पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ [ आदितस्तरङ्ग ददर्श स जडं तस्याः कपिशं पष्परेणुभिः। मद्गन्धानुविद्धं च वीचिविक्षोभितं महत् । ततो भुजमदाध्मातः स जगाद निजानुगान् । ममाप्युपरि कः क्रीडत्यम्भोभियत पश्यत । तच्छुत्वोपरि यातास्ते पश्यन्ति स्मासुरा जले । क्रीडन्तं वृषभं शार्वं सह शक्रेण दन्तिना । आगत्य च तमूचुस्ते दैत्येन्द्र देव शांभवः । उपर्येत्य वृषः क्रीडयैरावणयुतोऽम्भसि । तन्माल्यैरावणमदव्यामिश्रितमिदं पयः । श्रुत्वेत्यगणयञ्शर्वे मद्वचुक्रोध सोऽसुरः । स्वदुष्कृतपरीपाकमूढो भृत्यानुवाच च। यातानयत तौ बद्धा वृषभैरवणाविति । ततो गत्वा जिघृक्षन्ति यावत्तौ ते किलासुराः । तावत्ताञ्जघ्नतुः क्रुद्धौ तौ प्रधाव्य वृषद्विपौ । हतशेषाश्च जगदुर्गत्वा विद्युद्वजाय तत् । स क्रुद्धः प्राहिणोतौ प्रत्यासुरं सुमहद्वलम् । मथित्वा तस्य तत्सैन्यं पापपकागतक्षयम् । वृषो हरान्तिकं प्रायादिन्द्रमैरावणोऽभ्यगात् । इन्द्रोऽथ तस्य दितिजस्य विचेष्टितं तदैरावणानुचररक्षिगणान्निशम्य । संप्राप्तनाशसमयं तममन्यतारिं गौरीपतेर्भगवतोऽपि छतावमानम् । आवेद्य तत्कमलजाय ततः समेत्य विद्याधरादिसहितः सह देवसैन्यैः । हन्तुं रिपुं तमधिरूढसुरेभमुख्यः शक्रः शचीरचितमाङ्गलिकः प्रतस्थे । इति महाकविश्रीरामदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके द्वितीयस्तरङ्गः । तृतीयस्तरङ्गः ततस्त्रिविष्टपं प्राप्य स शक्रः पर्यवेष्टयत् । इरानुग्रहसोत्साहैर्लब्धकालयलैर्बलैः । तह्या निर्ययौ विद्युद्वजः संनद्धसैनिकः । प्रवर्तन्तानिमित्तानि तस्य निर्गच्छतस्तदा । ध्वजेषु विद्युतः पेतुरैसुगृध्रास्तथोपरि । अभज्यन्त महछत्राण्यशिवं चारुवञ्शिवाः । तान्यरिष्टान्यगणयन्निरगादेव सोऽसुरः। देवासुराणां च ततः प्रावर्तत महाहवः । स मुक्ताफलकेतुः किं नाद्याप्येतीति वक्रिणा । पृष्टोऽथ चन्द्रकेतुस्तं खेचरेन्द्रो व्यजिज्ञपत् । विस्मृत्य त्वरया तस्य नोक्तमागच्छता मया । स तु बुद्ध्वा ध्रुवं पश्चादागच्छयेव सवरम् ॥ एतच्छुत्वा स देवेन्द्रश्चतुरं वायुसारथिम् । श्रीमुक्तफलकेतुं तमानेतुं प्राहिणोद्रथम् । पिता च तत्समं तस्य चन्द्रकेतुः ससैनिकम् । आह्वानाय प्रतीहारं विससर्ज रथानुगम् ॥ स मुक्ताफलकेतुश्च बुद्धा दैत्याहवे गतम् । पितरं सानुगो गन्तुं तत्रैवाभ्युद्यतोऽभवत् । ततो जयगजारूढो जननीकृतमङ्गलः । वायुलोकादुद्चलरस बिभ्रत्खङ्गमैश्वरम् । प्रस्थितस्यापतत्तस्य पुष्पवृष्टिर्नभस्तलात् । देवाश्च दुन्दुभीजनुवयवश्च ववुः शिवाः । मिलित्वा परिवर्तुश्च ते तं देवगणास्ततः । आसन्पलाय्य प्रच्छन्ना ये विद्युद्वजभीतितः तेन सैन्येन महता सह गच्छन्ददर्श सः । मार्गे मेघवनं नाम पार्वत्यायतनं महत् । तदनुलयन्भक्त्या गजात्रावतीर्य सः । आहृत्य दिव्यपुष्पाणि देवीं प्रावर्ततार्चितुम् ।। अत्रान्तरे च गन्धर्वपतेः सा प्राप्तयौवना । पद्मावती सुता पद्मशेखरस्य सखीवृता । भर्तुः सङ्कामयातस्य श्रेयोर्थे तपसि स्थिताम् । मातरं स्वामनुज्ञाप्य विमानेनेन्दुठोकतः । शिवार्थिनी पितुः संख्ये वरस्याभीप्सितस्य च । तदेव तपसे दिव्यं गौर्यायतनमाययौ । वरो नाद्यापि ते कश्चिन्निश्चितो यो युधि स्थितः । पितुः श्रेयोनिमित्तं च माता ते संश्रिता तपः । त्वं तु कन्या तपः कस्य कृते सखि चिकीर्षसि । इत्युक्ता पथि सख्या सा पद्मावत्यत्रवीदिदम् । पिंतैव सखि कन्यानां दैवतं सर्वसिद्धिकृत् । वरोऽप्यनन्यसामान्यगुणो निश्चित एव मे । विद्युङ्कजं निहन्तुं यो जातो विद्याधरेन्द्रतः । स मुक्ताफळकेतुर्मे व्यादिष्टः शंभुना पतिः । एतन्मयाम्बापृष्टस्य तातस्यैव मुखाच्छुतम् । स च यास्यति यातो वा सङ्ग्रामे मे वरो ध्रुवम् । अतो भगवतीं गौरीं तपसाराधयाम्यहमू । विजयाकाङ्किणी तस्य पत्युस्तातस्य चोभयोः ।