद्देशाभावे निमित्ततामात्रेण बधित्वं
नास्ति, अर्थादिहरणाक्रोशनताड़नादीनां मन्युकारणा-
नामुपात्तत्वादेतेषामभावे धनाद्यर्थं वृक्षारोहणादिना
ये म्रियन्ते तत्र कीर्त्तनमात्रेण निमित्तबधोनास्ति
तथा च पठन्ति “असम्बन्धेन यः कश्चित् द्विजः प्राणान्
परित्यजेत् । तस्यैव तद्भवेत् पापं न तु यं परिकीर्त्तयेत्” ।
असम्बन्धेनेति वाक्कृतादिसकलापराधसम्बन्धाभाव परम् ।
यच्च “सम्बन्धेन विना देव! शुष्कवादेन कोपितः” ।
इति भविष्यपुराणवचनं वार्पिकप्रायश्चित्तविधायकम् तत्
वाक्कृतेतरापराधसम्बन्धाभाबपरं “शुष्कवादेन कोपितः”
इत्यभिधानात् । एवं यत्राक्रोशनादौ पश्चात्कृतेना-
पराधः तत्रापि न बधः । यथा वृहस्पतिः “आक्रुष्ट
स्तु यदाऽऽक्रोशंस्ताड़ितः प्रतिताड़यन् । हत्वाततायिन-
ञ्चैव नापराधी भवेन्नरः” शास्त्रविहितताडनादौ कृते
यत्र शिष्यादिर्म्रियते तत्रापि वधो नास्त्येव यथा भविष्य
पुराणे “पत्रः शिष्यस्तथा भार्य्या शासितश्चेद्विनश्यति ।
न शास्ता तत्र दोषेण लिप्यते देवसत्तम!” । अशास्त्वाय
ताडनादौ भवत्येव यथा मनुः “पुत्रः शिष्यस्तथा भार्य्या
दासी दासस्तु पञ्चमः । प्राप्तापराधास्ताड्याः स्यूरज्ज्वा
वेणुदलेन वा । अधस्तात्तु प्रहर्त्तव्यं नोत्तमाङ्गे कदाचन ।
अतोऽन्यथा तु प्रहरंश्चौरस्याप्नोति किल्विषम्” । एवञ्च
विहितदण्डाचरणे शास्त्रीयकरग्रहणे क्रियमाणे यदि
म्रियते तदापि बधोनास्त्येव दण्डादिशास्त्रविधिविरो-
धान्निषेधाप्रवृत्तेः । सोमविक्रयणे तु रागादेव प्रवृत्ति
सम्भवान्न विरोधः । आततायिबधापवादमाह वृहस्पतिः
“नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित् । विना-
शिनमथायान्तं घातयन्नापराध्नुयात्” किल्विषाभावः प्राय-
श्चित्तनिषेधार्थः । अप्रराधाभावोदण्डनिषेधार्थः । यतः
“सर्व्वत एवात्मानं गोपायीत इति श्रुतिमूलमिदम् अतः
पलायनादिनापि आत्मरक्षणाभावे इदं बोद्धव्यम् ।
कात्यायनः “आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न ते न ब्रह्महा भवेत्” । जिघांसी
सन् इयात् गच्छेदित्यर्थः । देवलः “उद्यम्य शस्त्रमायान्तं
भ्रूणमप्याततायिनम् । निहत्य भ्रूणहा न स्यादहत्वा
भ्रूणहा भवेत्” । भ्रूणो ब्राह्मणविशेषः दोषदर्शनं
नियमार्थम् । मनुविष्णू “गुरुं वा बालवृद्धौ वा
ब्राह्मणं वा वहुश्रुतम् । आततायिनमायान्तं हन्यादेवा-
विचारयन्” । एवकारो नियमार्थः “तथा
नाततायिवधे दोषोहन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं
वा मन्युस्तन्मन्युमृच्छति” यस्माद्धन्तुर्मन्युर्हन्यमान
मन्युं नाशयति न पुनः पुरुषोहन्ति हन्यते वेति
हननबिधेरनुवादः । “आततायिनमाह वशिष्ठः”
“अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारा-
पहारी च षडेते आततायिनः” विष्णुकात्या-
यनौ “उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा ।
आथर्वणेन हन्तार पिशुनञ्चैव राजसु । भार्य्याति-
क्रमिणञ्चैत विद्यात् सप्ताततायिनः । यशोवृत्तहृरान-
ऽन्यानाहुर्धर्म्मार्थहारकान्” । विशेषमाह कात्यायनः”
“अनाक्षारितपूर्व्वोयस्त्वपराधे प्रवर्त्तते । प्राणद्रव्या-
पहारे च प्रवृत्तस्याततायिता” अनाक्षारितोऽनपकृतः ।
एतेन पूर्व्वकृतापकारस्य मारणोद्यतस्य नाततायिता
तेन प्रत्यपकारिबधे दोष एव । ननु आततायिनोरपि
गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः “आततायिबधे न
दोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् तदा प्रायश्चित्तं
कुर्य्यात्” । तथा भविष्ये “क्षिण्वानमपि गोविप्रं
न हन्याद्बै कदाचन” इति अतः पूर्व्ववचनविरोधः तत्र व्यव-
पृष्ठ २७९५
स्थामाह कात्यायनः “आततायिनि चोत्कृष्टे तपःस्वा-
ध्यायजन्मतः । बधस्तव तु नैव स्यात् पापे हीने
बधोभृगुः” । जन्मपदेन जातिः कुलञ्चोच्यते । तेन हन्त्रपेक्षया
तवोविद्याजातिकुलैरुत्कृष्टोनाततायी बध्यएव । अतएव
भगवद्गीतायामाह “पापमेवाश्रयेदस्मान् हत्वैताना-
ततायिनः” इति एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणा-
नित्यर्थः । एवम्भूताततायिनश्चाहनने फलमप्याह
वृहस्पतिः “आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद्बधप्राप्तं सोऽश्वमेधफलं लभेत्” यद्यपि “गुरुं
बहुश्रुतंहन्यात्” इति श्रूयते तथापि गुरोः सकाशात्
कुलविद्यातपोभिः शिव्यस्याऽप्युत्कर्षसम्भवात् एवं
बहुश्रुतादपि । एवमधमवर्णस्योत्तमवर्णो न बध्यः । पूर्वकृता-
पराधविषयं वा सुमन्तुवचनम् । गौरातताय्यपि न बध्यः
“नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् ।
हस्त्यश्वानां तथान्येषां बधे हन्ता न दोषभाग्”
इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् विशेष-
माह कात्यायनः “उद्यतानान्तु पापानां हन्तुर्दोषो
न विद्यते । निवृत्तास्तु यदारम्भाद्ग्रहणंन
बधःस्मृतः” । तन्त्रोक्ते ग्राह्यमन्त्रसाधकयोः २ शुभाशुभज्ञापके
राशिचक्रस्थे साधकराश्यपेक्षया साध्यराशेर्द्वादशाष्टचतुः
संख्यान्विते कोष्ठेऽवस्थाने । चक्रशब्दे च राशिचक्रं
वक्ष्यते तत्र विवृतिः “वह्निरुद्रमुनयस्तु पोषका द्वाद-
शाष्टचतुरस्तु घातकाः” एतच्च विष्णुविषयम् रामार्च्चन-
चन्द्रिकाधृतत्वात्” कृष्णानन्दः ।

घातन न० हन--हन्त्यर्थत्वात् स्वार्थे णिच्--भावे ल्युट् ।

१ मारणे हनने २ यज्ञार्थपश्वालम्भने शब्दार्थ० ।
घातयति कर्त्तरिं ल्यु । २ मारके त्रि० हन्तेरौणादिके युनि
तु घतन इत्येव घतनशब्दे विवृतिः । शब्दकल्पद्रुमे
घतनेत्यत्र लिपिकरप्रमादकृतघातनशब्ददर्शनात् सि०
कौ० सम्मतत्वेन घातनशब्दकल्पनं प्रामादिकमेव
“हन्तेर्युन्नाद्यन्तयोर्घत्वंतत्वे” उणा० ५ । ४२ । घतनस्यैव
सिद्धेः दीर्घत्वे निमित्ताभावात् । चुरा० हन्तेस्तथाप्रत्यय-
कल्पने घत्वतत्वविधानानर्थक्यप्रसङ्गात् । एवं मुद्रित
पुस्तके “वातनो मारकः” इति दीर्घपाठोऽपि प्रमादकृतएव

घातवार पु० राशिविशेषजातस्याशुभसूचके वारभेदे यथा

“नक्रे भौमो गोहरिस्त्रीषु मन्दश्चंन्द्रोद्वन्द्वेऽर्कोऽजमे ज्ञश्च
कर्के । शुक्लः कोदण्डालिमीनेषु, कुम्भे यूके जीवो
घातवारा न शस्ताः” शब्दार्थचि० ज्यो० वाक्यम् ।

घातस्थान न० ६ त० । श्मशाने शब्दार्थचिन्तामणिः ।

घाति पु० हन--इण् । पक्षिबन्धने संक्षिप्तसारे उणदिवृत्तिः ।

घातिन् त्रि० हन--ताच्छील्यार्थे णिनि । हननकरणशीले ।

स्त्रियां ङीप् ।

घातिपक्षिन् पुंस्त्री० कर्म्म० । श्येनखगे हारा० स्त्रियां ङीप् ।

घातुक त्रि० हन--उकञ् । १ हिंस्रे २ क्रूरे च अमरः ।

घात्य त्रि० हन--ण्यत् । १ बध्ये २ बधार्हे ३ गुणनीये च ।

घार पु० घृ--सेके घञ् । सेचने ।

घारि न० छन्दोविशेषे । “रं विधाय लं निधाय धारि नाम

वृत्तमेहि” । यथा “राम राम राम राम । सारमे-
तदेव नाम” । शब्दार्थ चि० ।

घार्तिक त्रि० पु० घृतेन निर्वृत्तः ष्ठञ् । घृतप्रचुरे छिद्रबहुले

(घिओड़) पक्वान्नभेदे हेमच० । घृतपूरशब्दे दृश्यम् ।
“तृतीयस्य घार्त्तिकं ददाति स दृष्ट्वाह “छिद्रेष्वनर्या
बहुलीभवन्ति” पञ्चत० ।

