विप्राश्चारुरुहुस्रसात्तं दृष्टैव मठोपरि । प्रवादमोहितः प्रायो न विचारक्षमो जनः ॥ २१९
अथ द्विजान्हरस्वामी तानेकैकमधः स्थितः । नामग्राहं समाहूय स जगादोपरि स्थितान् ॥ २२०
कोऽयं मोहोऽद्य वो विप्रा नावेक्षध्वं परस्परम्। कियन्तो बालकाः कस्य मया कुत्र च भक्षिताः ॥ २२१
तच्छुत्वा यावदन्योन्यं विप्राः परिमृशन्ति ते । तावत्सर्वेऽपि सर्वेषां जीवन्तो बालकाः स्थिताः ॥ २२२
क्रमान्नियुक्ताश्चान्येऽपि पौरास्तत्र तथैव तत् । प्रत्यपद्यन्त सर्वेऽपि सविप्रवणिजोऽब्रुवन् ॥ २२३
अहो विमूढेरस्माभिः साधुर्मिथ्यैव दूषितः । जीवन्ति बालाः सर्वेषां तत्कस्यानेन भक्षिताः ॥ २२४
इत्युक्तवत्सु सर्वेषु हरस्वामी तदैव सः । संपन्नशुद्धिर्नगराद्रन्तुं प्रववृते ततः ॥ २२५
दुर्जनोत्पादितावद्यविरक्तीकृतचेतसः। अविवेकिनि दुर्दशे रतिः का हि मनस्विनः ॥ २२६
ततो वणिग्भिर्विप्रैश्च प्रार्थितश्चरणानतैः। कथंचित्स हरस्वामी तत्र वस्तुममन्यत ॥ २२७
इत्थं सच्चरितावलोकनलसद्विद्वेषवाचालिता
मिथ्यादूषणमेवमेव ददति प्रायः सतां दुर्जनाः ।
किंचित्कि पुनराप्नुवन्ति यदि ते तत्रावकाशं मना-
द्रष्टं तज्ज्वलितेऽनले निपतितः प्राज्याज्यधारोत्करः ॥ २२८
तस्माद्विशल्यर्थाितुमिच्छसि मां यदि त्वं वत्से तदुन्मिषति नूतनयौवनेऽस्मिन् ।
न स्वेच्छमर्हसि चिरं खलु कन्यकात्वभासेवितुं सुठभदुर्जनदुष्प्रबदम् ॥ २२९
इत्युक्ता नरपतिना पित्रा प्रायेण कनकरेखा सा ।
निजगाद राजतनया तमवस्थितनिश्चया भूयः ॥ २३०
दृष्टा कनकपुरी सा विप्रेण क्षत्रियेण वा येन ।
तर्हि तमाशु गवेषय तस्मै मां देहि भाषितं हि मया ॥ २३१
तच्छुत्वा दृढनिश्चयां विगणयजतिस्मरां तां सुतां
नास्याश्चान्यमभीष्टभर्तृघटने पश्यनुपायक्रमम् ।
देशे तत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुका
न्भूयो भूमिपतिः स नित्यपटहप्रोद्धोषणामादिशत् ॥ २३२
यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्सोऽभिधत्तां
तस्मै राजा किल स्वां वितरति तनयां यैौवराज्येन साकम् ।
सर्वत्राघोष्यतैवं पुनरपि पटहानन्तरं चात्र शश्व-
न त्वेकः कोऽपि तावत्कृतकनकपुरीदर्शनो लभ्यते स्म ॥ २३३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके प्रथमस्तरङ्गः।
*****
द्वितीयस्तरङ्गः
अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः । अचिन्तयदभिप्रेतराजकन्यावमानितः ॥ १
मयेह मिथ्याकनकपुरीदर्शनवादिना । विमानना परं प्राप्ता न त्वसौ राजकन्यका ॥ २
तदेतत्प्राप्तये तावद्धमणीया मही मया । यावत्सा नगरी दृष्टा प्राणैर्वापि गतं मम ॥ ३
तां हि दृष्ट्वा पुरीमेत्य तपणोपार्जितां न चेत् । उभेय राजतनयामेनां किं जीवितेन तत् ॥ ४
एवं कृतप्रतिज्ञः सन्वर्धमानपुरात्ततः । दक्षिणां दिशमाळस्थ्य स प्रतस्थे तदा द्विजः ॥ ५
क्रमेण गच्छंश्च प्राप सोऽथ विन्ध्यमहाटवीम् । विवेश च निजां वाञ्छामिव तां गहनायताम् ॥ ६
तस्यां च मारुताधूतमृदुपादपपलवैः । वीजयन्त्यामिवात्मानं तप्तमर्ककरोत्करैः ॥ ७
भूरिचौरपराभूतिदुःखादिव दिवानिशम् । क्रोशन्यां तीव्र सिंहादिहन्यमानमृगारवैः ॥ ८
स्वच्छन्दोच्छलदुद्दममहामरुमरीचिभिः। जिगीषन्त्यामिवायुप्राण्यपि तेजांसि भास्त्रतः ॥ ९