वराहपुराणम्/अध्यायः १४४

विकिस्रोतः तः
← अध्यायः १४३ वराहपुराणम्
अध्यायः १४४
[[लेखकः :|]]
अध्यायः १४५ →

अथ सोमेश्वरादिलिङ्गमुक्तिक्षेत्रत्रिवेण्यादिमाहात्म्यम्
।। सूत उवाच ।।
श्रुत्वा मन्दारमाहात्म्यं धर्मकामा वसुन्धरा ।।
विस्मयं परमं गत्वा पुनः पप्रच्छ माधवम् ।। १।।
धरण्युवाच ।।
मया देवप्रसादेन श्रुतं मन्दारवर्णनम् ।।
मन्दारात्परमं स्थानं विष्णो तद्वक्तुमर्हसि ।। २ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि ।।
कथयिष्यामि मे गुह्यं शालग्राममिति स्मृतम् ।। ३ ।।
द्वापरे तु युगे भूमे यदूनां कुलसंकुले ।।
तत्र शूर इति ख्यातो यदूनां वंशवर्द्धनः ।।४।।
तस्य पुत्रो महाभागो सर्वकर्मपरायणः ।।
वसुदेवो गृहे जातो यादवानां कुलोद्वहः ।। ५ ।।
तस्य भार्या च वसुधे सर्वावयवसुन्दरी ।।
देवकी नाम नामा च मनोज्ञा शुभदर्शना ।। ६ ।।
तस्या गर्भे महाभागे भविष्यामि न संशयः ।।
वासुदेव इति ख्यातो देवानामरिमर्दनः ।। ७ ।।
ततोऽपि संस्थिते तत्र यादवानां कुलोद्वहे ।।
तत्र ब्रह्मर्षिपरमः साल ङ्कायन एव च ।। ८ ।।
ममैवाराधनार्थाय भ्रमते स दिशो दश ।।
पुत्रार्थं स तपस्तेपे मेरुशृङ्गे समाहितः ।। ९ ।।
ततः पिण्डारके गता मम क्षेत्रे वसुन्धरे ।।
लोहार्गले ततो गत्वा सहस्रं चैव तिष्ठति ।। १४४.१० ।।
ईश्वरेण समं पूर्वं सर्वयोगेश्वरं स्थितम् ।।
न च पश्यति मां देवि मार्गमाण इतस्ततः ।। ११ ।।
ईश्वरेण समं पूर्वमहमासं वसुन्धरे ।।
तस्यैव तप्यमानस्य सालंकायनकस्य ह ।। १२ ।।
तस्मिन्क्षेत्रे हरो देवो मत्स्व रूपेण संयुतः ।।
शालग्रामे गिरौ तस्मिञ्छिलारूपेण तिष्ठति ।। १३ ।।
अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यशः ।।
तस्मिञ्छिलाः समग्रास्तु मत्स्वरूपा न संशयः ।। १४ ।।
पूजनीयाः प्रयत्नेन किंपुनश्चक्रलाञ्छिताः ।।
लिङ्गरूपेण च हरस्तत्र देवालये गिरौ ।। १५ ।।
शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः ।।
सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः ।। १६ ।।
सोमेन तत्र संस्थाप्य स्वनाम्ना लिंगमुत्तमम् ।।
वर्षाणां तु सहस्रं वै स्वशापस्य निवृत्तये ।। १७ ।।
ततः शापाद्विनिर्मुक्तः तेजसा च परिप्लुतः ।।
स्वकं तेजोबलं प्राप्य तुष्टाव गिरिजा पतिम् ।। १८ ।।
सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम् ।। १९ ।।
सोम उवाच ।।
शिवं सौम्यमुमाकान्तं भक्तानुग्रहकातरम् ।।
नतोऽस्मि पंचवदनं नीलकण्ठं त्रिलोचनम् ।। १४४.२० ।।
शशांकशेखरं दिव्यं सर्वदेवनमस्कृतम् ।।
पिनाकपाणिं देवेशं भक्तानामभयप्रदम् ।। २१ ।।
त्रिशूलिनं डमरुणा लसद्धस्तं वृषध्वजम् ।।
नानामुखैर्गणैर्जुष्टं नानारूपैर्भयानकैः ।। २२ ।।
