वराहपुराणम्/अध्यायः १४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४४ वराहपुराणम्
अध्यायः १४५
[[लेखकः :|]]
अध्यायः १४६ →

अथ सालग्रामक्षेत्रमाहात्म्यम् ।।
धरण्युवाच ।।
भगवन्देवदेवेश सालंकायनको मुनिः ।।
किं चकार तपः कुर्वंस्तव क्षेत्रे विमुक्तिदे ।। १ ।।
श्रीवराह उवाच।।
अथ दीर्घेण कालेन स ऋषिः संशित व्रतः ।।
तप्यमानो यथान्यायं पश्यन्वै सालमुत्तमम् ।। २ ।।
अभिन्नमतुलच्छायं विशालं पुष्पितं तथा ।।
मनोज्ञं च सुगन्धं च देवानामपि दुर्ल्लभम् ।। ३ ।।
ऋषिर्ज्ञानपरिश्रान्तः सालंकायनकोऽद्भुतम् ।।
ददर्श च पुनः सालं शुभानां शुभदर्शनम् ।। ४ ।।
ततो दृष्ट्वा महासालं परिश्रान्तो महामुनिः ।।
विश्रामं कुरुते तत्र द्रष्टुकामोऽथ मां मुनिः ।। ५ ।।
सालस्य तस्य पूर्वेण स्थितः पश्चान्मुखो मुनिः ।।
मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत् ।। ६ ।।
ततः पूर्वेण पार्श्वेन तस्य सालस्य सुन्दरि ।।
वैशाखमासद्वादश्यां मद्दर्शनमुपागतः ।। ७ ।।
दृष्ट्वा मां तत्र स मुनिस्त पस्वी संशितव्रतः ।।
तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुनःपुनः ।। ८ ।।
मत्तेजसा ताडिताक्षः शनैरुन्मील्य लोचने ।।
यावत्पश्यति मां तत्र स्तुवन्स तपसान्वितः ।। ९ ।।
वृक्षस्य दक्षिणे पार्श्वे गतस्तावदहं धरे ।।
पूर्वस्थानं परित्यज्य स ऋषिः संशितव्रतः ।। १४५.१० ।।
स्थित्वा मत्प्रमुखे चैव स्तुवन्नेवं मम प्रियम् ।।
 ततोऽहं स्तूयमानौ वै ऋग्वेदस्यैव ऋग्गतैः ।। ११ ।।
स्तोत्रैः सम्पूज्यमानो हि गतोऽहं पश्चिमां दिशम् ।।
ततः पश्चिमपार्श्वे तु स्थितस्तत्रैव माधवि ।। १२ ।।
यजुर्वेदोक्तमन्त्रेण संस्तुतः पश्चिमां गतः ।।
स्तुवतीत्थं मुनौ देवि गतोऽहं चोत्तरां दिशम् ।। १३।।
तत्रापि सामवेदोक्तैर्मन्त्रैस्तुष्टाव मां मुनिः ।।
ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि ।। १४।।
प्राप्तश्च परमां प्रीतिं तमवोचमृषिं तदा ।।
साधु ब्रह्मन्महाभाग सालंकायन सत्तम ।। १५ ।।
तपसानेन सन्तुष्टः स्तुत्या चैवानया तव ।।
वरं वरय भद्रं ते संसिद्धस्तपसा भवान् ।। १६ ।।
एवमुक्तः स तु मया सालंकायनको मुनिः ।।
सालवृक्षं समाश्रित्य निभृतेनान्तरात्मना ।। १७ ।।
ततो मां भाषते देवि स ऋषिः संशितव्रतः ।।
तवैवाराधनार्थाय तपस्तप्तं मया हरे ।। १८ ।।
पर्यटामि महीं सर्वां सशैलवनकाननाम् ।।
इदानीं खलु दृष्टोऽसि चक्रपाणे महाप्रभो ।। १९ ।।