घार्त्तेय त्रि० घृताया अपत्यम् द्यच्कत्वात् ढक् । १ दीप्ताया

अपत्ये ततः यौधेया० स्वार्थे अञ् । तत्रार्थे स्त्रियां
शाङ्गरवा० ङीन् । २ तद्राजे च तस्य च यौधेया० तद्रा-
जस्य स्त्रितां न लुक् । घार्त्तेयी । तत्र घार्त्तेयी इति
तत्र पाठान्तरम् ।

घास पु० घस--कर्म्मणि घञ् । गवादीनां भक्ष्ये तुणभेदे

अमरः । “घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः”
भा० आनु० ६९ अ० । “घासं दद्यात् परगवे” प्रा० त०
२ भक्ष्यद्रव्यमात्रे च “अश्वायेव तिष्ठते घासमस्मै” यजु०
११ । ७५ । “घासं समिद्रूपम्” वेददी० । “कर्षितं व्याघितं
क्लिष्टमपानीयमघासकम् । परिश्रान्तं च मन्दञ्च प्रहर्त्त-
व्यमरेर्बलम्” भा० आ० १४४ अ० ।

घासकुन्द पु० घासार्थिः कुन्दः । घासार्थकुन्दे तत्प्रचुरस्थाने

ततः कुमुदा० चतुरर्थ्यां ठक् । घासकुन्दिक तत्सन्नि-
कृष्टदेशादौ त्रि० ।

घासि पु० वस बा०--इण् । १ अग्नौ त्रिका० कर्म्मणि इण् ।

२ भक्ष्ये तृणादा त्रि० उज्जलदत्तः “यच्च पपौ यच्च
घासिं जघान” ऋ० १ । १६२ । १४ । “घासिमदनीयम्” भा० ।

घिण ग्रहणे भ्वा० आ० सक० सेट् इदित् । धिणते अघिस्मिष्ट

जिविण्णे ।

घु ध्वनौ भ्वा० आत्म० अक० अनिट् । घवते अघोष्ट । जुधुले ।

पृष्ठ २७९६

घु पु० घु--ध्वनौ बा० डु । १ ध्वनौ जटाधरः । अत्र ध्वनिः

वनकपोतस्य (घुघु) ख्यातस्य ध्वनिः । गैग० वाक्ये व्यकं
भविष्यति “दाधाघ्वदाप् पा० उक्ते दाधारूपे पारिभाषिके
२ धातुद्वये च । “यास्त्वेताः स्वेच्छया संज्ञाः क्रिथन्ते
ठिघुभादयः । कथं नु तासां साधुत्वं? नैव ताः
साधवोमताः” इत्याशङ्क्य “अनपभ्रंशरूपत्वं नाप्या-
सामपशब्दता । असाधूनां प्रयोगे वा प्रत्यवायोऽपि नो
तथा” इति हरिणा तस्यानपभ्रंशत्वेन साधुत्वमुक्तं
संज्ञाकरणफलं तु स्वशास्त्रे तया व्यवहारः यथा
“उपसर्गात् घोः किः” पा० । “दाक्षीपुत्रस्य तन्त्रे ध्रुव-
मयमभवत् कोऽप्यधीती कपोतः (घुघु) कण्ठे शब्दौ-
घसिद्धिक्षबहुकठिनीशेषभूषानुयातः । सर्व्वं विस्मृत्य
दैवात् स्मृतिमुषसि गतां घोषयन् यो घुसंज्ञां प्राक्
संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठजेन”
नैष० । “स्वर्घौ गुरू” मुग्ध० परिभाषिते ३ लघुवर्णे च ।

घुट आवर्त्तने (घाँटा) भ्वा० आत्म० सक० सेट् । घोटते

ऌदित् अघुटत् जुघुटे ।

घुट प्रतिघाते तु० कुटा० पर० सक० सेट् । घुटति अघुटीत् जुघोट ।

घुट पु० कु० घुट--अच् । चरणग्रन्थौ गुल्फे हेम० । ततः

स्वार्थे क, घुट--ण्वुल् वा । घुटक अत्रैवार्थे पु० ।

घुटि(टी) स्त्री कुटा० घुट--इन् वा ङीप् । गुल्फे द्विरूपको०!

घुटिक पु० घुट । अस्त्यर्थे ठन् । गुल्फे हेमच० । तत्रार्थे

स्त्री टाप् अमरः ।

घुड व्याघाते तु० कु० पर० सक० सेट् । घुडति अघुडीत् जुघोड ।

घुण भ्रमणे भ्वा० आ० अक० सेट् । घोणते अघोणिष्ट ।

जुघुणे ।

घुण भ्रमणे तु० प० अक० सेट् । घुणति अघोणीत् जुघोण ।

घुण ग्रहणे भ्वा० आ० इदित् सक० सेट् । घुणते अघोण्णिष्ट

जुघुणे ।

घुण पु० घुण--क । स्वनामख्याते काष्ठभक्षके कीटभेदे ।

“घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य”
सुनुतः । “भग्नं शम्भुधनुर्घुणैरुपहतम्” महाना० ।

घुणप्रिया स्त्री ६ त० । उदुम्बरपत्रवृक्षे शब्दार्थणि० ।

घुणवल्लभा स्त्री ६ त० । अतिविषायां भावप्र० ।

घुणाक्षर न० घुणकृतमक्षरम् । घुणाख्यकृमिणा काष्ठच्छेदन-

द्वारेण अयत्ननिष्पादित्ते १ वर्ण्णाफाररेखाभेदे । तत्
तुल्यतयाऽस्त्यस्य अच् । तत्तुल्ये अनुद्देशेनापि किञ्चि-
दभीष्टसिद्धिस्वरूपे २ व्यायभेदे पु० “सकृज्जयमरेर्गी-
रामन्यन्ते हि घुणाक्षरम्” राजत० । अवैद्यजीविनां
सिद्धिः स्यात् घुणाक्षरवत् क्वचित्” रत्नाव० ।

घुणि त्रि० घुण--इन् । भ्रान्ते “सं वा शरिष्यते घुणिर्वाभ-

विष्यति” शत० व्रा० ११ । ४ । २ । १४ ।

घुण्ट पु० घुट--क नि० मुम् । १ गुल्फे शब्दमाला । स्वार्थे क । तत्रैवार्थे । हेमच० ।

घुण्टिक न० घुण्टस्तदाकारोऽस्त्यस्य ठन् । गुल्फाकारतु-

ल्ये वनस्थे करीषे(काण्डा)शब्दच० ।

घुण्ड पुंस्त्री घुण--ड तस्य नेत्त्वम् । भ्रमरे उणादिको० ।

घुम् अ० घुण--बा० डुम् । अव्यक्तशब्दे चादावाकृतिगणलब्धः ।

घुर ध्वनौ भीमभवने च तु० पर० अक० सेट् । धुरति

अघोरीत् । जुघोर । “अघोरीच्च महाघोरम्” । “जुघुरे
चातिभैरवम्” भट्टिः । भावे तङ् । घोरम् ।

घुर त्रि० घुर--क । ध्वनिभेदकारके । प्रकारे तस्य द्वित्वम् ।

घुरघुर घुरप्रकारे घोणाशब्दे काद० उदा० ।

घु(रि)री स्त्री घुर--वा० कि वा ङीप् । शूकरतुण्डे “कः

कः कुत्र न घुर्घुरायितघुरीघोरोत्सुकः शूकरः” सा० द० ।

घुर्घुर स० घुरित्यव्यक्तं घुरति घुर--क । (घुरघुरिया)

१ यमकीटे त्रिका० । २ शूकरशब्दे च । घुर्घुर
इवाचरति क्यङ् । घुर्घुरायते । “कासश्वासकृतायामः
कण्ठे घुर्घुरायते” वैद्यकम् । “कः कः कुत्र न घुर्घु-
रायितघुरीघोरीत्सुकः शूकरः” सा० द० ।

घुर्घुरक पु० घुर्घुर इव कायति कै--क । सुश्रुतोक्ते दर्व्वी-

करविषोपद्रवभेदे । “दर्वीकरविषेण इत्युपक्रमे “स्वराव
सादी घुर्घुरको जडतेत्यदि” सुश्रु० ।

घुर्घुरिका स्त्री घुर्घुरोवराहध्वनिरस्त्यस्याः ठन् । तमकका-

सोपद्रवे रुग्भेदे (गला घड्धडे) “तृट्स्वेदवमथुप्रायः
कण्ठघुर्घुरिकात्वितः । विशेषाद्दुर्दिने ताम्येच्छ्वासः स्यात्
तमकोमतः” सुश्रु० ।

घुर्घुरी स्त्री घुर्घुरः शूकरशब्दोऽस्त्यस्य अच् गौरा० ङीष् ।

जलजन्तुभेदे मृत्किरायाम्” त्रिका० ।

घुलञ्च पु० घुर--क्विप् तमञ्चति अन्च--अण् उप० स०

रस्य लः । (गडगडे) गवेधुकाधान्ये रत्नमाला ।

घुल्घुलारव पुंस्त्री घुल्घुलित्यव्यक्तमारौति आ + रु--अच् ।

पारावतभेदे राजनि० ।

घुष कान्तौ कक० कृतौ स० भ्वा० आत्म० सेट् इदित् ।

घुंवते अघुषिष्ट जुघुंषे सान्तोऽयमित्यन्ये घृसृणम् ।

घुष बधे भ्वा० पर० सक० सेट् । घोषति इरित् अघुषत्

अघोषीत् । जुघोष । घोषः । घुषितः ।
पृष्ठ २७९७

घुष खतौ आविष्करणे च वा चु० उभ० पक्षे भ्वा० पर०

सक० सेट् । घोषधति ते घोषति सजूघुघत् त इरित्
अघुषत् अघोषीत् । जुघोषाम् बभूव आस चकार
चक्रे । जुघोष णिजभावे घुषितः--घुष्टः । घोषः
घोषणा । घोषणम् । “इति स द्रुपदो राजा स्वयंवरम-
घोषयत्” भा० आ० १८५ अ० । “सुहृदां प्रियमाख्यातुं
घोषयन्तु च ते जयम्” भा० वि० ३४ अ० । “जयमघोष-
यदस्य तु केवलम्” रघुः । आविष्करणञ्च सर्वजनश्रुति-
योग्यशब्दकरणम् । (ढेडरापेटा)
  • आ + सम्यक् घोषणे । “आघोषयन् भूमिपतिः समस्तम्”
भट्टिः । सततक्रन्दने इत्यन्ये ।
  • उद् + ऊर्द्ध्वमाविष्करणे । “उद्घुष्टजयशब्दविराविताशाः” वृ० स० १९ अ० ।

