सामग्री पर जाएँ

पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
॥ मालविकाग्निमित्रम् ॥
। ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।
राजा । आत्मगतम् ।
तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः
संप्राप्तायां नयनविषयं रूढरागप्रवालः ।
हस्तस्पर्शे मुकुलित इव व्यक्तरोमोद्गतत्वात्
कुर्यात्क्लान्तं मनसिजतरुर्मां रसज्ञं फलस्य ॥ १ ॥
प्रकाशम् । सखे गौतम ।
प्रतीहारी[]जेदु भट्टा । असंणिहिदो गोदमो ।
राजा । आत्मगतम् । अये मालविकावृतान्तज्ञानाय प्रेषितः ।
विदूषकः । प्रविश्य । []जेदु भवं ।
राजा । जयसेने जानीहि क्व देवी धारिणी कथं वा सरुजचरणत्वाद्विनोद्यत इति ।
प्रतीहारी[]जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
राजा । सखे को वृत्तान्तस्ते सख्यास्तत्रभवत्याः ।
विदूषकः[]जो बिडालगहीदाए परहुदिआए ।
राजा । सविषादम् । कथमिव ।

6. B D F रोमोद्गमत्वात्.
8. B भट्टो.
16. A B C D E गहिदाए.

  1. जयतु भर्ता । असंनिहितो गौतमः ।
  2. जयतु भवान् ।
  3. यद्देव आज्ञापयति ।
  4. यो बिडालगृहीतायाः परभृतिकायाः ।