यदि तुष्टोऽसि मे देव सर्वशान्तिकरः परः ।।
यदि देयो वरो मह्यं तपसाराधितेन च ।। १४५.२० ।।
तदा देहि जगन्नाथ ममेश्वर समं सुतम् ।।
एष एव वरो मह्यं दीयतां मधुसूदन ।। २१ ।।
एवं वरं याचितोऽस्मि मुनिना भीमकर्मणा ।।
पुत्रकामेन विप्रेण दीर्घ कालं तपस्यता ।। २२ ।।
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य तपस्विनः ।।
मधुरां गिरमादाय प्रत्यवोचमृषिं प्रति ।। २३ ।।
चिरकालं व्रतस्थेन यत्त्वया चिन्तितं मुने ।।
स कामस्तव सञ्जातः सिद्धोऽसि तपसा भवान् ।। २४ ।।
ईश्वरस्य परा मूर्त्तिर्नाम्ना वै नन्दिकेश्वरः ।।
त्वद्दक्षिणांगादुद्भूतः पुत्रस्तव मुनीश्वर ।। २५ ।।
संहरस्व तपो ब्रह्मञ्शान्तिं गच्छ महामुने ।।
अथ चैतस्य जातस्य कल्पा वै सप्त सप्त च ।। २६ ।।
त्वं न जानासि विप्रर्षे स जातो नन्दिकेश्वरः ।।
मायायोगबलोपेतो गोव्रजं स मया स्थितः ।।२७।।
मथुरायाः समानीय आमुष्यायणसंज्ञितम् ।।
तव शिष्यं पुरस्कृत्य शूलपाणिरवस्थितः ।।२८।।
तत्राश्रमे महाभाग स्थित्वा त्वं तपसां निधे ।।
पुत्रेण परमप्रीतो मत्क्षेत्रेऽस्मत्समो भव।।२९।।
अन्यच्च गुह्यं वक्ष्यामि सालङ्कायन तच्छृणु ।।
तव प्रीत्या प्रवक्ष्यामि येनैतत्क्षेत्रमुत्तमम् ।। १४५.३० ।।
शालग्राममिति ख्यातं तन्निबोध मुने शुभम् ।।
योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव न संशयः ।। ३१ ।।
एतत्कोऽपि न जानाति विना देवं महेश्वरम् ।।
माययाऽहं निगूढोऽस्मि त्वत्प्रसादात्प्रकाशितः ।। ३२ ।।
एवं तस्मै वरं दत्त्वा सालंकायनकाय वै ।। ३३ ।।
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवम् ।।
वृक्षं दक्षिणतः कृत्वा जगाम स्वाश्रमं मुनिः ।। ३४ ।।
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये ।।
शालग्राम इति ख्यातं भक्तसंसारमोक्षणम् ।। ३५ ।।
तत्र गुह्यानि मे भूमे वक्ष्यमाणानि मे शृणु ।।
तरन्ति मनुजा येभ्यो घोरं संसारसागरम् ।। ३६ ।।
गुह्यानि तत्र वसुधे तीर्थानि दश पंच च ।।
नाद्यापि किंचिज्जानन्ति मुच्यन्ते यैरिह स्थिताः ।। ३७ ।।
तत्र बिल्वप्रभं नाम गुह्यं क्षेत्रं मम प्रियम् ।।
कुञ्जानि तत्र चत्वारि क्रोशमात्रे यशस्विनि ।। ३८ ।।
हृद्यं तत्परमं गुह्यं भक्तकर्मसुखावहम् ।।
तत्र स्नानं तु कुर्वीत अहोरात्रोषितो नरः ।। ३९ ।।
चतुर्णामश्वमेधानां फलं प्राप्नोति मानवः ।।
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः ।। १४५.४० ।।
