२ ।] पद्मावतीलम्बुकः १७।। ५४५ मुक्तवतो देवांस्तानुवाच जनार्दनः । किं न जानामि यद्भग्ना स्थितिस्तेनासुरेण मे ॥ १०७ तु स्वयं यदीशेन कृतं त्रिपुरघातिना । तत्तेनैवान्यथा कर्तुं शक्यते न पुनर्भया ॥ १९८ एव च तस्य स्यात्क्षयो दैत्यस्य पाप्मनः । वरध्वं यदि तावद् वच्म्युपायं निशम्यताम् ॥ १०९ त माहेश्वरं क्षेत्रं दिव्यं सिद्धीश्वराभिधम् । तत्र संप्राप्यते देवो नित्यसंनिहितो हरः । ११० च दर्शितज्वालालिङ्गरूपः स एव मे । पूर्वं प्रजापतेश्च प्राग्रहस्यमवद्विभुः । १११ = तत्र गत्वा तं तपसा प्रार्थयामहे । स एवोपद्रवमिमं जगतां शमयिष्यति । ११२ दिष्टवत तेन देवेन सह विष्णुना । ते तार्यहंसयानाभ्यां सर्वे सिद्धीश्वरं ययुः ॥ ११३ स्पृष्टे जरामृत्युरोगैः सौख्यैकधामनि । हेमरत्नमया यत्र मृगपक्षिद्मा अपि ११४ न्तर्दर्शितान्योन्यमूर्तिभेदं क्षणे क्षणे । अन्यान्यरत्नरूपं च लिङ्गमभ्यर्यं शूलिनः । ११५ रास्ते हरिव्रह्म देवेन्द्रो दिविषद्रुः । तेपिरे हरमुद्दिश्य चत्वारो दुश्चरं तपः । ११६ न्तरे च क्षत्रेण तपसा तोषितः शिवः । चन्द्रकेतोर्वरं तस्य विद्याधरपतेरदात् । ११७ तष्टोत्पत्स्यते राजन्महावीरः स ते सुतः । विद्युद्वजं यः समरे युष्मच्छतुं हनिष्यति ॥ ११८ पावतीण मानुष्ये कृतामरहितश्च यः । गन्धर्वराजदुहितुः पद्मावत्यास्तपोबलात् । ११९ स्खपदमासाद्य तयैव सह भार्यया । सर्व विद्याधरैश्वर्यं दश कपांन्करिष्यति ॥ १२० t दत्तवरे देवे तिरोभूते सभार्यकः। चन्द्रकेतुस्तदैवागास वायुभुवनं पुनः । १२१ अतीव्रतपस्तुष्टस्तत्र खिीश्वरेऽपि तान् । नारायणादलिङ्गान्तर्दष्टो हृष्टान्हरोऽब्रवीत् । १२२ तेष्टतालं छेशेन युष्मत्पक्ष्येण तोषितः। विद्याधरेश्वरेणाहं तपसा चन्द्रकेतुना । १२३ शसंभवस्तस्य वीरः पुत्रो जनिष्यते । यस्तं विद्युद्वजं दैत्यं हनिष्यत्यचिराद्रणे । १२४ ऽन्यदेवकार्यार्थं मानुष्ये शापतच्युतम् । पाशेखरगन्धर्वसुता तं प्रोद्धरिष्यति । १२५ मावत्याख्यया सार्धे तया गौर्यांशजातया । पल्या घुचरसाम्राज्यं कृत्वा मामेव चैष्यति ॥ १२६ सहध्वं मनागेष कामः संपन्न एव वः । इत्यच्युतादीनुक्त्वा ताञ्जगामादर्शनं शिवः । । १२७ यो हृष्टो हरिह्मा शक्रमगुरू च तौ । जग्मुः स्थानानि तान्येव ते भूयो येभ्य आगताः ॥ १२८ थ विद्याधरेन्द्रस्य तस्य मुक्ताबी प्रिया । चन्द्रकेतोः सगर्भकाले च सुषुवे सुतम् । १२९ काशयन्तं ककुभो दुराधर्षेण तेजसा । तामसोपद्रवं हथै बालमर्कमिवोदितम् । १३ ते च तस्मिन्नित्यत्र भारती शुश्रुवे द्विः । चन्द्रकेतो सुतोऽयं ते हन्ता विखुजासुरम् ॥ १३१ आम्ना च विद्धथमं मुक्ताफलकेतुं द्विषन्तपम् । इत्युक्त्वा चन्द्रकेतुं सा सोत्सवं विरराम वा ॥ १३२ भात पुष्पवृष्टिश्च ज्ञातार्थः पद्मशेखरः । शक्रश्चाययतुस्तत्र ये च च्छन्नाः स्थिताः सुराः । १३३ प्रसादवृत्तान्तमाचक्षाणाः परस्परम् । अनुभूय प्रमोदं ते स्वस्थानान्येव शिश्रियुः ॥ १३४ मुक्ताफलकेतुश्च सर्वसंस्कारसंस्कृतः । सहानन्देन देवानां क्रमातृद्धिमुपागमत् । १३५ थ तस्य दिनैः कन्या पुत्रोत्पत्तेरनन्तरम् । गन्धर्वाधिपतेः पञ्जशेखरस्याप्यजायत ॥ १३६ न्धर्वेन्द्र सुतेयं ते भार्या विद्युद्विषः । विद्याधरपतेः पद्मावती नाम भविष्यति १३७ ति तस्यां च जातायां गगनादुदगाद्वचः । ततः पझावती मात्र क्रमात्कन्या व्यवर्धत । १३८ |धांशुठोकसंभूतिसंक्रान्तेन तरङ्गिणा । अमृतेनेव लावण्यविसरेण विराजिता ॥ १३९ Iोऽपि बालोऽभवन्मुक्ताफलकेतुर्महामतिः । व्रतोपवासादि तपश्चक्रे शिवमयः सदा । १४० एकदा ध्याननिष्ठं तं द्वादशाहमुपोषितम् । प्रत्यक्षीभूय भगवाञ्जगाद गिरिजापतिः । १४१ ष्टोऽस्मि तेऽनया भक्त्या मप्रसादेन तत्तव । आविर्भविष्यन्त्यस्राणि विद्याः सर्वकलास्तथा ॥ १४२ पराजितसंज्ञे च खङ्गमेतं गृहाण मे । कससि येन साम्राज्यं विपदैरपराजितः । १४३ त्युक्त्वा स विभुस्तस्मै खत्रं दत्त्वा तिरोदधे । स चाशु राजपुत्रोऽभून्महास्त्रबलविक्रमः । १४४ नेत्रान्तरे कदाचित्स विद्युद्वजमहासुरः । त्रिदिवस्थो जलक्रीडां चक्रे धूसरिदम्भसि ।। १४५ ६९
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४७
दिखावट