घु(ष्ट)षित त्रि० घुष--क्त वा इट् । शब्दिते इडभावे । घुष्ट

इत्यपि तच्च उच्चशब्देन प्रकटिताभिपाये २ वाक्यादौ न० ।

घुष्टान्न न० घुष्टं को भोक्तेत्युद्घुष्य देयमन्नम् । कोभोक्ते-

त्युद्घुष्य सत्रादौ दीयमानेऽन्ने तस्याभोज्यतामाह मनुः
“गवा चान्नमुपघ्रातं घुष्टान्नञ्च विशेषतः । गणान्नं
गणकान्नं च विदुषा च जुगुप्सितम्” ।

घुसृण न० घुषि(सि)--बा० ऋणक् पृषो० नलोपः घुषेः षस्य

सश्च । कुङ्कुमे त्रिका० । “घुसृणैर्यत्र जलाशयोदरे”
इति नैषधम् ।

घुसृणापिञ्जरतनु स्त्री घुसृणमिव घुसृणेन वा

आपिञ्जरा तनुरस्याः । गङ्गायां “घुसृणापिञ्जरतनुर्घर्घरी
घर्घरखना” काशी० २९ अ० गङ्गानामोक्तौ

घूक पुस्त्री० घू इत्यव्यक्त्वं कायति कै--क । उलूके पेचके ।

हेमच० । स्त्रियां जातित्वात् ङीष् ।

घूकनादिनी स्त्री घूक इव नदति नद--णिनि ङीप् ।

गङ्गायाम् “घर्घरा घूकनादिनी” काशी० २९ अ० ।
गङ्गानामोक्तौ ।

घूकारि पुंस्त्री० ६ त० । काके हेमच० । तस्य पेचकवैरित्वं

लोकसिद्धम् । स्त्रियां जातित्वात् वा ङीप् ।

घूकावाम पु० ६ ग० । शाखोटवृक्षे राजनि० । तस्य निवि-

डह्रस्वशाखायुतत्वेन कोटरतुल्यत्वात् दिवामीरोस्तस्या-
न्धकारावृतत्वेनावासस्यानत्वात्तथात्वम् ।

घूर हिंसायां सक० जीर्णतायाम् अक० दि० आत्म० सेट् ।

घूर्य्यते अघूरिष्ट । जुघूरे ईदित् । घूर्णः । ध्वनौ
च “जुघूरेचातिभेरवम्” भट्टौ दोर्घमध्यं पठित्वा
तस्य ध्यन्यर्थकतां भरत आह ।

घूर्ण्ण भ्रमणे अक० तु० उभ० सेट् । घूर्णति ते ।

अचूर्णीत् अघूर्णिष्ट । जुषूर्ण जुघूर्णे । “गुरुभारसमाक्रा-
न्तश्चचाल च जुवूर्ण्ण च” रामा० कि० । “केचिदा-
सिषते स्तब्धा भयात् केचिदवूर्णिषु” “अघूर्णिष्टां
क्षतौ क्ष्माञ्च तावशिश्रियतामुभौ” इति च भट्टिः ।
घूर्णितः घूर्णितवान् । “ततोरथो घूर्णितबान्
नरेन्द्र!” भा० क० ९० अ० । “कादम्बरीमदविघूर्णितलोचनस्य
युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भटः ।
“भो वृक्षाः पर्वतस्थाः बहुकुसुमयुता वायुना घूर्ण-
माना” महाना० । वायुनेति हतौ तृतीया सयकारपठे
ण्यन्ताव् कर्मणि शानच् कर्त्तरि तृतीयेति भेदः । णिचि
घूर्णयन्नि ते अजुघूर्णत् त । “नयनान्यरुणानि घूर्णयन्”
कुमा० । “घूर्णयन् मदिरास्वादमदपाटलितद्युती”
माघः । कर्म्मणि घूर्ण्यते अघूर्णि । घूर्ण्यमानः ।
“वायुना घूर्ण्यमानाः” महाना० पाठान्तरम् ।

घूर्ण्ण पु० घूर्णयति अच् । (गिमा) १ शाकभेदे ग्रीष्मसुन्दरके

शब्दच० । २ भ्रान्ते त्रि० । भावे घञ् । ३ भ्रमणे ।
घूर्ण--णिच्--अच् । ४ घूर्णकारके रोगभेदे

घूर्ण्णन न० घूर्ण--भावे ल्युट् । १ भ्रमणे चक्राकारावर्त्ते ।

हेमच० । युच् । घूर्णनाप्यत्र स्त्री “घूर्णनागात्रपतन-
भ्रमणादर्शनादिकृत्” सा० द० ।

घूर्ण्णायमान त्रि० घूर्णः भ्रान्त इवाचरति भृशा० च्व्यर्थे वा

क्यङ्कर्त्तरि शानच् । भ्राम्यमाणे । “इन्द्राद्यैरखिलार्थ-
साधनपरैः संस्तूयमानं मुहुः पीतोन्मत्तफलाऽतुलालसतया
घूर्णायमानेक्षणम्” इति कलापधातुव्याख्यासारः ।

घूर्ण्णि पु० घूर्ण--भावे इन् । भ्रमणे हेमच० ।

घूर्ण्णित त्रि० घूर्ण--णिच् कर्मणि क्त । १ भ्रमिते । कर्त्तरि

क्त । २ भ्रान्ते प्रचलायिते अमरः । धूर्णधातौ उदा० ।

घूर्ण्णिका स्त्री शुक्राचार्य्यकन्यादेवयानीमखीभेदे । “गते

तु नाहुषे तम्मिन् देवयान्यप्यनिन्दिता । उपाच शोक
सन्तप्ता घूर्णिकामागतां पुरः । देवयान्युवाच । त्वरितं
घूर्णिके! गच्छ शीघ्रमाचक्ष्व मे पितुः । नेदानीं सम्प्र-
वेक्ष्यामि नगरं वृषपर्वणः । वैशम्पायन उवाच । सा
तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिराम् । दृष्ट्वा काव्य
मुषाचेदं सम्भ्रमाविष्टचेतना” भा० का० ७८ अ० ।

घृ सेके भ्वा० पर० सक० अगिट् । घरति अघार्षीत् । जघार

घृ सेके छादने च चु० उभ० सक० मेट् । घारयति ते

अजीघरत त । घारयां बभूव आस चकार चक्रे । घारितः ।
आ + समन्तात्सेके आधारः । तच्छब्दे ६२५ दृश्यम् ।
“प्रणीत पृषदाज्याभिघारघोरा” वीरच० ।
पृष्ठ २७९८

घृ भासे अक० सेके सक० जु० पर० अनिट् । जिघर्त्ति

अघार्षीत् । अय वैदिकः । घर्मः (दीप्तः) ।

घृङ् अव्य० अव्यक्तशब्दे । “घृङ्ङिति पपात” इत्युपक्रमे

तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मः” शत० ब्रा० १४ । १ । १ । १० ।

घृण दीप्तौ तना० उभ० अक० सेट् । घर्णोति वृणोति घर्णुते

घृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा । उदित् ।
वर्णित्वा घृण्ट्वा । क्त्वो वेट्कत्बात् निष्ठा त्वनिट् ।
घृण्णः । वेदे गणव्यत्ययोऽपि “आ यो घृणे न ततृषाणो
अजरः” ऋ० ६ । १५ । ५ । “आघृणे आदीप्यते” भा० ।

घृण ग्रहणे भ्वा० आत्म० सक० सेट् इदित् । घृण्णते

अघृण्णिष्ट । जघृण्णे ।

घृण पु० घृण--दीप्तौ क । १ दिवसे निघ० । २ दीप्ते ३ उष्णे च ।

“अह्ना शं भानुना शं हिमा शं घृणेन ऋ० १० । ३७ ।
१० । “घृणेन उष्णेन” भा० । “घृणान्न भीषा अद्रिवः
ऋ० १ । १३३ । ६ । “घृणात् दीप्तात्” भा० ।

घृणा स्त्री घृ--सेके नक् । १ कारुण्ये--दयायां कारुण्येन हि

हृदयं सिक्तमिवार्द्रं भवतीति तस्य तथात्वम् । “मन्द-
मस्यन्निषुलतां घृणया मुनिरेष वः” किरा० । “इत्थङ्गते
गतघृणः किमयं विधत्ताम्” रघुः २ जुगुप्सायां निन्दा-
याञ्च अमरः “तां विलोक्य वनिताबधे घृणाम्” “प्राग-
जीयत घृणा ततो मही” इति च रघुः । “अधारि
पद्मेषु तदङ्व्रिणा घृष्णा” नैष० ।

घृणालु त्रि० घृणा + बा० आलुच् । कृपायुक्ते “निष्पादितश्च

कार्त्स्न्येन भगवद्भिर्वृणालुभिः” भाग० ४ । २२ । ४१ ।

घृणावत् त्रि० घृणा + अस्त्यर्थे मतुप् मस्य वः १ कृपायुक्ते स्त्रियां

ङीप् । सा च २ गङ्गायाम् घृणिनिधिशब्दे उदा० ।

घृणावास पु० ६ त० । १ कुष्माण्डे त्रिका० । २ कृपायुक्ते च

घृणि पु० घृ--नि नि० गुणाभावः । १ किरणे, २ ज्वालायाम्,

अमरः । ३ तरङ्गे, ४ सूर्य्ये ५ जले न० मेदि० ६ दोप्ते
त्रि० “तस्य त्यक्त स्वभावस्य घृणेर्मायावनौकसः” भाग०
७ । २ । ६ । घृणर्दीप्तस्य

