पुटमेतत् सुपुष्टितम्
३७
॥ मालविकाग्निमित्रम् ॥
- राजा । न क्षमामिदं ।
- विदूषका । 1कहं विअ ।
- राजा । वयस्य निसर्गनिपुणाः स्त्रियः। कथं मामन्यसंक्रान्तहृदयमुपलायन्तमापि ते सखी न लक्षयिष्यति । अतः पश्यामि
- उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः।
- उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोपि भावशून्यः ॥
- ॥३॥
- विदूषकः । 2णारुहदि भवं अन्तेउरपडिठ्ठिदं दख्खिण्णं एक्कपदे पिठ्ठदो कादुं ।
- राजा । विचिन्त्य । तेन हि प्रमदवनमार्गमादेशय ।
- विदूषकः । 3इदो इदो भवं ।
। उभौ परिक्रामतः ।
- विदूषकः। 4वसन्दो किल एदाहिं पवणचलिदाहिं पल्लवङ्गुलीहिं
- तुवरेदि विअ भवन्तं एदं पमदवणं पविसेत्ति
- १. कथमिव।
- २. नार्हति भवानन्तःपुरप्रतिष्ठतं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
- ३.इत इतो भवान् ।
- ४.वसन्तः किलैताभिः पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तमेतत्प्रमदवनं
- प्रविशेति ।
|
|