त्रिपुरघ्नं महाकालमन्धकादिनिषूदनम् ।।
गजाजिनावृतं स्थाणुं व्याघ्रचर्मविभूषितम् ।। २३ ।।
नागभोगोपवीतं च रुद्रमालधरं प्रभुम् ।।
अरूपमपि सर्वेशं भक्तेच्छोपात्तविग्रहम् ।।२४।।
वह्निसोमार्क नयनं मनोवाचामगोचरम् ।।
जटाजूटप्रकटितं गंगासम्मार्ज्जितांहसम् ।। २५ ।।
कैलासनिलयं शम्भुं हिमाचलकृताश्रमम् ।।
एवं स्तुतस्तदा शम्भुरिन्दुं वचनमब्रवीत् ।। २६ ।।
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ।।
दुर्ल्लभं दर्शनं यस्मात्प्राप्तवानसि गोपते ।। २७ ।।
सोम उवाच ।।
वरं ददासि चेद्देव मम लिंगे सदा वस ।।
एतल्लिंगस्य भक्तानां पूरयस्व मनोरथम् ।। २८ ।।
देवदेव उवाच ।।
विष्णुसान्निध्यमप्यत्र सदैव निव साम्यहम् ।।
विशेषतस्त्वदीयेऽस्मिन्नद्यप्रभृतिगोपते ।। २९ ।।
ममैवान्या परा मूर्त्तिस्तं शशाङ्क न संशयः ।।
एतल्लिंगार्च्चकानां च भक्तानां मम सर्वदा ।। १४४.३० ।।
वरान्दास्यामि भद्रं ते देवानामपि दुर्लभान् ।।
सालङ्कायनकाख्यस्य मुनेस्तु तपसो बलात् ।। ३१ ।।
विष्णुना सह संमन्त्र्य स्थितावावां कलानिधे ।।
शालग्रामगिरिर्विष्णुरहं सोमेश्वराभिधः ।। ३२ ।।
तयोः पर्वतयोर्या वै शिला विष्णुशिवाभिधा ।।
रेवया च कृतं पूर्वं तपः शिवसुतुष्टिदम् ।।३३ ।।
मम त्वत्सदृशः पुत्रो भूयादिति मनीषया।।
अहं कस्यापि न सुतः किं करोमीति चिन्तयन् ।।३४।।
रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन ।।
निश्चित्यैवं तदा प्रोक्तः प्रसन्नेनान्तरात्मना ।। ३५ ।।
लिंगरूपेण ते देवि गजाननपुरस्कृतः ।।
गर्भे तव वसिष्यामि पुत्रो भूत्वा शिवप्रिये।।३६।।
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा।।
शिवशक्तिविभेदेन आवामेकत्रसंस्थितौ।।३७।।
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता ।।
रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ।।३८।।
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधो ।।
शीर्णपर्णाशनं कृत्वा वायुभक्षाऽप्यनन्तरम् ।।३९।।
दिव्यवर्षशतं तेपे विष्णुं चिन्तयती तदा ।।
ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ।। १४४.४०।।
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ।।
गण्डकि त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनषे ।।४१।।
अनविच्छिन्नया भक्त्या वरं वरय सुव्रते ।।
किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ।।४२।।
गण्डक्यपि पुरा दृष्ट्वा शंखचक्रगदाधरम् ।।
दण्डवत्प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे ।। ४३ ।।
अहो देव मया दृष्टो दुर्दर्शो योगिनामपि ।।
त्वया सर्वमिदं सृष्टं जगत्स्थावरजङ्गमम् ।। ४४ ।।
तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन चोच्यते ।।