घृणिनिधि पु० निघोयते अस्मिन् नि + धा आधारे कि

६ त० । १ सूर्य्ये २ गङ्गायाञ्च “घृणावती घृणिनिधिः”
काशीख० गङ्गानामोक्तौ ।

घृणीवत् त्रि० घृणिरस्त्यस्य मतुप् बा० वेदे न मस्य वः दीर्घः ।

दीप्तिमति “घृणीवाँ चेतति त्मना” ऋ० १० । १७६ । ३ ।
घृणीवान् दीप्तिमान्” भा० ।

घृत पुंन० घृ--सेके क्त । अर्द्धर्चादि दुग्धभवे “सर्पिर्विली-

नमाज्यं तु घनीभूतं घृतं भवेत्” उक्ते घनीभूते
१ आज्ये घृत गुणभेदादि भावप्र० उक्तं यथा
“वृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ । घृतं
रसायनं स्वादु चक्षुव्यं वह्निदीपनम् । शीतं वीर्य्ये विषालक्ष्मी
पापपित्तानिलापहम् । अल्पाभिष्यन्दि कान्त्योजस्तेजो
लावण्यबुद्धिकृत् । स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु ।
उदावर्त्तज्वरोन्मादशूलानाहव्रणान् हरेत् । स्निग्धं
कफकरं रक्षःक्षयवीसर्परक्तनुत् ।
गव्यस्य घृतस्य गुणाः गव्यं घृतं विशेषेणेत्यादि भावप्र०
वाक्यम् २५८२ पृ० उक्तम् घृतभेदगुणा भावप्र० उक्तायथा
  • माहिषस्य गुणाः । “माहिषन्तु घृतं स्वादु पित्तरक्तानिला-
पहम् । शीतलं श्लेष्मलं वृष्यं गुरु स्वादुविपच्यते” ।
  • छागस्य गुणाः “आजमाज्यङ्करोत्यग्निं चक्षुष्यं बलवर्द्ध-
नम् । कासे श्वासे क्षये चांपि हितं पाके भवेत्कटु” ।
  • अथ उष्ट्रीवृतम् “औष्ट्रं कटु घृतं पाके शोषक्रिमिविषा-
पहम् । दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्” ।
  • अथ आविकघृतम् “पाके लघ्वाविकं सर्षिः सर्वरोगविनाश-
नम् । वृद्धिं करोति चास्थीनामश्मरीशर्करापहम् ।
चक्षुष्यमग्निव्युषणं वातदोषनिवारणम्” ।
  • अथ नारीघृतम् । “कफेऽनिले योनिदोषे पित्ते रक्ते च
तद्धितम् । चक्षुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतोपमम्”।
  • अथाश्वघृतम् “वृद्धिं करीति देहाग्नेर्लघु पाके विषा-
पहम् । तर्पणं नेत्ररोगघ्नं दाहनुद्बडवाघृतम्” ।
  • दुग्धघृतस्य गुणाः “वृतं दुग्धभवं ग्राहि शीतलं नेत्र
रोगहृत् । निहन्ति षित्तदाहास्रमदमूर्च्छाभ्रमानिलान्” ।
  • अथ ह्यस्तनदधिजवृतगुणाः “हविर्ह्यस्तनदुग्धोत्थ तत्स्या-
द्धैयङ्गवीनकम हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्प-
रम् । बलकृद्वृंहणं वृष्यं विशेषाज्ज्वरनाशनम्” ।
  • पुराणघृतस्य गुणाः “वर्षादूर्द्ध्वं भवेदाज्य पुराणं
तत्त्रिदोषनुत् । मूर्च्छाकुष्ठविषोन्मादापस्मारतिमिरापहम् ।
यथा यथाऽखिलं सर्पिः पुराणमधिकं भवेत् । तथा तथा
गुणैः स्वैः स्वैरधिकं तदुदाहृतम्”
  • अथ नतनस्य घृतस्य विषयाः “योजयेन्नवमेवाज्यं भोजने
तर्पणे श्रमे । वलक्षये पाण्डुरोगे कामलानेत्ररोगयोः” ।
  • घतप्रयोगस्याविपयाः “राजयक्ष्मणि बाले च वृद्धे श्लेष्म-
कृते गदे । रोग सामे विसूच्याञ्च विबन्ध च मदायये ।
ज्वरे च दहने मन्दे न सर्पर्वहु मन्यते” ।
पृष्ठ २७९९
अस्य गव्यादिघृतभेदास्तद्गुणादिकं च सुश्रुतेनोक्तं यथा
“घृतन्तु सौम्यं शीतबीर्य्यं भृदु मधुरमल्पाभिस्यन्दि
स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशम-
नमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्य्यौ-
जस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु
चक्षुष्यं श्लेष्माभिवर्द्धनं पाप्मालक्ष्मीपशमनं विषहरं
रक्षोघ्नञ्च । विप्राके मधुरं शीतं वातपित्तविषापहम् ।
चक्षुष्यमग्र्यं बल्यञ्च गव्य सर्पिर्गुणोत्तरम् । आजं
घृतं दीपनीयं चक्षुष्य बलवर्द्धनम् । कासे श्वासे क्षये
चापि पथ्यं पाके च तल्लघु । मधुर रक्तपित्तघ्नं गुरु
पाके कफापहम् । वातपित्तप्रशमनं सुशीतं माहिषं
घृतम् । औष्ट्र कटुरसं पाके शोफक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् । पाके लघ्वा-
विकं सर्पिर्नच पित्तप्रकोपणे । कफेऽनिले योनिदोषे
शोषे कम्पे च तद्धितम् । पाके लघूष्णवीर्य्यञ्च
कषायं कफनाशनम् । दीपनं बद्धमूत्रञ्च विद्यादेकशफं
घृतम् । चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतो-
पमम् । वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ।
कषायं बद्धविण्मूत्रं तिक्तमग्निकरम् लघु । हन्ति
कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् । क्षीरघृतं पुनः
संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितञ्च ।
सर्पिर्मण्डस्तु मधुरः सरोयोनिश्रोत्राक्षिशिरसां
शूलघ्नो वस्तिनस्याक्षिपूरणेषूपदिश्यते । सर्पिः पुराणं
सरं कटुविपाकं त्रिदोषापहं मूर्च्छामेद उन्मादोदर-
ज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं
वस्तिनस्याक्षिपूरणेषूपदिश्यते । भवन्ति चात्र ।
पुराणं तिमिरश्वासपीन सज्वरकासनुत् । मूर्च्छाकुष्ठविषो-
न्मादग्रहापस्मारनाशनम् । एकादशशतञ्चैव वत्सरानुषितं
घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महाघृतम् ।
पेयं महाघृत भूतैः कफघ्नं पवनाधिकैः । बल्यं पवित्रं
मेध्यञ्च विशेषात्तिमिरापहम् । सर्वभूतहरञ्चैव घृतमेत-
त्प्रशस्यते” । “उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ।
लाक्षारसनिभं शीतं प्रपुराणमतः परम्” राजवल्लभः ।
तस्य गुरुतमत्वमाह वैद्यके “अन्नादष्टगुणं चूर्णं चूर्णा-
दष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं
घृतम्” पक्वघृतस्य वर्षोन्तेऽवीर्य्यतामाह “घृतमव्दात्
परं पक्वं हीनवीर्य्यत्वमाप्नुयात्” राजव० । “घृतं
कांस्ये दशाहिकम्” इत्युक्तघृतस्याभक्ष्यता । “तेजोवै
घृतमिति” श्रुत्या वाक्यशेषे घृतप्रशसनात् “अक्ताः
शर्करा उपदधाति” इत्यादौ घृतेनैवाञ्जनम् न तैलेनेति
मीमांसायां स्थितम् । घृतघटितौषधस्य षण्मासपर्य्यन्तं
बीर्य्यवत्त्वं वैद्यके उक्तम् । पक्ववृतादि नानाविधं
चक्रदत्तादौ उक्तं विस्तरभयान्नोक्तम् । “घृतं
घृतपावानः पिबत वसां वसापावानः” यजु० ६ । १९ । घृ--दोप्तौ
कर्त्तरि--क्त । २ दीप्ते ३ सेचके च त्रि० शब्दर० । अस्य
घृतादित्वात् अन्तोदात्तता । ४ जले न० शब्दार्थचि० ।

घृतकरञ्ज पु० घृतमिव घनीभूतनिर्यासकत्वात् करञ्जः ।

(घियाकरम्चा) करञ्जभेदे राजनि० ।

घृतकुमारी स्त्री घृतमिव कुमारी सुन्दरी । घृततुल्य

निर्यासे स्वनामख्याते गुल्मभेदे शब्दरत्ना० स्वार्थे क
ह्रस्वः । घृतकुमारिकाप्यत्र स्त्री भावप्र० कुमारीशब्दे
दृश्यम् ।

घृतकुल्या स्त्री घृतपूरिता कुल्या । घृतपूरितकृत्रिमसरिति

घृतकेश पु० घृतोदीप्तः केश इव ज्वाला अस्य । वह्नौ

“ऊर्जोनपातं घृतकेशमीमहे” ऋ० ८ । ६० । २ ।

घृतकौशिक पु० घृतोदीप्तः कौशिकः । १ गोत्रभेदे २ तद्गोत्रान्त-

र्गतप्रवरभेदे च “घृतकौशिकगीत्रस्य कुशिककौशिक-
घृतकौशिकाः प्रवराः” उ० त० रघु० । “स च
यजुर्वेदीयवंशान्तर्गतः “घृतकौशिकात् घृतकौशिकः” शत०
ब्रा० १४ । ५ । ५ । २१ । तथा तत्रैव १४ । ७ । ३ । २७ ।

