सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
[ आदितस्तरङ्ग
कथासरित्सागरः ।

सोऽपि राज्ञः प्रियो भूत्वा दिनैः प्राप परां श्रियम् । शेवधिः शूरविद्यस्य विशेषज्ञो विशांपतिः॥ १२७

सोऽथ जातु ययौ राजा चतुर्दश्यां बहिः पुरे । सुप्रतिष्ठापितं दूरे देवमर्चयितुं शिवम् ॥ १२८

कृतार्चनस्ततो नक्तं श्मशानस्यान्तिकेन सः । आगच्छन्नष्णोदेतां तन्मध्यादुद्गतां गिरम् ॥ १२९

अहो दण्डाधिपेनेह मिथ्या वध्यानुकीर्तनात् । दूषेण विद्धः शूलायां तृतीयं दिवसं प्रभो ॥ १३

अद्यापि च न निर्यान्ति प्राणा मे पापकर्मणः । तवैव तृषितोऽत्यर्थमहं दापय मे जलम् ॥ १३१

तच्छुत्वा क्रुपया राजा स पार्श्वस्थमुवाच तम् । अशोकद्त्तमस्याम्भः प्रहिणोतु भवानिति ॥ १३२

कोऽन्न रात्रं व्रजेद्देव तद्च्छाम्यहमात्मना । इत्युक्स्वाशोकदत्तः स गृहीत्वाम्भस्ततो ययौ॥ १३३

याते च स्वपुरीं राज्ञि स वीरो गहनान्तरम् । महत्तरेण तमसा सर्वतोऽन्तरधिष्ठितम् ॥ १३४

शिवावकीर्णापिशितप्रत्तसंध्यामहाबलि। क्वचित्कचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ॥ १३५

लसदुत्तालवेतालताळवाद्य विवेश तत्। इमशनं कृष्णरजनीनिवासभवनोपमम् ॥ १३६

केनाम्भो याचितं भूपादियुचैस्तत्र स ब्रुवन् । मया याचितमित्येवमष्टणोद्वाचमेकतः ॥ १३७

गत्वा तदनुसारेण निकटस्थं चितानलम् । ददर्श तत्र ३ळाने बिऊँ कंचित्स पूरुषम् ॥ १३८

अधश्च तस्य रुदतीं सदलंकारभूषिताम् । अदृष्टपूर्वा सर्वाङ्गसुन्दरीं स्त्रियमैक्षत ॥ १३९

कृष्णपक्षपरिक्षीणे गतेऽस्तं रजनीपतौ। चितारोहाय तद्रश्मिरस्यां रात्रिमिवागताम् ॥ १४०

का त्वमम्ब कथं चेह रुदत्येवमवस्थिता । इति पृष्टा च सा तेन योषिदेवं तमब्रवीत् ॥ १४१

अस्याहं शुद्धविद्धस्य भार्या विगतलक्षणा । निश्चिताशा स्थितास्मीह चितारोहे सहामुना ॥ १४२

कंचित्कालं प्रतीक्षे च प्राणानामस्य निष्क्रमम् । तृतीयेऽह्नि गतेऽप्यद्य यान्येतस्य हि नासवः ॥ १४३

याचते च मुहुस्तोयसानीतं च मयेह तत् । किं त्वहं नोन्नते शले प्राप्नोम्यस्य मुखं सखे ॥ १४४

इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् । इदं स्वस्य नृपेणापि हस्ते मे प्रेषितं जलम् ॥ १४५

तन्मे पृष्ठे पदं दत्त्वा देठेतस्यैतदानने । न परस्पर्शमात्रं हि स्त्रीणामापदि दूषणम् ॥ १४६

एतच्छुत्वा तथेत्यात्तजला दत्त्वा पदद्वयम्। शयलमूलावनम्रस्य पृष्ठं तस्यारुरोह सा ॥ १४७

क्षणाद्धवि स्वपृष्ठे च रक्तबिन्दुष्वशङ्कितम् । पतत्सु मुखमुन्नम्य स वीरो यावदीक्षते ॥ १४८

तावन्नियमपश्यत्तां छित्त्वा कुरिकया मुहुः । खादन्तीं तस्य मांसानि पुंसः शूलाग्रवर्तिनः ॥ १४९

ततस्तां विकृतिं मवक्रोधादाकृष्य स क्षितौ । आस्फोटयिष्यजग्राह पादे रणितनूपुरे ॥ १५०

सापि तं तरसा पादमाक्षिप्यैव स्वमायया । क्षिप्रं गगनमुत्पत्य जगाम क्लष्यदर्शनम् ॥ १५१

तस्य चाशोकदत्तस्य तत्पादान्मणिनूपुरम् । तस्मादाकर्षणस्रस्तमवतस्थे करान्तरे ॥ १५२

ततस्तां पेशलमादवधःकत्र च मध्यतः । अन्ते विकारघोरां च दुर्जनैरिव संगतिम् ॥ १५३

नष्टां विचिन्तयन्पश्यन्हस्ते दिव्यं च नूपुरम् । सविस्मयः सभितापः सहर्षश्च बभूव सः ॥ १५४

ततः श्मशानतस्तस्मात्स जगामतनूपुरः । निजगेहं प्रभाते च ततो राजकुलं यथैौ ॥ १५५

किं तस्य शलविद्धस्य दत्तं वारीति पृच्छते । राज्ञे स च तथेत्युक्त्वा तं नूपुरमुपानयत् ॥ १५६

एतत्कुत इति स्वैरं पृष्टस्तेन स भूभृता । तस्मै स्वरात्रिवृत्तान्तं शशंसाङतभीषणम् ॥ १५७

ततश्चानन्यसामान्यं सत्त्वं तस्यावधार्य सः । तुष्टोऽप्यन्यगुणोत्कर्षातुतोष सुतरां नृपः ॥ १५८

गृहीत्वा नूपुरं तं च गत्वा देव्यै ददौ स्वयम् । हृष्टस्तत्प्राप्तिवृत्तान्तं तस्यै च समवर्णयत् ॥ १५९

सा तदुद्ध च दृष्ट्वा च तं दिव्यं मणिनूपुरम्। अशोकदत्तश्चैकतत्परा मुमुदे रहः ॥ १६०

ततो जगाद तां राजा देवि जात्येव विद्यये। सत्येनेव च रूपेण महतामप्ययं महान् ॥ १६१

अशोकदत्तो भव्याया भर्ता च दुहितुर्यदि । भवन्मदनलेखायास्तल द्रमिति मे मतिः ॥ १६२

वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी । तदेतस्मै प्रवीराय ददाम्येतां मुतामहम् ॥ १६३

इति भर्तुर्वचः श्रुत्वा देवी सा साद्रावदत् । युक्तमेतदसौ ह्यस्या युवा भर्तानुरूपकः ॥ १६४

सा च तेन मधूद्यानदृष्टेन हृतमानसा । श्न्याशया दिनेष्वेषु न श्रुणोति न पश्यति ॥ १६५