अश्वमेधफलं भुक्त्वा मम लोके स मोदते ।।
चक्रस्वामीति विख्यातं तस्मिन्क्षेत्रे परं मम ।। ४१ ।।
चक्राङ्कितशिलास्तत्र दृश्यन्ते च इतस्ततः ।।
चक्राङ्कितशिला यत्र वरवर्णिनि तिष्ठति ।। ४२ ।।
तदेतद्विद्धि वसुधे समन्ता द्योजनत्रयम् ।।
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः ।।४३।।
त्रयाणामपि यज्ञानां फलं प्राप्नोति निश्चितम् ।।
अथात्र मुंचते प्राणान्मम कर्म परायणः ।। ४४ ।।
वाजपेयफलं भुक्त्वा मम् लोकं च गच्छति।।
तत्र विष्णुपदं नाम क्षेत्रं गुह्यं परं मम ।।४५।।
तिस्रो धाराः पतन्त्यत्र हिमकूटं समाश्रिताः ।।
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः।।४६।।
त्रयाणामपि रात्रीणां फलं प्राप्नोति निष्कलम् ।।
तथैव मुंचते प्राणान्मुक्तसंगो गत क्लमः ।। ४७ ।।
अतिरात्रफलं भुक्त्वा मम लोके महीयते ।।
तत्र कालीह्रदं नाम गुह्यं क्षेत्रं परं मम ।। ४८ ।।
अत्र चैव ह्रदस्रोतो बदरीवृक्षनिःसृतः ।।
तत्र स्नानं तु कुर्वीत षष्टिकालोषितो नरः ।। ४९ ।।
नरमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।।
अथात्र मुंचते प्राणान्मुक्तरागो गत क्लमः ।। १४५.५० ।।
नरमेधफलं भुक्त्वा मम लोके च मोदते ।।
अन्यच्च ते प्रवक्ष्यामि महाश्चर्यं वसुन्धरे ।। ५१ ।।
तत्र शङ्खप्रभं नाम गुह्यं क्षेत्रं परं मम।।
श्रूयते शंखशब्दश्च द्वादश्यामर्द्धरात्रके ।। ५२ ।।
गदाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ।।
यत्र वै कम्पते स्रोतो दक्षिणां दिशामाश्रि तम् ।। ५३ ।।
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः ।।
वेदान्तगानां विप्राणां फलं प्राप्नोति मानवः ।। ५४ ।।
अथ वै मुंचते प्राणान्कृतकृत्यो गुणान्वितः ।।
गदापाणिर्महाकायो मम लोकं प्रपद्यते ।। ५५ ।।
पुनश्चाग्निप्रभं नाम गुह्यं क्षेत्रं परं मम ।।
धारा पतति तत्रैका पूर्वोत्तरसमाश्रिता ।।५६।।
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः ।।
अग्निष्टोमात्पंचगुणं फलं प्राप्नोति मानवः ।।५७।।
अथात्र मुंचते प्राणान् मम कर्मसु निष्ठितः ।।
अग्निष्टोमफलं भुक्त्वा मम लोकं प्रपद्यते ।।५८।।
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ।।
हेमन्ते चोष्णकं तीर्थं ग्रीष्मे भवति शीतलम् ।। ५९ ।।
गुह्यं सर्वायुधं नाम तत्र क्षेत्रे परं मम ।।
पतन्ति सप्त स्रोतांसि हिमवन्निःसृतानि वै ।। १४५.६० ।।
