ततो मानसवेगस्तं दिव्यया निजविद्यया । बबन्ध भार्यानुगतं नयति स्म च तां सभाम् ॥
तत्र भेरीमहाशब्दसमाहूता इतस्ततः। विद्याधरा मिलन्ति स्म सुधर्मायां यथा सुराः ॥
आगस्योपाविशचात्र रत्नसिंहासनोपरि । राजा वायुपथो नाम सभ्यो विद्याधरैर्युतः ॥
व्याधुन्वद्भिरिवाधर्म वीज्यमानस्य चामरैः । तस्य मानसवेगोऽग्रे स्थित्वा पापोऽब्रवीदिदम् ॥
मर्योऽप्यन्तःपुरध्वंसकारी विध्वंसकः स्वसुः। शत्रुर्ममायं वध्योऽद्य स्वाम्यकामः किलैष नः ॥
तच्छुत्वा तेन सभ्येन पृष्टः प्रत्युत्तरं प्रति । नरवाहनदत्तोऽत्र बीरो विस्रब्धमब्रवीत् ॥
सा सभा यत्र सभ्योऽस्ति स सभ्यो धर्ममाह यः । स धर्मो यत्र सत्यं स्यात्तत्सत्यं यत्र न च्छलम् ॥
बद्धोऽहं माययात्रैव स्थितो भूमावयं पुनः । आसनस्थश्च मुक्तश्च को विवादः समोऽत्र नौ ॥
एतद्वायुपथः श्रुत्वा तमुपावेशयरिक्षतौ । न्यायान्मानसवेगं स तं मुक्तं चाष्यकारयत् ॥
ततः सर्वेषु श्रुण्वत्सु तत्र वायुपथाग्रतः । नरवाहनदत्तोऽसावेवं प्रतिवचोऽभ्यधात् ॥
हृतानीतामनेनैतां भार्यां मदनम झुकाम् । निजां प्राप्तोऽस्मि चेकस्य शुद्धान्तो ध्वंसितो मया ॥
अस्या रूपेण च।भ्येत्य विप्रलभ्य कृतो यदि । अहं भर्ता भगिन्यास्य तत्र का मेऽपराधिता ॥
स्वाम्यकामोऽसि चेत्कामः कस्य कुत्र न जायते । एतछुत्वा विमृश्याथ राजा वायुपथोऽब्रवीत् ॥
धर्यमाह महात्मायं भविष्यत्सुमहोदयः । अस्मिन्मनसंवग त्वमधमे भद्र मा कृथाः ॥
इत्युक्ते तेन नाधर्मान्मोहान्धो यत्रयवर्तत । सोऽत्र मानसवेगस्तत्क्रोधं वायुपथो ययौ ॥
ततो मानसवेगेन सह संनद्धसैनिकः। बभूव तस्य संक्षोभस्तत्र धर्मानुरोधिनः ॥
धर्मासनोपविष्टा हि दुर्बलं बलिनं परम् । आत्मीयं बत जानन्ति धीरा न्यायैकदर्शिनः ॥
विहाय मायां युध्यस्व स्पष्टमेव मया सह । यावदेकप्रहारेण हन्मि त्वां पश्य पौरुषम् ॥
इति मानसवेगं च तदा वोचद्विलोकयन् । नरवाहनदत्तोऽत्र दिव्यकन्याः सकौतुकाः ॥
अन्योन्यजातकलहेषु च तत्र तेषु विद्याधरेषु सहसैव सभान्तरस्थात् ।
स्तम्भोत्तमाट्टसदिति प्रविभिन्नमध्याद्देवोऽथ भैरववपुः किल निर्जगाम ॥
व्याप्ताम्बरोऽञ्जननिभश्च विनिहुताक विद्यालतातरलदीप्रविलोचनाचिः ।
दन्तप्रभाविततपङ्किपतद्वलाको गर्जन्महाप्रलयमेघ इव प्रचण्डः ॥
न भविविद्याधरचक्रवर्तिनः पराभवोऽस्यास्ति शठेति स ब्रुवन् ।
अधोमुखं मानसवेगमीश्वरो निराकरोद्वायुपथं प्रहर्षयन् ॥
आदाय तं च भुजयोर्भगवान्भुजाभ्यां संरक्षणाय नरवाहनदत्तमाशु ।
प्रापय्य पर्वतवरं शुभमृष्यमूकमास्थापयत्स किळ तत्र ततस्तिरोऽभूत् ॥
प्रशशाम परस्परं सभायामथ विद्याधरसंभ्रमः स तस्याम् ।
स च वायुपथो यथागतं तैः सहितः स्वैरपरैस्ततो जगाम ॥
सोऽपि च मानसवेगः कृत्वा तां मदनम जुकां पुरतः ।
हर्षविषादाकुलितामाषाढपुरं निजं ययौ विग्नः ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्बके द्वितीयस्तरङ्गः।
_____
तृतीयस्तरङ्गः ।
संन्ये कल्याणमेव स्यात्पुरुषस्यासमं विधिः । मुहुः परीक्षते गाढं धीरत्वं सुखदुःखयोः (?) ॥
यदेककं विदेशेषु तैस्तैर्वीरैः पदे पदे । नरवाहनदत्तं स योजयित्वा व्ययोजयत् ॥
अथैतमृष्यमूकाद्रौ स्थितं तस्मिन्प्रभावती । नरवाहनदत्तं तं समागत्यात्रवीत्प्रिया ॥
मदसंनिधिदोषेण छध्वा नीतो भवांस्तदा । तां हि मानसवेगेन सभां पापं चिकीर्गुणा ॥