घृतच्युता स्त्री घृतं च्युतं यस्याः । कुशद्वीपस्थे नदीभेदे ।

कुशशब्दे २१४५ पृ० दृश्यम् ।

घृतदीधिति पु० घृतेन घृता दीप्ता वा दीधितिरस्य । अग्नौ त्रिका० ।

घृतधारा स्त्री घृतं घृततुल्यं जलं धारयति धारि--अण्

उप० स० । पश्चिमदेशस्थे नदीभेदे । “शुभामतिरसा-
ञ्चैव घृतधारेति विश्रुताम् । वराहः सरितं पुण्यां
प्रतीच्यामकरोत् प्रभुः” हरिवं० २२५ श्र० । ६ त० । २
घृतस्याविच्छिन्नसन्ततौ च ।

घृतनिर्ण्णिज् त्रि० घृतं दीप्तं निर्णिक् रूपं यस्य । १ दीप्त-

रूपे । “दीदायानिध्मो घृतनिर्ण्णिगप्सु” ऋ० २ । ३५ । ४ ।
निर्णिगिति रूपनाम दीप्तरूपः” भा० । “जुष्टासो अद्य
घृतनिर्णिजोगुः” ऋ० ४ । ३५ । २ । “घृतनिर्णिजो मिश्र-
द्रव्येण दीप्तरूपाः” भा० । घृतं निर्णेनेक्ति निर् +
निजक्विप् ६ त० । तापनद्वाराविलापनेन २ घृतशोधके वह्नौ ।
“शोचिष्केशो घृतनिर्णिक् पावकः” ३ । १७ । १ । “घृत-
निर्णिकु घृतस्य तापनद्वारा विलापनेन शोधकः” भा० ।
पृष्ठ २८००

घृतप पु० व० व० वृतमाज्यं पिबन्ति + पा--क उप० स० ।

आज्यपाख्ये पितृगणभेदे । “घृतपाः सोमपाः यव्या
वैश्वानरमरीचिपाः” भा० शा० १६६ अ० । २ घृतपान
कर्त्तरि त्रि० ।

घृतपदी स्त्री घृतं पादे संस्थितं यस्या पाद्भावः स्वाङ्गत्वात्

डीषि पद्भावः । १ इडादेवताभेदे । शत० व्रा० इडा
ब्राह्मणे १ । ८ । १ । २६ । तन्निरुक्तिर्दर्शिता यथा “मानवी
घृतपदीति मनुर्ह्येतामग्रेऽजनयत तस्मादाह मानवीति
वृतपदीति यदेवास्यै घृतं पादे समतिष्ठत तस्मादाह
घृतपदीति” । तद्व्राह्मणोषोद्घाते “इडाया मानवी-
मिडादेवतां वक्तुं मानवी घृतपदीमैत्रावरुणीत्येतानि
च निगदपदानि व्याख्यायन्ते” भा० । घृताः दीप्ताः पादा
यस्याः प्राग्वत् पाद्भावादि । २ सरस्वत्यामिडादेव्याञ्च ।
“हविषीडा देवी घृतपदी जुषन्त” ऋ० १०७०८ ।
इडेतन्नामिका देवी सरस्वती घृतपदी दीप्तपदो-
पेता” भा० ।

घृतपर्ण्णक पु० घृतमिव स्वादु पर्णमस्य कप् । घृतकरञ्जे राजनि० ।

घृतपीत त्रि० घृतं पीतं येन आहिता० बा परनिपातः ।

घृतपानकर्त्तरि पक्षे पीतघृत इत्यपि तत्रार्थे त्रि० ।

घृतपूर पु० घृतेन पूर्य्यते पूरि--कर्म्मणि अच् । घक्वान्नभेदे

तस्य प्रचुरघृतेन पक्वत्वात्तव्यात्वत् तत्पाकप्रकारादि शब्दार्थ
चि० । “मर्द्दितां समितां क्षीरनालिकेरघृतादिभिः ।
अवगाल्य घृते पक्त्वा घृतपूरोऽयमुच्यते । घृतपूरो गुरुर्वृष्यः
कफकृद्रक्तमांसदः । रक्तपित्तहरोहृद्यः स्वादुः पित्तहरोऽ-
ग्निदः । अपि च “क्षीरेण मर्दितं चूर्णं गोधूमानां सुगा
लितम् । विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सिता
न्वितम् । घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः” ।
नारिकेलजस्तु “समिता मर्दिता क्षीरे नालिकेलसिता-
र्द्रकेः । अवगाल्य घृते पाच्यो घृतपूरोऽपरः स्मृतः” ।
दुग्धजोऽपि “पाकपिण्डीकृतंक्षीरं शर्कराचूर्णमिश्रि-
तम । घृतपूरविनिर्माणंकारयेत् स्वल्पसर्पिषि” ।
शालिभवोऽपि “सुशालीपिष्टं दुग्धन्तु क्वाथितं वस्त्रगा-
लितम् । खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम्” ।
कमेरुजोऽपि “कसेरुचूर्णे निःक्षिस्य पाकपिण्डीकृतं
पयः । निर्माणं घृतपूराणां शर्करासहितं भवेत्” ।
आम्ररसजः “पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः ।
शुद्धशर्करया योज्यो घृतपूरो यद्दृच्छया । क्षीरमाद्यं
स्वरूपं हि खण्डं चूर्णं ततः स्मृतम् । योजिते यो
विशेषोऽत्र तदाख्यावर्णसंज्ञितः । घृतपूरो गुरुर्वृष्यो
हृद्यः पित्तानिलापहः । सद्यः प्राणप्रदोवल्यः सुरु-
च्योऽग्निप्रदीपनः । शृङ्गाटकमुखानामप्येवं स्याद्
घृतपूरकः । विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेदिति” ।

घृतपूर्ण्णक पु० घृतं पूर्णमत्र कप् । करञ्जभेदवृक्षे त्रिका०

घृतपूर्णकरञ्जकोऽप्यत्र भावप्र० करञ्जशब्दे १६८८ पृ०
दृश्यम् ।

घृतपृष्ठ पु० घृतं दीप्तं पृष्ठमस्य । क्रौञ्चद्वीपपतौ प्रियव्रत

पुत्रे राजभेदे । क्रौञ्चशब्दे २३४१ पृ० विघृतिः ।

घृतप्रतीक पु० घृतं प्रतीकं मुखं यस्य । अग्नौ । तस्य

उत्तरवेद्यामाज्याघारेणोद्दीपनात् तथात्वम् “घृतप्रतीको
घृतयोनिः” यजु० ३५ । १७ ।

घृतप्रयस् पु० घृतं तत्सहितं प्रयोऽन्नं यस्य । वह्नौ “घृत-

प्रयाः सधमादे मधूनाम्” ऋ० ३ । ४२ । ३ । “घृतप्रयाः
घृतसहितानि प्रयांसि अन्नरूपाणि हवींषि यस्य” भा० ।

घृतप्रसत्त पु० प्र + सद--बा० त ३ त० । घृतेन प्रसन्ने वह्नौ ।

“घृत प्रसत्तो असुरः सुशेवः” ऋ० ५ । १५ । १ ।

घृतमण्ड पु० ६ त० । घृतसारे । गलितघृतस्याधःस्थे

सारांशभेदे (जमादानाघि) “ततः स घृतमण्डेन
हृद्येनेन्द्रियबोधिना” । “भुक्तवन्तं घृतमण्डेन यष्टी-
मधुकसिद्धेन तैलेन वानुवासयेत्” सुश्रु० । सर्पिर्मण्डो-
ऽप्यत्र घृतशब्दे तद्गुणाः सुश्रुतोक्ता दर्शिता ।
घृतमण्डोऽस्त्यस्याः अच् । ३ काकोल्यां स्त्री शब्दच० ।

घृतमण्डलिका स्त्री घृतमण्डं तदाकारनिर्यासं लाति

ला--क संज्ञायां कन् अत इत्त्वम् । हंसपदीवृक्षे राजनि०

घृतलेखनी स्त्री घृतं लिख्यतेऽनया लिख--करणे ल्युट्

ङीप् । दारुमये घृतलेखनपात्रीभेदे हेमच० ।

घृतवती स्त्री द्वि० व० । घृतमुदकं हेतुत्वेन कार्य्यत्वेन

वास्त्यस्याम् मतुप् मस्य वः ङीप् । द्यावापृथिव्योः
निघ० । “अद्भ्यः पृथिवी” इति श्रुतेर्भूमेर्जलहेतुक-
त्वात् तथात्वम् दिवश्च उदकहेतुत्वात् तथात्वम् । २ आज्य-
युक्ते ३ घृतपदयुक्ते च त्रि० स्त्रियां ङीप् । “तैलं प्रति-
निधिं कुर्य्यात् घृतार्थे याज्ञिको यदि । प्रकृत्यैव तदा
व्रूयात् होता घृतवतीमिति” ति० त० यज्ञपार्श्वः ।

घृतवर पु० घृतं वरमत्र । घृतपूरे पक्वान्नभेदे हेमच० ।

तस्य घृतप्रचुरत्वात्तथात्वम् ।
पृष्ठ २८०१

घृतस्थला स्त्री घृतमुदकं स्थलमुत्पत्तिस्थानं यस्याः घृतं

दीप्तं स्थलं नितम्बस्थलं यस्या वा । अप्सरोभेदे । अप्-
सरसां हिं जलोद्भवत्वं भाग० ८ । ७ । ६ । समुद्रमन्थने उक्तं
यथा “ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः”
तासां मध्ये अस्याः प्रशस्तनितम्बस्थलत्वात् तथात्वम् ।
“घृतस्थला घृताची च विश्वाची चोर्वशी तथा”
हरिवं० २२६ अ० ।