त्वल्लीलोन्मीलिते विश्वे कः स्वतन्त्रोऽस्ति वै पुमान् ।।४५।।
अनाद्यन्तमपर्यंतं यद्ब्रह्म श्रुतिबोघितम् ।।
तदेव त्वं महाविष्णो यस्त्वां वेद स वेदवित्।। ४६।।
तवैवाद्या जगन्माता या शक्तिः परमा स्मृता ।।
तां योगमायां प्रकृति प्रधानमिति चक्षते ।। ४७ ।।
निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपो निरञ्जनः ।।
आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः ।। ४८ ।।
स्वां योगमायामाविश्य कर्तृत्वं प्राप्तवानसि ।।
प्रकृत्या सृज्यमानेऽस्मिन्द्रष्टा साक्षी निग द्यते ।। ४९ ।।
प्रकृतैस्त्रिगुणैरस्मिन्सृज्यमानेऽपि नान्यथा ।।
सान्निध्यमात्रतो देव त्वयि स्फुरति कारणे ।।१४४.५०।।
स्फटिके हि यथा स्वच्छे जपा कुसुमरागतः ।।
प्रकाश्यते त्वप्रकाशाज्ज्योतीरूपं नताऽस्मि तत् ।। ५१ ।।
ब्रह्मादयोऽपि कवयो न विदन्ति यथार्थतः ।।
तत्कथं वेद्म्यहं मूढा तव रूपं निरञ्जनम् ।। ५२ ।।
मूढस्य जगतो मध्ये स्थिता किंचिदजानती ।।
त्वया धृता कृता चास्मि योग्यायोग्यमविन्दती ।। ५३ ।।
तेन लोके महत्त्वं च त्वत्प्रसादेन चैषिता ।।
ययाचेऽज्ञतयोदार तन्मे दातुं त्वमर्हसि ।।५४।।
दयालुरसि दीनेषु नेति मां न वद प्रभो ।।
ततः प्रोवाच भगवान्देवि यद्यत्त्वमिच्छसि ।। ५५ ।।
तद्याचय वरारोहे अदेयमपि सर्वथा ।।
यद्दुर्लभं मनुष्याणां शीघ्रं याचय मां प्रति ।। ५६ ।।
मद्दर्शनमनु प्राप्य को वाऽपूर्णो मनोरथः ।।
ततो हिमांशो सा देवी गण्डकी लोकतारिणी ।। ५७ ।।
प्रांजलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ।।
यदि देव प्रसन्नोऽसि देयो मे वाञ्छितो वरः ।। ५८ ।।
मम गर्भगतो भूत्वा विष्णो मत्पुत्रतां व्रज ।।
ततः प्रसन्नो भगवांश्चिन्तयामास गोपते ।। ५९।।
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ।।
दास्यामि याचितं येन लोकानां भवमोक्षणम् ।। १४४.६०।।
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्।।
गण्डकीमवदत्प्रीतः शृणु देवि वचो मम ।।६१ ।।
शालग्रामशिलारूपी तव गर्भगतः सदा ।।
स्थास्यामि तव पुत्रत्वे भक्तानुग्रहकारणात।।।६२।।
मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि ।।
दर्शनात्स्पर्शनात्स्नानात्पानाच्चैवावगाहनात् ।।६३।।
हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ।।
यः स्नास्यति विधानेन देवर्षिपितृतर्पकः।। ६४।।
तर्पयेत्स्वपितॄंश्चापि तारयित्वा दिवं नयेत् ।।
स्वयं मम प्रियो भूत्वा ब्रह्मलाके गमिष्यति ।।६५।।।
यदि त्वय्युत्सृजेत्प्राणान् मम कर्मपरायणः ।।
सोऽपि याति मम स्थानं यत्र गत्वा न शोचति।।६६।।
एवं दत्त्वा वरान्देव्यै तत्रैवान्तरधीयत।।
ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिञ्छशलाञ्छन ।।६७।।
