सामग्री पर जाएँ

वराहपुराणम्/अध्यायः १४३

विकिस्रोतः तः
← अध्यायः १४२ वराहपुराणम्
अध्यायः १४३
[[लेखकः :|]]
अध्यायः १४४ →

अथ मन्दारमहिमनिरूपणम् ।।
श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि एकान्तं शृणु सुन्दरि ।।
स्थानं मे परमं गुह्यं मद्भक्तानां सुखावहम् ।। १ ।।
जाह्नव्या दक्षिणे कूले विन्ध्यपृष्ठसमाश्रितम्।।
मन्दारेति च विख्यातं सर्वभागवतप्रियम् ।। २ ।।
तत्र त्रेतायुगे भूमे रामो नाम महाद्युतिः ।।
भविष्यति न सन्देहः स च मां स्थापयिष्यति ।।३।।
नारायणमुखाच्छ्रुत्वा धर्मकामा वसुन्धरा ।।
उवाच मधुरं वाक्यं लोकनाथं जनार्दनम् ।। ४।।
धरण्युवाच ।।
देवदेव महादेव हरे नारायण प्रभो ।।
मन्दारेति त्वया प्रोक्तं देवधर्मार्थसंयुतम् ।। ५।।
मन्दारे कानि कर्माणि कुर्वन्ति च ततो नराः ।।
कांश्च लोकान्प्रपद्यन्ते तत्र कर्मकृतो नराः ।।६।।
मन्दारे कानि गुह्यानि रहस्यं किंच तत्र वै ।।
वक्तुमर्हस्यशेषेण परं कौतूहलं मम ।।७।।
श्रीवराह उवाच ।।
शृणु सुन्दरि यत्नेन यन्मां त्वं परिपृच्छसि ।।
कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम् ।। ८ ।।
क्रीडमानोऽस्महं तत्र मन्दारे पुष्पिते तदा ।।
मन्दारपुष्पमादाय मनोज्ञं न्यस्य वै हृदि ।। ९ ।।
ततो ममाभवच्चिन्ता मन्दारे पर्वतस्थिते ।।
तत्रैकादशकुण्डानि निस्सृतानि गिरौ धरे ।। 143.१० ।।
विन्ध्ये च मत्प्रभावेण मन्दारश्च महाद्रुमः ।।
स्थितोऽहं तत्र सुभगे भक्तानुग्रहकाम्या ।। ११ ।।
दर्शनीयतमं स्थानं मनोज्ञं च शिलातलम् ।।
यत्र तिष्ठाम्यहं देवि मन्दारद्रुममाश्रितः ।। १२ ।।
विस्मयं शृणु सुश्रोणि मन्दारेऽस्मिन्महाद्रुमे ।।
द्वादश्यां च चतुर्दश्यां स पुष्पति महाद्रुमः ।। १३ ।।
तत्र मध्याह्नवेलायां वीक्ष्यमाणो जनैस्ततः ।।
ततोऽन्यदिनमासाद्य दृश्यते न कदाचन ।।१४।।
तस्मिन्मंदारकुण्डे तु एकभक्तोषितो नरः ।।
स्नानं करोति शुद्धात्मा स गच्छेत्परमां गतिम् ।। १९ ।।
अथ प्राणान्प्रमुच्येत कुण्डे मन्दारसंस्थिते ।।
तपः कृत्वा वरारोहे मम लोकं स गच्छति ।। १६ ।।
तस्य चोत्तरपार्श्वे च प्रापणं नाम वै गिरिः ।।
तिस्रो धाराः पतन्त्यत्र दक्षिणां दिशमाश्रिताः ।। १७ ।।
स्नानकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ।।
दक्षिणे पतते धारा स्रवते चोत्तरामुखम् ।। १८ ।।
तत्र स्नातो वरारोहे एकरात्रोषितो नरः ।।
मोदनं दक्षिणे शृंगे तस्मिन्मेरौ शिलोच्चये ।। १९ ।।
तत्राथ मुंचते प्राणान्मम कर्मपरायणः ।।
सर्वसंगं परित्यज्य मम लोकं स गच्छति ।। 143.२० ।।
तस्य पूर्वोत्तरे पार्श्वे गुह्यं वैकुण्ठकारणम् ।।
यत्र धारा पतत्येका हरिद्रावर्णसन्निभा ।। २१ ।।
यस्तत्र कुरुते स्नानमैकरात्रोषितो नरः ।।
नाकपृष्ठं समासाद्य मोदते सह दैवतैः ।। २२ ।।
तथाऽत्र मुंचते प्राणान्कृतकृत्यः सुनिश्चितः ।।
तारयित्वा कुलं सर्वं मम लोकं प्रपद्यते ।। २३ ।।
तस्य दक्षिणपूर्वेण समस्रोतो वरांगणे ।।
पतते विन्ध्यशृंगेषु अगाधश्च महाह्रदः ।। २४ ।।
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः ।।
मोदते पूर्वपार्श्वे तु तस्मिन्मेरौ शिलोच्चये ।। २५ ।।
अथात्र मुंचते प्राणान्मम चित्तव्यवस्थितः ।।
