५३२ कथासरित्सागरः । [ आदितस्तरङ्गः एवं भवन्ति प्रच्छन्ना दिव्या देवि सदा भुवि । तदेषा कापि दिव्यैव नान्या सुरतमञ्जरी । अन्यदेव हि तद्रन्नं मत्सूनोः सा च निश्चितम् । जन्मान्तरप्रियतमा चक्षुरागोपवर्णिता । एवमस्मासु तिष्ठसु राज्ञि ब्रुवति पालके । अवर्णयमहं तत्र कैवर्तीयामिमां कथाम् ॥ अभून्मळसिंहाख्यो राजा राजगृहे पुरा । तस्य मायावतीत्यासीद्वैपेणाप्रतिमा सुता ॥ सा क्रीडन्ती मधूद्याने रूपयौवनशालिना। कैवर्तककुमारेण दृष्टा केनापि जातुचित् । स च तां सुप्रहराख्यो दृष्ट्वा स्मरवशोऽभवत् । साध्यासाध्यविचारं हि नेक्षते भवितव्यता । गत्वा च स्वगृहं त्यक्त्वा पाठीनाहरणादि सः। तस्थौ तदेकचित्तः सदृशय्यायामुज्झिताशनः ॥ अनुबन्धेन पृष्टश्च स्वाभिप्रायं शशंस सः । मात्रे रक्षितिकानाद्यै सापि पुत्रं तमभ्यधात् । विषादं मुश्च पुत्र त्वमाहारं भज निश्चितम् । एतन्ते साधयाम्येव वयुक्त्याहमभीप्सितम् । इत्युक्त्वाश्वासिते तस्मिजातार्थे भुक्तभोजने । मत्स्यानादाय हृद्यान्सा ययौ राजसुतागृहम् । तत्र चेटीभिराख्याता सेवोद्देशात्प्रविश्य सा। दशी रक्षितिका तस्यै तन्मत्स्यप्राभृतं ददौ । तेनैव च क्रमेणैौत हती सा दिने दिने । वचनाकाङ्किणीं चक्रे तामाराध्य नृपात्मजाम् । ब्रूहि वाञ्छसि यन्मत्तस्तत्कुर्यामपि दुष्करम्। इति प्रीताथ सावोचत्तां दाशीं राजकन्यका ॥ ततः सा धीवरी प्राह रहतां याचिताभया । उद्यानदृष्टां त्वां देवि विना छाम्यति मे सुतः । आशां प्रदश्र्य च मया प्राणत्यागास रक्ष्यते । तत्कृपा मयि चेत्तन्मे सुतं स्पर्शीन जीवय ॥ एवं तयोक्ता कैवर्तयोषिता सा नृपात्मजा। सलज़ सानुरोधा च विमृश्यैवमुवाच ताम् । गुप्तमानय तं तावन्नक्तं मुन्मन्दिरं सुतम् । तच्छुत्वैव प्रहृष्टा सा ययौ दाशी सुतान्तिकम् । नक्तं च सा यथाशक्ति स्वैरं रचितमण्डनम् । तमानिनाय तद्राजकन्यान्तःपुरमात्मजम् । तत्र तं राजपुत्री सा सुप्रहरं चिरोत्सुकम् । हस्ते गृहीत्वा शयने कृतप्रीतियैवेशयत् । आश्वासयामास च तं छान्ताङ्ग विरहाग्निना । श्रीखण्डशिशिरस्पर्शकरसंवहनेन सा । सोऽपि तेन सुधासिक्त इव दाशीसुतश्चिरम्। कृतार्थमानी विश्रान्तो जवें सपदि निद्रया । सुप्ते चास्मिन्नृपसुता गत्वा सुष्वाप सान्यतः। युक्तिरञ्जितकैवर्तसुता रक्षितविला ॥ ततोऽस्य तत्करस्पर्शविगमप्रतिबोधिनः । हस्तोपनतविभ्रष्ट वल्लभां तामपश्यतः ॥ निधिकुम्भीमिघातीव दरिद्रस्य विषादिनः । दाशसूनोर्नराशस्य सद्यः प्राणा विनिर्ययुः ॥ तद्वद्भागत्य निन्दन्ती सामानं राजकन्यका । प्रातस्तेन सहारोढं चितां व्यवसिताभवत् । ततो मळयसिंहोऽस्याः पिता वृद्धा नृपोऽत्र तत् । एत्यानिवार्या पैतामाचम्यैवं वचोऽब्रवीत् यदि सत्यमहं भक्तो देवदेवेत्रिलोचने । तन्मे वदत कर्तव्यं लोकपाळ यथोचितम् ॥ इत्युक्तवन्तं राजानं दिव्या वागेवमब्रवीत् । पूर्वभार्येयमेतस्य दाशयूनो भवत्सुता । प्रमे नागस्थळाख्ये हि महीधरसुतः पुरा । अभूद्ळधरो नाम ब्राह्मणो गुणवत्तरः । स गते पितरि स्वर्ग हृतवित्तः स्वगोत्रजैः । विरक्तो भार्यया साकं जगाम धूनदीतटम् ॥ देहं त्यक्ष्यन्निराहारः स्थितस्तत्र विलोक्य सः। दशान्भक्षयतो मत्स्यान्मनसा श्रद्दधे क्षुधा ॥ ततोऽत्र पश्यतां यातं तत्संकल्पकलङ्कितम् । स्वभार्या युद्धसंकल्पा तपःस्थैव तमन्वगात् ॥ स एष जातः संकल्पदोषाद्दशकुले द्विजः । भार्यास्य सा च सुतपा जातैषा ते सुता नृप । तदेतं पूर्वभर्तारं राजनेषा त्वदात्मजा । जीवयत्वायुषोऽर्धेन गतायुषमनिन्दिता । एतत्तपःप्रभावाद्धि तत्तीर्थप्रमयात्तथा । पूतोऽयं तव जामाता भूत्वा राजा भविष्यति । इत्युक्तो दिव्यया वाचा सुप्रहाराय तां सुताम्। द्त्तायुधं च ददौ तस्मै ठउधास नृपः । तद्दत्तैर्भूमिहस्त्यश्वरथैर्भूत्वा स भूपतिः। सुप्रहारः कुती तस्थौ प्राप्य भार्या तदात्मजाम् । एवं प्राग्जन्मसंबन्धः प्रायः प्रीत्यै शरीरिणाम् । किं चैवं चौरसंबद्धाप्यत्रेयं धूयतां कथा । अयोध्यायामभूद्राजा वीरबाहुरिति श्रुतः। यो ररक्ष स्वसंताननिर्विशेषं सदा प्रजाः ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३४
दिखावट