अहं च भगवान्विष्णुर्भक्तेच्छोपात्तविग्रहः ।।
एवमुक्त्वा द्विजपतिमन्वगृह्णाद्धरः प्रभुः।।६८।।
प्रभासयन्नुडुपतेरंगानि प्रममार्ज्ज ह ।।
शङ्करेण करेणापि नीरुजानि विधाय च ।।६९ ।।
पश्यतस्तस्य तु विधोस्तत्रैवांतरधीयत ।।
सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै ।। १४४.७० ।।
रावणेन प्रकटिता जलधाराऽतिपुण्यदा ।।
बाणगंगेति विख्याता या स्नाता चाघहारिणी ।।७१ ।।
सोमेशात्पूर्व दिग्भागे रावणस्य तपोवनम् ।।
यत्र स्थित्वा त्रिरात्रेण तपसः फलमश्रुते ।। ७२ ।।
यत्र नृत्येन देवेशस्तुष्टस्तस्मै वरं ददौ ।।
तेन रावणनृत्येन प्रख्यातो नर्त्तनाचलः ।।७३ ।।
स्नात्वा तु बाणगंगायां दृष्ट्वा बाणेश्वरं प्रभुम् ।।
गंगास्नानफलं प्राप्य मोदते देववद्दिवि ।। ७४ ।।
सालङ्कायनकोऽप्याशु क्षेत्रे तस्मिन्परं मम ।।
शालग्रामे महातीव्रमास्थितं परमं तपः ।। ७५ ।।
अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे ।।
 तप्यतस्तस्य तु मुने रीश्वरेण समं सुतम् ।।७६।।
प्राप्यामीति परं भावं ज्ञात्वा देवो महेश्वरः ।।
सुन्दरं त्वपरं रूपं धृत्वा दृष्टिसुखावहम् ।। ७७ ।।
सालङ्कायनपुत्रत्वं योगमायामुपाश्रितः ।।
प्राप्तोऽपि तं न जानाति दक्षिणं पाश्वर्मास्थितः ।।७८।।
मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक् ।।
रूपवान् गुणवांश्चैव वपुषादित्यसन्निभः ।। ७९ ।।
स तं न ज्ञायते जातं ममैवाराधने स्थित. ।।
अथ नन्दी प्रहस्याह महादेवाज्ञया मुनिम् ।। १४४.८० ।।
उत्तिष्ठ मुनि शार्दूल सफलस्ते मनोरथः ।।
त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्रस्ते शाधि मां प्रभो ।।८१ ।।
त्वया तपः समारब्धमीश्वरेण समं सुतम् ।।
प्राप्स्यामीति ततो मह्यं सदृशोऽन्यो न कश्चन ।।८२।।
विचार्येति तवाहं वै जातोऽस्मि स्वयमेव च ।।
तपसाराधयन्देवं शङ्खचक्रगदाधरम् ।।८३।।
प्राप्तोऽसि परमां सिद्धिं त्वत्पुत्रोऽहं यतः स्थितः ।।
श्रुत्वा तन्नन्दिनो वाक्यं प्रहृष्टवदनो मुनिः ।। ८४ ।।
विस्मितस्तु तदोवाच कथं नाद्यापि मे हरिः।।
दृग्गोचरत्वमायाति जातं चेत्तपसः फलम् ।। ८५ ।।
यावत्तं न समीक्षिष्ये तावन्न विरतं तपः ।।
अहमत्रैव वत्स्यामि यावदच्युतदर्शनम् ।।८६।।
त्वमपि योगेन मथुरां व्रज सत्वरम् ।।
मदाश्रमे तत्र पुण्ये धनं गोव्रजसंकुलम् ।। ८७ ।।
आमुष्यायणमादाय शीघ्रमत्र समानय ।। ८८ ।।
ततस्त्वाज्ञां समादाय नन्दी सत्वरमाव्रजत् ।।
गत्वा च मथुरां तस्य ऋषेराश्रममीक्ष्य च।। ८९ ।।
दृष्ट्वामुष्यायणं तत्र पृष्ट्वा नाम तमप्युत ।।
गृहे वित्ते च कुशलमपृच्छद्गोधनेषु च ।। १४४.९० ।।
सालंकायनशिष्योऽपि आमुष्यायणसंज्ञितः ।।
