पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ कथासरित्सागरः । [ आदितस्तरङ्गः वायुर्मनोजवेनेन्द्रं तं रथेनान्यतोऽहरत् । विद्युद्वजोऽस्य पश्चाच्च दत्तझम्पोऽपतद्भुवि । अकालोऽयं रणादिन्द्रमपसारयत ख़तम् । इति तत्क्षणमाकाशादुचचार सरस्वती ॥ ततोऽपसारिते शक्रे वायुना रथवेगतः । विद्युद्वजो रथारूढो यावत्तमनुधावति । तावदैरावणः क्रुद्धो धावित्वैव निरङ्कुशः। मश्नन्विद्राव्य सैन्यानि यतः शक्रस्ततो ययै । ततो मुक्त्वा रणं देवसैन्येऽपीन्द्रमनुद्रुते । निनाय ब्रह्मभवनं भीतां सुरगुरुः शचीम् । अथ विद्युद्वजः प्राप्य जयं शन्यामवाप्य च । नदद्भिः सहितः सैन्यैः प्रविवेशामरावतीम् । इन्द्रोऽपि लब्धसंज्ञः सनकालं वीक्ष्य संप्रति । तदेव ब्रह्मभवनं सह सर्वामरैरगात् । संप्रत्यसौ हरवरप्रभावो मा शुचं कृथाः। प्राप्तासि स्वपदं भूय इत्याश्वस्य पितामहः खं समाधिस्थलं नाम तस्य सर्वसुखावहम् । ब्रह्मलोकैकदेशस्थं स्थानं वसतये ददौ । तत्रोवास स देवेन्द्रः शच्यैरावणसंगतः। तद्वाक्याद्वायुलोकं च जग्मुर्विद्याधरेश्वराः । अधृष्यं सोमलोकं च गन्धर्वपतयो ययुः । अन्यलोकान्ययुश्चान्ये त्यक्तस्वस्वनिकेतनाः । विद्युद्वजश्च देवानां भूमिं भ्रमितडिण्डिमः । आक्रम्य बुभुजे राज्यं निर्मर्यादस्त्रिविष्टपे । अत्रान्तरे कथासंधौ वायुठोके चिरस्थितः । विद्याधरेश्वरश्चन्द्रकेतुरेवं व्यचिन्तयत् । स्वपप्रच्युतेनेह मया स्थेयं कियचिरम्। नास्ति विद्युद्वजस्याद्याष्यस्मच्छत्रोस्तपः क्षयः । श्रुतं मया यत्स गतः सुहृन्मे पद्मशेखरः । गन्धर्मेन्द्रः शिवपुरं तपसे सोमलोकतः ।। तस्य प्रसादो देवेन कृतः किमु न वेत्यहम् । नाद्यापि जाने तद्वद्मा ज्ञास्ये कर्तव्यमात्मनः । इति ध्यायति यावच्च तावदभ्याययौ स तम् । विद्याधरेन्द्रं गन्धर्वराजः प्राप्तवरः सखा । स तेनालिष्य विहितस्वागतश्चन्द्रकेतुना । पृष्टश्च निजवृत्तान्तं गन्धर्वपतिरभ्यधात् । गत्वा शिवपुरे शंभु तपसाहमतोषयम् । स च मामादिशनच्छ पुत्रस्ते भवितोत्तमः । पुनः प्राप्स्यसि राज्यं च कन्यां सर्वोत्तमामपि । विद्युद्वजान्तको यस्या वीरो भर्ता भविष्यति ॥ इत्यादिष्टो हरेणाहं तवैतद्वक्तुमागतः । गन्धर्वेन्द्रादिति श्रुत्वा चन्द्रकेतुरुवाच सः ॥ मयाप्येतस्य दुःखस्य शान्त्यै गत्वा महेश्वरः। आराध्यतमनाराध्य न सन्तीप्सितसिद्धयः । इति निश्चित्य तपसे दिव्यं क्षेत्रं त्रिशूलिनः। मुक्तावल्या समं पत्न्या चन्द्रकेतुर्जगाम सः ॥ सोऽपि स्ववरवृत्तान्तमिन्द्रायोक्त्वा रिपुक्षये । उत्पन्नास्थो ययौ सोमभुवनं पद्मशेखरः । ततः सुरपतिस्तत्र स समाधिस्थले स्थितः । जातास्थः संक्षये शत्रोरमर्यगुरुमस्मरत् । संस्मृतोपस्थितं तत्र प्रहः सत्कृत्य सोऽब्रवीत् । तपस्तुष्टः शिवः पद्मशेखरस्य समादिशत् । विद्युद्वजस्य हन्तारं भाविजामातरं किळ । तस्य दुष्कृतस्यान्तस्तावन्नः किं त्वहं चिरम् । निवसन्निह निर्विण्णः स्वपदभृशदुःस्थितः । तञ्चिन्तयात्र भगवनुपायं शीघ्रकारिणम्। इति देवगुरुः शक्राद्वचः श्रुत्वा जगाद तम् । कामं तस्य रिपोः प्राप्तो दुष्कृतैस्तपसः क्षयः । तस्मादत्रसरोऽस्माकं स्वप्रयत्नविधेरयम् । तदेहि ब्रह्मणे धूमः स उपायं वदिष्यति । इत्युक्तो गुरुणा शक्रस्तद्युक्तो ब्रह्मणोऽन्तिकम् । ययौ प्रणम्य तस्मै च शशंस स्वमनोगतम् । ततः स्वयंभूरवचिन्तैषा न ममापि किम् । किं तु शर्वकृतं शर्वेणैव शक्यं व्यपोहितुम् । स च देवश्चिरं प्राप्यस्तदेत निकटं हरेः। तदभिन्नात्मनो यामः सोऽभ्युपायं वदिष्यति । इति संमध्य स ब्रह्म शक्रः सुरगुरुश्च सः । हंसयानमुपारुह्य वेतद्वीपमुपागमन् । यत्र सर्वो जनः शङ्कचक्रपद्मगदाधरः। चतुर्युजश्च मूर्ती च चित्ते च भगवन्मयः । तत्र ते ददृशुर्देवं महारत्नगृहान्तरे । सेविताङ् िकमलया शेषशय्यागतं हरिम् । कृतप्रणामास्तस्मै ते यथार्ह तेन सत्कृताः । देवर्षिवन्दिताश्चात्र यथोचितमुपाविशन् । भगवत्पृष्टकुशला देवास्ते तं व्यजिज्ञपन् । कुशलं किमिवास्माकं देव विद्युद्वजे सति । जानात्येव हि तत्सर्वं देवो यत्तेन नः कृतम् । तदर्थश्चागमोऽयं नस्तद्देवो वेत्यतः परम् ।