तत्र स्नानं प्रकुर्वीत सप्तरात्रोषितो नरः ।।
राजा भवति सुश्रोणि सवार्युधकलान्वितः ।। ६१ ।।
अथ वै मुंचते प्राणान्मम कर्माविनिश्चितः ।।
स भुक्त्वा राज्य भोज्यानि मम लोकं च गच्छति ।। ६२ ।।
तत्र देवप्रभं नाम गुह्यं क्षेत्रं परं मम ।।
धाराः पंचमुखास्तत्र पतंति गिरिसंश्रिता ।। ६२।।
तत्र स्नानं तु कुर्वीत त्वष्टकालोषितो नरः ।।
चतुर्णामपि वेदानां याति पारं न संशयः ।। ६४ ।।
अथात्र मुंचते प्राणाँल्लोभमोहविवर्ज्जितः ।।
वेदकर्म समुत्सृज्य मम लोके महीयते ।। ६५ ।।
गुह्यं विद्याधरं नाम तत्र क्षेत्रं परं मम ।।
पंच धाराः पतन्त्यत्र हिमकूटविनिःसृताः ।। ६६ ।।
यस्तत्र कुरुते स्नानं मेकरात्रोषितो नरः ।।
याति वैद्याधरं लोकं कृतकृत्यो न संशयः ।।६७।।
अथात्र मुंचते प्राणान्वीतरागो गतक्लमः ।।
भुक्त्वा वैद्याधरान्भोगान्मम लोकं स गच्छति ।।६८।।
तत्र पुण्यनदी नाम गुह्यक्षेत्रे परे मम ।।
शिलाकुञ्जलताकीर्णा गन्धर्वाप्सरसेविता ।।६९।।
तत्र स्नानं तु कुर्वीत अष्ट रात्रोषितो नरः ।।
सप्तद्वीपेषु भ्रमति स्वच्छंदगमनालयः ।। १४५.७० ।।
अथात्र मुञ्चते प्राणान्मम कमार्नुसारकः ।।
सप्तद्वीपान् समुत्सृज्य मम लोकं स गच्छति ।।७१।।
गन्धर्वेति च विख्यातं तस्मिन् क्षेत्रं परं मम ।।
एकधारा पतत्यत्र पश्चिमां दिशमाश्रिता ।।७२।।
तत्र स्नानं तु कुर्वीत चतूरात्रो षितो नरः ।।
मोदते लोकपालेषु स्वच्छंदगमनालयः ।। ७३ ।।
अथात्र मुञ्चते प्राणान्ममकर्मपरायणः ।।
लोकपालान्परित्यज्य मम लोकं स गच्छति ।।७४।।
तत्र देवह्रदं नाम मम क्षेत्रं वसुन्धरे ।।
यत्र कांतासि मे भूमे बलेर्यज्ञविनाशनात्।।७५।।
स ह्रदो वरदः श्रेष्ठो मनोज्ञः सुखशीतलः ।।
अगाधः सौख्यदश्चापि देवानामपि दुर्ल्लभः ।।७६।।
तस्मिन् ह्रदे महाभागे मम वै नियमोदके ।।
मत्स्याश्चक्रांकिताश्चैव पर्यटन्ते इतस्ततः ।।७७।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे ।।
महाश्चर्यं विशालाक्षि यत्र तत्परिवर्त्तते ।।७८।।
पश्येति श्रद्दधानस्तु न पश्यत्पापपूरुषः।।
तस्मिन्देवह्रदे पुण्यं चतुर्विंशतिर्द्वादश ।।७९।।
सौवर्णानि च पद्मानि दृश्यन्ते भास्करोदये ।।
तावत्पश्यन्ति भूतानि यावन्मध्यन्दिनं भवेत् ।। १४५.८० ।।
यत्र स्नाता दिवं यांति शुद्धा वाक्कायजैर्मलैः ।।
तत्र स्नानं प्रकुर्वीत दशरात्रोषितो नरः ।।८१।।
दशानामश्वमेधानां प्राप्नोत्यविकलं फलम् ।।