सर्वत्र कुशलं साधो प्रभावात्तु गुरोर्मम ।।९१ ।।
गुरोश्च कुशलं ब्रूहि कुत्रास्ते स तपोधनः ।।
भवान् कुतः समायातः किमत्रागमकारणम् ।।९२ ।।
तन्मे विस्तरतो ब्रूहि अर्घ्यश्चैवोपगृह्यताम् ।।
इत्युक्तः सोऽर्घ्यमादाय विश्रम्य च ततो गुरोः ।। ९३ ।।
वृत्तान्तं कथयामास त्वागमस्य च कारणम् ।।
ततस्तेनैव सहितो गोधनं तत्प्रगृह्य च ।। ९४ ।।
दिनैः कतिपयैश्चैव गण्डकीतीरमाश्रितः ।।
शनैरुत्तीर्य च ततस्त्रिवेणीं प्राप्य हर्षितः ।। ९५ ।।
देविका नाम देवानां प्रभावाच्च तपस्यताम् ।।
नियमार्थं समुद्भूता गंडक्या मिलिता शुभा ।। ९६ ।।
आश्रमादपरा चासीत्पुलस्त्यपुलहाश्रमात् ।।
गंडक्या मिलिता सापि त्रिवेणी गण्डकीत्यभूत् ।। ९७।।
कामिकं तन्महातीर्थं पितॄणामतिवल्लभम् ।।
तत्र स्थितं महालिङ्गं त्रिजलेश्वरसंज्ञितम् ।।९८।।
मुक्तिभुक्तिप्रदं देवि दर्शनादघनाशनम् ।। ९९ ।।
धरण्युवाच ।।
प्रयागे या त्रिवेणीति यत्र देवो महेश्वरः ।।
शूलटङ्क इति ख्यातः सोमेश इति चापरः ।। १४४.१०० ।।
वेणीमाधवनाम्नाऽपि यत्र विष्णुः स्वयं स्थितः ।।
गङ्गा च यमुना चैव सरस्वत्यपरा नदी ।। १०१ ।।
सर्वेषां चैव देवानामृषीणां सरसामपि।।
सर्वेषां चैव तीर्थानां समाजस्तत्र मे श्रुतः ।।१०२।।
यत्राप्लुता दिवं यान्ति मृता मुक्तिं प्रयान्ति च ।।
तीर्थराज इति ख्यातं तत्तीर्थं केशवप्रियम् ।। १०३।।
सैव त्रिवेणी विख्याता किमपूर्वां प्रशंससि ।।
एतद्गुह्यतमं प्रोक्तं त्वया विष्णो न संशयः ।।१०४ ।।
तत्कथ्यतां महाभाग लोकानां हितकाम्यया ।।
मय्यनुक्रोशुबुद्ध्या च कृपां कुरु दयानिधे ।। १०५ ।।
श्रीवराह उवाच ।।
शृणुष्व देवि भद्रं ते यद्गुह्यं परि पृच्छसि ।।
अत्र ते कीर्त्तयिष्यामि सेतिहासां कथां शुभाम् ।। १०६ ।।
पुरा विष्णुस्तपस्तेपे लोकानां हितकाम्यया ।।
हिमालये गिरौ रम्ये देवतागणसेविते ।। १०७ ।।
ततो बहुतिथे काले याते सति तपस्यतः।।
तीव्रं तेजः प्रादुरासीद्येन लोकाश्चराचराः ।।१०८ ।।
तस्योष्मणा समुद्भूतः स्वेदपूरस्तु गण्डयोः ।।
तेन जाता धुनी दिव्या लोकानामघहारिणी ।। १०९ ।।
महर्लोकादयः सर्वे विस्मिताः सर्वतो दिशम् ।।
तस्य प्रभवमिच्छन्तो ज्ञातुं नेशुः कथंचन।।१४४.११०।।
देवाः सर्वे ततो जग्मुर्ब्रह्माणं प्रति चोत्सुकाः।।
पप्रच्छुः प्रभवं तस्य प्रणम्य च पुनःपुनः।।१११।।
ब्रह्मापि हि न जानाति मोहितस्तस्य मायया ।।
ततो देवैः समं ब्रह्मा शङ्करं प्रत्युपस्थितः ।। ११२ ।।
तं दृष्ट्वा सहसा देवैः समेतं प्रत्युपस्थि तम्।।
पप्रच्छ तं महादेवस्तदामनकारणम्।।११३।।
ब्रह्मा तं च महादेवं पप्रच्छ प्रणतः स्थिताः।।
अत्यद्भुतं महत्तेजश्चाद्भुतं किं महेश्वर ।।११४ ।।
येन प्रत्याहता क्ष्माऽसौ जगद्व्यतिकरावहा ।।