घृतस्पृश् त्रि० घृतं स्पृशति स्पृश--क्विन् । घृतस्पर्शिनि

क्विन्नन्तत्वात् स्वादौ कुः । घृतस्पृक् घृस्पृग्भ्यामित्यादि

घृताची स्त्री घृतमुदकं कारणतयाऽञ्चति अन्च--क्विप्

नलोपे स्त्रियां ङीप् पूर्बाणोदीर्घश्च । १ अप्सरोभेदे तस्या
अद्भ्योजातत्वात् तथात्वम् । घृतस्थलाशब्दे दृश्यम् ।
सा च पौरवरौद्राश्वनृपस्य परिग्रहेदश पुत्रान् कन्याश्च
दशं । सुषुवे यथा हरिवं० ३१ अ० ।
“रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनयः । ऋचेयुः
प्रथमस्तेषां कृकणेयुस्तथैवच । कक्षेयुः स्थण्डिलेयुश्च
सन्नतेयुस्तथैवच । दशार्णेयुर्जलेयुश्च स्थलेयुश्च
महावलः । वननित्योवनेयुश्च पुत्रिकाश्च दश स्त्रियः । रुद्रा
शूष्ट्रा च भद्रा च मलदा मलहा तथा । स्थलदा चैव
राजेन्द्र! नलदा सुरसाऽपि चा । तथा गोचपला च
स्त्री रत्नकूटा च ता दश” ।
२ रात्रौ निघ० तस्याः सोमरश्मिजादिशिशिरजलभूय-
स्त्वात् तथात्वम् । घृतमाज्यमञ्चति प्राप्तोति । ३
घृतप्राप्तरि त्रि० स्त्रियां ङीप् । “घृताच्यसि जुहूर्नाम्ना”
यजु० २ । ६ । ४ उदकयुक्ते त्रि० स्त्रियां ङीप् । ईं वहन्ति
सूर्य्यं घृताचीः” ऋ० ७ । ६० । ३ “घृताचीः उदकवत्यः”
भा० । घृतं दीप्तं रूपमञ्चति । ५ दीप्तरूपवति त्रि०
स्त्रियां ङीप् पूर्ववत् सर्वम् । “स विश्वाचीरमिचष्टे
घृताचीः” ऋ० १० । १३९ । २ । “घृताचोर्दीप्तरूपवतीः” भा० ।

घृताचीगर्भसम्भवा स्त्री घृताच्या गर्भ इव सम्भवति सम् +

भू--अच् । स्थूलैलायाम् राजनि० । घृताच्या गर्भे
सम्भवोऽस्य । २ ऋतेयुप्रभृतौ पौरवे नृपभेदे पु० ३
तत्र्कन्यायां स्त्री घृताचीशब्दे विवृतिः ।

घृतादि पु० घृतमादिर्यस्य “घृतादीनाञ्च” सान्तनवाचार्य्य-

सूत्रोक्ते अन्तोदात्ततानिमित्ते शब्दगणे स च आकृति-
मागणः” सि० कौ० ।

घृतान्न पु० घृतमाज्यमन्नमदनीयं यस्य । हविर्भुजि वह्नौ ।

“तपुर्मूर्द्धा घृतान्नः पावकः” ऋ० ७ । ३ । १ । २ वृतभोजि-
नि त्रि० घृतेम मिन्नितमन्नम् । २ घृतमिश्रिते अन्ने न० ।

घृतार्च्चिम् पु० घृतेनार्च्चिर्यस्य घृतं दीप्तमच्चिर्यस्य वा ।

वह्नौ । “घृतार्च्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया”
भा० आ० ४८ अ० ।

घृतावनि स्त्री घृतस्याविनिरिव । यूपकर्णे हेमच० ।

घृतावृध् त्रि० घृतमुदकं वर्द्धतेऽनया क्विप् दीर्घः ६ त० ।

उदकवर्द्धके “घृतेन द्यावापृथिवी अभिवृते घृतश्रिवा
घृतंपृचा घृताबृधा” ऋ० ६ । ७० । ४ । उदकवर्द्धिके द्यावा-
पृथिव्यावित्यर्थः औस्थाने आच् । ।

घृतासुति पु० घृतमुदकं वृष्टिरूपमासुवति आ + सु--क्तिच्

वृष्टिसंपादकयोर्मित्रावरुणयोः “ता (मित्रावरुणौ)
सम्राजा घृतासुती यज्ञे यज्ञ उपस्तुता” ऋ० १ । १३६ । ६ ।
औस्थाने आच् । घृतमासुतिरन्नं यस्य । घृतान्नयोः
इन्द्राविष्ण्वोः । (इन्द्राविष्णू) “घृतामुती द्रविणं दत्तमस्मे”
ऋ० ६ । ६९ । ६ । अस्मे अस्मभ्यम् ।

घृताहवन पु० घृतेनाहूयतेऽस्मिन् आ + हु--आधारे ल्युट्

जुहोतेरविवक्षितकर्म्मकत्वे नाकर्म्मकत्वात् घृतस्य
करणत्वमेव “तृतीया च होश्छन्दसि” पा० कर्म्मणि न
तृतीया किन्तु “कर्त्तृकरणयोस्तृतीया” पा० करणे
तृतीया ३ त० । घृतेनाहवनाधिकरणे वह्नौ ।
“घृताहवन! दीदिवः प्रति ष्म रिषतो दहः । अग्ने! त्वं
रक्षस्विनः” ऋ० १ । १२५ । घृतावहन! । अग्ने!” भा० ।

घृताहुति स्त्री घृतेनाहुतिः “तृतीया च होश्छन्दसि”

पा० कर्मणि तृतीया जुहोतेरविविक्षितकर्म्मकत्वेना-
कर्मकत्वात् करणे तृतीया बा ३ त० । वृतेनाहुतौ ।
“यद्यजूंषि घृताहुतिभिः । यत्सामानि मध्वाहु-
तिभिः” आश्व० गृ० ३ । ३ । २ ।

घृताह्व पु० घृतं तद्गन्धमाह्वयते स्पर्द्धते निर्यासेन आ +

ह्वे--क उप० स० । घृततुल्यगन्धनिर्यासके सरलद्रुमे
त्रिका० ।

घृतिन् त्रि० घृतमाज्यमुदकं वा प्राशस्त्येनास्त्यस्य इनि ।

१ प्रशस्ताज्यके २ प्रशस्तजलके च स्त्रियां ङीप् ।
“पयस्विनीं घृतिनीमत्युदाराम्” (गङ्गाम्) भा० आनु० २६ अ० ।

घृतेयु पु० पौरवे रौद्राश्वनृपपुत्रभेदे कृतेयुशब्दे दृश्यम् तत्र

जलेयुरित्यत्र घृतेयुरिति विष्णु पु० पाठः

घृतेली स्त्री घृते स्नेहद्रव्ये इलति शेते इल--शये अच्

गौरा० ङीष् । तैलपायिकायां (तेलापोका) हेमच० ।

घृतोद पु० घृतमिव स्वादु उदकमस्य उदकस्योदः ।

कुशद्वीपावरके समुद्रभेदे घृतोदध्यादयोऽप्यत्र कुशशब्दे
२१४३ पृ० दृश्यम् ।
पृष्ठ २८०२

घृतौदन पु० घृतेन मिश्रः ओदनः । “भक्ष्येण मिश्रणे”

पा० ३ त० । आज्यमिश्रिते ओदने । “दध्योदनं च जीवाय
शुक्राय च घृतौदनम्” ग्रहवलिकथने सं० त० ।

घृत्समद पु० गृत्समद + पृषो० । ऋषिभेदे विष्णु पु० तथापाठः ।

घृष संघर्षे स्पर्द्धायाञ्च सक० पर० सेट् । घर्षोमर्द्दनम् (घषा)

व्यापारभेदः संमर्द्दो वा घर्षति अघर्षीत् जघर्ष । घर्षणं
घर्षः । उदित् थर्षित्वा घृष्ट्वा । क्त्वो वेट्कत्वात्
निष्ठा त्वनिट् घृष्टः । घर्षित इति प्रयोगस्तु तारका०
इतजन्तः । “धातुजं सृजते रेणुं वायुवेगेन घर्षितम्”
(शैलराजः) रामा० ३ । ७९ अ० ।

घृष्ट त्रि० घृष--कर्मणि क्त । मर्दिते १ कृतघर्षणे “घृष्ट-

रसाञ्जैनं नार्याः क्षीरेण” सुश्रु० । “द्रोपद्या ननु मत्स्य
राजभवने घृष्टं न किं चन्दनम्” पञ्चतन्त्रम् । २ गन्धभेदे
“घृष्टोम लयजोगन्धः सरलश्च नमेरुणा । अगुरुप्रभृति-
श्चापि यस्य पङ्कः प्रदीयते । घृष्टः संघृष्टगन्धोऽयं
द्घितीयः परिकीर्त्तित” इति शब्दार्थचि०
धृतवाक्यम् ।

घृष्टि पुंस्त्री घृष--कर्त्तरि क्तिच् । १ शूकरे मेदि० स्त्रियां वा

ङीप् । (चामरआलु) २ वाराह्याम् अमरः । ३ अपरा-
जितायाम् स्त्री मेदि० । भावे क्तिन् घर्षणे (घसा)
४ व्यापारभेदे ५ स्पर्द्धायाञ्च स्त्री मेदि० । क्तिन्नन्तत्वात्
न ङीप्

घृष्टिला स्त्री घृष्टिं लाति ला--क । पृश्निपर्ण्याम् । (चाकुलिया) । रत्नमा० ।

घृष्वि पुंस्त्री घर्षति भूमिं तुण्डेन घृष--क्विन् कृविघृष्वि

छवीत्यादि उ० नि० न वलोपः । १ वराहे २ घर्षणशीले त्रि० ।
“मदन्ति वीरा विदथेषु थृष्वयः” ऋ० १ । ८५ । १ । “प्र वः
शर्द्धाय थृष्वये” १ । ३७ । ४ । “घृष्वये शत्रु घर्षणयुक्ताय” भा० ।
“क्रीडन्ति क्रीडा विदथेषु घृष्वयः” १ । १६६ । २ । एवं सर्वत्र
घृष्विशब्दस्य इदन्तत्वेन प्रयोगदर्शनात् क्विन्प्रत्ययान्तत्वेव
निष्पन्नत्वात् कृष्विर्वराह इति सि० कौ० उक्तेश्च शब्दक०
थृष्वत्शब्दस्य नान्तत्वकल्पनं प्रामादिकमेव । स्त्रियां
वा ङीप् ।