अथाऽत्र मुञ्चते प्राणान्मम चिंताव्यवस्थितः ।।८२।।
अश्वमेधफलं भुक्त्वा भूमे मत्समतां व्रजेत् ।।
अन्यच्च ते प्रवक्ष्यामि क्षेत्रं गुह्यं परं मम।।८३।।
संभेदो देवनद्योस्तु समस्तसुखवल्लभः ।।
दिवोऽवतीर्य तिष्ठन्ति देवा यत्र सहप्रियाः ।।८४।।
गन्धर्वाप्सरसश्चैव नागकन्याः सहोरगैः ।।
देवर्षयश्च मुनयः समस्तसुरनायकाः ।। ८५ ।।
सिद्धाश्च किन्नराश्चैव स्वर्गादवतरन्ति हि ।।
नेपाले यच्छिवस्थानं समस्तसुखवल्लभम् ।। ८६ ।।
तेभ्यस्तेभ्यश्च स्थानेभ्यस्तीर्थेभ्यश्च विशेषतः ।।
महादेवजटाजूटान्नीलकण्ठाच्छिवालयः ।। ८७ ।।
श्वतेगंगेति या प्रोक्ता तया संभूय सादरम् ।।
नाना नद्यः समायाता दृश्यादृश्यतया स्थिताः ।। ८८।।
गण्डक्या कृष्णया चैव या कृष्णस्य तनूद्भवा ।।
तया संभेदमापन्ना या सा शिवतनूद्भवा ।।८९।।
त्रिशूलगंगेत्याख्याता सापि तत्र महानदी ।।
एवं नदीसमुद्भेदः सर्वतीर्थकदंबकम् ।। १४५.९० ।।
मम क्षेत्रे समाख्यातं पुण्यं परमपावनम् ।।
वसुधे त्वं विजानीहि देवानामपि दुर्ल्लभम् ।। ९१ ।।
यच्च सिद्धाश्रम इति विख्यातः पुण्यवर्द्धनः ।।
शंभोस्तपोवनं तत्र सर्वाश्रमवरं प्रति ।। ९२ ।।
नानापुष्पफलोपेतं कदलीषण्डमण्डितम् ।।
निचुलैश्चैव पुन्नागैः केसरैश्च विराजितम् ।। ९३ ।।
खर्ज्जूराशोकबकुलैश्चूतैश्चैव प्रियालकैः ।।
नारिकेलैश्च पूगैश्च चंपकैर्जंबुभिर्धवैः ।। ९४ ।।
नारंगैर्बदरीभिश्च जंबीरैर्मातुलुंगकैः ।।
केतकीमल्लिकाजातीयूथिकाराजिराजितम् ।। ९५ ।।
कुन्दैः कुरवकैर्नागैः कुटजैर्दाडिमैरपि ।।
आगत्य यत्र क्रीडन्ति देवानां मिथुनानि च ।। ९६ ।।
तस्मिन्ह्रदे महापुण्ये पुण्यनद्योस्तु संगमे ।।
स्नानाच्छताश्वमेधानां फलं प्राप्नोति मानवः ।। ९७ ।।
स्नात्वा तत्र तु वैशाखे गोसहस्रफलं भवेत् ।।
माघमासे पुनः स्नात्वा प्रयागस्नानजं फलम् ।।९८।।
कार्त्तिके मासि यः स्नाति तुलासंस्थे दिवाकरे ।।
विधिना नियतः सोऽपि मुक्तिभागी न संशयः ।। ९९ ।।
यस्त्रिरात्रमुषित्वा तु नियते नियता शनः ।।
राजसूयफलं प्राप्य मोदते देववद्दिवि ।। १४५.१०० ।।
यज्ञस्तपोऽथवा दानं श्राद्धमिष्टस्य पूजनम् ।।
यत्किंचित्क्रियते कर्म तदनन्तफलं भवेत् ।। १०१ ।।
भूमे तस्यापराधांश्च सर्वानेव क्षमाम्यहम् ।।
गंगायमुनयोर्यद्वत्संगमो मर्त्त्यदुर्ल्लभः ।। १०२ ।।
तथैवायं देवनद्यो संगमः समुदाहृतः ।।
एतद्गुह्यं परं देवि मम क्षेत्रे वसुन्धरे ।। १०३ ।।
अहमस्मिन्महाक्षेत्रे धरे पूर्वमुखः स्थितः ।।