किन्नु स्यात्कथमतेत्स्यात्कश्चास्य प्रभवो विभो ।। ११५ ।।
शिवः क्षणं ततो ध्यात्वा ब्रह्माद्यान् प्रत्युवाच ह ।।
महसोऽस्य समुत्पत्तिं महतो दर्शयामि वः ।। ११६ ।।
जगाम देवसहितः सोमः सहगणः प्रभुः ।।
यत्रास्ते भगवान्विष्णुर्महता तपसान्वितः ।। ११७ ।।
उवाच परमप्रीतस्तदा शम्भुः स्मयन्निव ।।
तपस्यसि किमिच्छन्तस्त्वं कर्त्ता जगतां प्रभुः ।। ११८ ।।
सर्वाधारोऽ खिलाध्यक्षस्तत्किं यत्तव दुर्ल्लभम् ।।
एवमुक्तः प्रत्युवाच प्रणम्य जगतां प्रभुः ।। ११९ ।।
अहं लोकहितार्थाय तपस्तप्तुं समुद्यतः ।।
त्वत्तो वरानभीप्सन्वै त्वद्दर्शनसमुत्सुकः ।। १४४.१२० ।।
त्वद्दर्शनममनुप्राप्य कृतार्थोऽस्मि जगत्पते ।। १२१ ।।
शिव उवाच ।।
मुक्तिक्षेत्रमिदं देव दर्शनादेव मुक्तिदम् ।।
गण्डस्वेदोद्भवा यत्र गण्डकी सरितां वरा ।। १२२ ।।
भविष्यति न सन्देहो यस्या गर्भे भविष्यति ।।
त्वयि स्थिते जग न्नाथे तव सान्निध्यकारणात् ।। १२३ ।।
अहं ब्रह्मा च देवाश्च ऋषिभिः सह केशव ।।
सर्वे वेदाश्च यज्ञाश्च सर्वतीर्थानि चाप्युत ।। १२४ ।।
वसिष्यामः सदैवात्र गण्डक्यां जगतां पते ।।
कार्त्तिकं सकलं मासं यः स्नास्यति नरः प्रभो ।। १२५ ।।
सर्वपापविनिर्मुक्तो मुक्तिभागी न संशयः ।।
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।।१२६ ।।
यत्र स्नानेन लभ्येत गंगास्नानफलं नरैः ।।
स्मरणाद्दर्शनात्स्पर्शान्निष्पापो जायते नरः ।। १२७ ।।
यस्यास्तत्समतां कान्या लभेद्गंगां विना नदीम् ।।
यत्र सा परमा पुण्या गण्डकी भुक्तिमुक्तिदा ।। १२८ ।।
अपरा देविका नाम्ना गण्डक्या सह संगता ।।
पुलस्त्यपुलहौ पूर्वं तेपाते परमं तपः ।। १२९ ।।
यत्र सृष्टिविधानार्थं कृत्वाश्रमपदं पृथक् ।।
सृष्टेर्विधानसामर्थ्यं यत्र लब्धं ततः परम् ।। १४४.१३० ।।
ततोऽभूद्ब्रह्मतनया पुण्या सा सरितां वरा ।।
गण्डक्या यत्र मिलिता ब्रह्मपुत्री यशस्विनी ।। १३१ ।।
त्रिवेणी सा महापुण्या देवानामपि दुर्ल्लभा ।।
धरे जानीहि तत्क्षेत्रं योजनं परमार्च्चितम्।।१३२।।
पुरा वेदनिधेः पुत्रौ जयो विजय एव च ।।
यजनाय गतौ राज्ञा वृतौ तौ कर्दमात्मजौ ।।१३३।।
तृणबिन्दोः सुतौ पापौ जातौ दृष्ट्यैव सुव्रतौ ।।
यज्ञविद्यासुनिपुणौ वेदवेदांगपारगौ ।।१३४।।
पूजयन्तौ हरिं भक्त्या तन्निष्ठेन्द्रियमानसौ ।।
ययोः पूजयतोर्नित्यं सान्निध्यं किल केशवः ।। १३५ ।।
ददाति पूजावसरे भक्त्या किल वशीकृतः ।।
मरुत्तेन कदाचित्तावाहूतौ कुशलौ द्विजौ ।। १३६ ।।
राज्ञा समाप्तयज्ञेन पूजयित्वा पुरस्कृतौ ।।
दक्षिणाभिस्तोषयित्वा विसृष्टौ गृह मागतौ ।। १३७ ।।
विभागं कर्त्तुमारब्धौ पस्पर्द्धाते परस्परम् ।।
समो विभागः कर्त्तव्य इति ज्येष्ठोऽभ्यभाषत ।।१३८ ।।
विजयश्चाब्रवीच्चैनं येन लब्धं हि तस्य तत् ।।