घेल्कुलिका स्त्री (घँचु) ख्याते क्रौञ्चादने वृक्षे रत्नमाला ।

घोङ्क पुंस्त्री पक्षिभेदे शब्द च० स्त्रियां ङीष् ।

घोट(क) पु० घुट--अच् ण्वुल् वा । अश्वे । तस्य भुति-

वेष्टनाकारेण चेष्टनात्तथात्वम् । स्त्रियां जातित्वात् ङीष् ।
“घोटी ह्येपा बिकृतविरुतं तु हेतुहीनं हसन्ती”
सा० द० । तल्लक्षणादि अश्वशब्दे ४९८ पृ० दृश्यम्” भा० ।

घोटकमुख पु० घोटकस्य मुखमिव मुखमस्य १ किन्नरभेदे

२ प्रवरर्षिभेदे च हेमा० व्र० प्रवराध्याये दृश्यम् ।

घोटकारि पु० ६ त० । महिषे शब्दार्थ चि० । तस्य यथाऽ

श्ववैरं तथा उपयमशब्दे १२५० पृ० उक्तम् स्त्रियां वा
ङीप् । २ हयारिवृक्ष करवीरे च । हयारिशब्दे दृश्यम् ।

घोटिका स्त्री घुट्--ण्वुल् टापि अत इत्त्वम् । कर्कट्याम्

राजनि० ।

घोणा स्त्री घुण--अच् । १ अश्चनासिकायां, २ नासामात्रे

च अमरः । “जवनिरोधस्फीतरोषघुरघुरायमाणघो र
घोणेन” काद० । “गौरः प्रलम्बोज्ज्वलचारुघोणः” भा०
आ० १८९ अ० । अस्य क्रोड़ादित्वात् स्वाङ्गत्वेऽपि
न ङीष् दीर्घघोणा स्त्री ।

घोणिन् पुंस्त्री दीर्घा घोणाऽस्त्यस्य व्रीह्या० इनि ।

शूकरे अमरः स्त्रियां ङीप् ।

घोण्टा स्त्री घुण--बा ट तस्य नेत्त्वम् । वदरीभेदे (सेओ-

लाकुल) २ पूगवृक्ष च मेदि० ।

घोण(न)स पु० गोनस + पृषो० । तिलत्से गोनसे सर्पभेदे हेमच० ।

घोर न० घुर--अच् । १ विषे राजनि० २ भयानके त्रि० हेम० ।

घोणाशब्दे उदा० । “शिवाथोरस्वनां पश्चात्” रघुः ।
“घोरेऽस्मिन् भूतसंसारे” मनुः । “घोररावां महारौद्रीम्”
कालीध्यानम् । ३ शिवे पु० “घोराय घोररूपाय
घोरघोरतराय च” भा० शा० २८६ अ० शिवस्तोत्रे । “नमोवः
पितरोघोराः” यजु० २ ३२ ।

घोरक पु० ब० । देशभेदे । “काश्मीरश्च कुमारश्च घोरका

हंसकायनाः” भा० स० ५१ अ० ।

घोरघुष्य न० घोरं घुष्यते घुष--क्यप् । कांस्ये राजनि० ।

घोरं घृष्टं यस्य घोरघुष्टमित्यपि तत्र पाठः । तत्रार्थे
राजनि० ।

घोरघोरतर पु० घोर + प्रकारे द्वित्वम् ततः तरप् । १ शिवे

घोरशब्दे दृश्यम् २ अत्यन्तघोरे त्रि० ।

घोरदर्शन पुंस्त्री घोरं दृश्यतेऽसौ दृश--कर्म्मणि ल्युट् ।

१ उलूके राजनि० स्त्वियां जातित्वात् ङीष् । २ भयानके
त्रि० । “वीक्षाञ्चक्रे महावाहुस्तद्वनं घोरदर्शनम्” भा०
सो० १ अ० ।

घोररामन पुंस्त्री घोरं रासनं शब्दोऽस्य । १ शृगाले शब्दर० ।

स्त्रियां जातित्वात् ङीष् । २ घोरशब्दयुक्ते त्रि० ।

घोररामिन् पुंस्त्री० घोरं रसति रस--णिनि । १ शृगाले

हेमच० । स्त्रियां ङीप् । २ घोरशब्दकारिणि त्रि०
पृष्ठ २८०३

घोररूप पु० घोरमुग्रं रूपमस्य १ महादेवे । घोरशब्दे दृश्यम् ।

२ उग्ररूप त्रि० ।

घोरवाशन पुंस्त्री० घोरं वाशते वाश--ल्यु । १ शृगाले

शब्दर० स्त्रियां जातित्वात् ङीष् । २ भयानकशब्द-
कारिणि तिर्य्यग्जात्रिमात्रे त्रि० ।

घोरवाशिन् पुंस्त्री० घोरं वाशते वाश--णिनि । १ शृगाले

हेमच० २ भयानकशब्दकारिणि पक्षि मृगादौ च
स्त्रियां ङीप् ।

घोरा स्त्री घुर--अच् । १ देवताडीलतायां, राजनि० भयान-

काया स्त्रियां त्रिका० । “२ करालवदनां घोराम्”
कालीध्यानम् । ३ रात्रौ, ४ सांख्वोक्तायां राजस्यां
मनोवृत्तौ शब्दार्थचि० ज्योतिषोक्ते “रवावुग्रभे संक्रमे भास्क-
रस्य भवेद्घोरनाम्नीत्युक्ते” २ । १० । ११ । २० । २५ । संख्य-
कनक्षत्रे ५ रविसंक्रान्तिभेदे च । संक्रमशब्दे विवृतिः

घोल पुंन० घड--कर्म्मणि घञ् डस्य लः । १ तक्रे मथित-

दघ्नि । तत्तु सस्नेहमजलं मथितं घोलमुच्यते” सुश्रु० ।
“सशरं निर्जलं घोलं वातपित्तहरं स्मृतम् । मस्तुना
राहतं गाल्यं दधि शुभ्रतरे पटे । जीरसैन्धवसंमिश्रं
थोलं घनतरं स्मृतम् । जीरसैन्धवसंयुक्तं घोलं
वातप्रणाशनम् । अतीसारे च मन्देऽग्नौ हितं रुच्यं
बलप्रदम्” शब्दार्थचि० वैद्यकम् । “हिङ्गुजीरयुतं घोलं
सैन्धवेन च संयुतम् । भवेदतीव वातघ्नमर्शोऽतीसारहृत्
परम् । रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम् ।
मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम् । भावप्र०
द्रव्यभेदयुतस्य तस्य गुणादिकमुक्तम् ।

घोलज न० घोलात् जायते जन--ड । घोलजाते घृतादौ ।

घोलवटक पु० घोलमिश्रितो वटकः । वटकभेदे “विष्टम्भी-

घोलवटको विदाही पवनापहः” मदनपालनि० ।

घोलि(ली) घुड--इन् डस्य वा ङीप् । पत्रशाकभद राजनि०

घोष पु० घुष--आधारे थञ् । १ आभीरपल्ल्यां तस्यां गोभि-

र्नादात् तथात्वम् कर्त्तरि अच । २ गोपाले ३ कांस्ये न०
मेदि० ४ मशके त्रिका० । भाव घञ् । ५ ध्वनौ ६
मेथशब्दे “खयां वमः खयः + कूपौ विसर्गः शरएव
च । एते श्वासानुप्रदाना अघोपाश्चं विवृण्वते । कण्ठ-
मन्थे तु घोषाः स्युः” शिक्षोक्ते ७ वर्णोच्चारणबाह्यप्र-
यत्रमेदै । ८ थोषलतायाम् स्त्री शबदार्थचि० “न च
वृन्दावने कार्य्यो गवां घोषः कदाचन” हरिवं० ३३८१ श्लो०
शब्दे “द्युमन्तं घोषं विजयाय कृण्महे” ऋ० १० । ८४ । ४ ।
“तत्र भुक्त्वा पुनःकिञ्चित् तुर्य्यघीषैः प्रहर्षितः”
मनुः । गोपे “हैयङ्गवोनमादाय घोषवृद्धानुपस्थितान्”
रघुः । धूमा० वुञ् । घौषक आभीरपल्लीभवे त्रि० ।

घोषक पु० घोष + स्वार्थे क । धामार्पगवे घोषातकीलतायाम्

अमरः ।

घोषकाकृति पु० घोषकस्य लताभेदस्याकृतिरिवाकृतिरस्य । श्वेतघोषातकीलताभेदे रत्नमा० ।

घोषण न० थुष--भावे ल्युट् । १ ध्वसौ णिच्--भावे ल्युट् ।

उच्चैःशब्देन ज्ञापते २ व्यापारभेदे (डेड़रा पेटा) ।
“वीर्य्यविक्रमशौर्य्याणां घोषणं सहितं भवेत्” रामा०
सुन्द० ५८ अ० । युच् । घोषणाऽप्यत्र स्त्री । “राजा
सर्व्वत्र पटहशब्देन घोषणामाज्ञापयामास” पञ्चत० ।
“दिग्विजृम्मित्काकुत्स्थपौलस्त्यजयघोषणः” रघुः ।