छित्वा वै सर्वसंसारं मम लोकं स गच्छति ।। २६ ।।
मन्दारस्य तु पूर्वेण गुह्यं कोटरसंस्थितम् ।।
यत्र धारा पतत्येका मुसलाकृतिका शुभा ।।२७।।
तत्र स्नानं प्रकुर्वीत पंचभक्तोषितो नरः ।।
मोदते पूर्वपार्श्वे च मेरौ तस्मिञ्छिलोच्चये ।। २८ ।।
अथात्र मुंचते प्राणान् कृत्वा कर्म सुदुष्करम् ।।
मेरुशृङ्गं समुत्सृज्य मम लोकं च गच्छति।।२९।।
तस्य दक्षिणपार्श्वे तु गुह्यं विन्ध्यविनिःसृतम् ।।
पंच धाराः पतन्त्यत्र मुसलाकृतिकाः शुभाः ।। 143.३० ।।
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ।।
मोदते दक्षिणे शृङ्गे महामेरौ शिलोच्चये ।। ३१ ।।
अथात्र मुंचते प्राणान्कृत्वा कर्म सुदुष्करम् ।।
मेरुशृङ्गं परित्यज्य मम लोकं प्रपद्यते ।। ३२ ।।
दक्षिणे पश्चिमे भागे मन्दारस्य यशस्विनि ।।
अत्र धारा पतत्येका आदित्यसमतेजसा ।। ३३ ।।
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ।।
मोदते पश्चिमे भागे ध्रुवो यत्र प्रवर्तते ।। ३४ ।।
अथात्र मुंचते प्राणान्मम कर्मव्यवस्थितः ।।
सर्वपापविनिर्मुक्तो मम लोके च मोदते ।। ३५ ।।
तस्य पश्चिमपार्श्वे तु गुह्यं देवसमन्वितम् ।।
चक्रावर्त्तमिति ख्यातमगाधश्च महाह्रदः ।। ३६ ।।
स्नानं करोति यस्तत्र पंचभक्तोषितो नरः ।।
मोदते मेरुशृङ्गेषु स्वच्छन्दगमनालयः ।। ३७ ।।
अथ वै मुंचते प्राणांश्चक्रवर्ती महायशाः ।।
शृंगान्सर्वान्परित्यज्य मोदते मम सन्निधौ ।। ३८ ।।
दिशं वायव्यमाश्रित्य तस्मिन्विन्ध्यशिलोच्चये ।।
तिस्रो धाराः पतन्त्यत्र मुसलाकृतयः शुभाः ।। ३९ ।।
तत्र स्नानं प्रकुर्वीत मम चित्तव्यवस्थितः ।।
मोदते सर्वशृंगेषु चैकचित्तं समाश्रितः ।। 143.४० ।।
अथात्र मुञ्चते प्राणान् तस्मिन्गुह्ये यशस्विनि ।।
सर्वसंगं परित्यज्य मम लोकं स गच्छति ।।४१।।
तस्य विक्रोशमात्रेण दक्षिणां दिशमाश्रितः ।।
गुह्यो गभीरको नाम अगाधश्च महाह्रदः ।। ४२ ।।
तत्र स्नानं प्रकुर्वीत अष्टरात्रोषितो नरः ।।
मोदते सर्वद्वीपेषु स्वच्छन्दगमनालयः ।। ४३ ।।
अथ वै मुञ्चते प्राणान्मम कर्मव्यवस्थितः ।।
सर्वद्वीपान् परित्यज्य मम लोकं प्रपद्यते ।।४४।।
तस्य पश्चिमपार्श्वे तु गुह्यं वै परमं महत् ।।
सप्त धाराः पतन्त्यत्र अगाधश्च महाह्रदः ।। ४५।।
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ।।
मोदते शक्रलोके तु स्वच्छन्दगमनालयः ।। ४६ ।।
अथ वै मुञ्चते प्राणान्स्वकर्मपरिनिष्ठितः ।।
सर्वसंगं परित्यज्य मम लोकं प्रपद्यते ।। ४७ ।।
क्षेत्रस्य मण्डलं तस्य कथ्यमानं मया शृणु ।।
स्यमन्तपञ्चकं चैव मन्दारस्य गिरौ मम ।।४८।।
तत्र तिष्ठामि सुश्रोणि विन्ध्यस्य गिरिमूर्द्धनि ।।
मन्दारे परमं गुह्यं तस्मिन्गुह्यशिलोच्चये ।। ४९ ।।
दक्षिणे संस्थितं चक्रं वामे स्थाने च वै गदा ।।
य एतच्छृणुयान्नित्यं गुह्यं मन्दारसंस्थितम् ।। 143.५० ।।
लांगले मुसलं चैव शंखस्तिष्ठति चाग्रतः ।।
तव चैव प्रियार्थाय मम भक्तसुखावहम् ।। ५१ ।।
एतन्न जानते केचिन्मम माया विमोहिताः ।।
मुच्य भागवताञ्छुद्धान्ये च वाराहमाश्रिताः ।। ५२ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मन्दारमहिमानिरूपणं नाम त्रयश्चत्वारिंशदधिकशततमोध्यायः ।। १४३ ।।