शालग्रामे महाक्षेत्रे भूमे भागवत प्रियः ।। १०४ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
अन्तर्गुह्यं परं श्रेष्ठं यन्न जानन्ति मोहिताः ।। १०५ ।।
शिवो मे दक्षिणस्थाने तिष्ठन्वै विगतज्वरः ।।
लोकानां प्रवरः श्रेष्ठः सर्वलोकवरो हरः ।।१०६।।
तं ये विन्दन्ति ते देवि नूनं मामेव विन्दति ।।
ये मां विदन्ति देवेशि ते विदन्ति शिवं परम् ।।१०७।।
अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे ।।
तत्राहमपि तिष्ठामि आवयोर्नान्तरं क्वचित् ।।१ ०८।।
शिवं यो वन्दते भूमे स हि मामेव वन्दते ।।
लभते पुष्कलां सिद्धिमेवं यो वेत्ति तत्त्वतः ।। १०९ ।।
एवमेतन्महाभागे क्षेत्रं हरिहरात्मकम् ।।
मृता येऽत्र गतिं यान्ति मम कर्मानुसारिणः ।।१४५.११०।।
मुक्तिक्षेत्रं प्रथमतो रुरुखण्डं ततः परम् ।।
संभेदो देवनद्योश्च त्रिवेणी च ततः परम् ।।१११।।
क्षेत्रं प्रमाणं विज्ञेयं गण्डकी सङ्गतं परम् ।।
एवं सा गण्डकी देवि नदीनामुत्तमा नदी ।।११२।।
गङ्गया मिलिता यत्र भागीरथ्या महाफला ।।
अपरं तन्महत्क्षेत्रं हरिक्षेत्रमिति स्मृतम् ।।११३।।
आदौ सा गण्डकी पुण्या भागीरथ्या च सङ्गता ।।
तस्य तीर्थस्य महिमा ज्ञायते न सुरैरपि ।।११४।।
एतत्ते कथितं भद्रे शालग्रामस्य सुन्दरि ।।
गण्डक्याश्चैव माहात्म्यं सर्वकल्मषनाशनम् ।।११५।।
पूर्वपृष्टं तया यच्च पुण्यं भागवतप्रियम् ।।
आख्यानानां महाख्यानं द्युतीनां परमा द्युतिः ।।११६।।
पुण्यानां परमं पुण्यं तपसां च महत्तपः ।।
गुह्यानां परमं गुह्यं गतीनां परमा गतिः ।।११७ ।।
महालाभस्तु लाभानां नास्त्यस्मादपरं महत् ।।
पिशुनाय न दातव्यं न शठाय गुरुद्रुहे ।।११८।।
ये च पापाः कृतघ्नाश्च द्विजदेवापराधिनः ।।
कुशिष्याय न दातव्यं न दद्याच्छास्त्रदूषके ।।१ १९।।
नीचाय न च दातव्यं ये न जानन्ति सेवितुम् ।।
सुशिष्याय च दातव्यं धीराय शुभ बुद्धये ।।१४५.१२०।।
लोभमोहमदाद्यैर्ये वर्जिताः पुण्यबुद्धयः ।।
य एतत्पठते नित्यं कल्यमुत्थाय मानवः ।।१२१।।
कुलानि तारितान्येवं सप्त सप्त च सप्त च ।।
एवं मरणकाले तु न कदाचिद्विमुह्यते ।।१२२।।
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति ।।
क्षेत्रस्य शालग्रामस्य माहात्म्यं परमं मया ।।१२३।।
कथितं ते महादेवि किमन्यच्छ्रोतुमिच्छसि ।।१२४।।
इति श्रीवराहपुराणे भगवच्छास्त्रे शालग्रामक्षेत्रमाहात्म्यं नाम पंचचत्वारिंशदधिकशततमोऽध्यायः ।। १४५।।