जयोऽब्रवीदसामर्थ्यं मन्वानो मां ब्रवीषि किम् ।। १३९ ।।
न ददासि गृहीत्वा यत्तस्माद्ग्राहत्वमाप्नुहि ।।
विजयोऽप्यब्रवीन्नूनमन्धीभूतोऽति किं धनैः ।। १४४.१४० ।।
गजो भव मदान्धस्त्वं यो मामेवं प्रभाषसे ।।
एवं तौ ग्राहमातंगावभूतां शापतः पृथक् ।। १४१ ।।
गण्डक्यामेव सञ्जातो ग्राहः पूर्वस्मृतिर्द्विजः ।।
त्रिवेणीक्षेत्रमध्ये तु जयोऽभूद्वै महान्गज।।१४२।।
करिशावैर्गजीभिश्च क्रीडमानो वने वसन् ।।
बहून्यब्दसहस्राणि व्यतीतानि तयोस्तदा।।१४३।।
वने विहरतोर्भूमे शापमोहितयोः सतोः ।।
कदाचित्स गजः स्नातुं करेणु गणसंवृतः ।। १४४ ।।
त्रिवेणीमभितो यातोऽवगाहनपरायणः ।।
सिंचन्करेणूस्ताभिश्च सिच्यमानो जलं पिबन् ।। १४५ ।।
स्वयं च पाययंस्ताश्च चिक्रीड प्रीतमानसः ।।
एवं संक्रीडतस्तत्र दैवयोगेन तस्य हि ।। १४६ ।।
ग्राहः सम्प्रेरितः पूर्वं वैरयोगमनुस्मरन् ।।
जग्राह सुदृढं पादं गजोऽपि च विषाणतः ।। १४७ ।।
ग्राहं विव्याध सोऽप्येनमाकर्षयत तज्जले ।।
तयोर्युद्धं समभवदनेकाब्दं विकर्षणैः ।। १४८ ।।
आकर्षणैश्च बहुभिर्द्दन्तभेदैः परस्परम्।।
प्रयुध्यतोस्तयोरेवं मत्सरग्रस्तयोः सतोः ।।१४९।।
तत्त्वानि पीडितान्यासन्ननेकानि क्षयं ययुः ।।
ततो जलेश्वरो राजा भगवन्तं व्यजिज्ञपत् ।।१४४.१५०।।
तेन विज्ञापितो देवो भगवान्भक्तवत्सलः ।।
सुदर्शनेन चक्रेण ग्राहास्यं समपाटयत् ।। १५१ ।।
क्षिप्तं पुनः पुनस्तत्तु शिलाः सङ्घट्टयद्धरे ।।
सङ्घट्टनात्तु चक्रस्य शिलाश्चक्रेण लाच्छिताः ।। १५२ ।।
बाहुल्येन बभूवुर्हि तस्मिन्क्षेत्रे परे मम ।।
वज्रकीटैश्च ज्ञातानि सन्ततानि विलोकय ।। १५३ ।।
न सन्देहस्त्वया कार्यस्त्रिवेणीं प्रति सुन्दरि ।।
त्रिवेणीक्षेत्रमहिमा एवं ते परिकीर्त्तितः ।। १५४ ।।
यदा च भरतो राजा पुलस्त्यस्याश्रमान्तिके ।।
स्थित्वा पर्यचरद्विष्णुं त्रिजलेशमपूजयत् ।। १५५ ।।
ततःप्रभृति तस्यासीद्भरतेनारतिः स्फुटम् ।।
पुनश्च मृगदेहान्ते जडः स भरतोऽभवत् ।। १५६ ।।
तैनैव पूजितो यस्माज्जलेश्वर इति स्मृतः ।।
यस्य संपूजनाद्भक्त्या योगसिद्धिः प्रजायते ।। १५७ ।।
शालग्रामे परे क्षेत्रे यदाहं सुभगे स्थितः ।।
तत्र ज्ञात्वा जलेशेन स्तुतोऽहं वसुधे महि ।। १५८ ।।।
ततो भक्तकृपावेशात्क्षिप्तवांस्तत्सुदर्शनम् ।।
प्रथमं पतितं यत्र तत्र तीर्थं ततोऽभवत् ।। १५९ ।।
तत्र स्नानेन तेजस्वी सूर्यलोके महीयते ।।
यदि प्राणैर्वियुज्येत मम लोके महीयते ।।१४४.१६०।।
भक्तसंरक्षणार्थाय मयाज्ञप्तं सुदर्शनम् ।।
यत्र यत्र भ्रमति तत्तत्र तत्रांकिताः शिलाः ।। १६१।।
एवं तद्वै भ्रमाक्षिप्तं सर्वं चकमयं त्वभूत् ।।
ततः स पंचरात्राणि स्थित्वा वै विधिपूर्वकम् ।। १६२ ।।
गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह ।।
हरिणाधिष्ठितं क्षेत्रं पूजनीयं ततः स्मृतम् ।। १६३ ।।
यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः ।।
स्थितवांस्तद्दिनादेतत्ख्यातं हरिहरप्रभम्।।१६४।।
देवानामटनाच्चैव देवाट इति संज्ञितम् ।।
तस्य देवस्य महिमा केन वक्तुं हि शक्यते ।।१६५।।
स शूलपाणिर्देवेशो भक्ताभयविधायकः ।।
मुनिभिर्द्देवगन्धर्वैः सेव्यतेऽचिन्त्यशक्तिमान् ।। १६६ ।।
तस्मिन्स्थाने महादेवः सालङ्कायनकस्य हि ।।
पुत्रत्वं नन्दिरूपेण प्राप्तः साक्षाच्छिवः प्रभुः ।। १६७ ।।
स्वयं चैव महायोगी योगसिद्धिविधायकः ।।
आस्थितः परमं पीठं तीर्थे चैव त्रिधारके ।। १६८ ।।
त्रिजटाभ्योऽभवन्धारा स्तिस्रो वै परमाद्भुताः ।।
गंगा च यमुना चैव पुण्या चैव सरस्वती ।। १६९ ।।
एतत्त्रैधारिकं तीर्थं त्रिजटाभ्यः समुत्थितम् ।।
यत्र शम्भुः स्थितः साक्षान्महायोगी महेश्वरः ।। १४४.१७० ।।
शालग्रामाभिधे क्षेत्रे हरिशीलनतत्परः ।।
दिशञ्ज्ञानं स्वभक्तानां संसाराद्येन मुच्यते ।। १७१ ।।
तीर्थे त्रिधारे यः स्रात्वा सन्तर्प्य पितृदेवताः ।।
महायोगिनमभ्यर्च्य न भूयो जन्मभाग्भवेत् ।। १७२ ।।
तस्यैव पूर्वदिग्भागे हंसतीर्थमिति स्मृतम् ।।
तत्रैकं कौतुकं वृत्तं तच्छृणुष्व महत्तरम् ।। १७३ ।।
कदाचिच्छिवरात्र्यां तु भक्तैः पूजामहोत्सवे ।।
नैवेद्यैर्विविधैः सृष्टैः पूजयित्वा तु योगिनम् ।। १७४ ।।
तत्र काकाः समुत्पेतुरन्ने तस्मिन्बुभुक्षिताः ।।
गृहीत्वान्नं तु तत्काकस्तेन चोड्डीय निर्गतः ।।१७५।।।
तद्गृहीतुं परः काक स्तेनायुध्यत चांबरे ।।
तावुभौ युध्यमानौ तु कुण्डे तस्मिन्निपेततुः ।।१७६।।
तत्र हंसौ ततो भूत्वा निर्गतौ चन्द्रवर्चसौ ।।
तद्दृष्ट्वा महदाश्चर्यं तत्र ये मिलिता जनाः ।। १७७ ।।
हंसतीर्थमिति प्रोचुस्ततःप्रभृति सत्तमे ।।
ततः प्रभृति तत्तीर्थं हंसतीर्थमिति स्मृतम् ।। १७८ ।।
पूर्वं यक्षकृतं तत्तु यक्षतीर्थमिति स्मृतम् ।।
तत्र स्नातो नरः शुद्धो यक्षलोके महीयते ।। १७९ ।।
तत्राऽथ मुंचते प्राणाञ्छिवभक्तिपरायणः ।।
यक्षलोकमतिक्रम्य मम लोकं प्रपद्यते ।। १४४.१८० ।।
एवं प्रभावं तत्तीर्थं महायोगिप्रभावतः ।।
अहं शिवश्च लोकानामनुग्रहपरायणौ ।। १८१ ।।
एतत्ते सर्वमाख्यातं क्षेत्रं गुह्यं वसुन्धरे ।।
आरभ्य मुक्तिक्षेत्रं तत्क्षेत्रं द्वादशयोजनम् ।। १८२।।
शालग्रामस्वरूपेण मया यत्र स्थितं स्वयम् ।।
स्वभक्तानां विशेषेण परमानन्ददायकम् ।। १६३ ।।
गुह्यानां परमं गुह्यं किमन्यच्छ्रोतुमिच्छसि ।। १८४ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे सोमेश्वरादिलिंग हरिहरमुक्तिक्षेत्र त्रिवेण्यादिमहिमानिरूपणं नाम चतुश्चत्वारिंशदधिकशततमोध्यायः ।। १४४ ।।