घोषयित्नु पुंस्त्री० घुष--णिच् बा० इत्नच । १ ब्राह्मणे

२ कोकिले । ३ वन्दिनि त्रि० शब्दरत्ना० ।

घोषवत् त्रि० घोषः ध्वनिः वर्णभेदोच्चारणे बाह्यपयत्नोवाऽ-

स्त्यस्य मतुप्मस्य वः । १ घोषरूपबाह्यप्रयत्नयुक्ते गकारादि-
वर्ण्णभेदे । “सर्व्वे स्वरोबलवन्तो घोषवन्तः कर्त्तव्याः” छा०
उ० “थोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरं चतुरक्षरं
वा” आश्व० गृ० १ । १५ । ५ । ६ । “वर्गप्रथमद्वितीयवर्णा ऊष्माणश्च
हकारवर्जमथोषवन्तः शिष्टाः थोषवन्तः । तदादौ यस्य
तत्तथोक्तं अन्तर्मध्येऽन्तःस्थायरलवायस्य तत् तथोक्तम् ।
अअभिनिष्ठानो विसर्गः अन्ते यस्य तत् अक्षर स्वरः ।
अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनम अपरिमित
व्यञ्जनः । चतुरक्षरं वा । तत्र द्व्यक्षरे भद्रः देवः भवः ।
चतुरक्षरे भवनाथः नागदेवः रुद्रदत्तः नारा० “आदौ
घोषवदक्षरं यरलवान् मध्ये पुनःस्थापयेदन्ते दीर्घविसर्जनीय
रहितं नाम प्रयत्रात् कृतम्” गर्गः । शाखिभेदात्
ऽविसर्गान्तता व्यवस्थाप्या । २ ध्वनियुक्ते च । “त्वं वज्र
मतुलं घोषं घोषवांस्त्वं वलाहकः” मा० आ० २५ अ० ।
स्त्रियां ङीप् । सा च ३ वीणायां हेमच० ।

घोषा स्त्री घुव्यते भ्रमरैरियं कर्म्मणि घञ् । १ शतपुष्पायां,

मधुरिकायां, (मौरि) मेदि० ३ कर्कटशृङ्यां, राजनि० ।
४ कोशातक्याञ्च शब्दार्थचि० ।

घोषातकी स्त्री कोषातकी + पृषो० । कोषातकीलतायां श्वेतघोषालतायां रत्नमा० ।

घोषादि पु० “घोषादिषु च” पा० परस्थितेषु पूव्वपदस्या-

द्युदात्ततानामत्त षु शब्दर्भेदेषु स च भणः चाफट
वल्लभ ह्रद वदरी पिङल पिशङ्ग माला रक्षा शाला
कूटशाल्मका अश्वत्थ तृण शिल्पी मुनि प्रेक्षा ।”
पृष्ठ २८०४

घौर पु० घोरस्यर्षेरपत्यम् ऋष्यण् । कण्वगोत्रप्रवरे

ऋषिभेदे । “कण्वान माङ्गिरसाजमोढ़ एवेति घोरमु चैके
व्रुवतेऽवकृव्याजमीढमाङ्गिरसघौरकाण्वेति” आ० श्रौ०
१२ १३ । १

घ्रंस पु० ग्रन्यन्ते रसा अस्मित् ग्रस--आधारे घञ पृषो० ।

१ दिवसे निघ० । “यो अस्मै घ्र स उत वा य ऊधनि”
ऋ० ५ । ३४ । ३ । इमामृचमधिकृत्य निरु० ६ । १० । उक्तं
यथा घ्रंस इत्यहर्नान ग्रस्यन्तेऽस्मिन् रसाः” इति ।
अहस्तुल्ये २ दीप्ते त्रि० “परि घ्रंसमोमना वां वयो गात्”
ऋ० ७ । ६९ । ४ । घ्रसं दीप्तम्” भा० । इमामृचमधिकृत्य
निरुक्ते तु घ्रंसमहरिति व्याख्यातम् । पृषो० अन्त्य,
लोपे घ्रंस् अप्यत्र । “न घ्रंस्तताप न हिमो जघान”
अथ० ७ । १८ । २ ।

घ्रण्ण वृण्णवत् धातुरिति केचित् ।

घ्रा गन्धग्रहणे अक० घ्राणजप्रत्यक्षे सक० भ्वा० प० अनिट् ।

जिघ्रति अघ्रात् अघ्रासोत् अघ्राताम् अघ्रासिष्टाम् ।
जघ्रो जघ्रिथ जघ्राथ । घ्राता घ्रेयात् घ्रायात् ।
कर्म्मणि भावे वा घ्रायते अघ्रायि “अघ्रायि वान्
गन्धवहः सुगन्धः” भट्टिः । “षाड्वर्गिकं जिघ्रति
षड्गुणेशः” भाग० १ । ३ । ६ । नासिकया गन्धज्ञागमिह
(सोङा) ग्रहणम् । उपवर्गपूर्व्वकस्तत्तदुपसर्गद्योत्यार्थ-
युक्ते ग्रहण । घ्रेयः घ्रात--घ्राणम् घ्राति

घ्राण न० घ्रा--करणे ल्युट् । १ नासो । तस्य मतप्रेदेव

भौतिकादिता इन्द्रियशब्दे ९५४० पृ० दशिता । “इन्द्रियं
घ्राणलक्षशम्” भाषा० तस्य पार्थिवत्वे प्रमाणं सि०
मु० दर्शितं यथा
“घ्रारेन्द्रियं पार्यिवं रूपादिषु मध्ये गन्धस्यैव व्यञ्जक-
त्वात् कुङ्गुमगन्धादिव्यञ्जतघतवत् न च दृटान्ते
स्वकीयरूपादिव्यञ्चकत्वादसिद्धिरिति वाच्यं परकीयं-
रूपाद्यव्यञ्चकावस्थ तदर्थत्वात् न च नवशरावगन्ध-
व्यञ्जकजलेन नैकान्तमिवि वाच्यं तस्य सक्तुरसाभिव्य
ञ्जकत्वात् यद्वां परकीयेति न देयं, वायूपनीतसुरभि-
भागस्य वृष्टान्तत्वसर्म्मषात् म च घ्राणेन्द्रियसन्निकर्षस्य
गन्धमात्रव्यञ्जंकत्वात् तत्र व्यमिचार इति वाच्यं द्रव्यत्वे
सति इति विशेषणात्” । कर्म्मणि क्त वा तस्य नः ।
२ कृतघ्राणे त्रि० घ्रातोऽप्यत्र । भावे ल्युट् । (सोङ् ।)
३ व्यापारे न० घ्राणेन शूकरो हत्वि पवतेन कुक्कुटः”
मनुः । तस्याधष्ठातारावव्यिनौ

घाणज न० घ्राणे जायते करणस्याधारत्वविवक्षया “सप्तम्या

जनेर्डः” पा० जन--ड ७ त० । नासिकेन्द्रियजाते
प्रत्यक्षभेदे “घ्राणजादिप्रभेदेन प्रत्यक्ष षड्विधं मतम्”
भाषा० तच्च प्रत्यक्षं गन्घादेर्यथाह तत्रैव “घ्राणस्य
गोचरो गन्धो गन्धत्वादिरपि स्मृतः” । “घ्राण-
ग्राह्योभवेद्गन्धो घ्राणस्यैवोपकारकः” इति च

घ्राणतर्पण पु० घ्राणमिन्द्रियं तर्पयति । सुगन्धे अमरः ।

घ्राणदुःखदा स्त्री घ्राणस्य दुःखं ददाति दा--क ।

छिक्कन्यां (हाँचि) भावप्र० ।

घ्राणश्रवस् पु० घ्राणमिव श्रवः कर्णोऽस्य । कार्त्तिकेय

सैन्यभेदे । “घ्राणश्रवाः प्रतिस्कन्घः काञ्चनाक्षोजल-
न्धरः” भा० आनु० ४६ अ० कुमारसैनिकोक्तौ

घ्राति स्त्री घ्रायते अनया घ्रा--करणे क्तिन् । १ नासिकायां

शब्दच० । भावे क्तिन् । २ घ्राणे (सोङा) व्यारारे स्त्री
“ब्राह्मणस्य रुजः कृत्या थातिरघ्रेयमद्ययोः मनुः ।
इति वाचस्पत्ये घकारादिशब्दार्थनिरूपणम् ।

ङकारः व्यञ्जनवर्णभेदः कवर्गपञ्चमः तस्योच्चारणस्थान”

कण्ठमूलं नासिका च “जिहामूले तु कुःप्रोक्तः” इति
“अमोऽनुनासिका नर्हौ” इति च शिक्षोक्तेः तदुच्चारणे
आभ्यन्तरप्रयत्नः कण्ठमूले जिह्रामूलस्पर्शः । बाह्यप्रयत्ना-
सवारनादघोषाल्पप्राणाः । मावृकान्यासेऽस्य दक्षकरा-
ङ्गुलग्रेषु न्यस्यता । तस्य तन्त्रे वाचकशव्दा वर्णोद्धा-
रतन्त्रे उक्ता यथा “ङः शङ्खो भैरवश्चण्डो विन्दूत्तं-
सः शिशुः प्रियः । एकोरुद्रोदक्षनखः खर्परोविषयस्पृहः ।
कान्तिः खेटाप्लयोधीरोद्विजात्मा ज्वालिनी वियत् ।
मन्त्रगक्तिश्च मदनो विघ्नेशो चात्मनायकः । एकने-
त्रो माहानन्दो दुर्द्धरश्चन्द्रमां मतिः । शिवश्चलो
नीलकण्ठः कामेशी चमसांशुकौ” । कामधेनुतन्त्रे तस्य ध्येय
रूपमुक्तं यथा । “ङकारं परमेशानि । खयं
परमकुण्डलीम् । सर्वदेवमयं वर्णं त्रिगुणं लोललोचने! ।
पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम्”
“नकारजावनुस्वारपञ्चमौ झिलिधानुषु” कामधेनौ झलन्त
सर्वधानुषु वर्गपञ्चमवर्णस्य नकारजत्वोक्तेः ङकारस्य
तत्र नकारजत्वम् तेन अङ्क--क्विपि अन् इत्यादि-
रूपम तस्य काव्यादौ प्रथमनिर्देशफलं यथा “कः खः
गोघश्च लक्ष्मीं वितरति वियशो ङस्तथा चः सुखं छः”
वृ० र० टी० इत्युक्तेरपयशः ।

पु० ङु--बा० ड । १ विषये २ विषयस्पृहायां मेदि० ३ भैरवे एकाक्षरकोषः ।

ङु ध्वनौ भ्वा० आत्म० अक० अतिट् । ङवते अङविष्ट ।

ञुङुबे । सनि ञुङूषते ।
इति वाचस्पत्ये ङकारादिशब्दार्थनिरूपणम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/घ&oldid=85295" इत्यस्माद् प्रतिप्राप्तम्