सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङः ३ ।]
९३
।नरवाहनदत्तजननलम्बकः ४ ।

यताधरदलं चलोणचारुकेसरम् । मुखं दधानं साम्राज्यलक्ष्मीलीळाम्बुजोपमम् ॥ ६९

वान्ग्रनृपश्रीभिर्भयेव निजलाञ्छनैः। उज्झितैरङ्कितं मृद्वोः पदयोश्छत्रचामरैः॥ ७०

हर्षभरापूरपीडनोत्फुल्लया दृशा । सास्रया स्रवतीबास्मिन्सुतस्नेहं महीपतौ ॥ ७१

स्वपि च यौगन्धरायणादिषु मत्रिषु । गगनादुच्चचारैवं –काले तस्मिन्सरस्वती ॥ ७२

देवावतारोऽयं राजञ्जतस्तवात्मजः। नरवाहनदत्तं च जानीह्नमिहाख्यया ॥ ७३

न भवितव्यं च दिव्यं कल्पमतन्द्रिणा । सर्वविद्याधरेन्द्राणामचिराञ्चक्रवर्तिना ॥ ७४

त्वा विरतं वाचा तत्क्षणं नभसः क्रमात् । पुष्पवर्षेर्निपतितं प्रसृतं दुन्दुभिस्वनैः॥ ७५

सुरकृतारम्भजनिताभ्यधिकादरम् । स राजा सुतरां हृष्टश्चकार परमुत्सवम् ॥ ७६

मुस्तूर्यनिनदा नभस्तो सन्दिरोद्गताः। विद्याधरेभ्यः सर्वेभ्यो राजजन्मेव शंसितुम् ॥ ७७

प्रेष्वनिलोद्धृताः शोणरागाः स्वकान्तिभिः। पताका अपि सिन्दूरमन्योन्यमकिरन्निव ॥ ७८

साङ्गस्मरोत्पत्तितोषादिव सुराङ्गना । समागताः प्रतिपदं ननृतुर्वारयोषितः ॥ ७९

यत च सर्वा सा समानविभवा पुरी । राज्ञो बद्धोत्सवात्प्रासैर्नववत्रविभूषणैः ॥ ८०

ह्यर्थानृपे तस्मिन्वर्षत्यथैनुजीविषु । कोषादृते न तत्रत्यो दधौ कश्चन रिक्तताम्॥ ८१

यपूर्वाः स्वाचारदक्षिणा नर्ततापराः। सप्रभृतोत्तरास्तैस्तैः सुरक्षिभिरधिष्ठिताः ॥ ८२

|तोद्यनिह्नदाः साक्षाद्विश इवाखिलाः । समन्ताद्ययुश्चात्र समन्तान्तःपुराङ्गनाः ॥ ८३

नृत्तमयी तत्र पूर्णपात्रमयं वचः । व्यवहारो महत्यागमयस्तूर्यमयो ध्वनिः ॥ ८४

पेष्ठमयो लोकश्चारणैकमयी च भूः । आनन्दमय्यां सर्वस्यामपि तस्यामभूत्पुरि ॥ ८५

महोत्सवस्तत्र भूरिवासरवर्धितः। निर्वर्तते स्म स समं पूणैः पौरमनोरथैः॥ ८६

सोऽपि व्रजत्सु दिवसेष्वथ राजपुत्रो वृद्धि शिशुः प्रतिपदिन्दुरिवाजगाम ।
पित्रा यथाविधिनिवेदितदिव्यवाणीनिर्दिष्टपूर्वनरवाहनदत्तनाम्ना ॥ ८७

यानि स्फुरन्मसृणमुग्धनखप्रभाणि द्वित्राणि यानि च खचद्दशनाझराणि ।
तानि स्खलन्ति ददतो वदतश्च तस्य दृष्ट्वा निशम्य च पदानि पिताँ तुतोष ॥ ८८

अथ तस्मै मज्विराः स्वसुतानानीय राजपुत्राय ।
शिशवे शिशून्महीपति हृदयानन्दान्समर्पयामासुः ॥ ८९

यौगन्धरायणः प्रामरुभूतिं हरिशिखं रुमण्वांश्च।
गोमुखमित्यकनामा तपन्तकाख्यं वसन्तकश्च सुतम् ॥ ९०

शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्तिसोममपरं च ।
वैश्वानरमार्पितवान्पिङ्गलिकापुत्रकौ यमजौ ॥ ९१

तस्मिन्क्षणे च नभसो निपतात दिव्या नान्दीनिनावसुभगा सुरपुष्पवृष्टिः।
राजा ननन्द च तदा महिषीसमेतः सत्कृत्य तत्र सचिवात्मजमण्डलं तत्॥ ९२

बाल्येऽपि तैरभिमतैरथ मन्त्रिपुत्रैः षभिस्तदेकनिरतैश्च स राजपुत्रः ।
युक्तः सदैव नरवाहनदत्त आसीद्युक्तो गुणैरिव महोदयहेतुभूतैः ॥ ९३

तं च क्रीडाकलितललिताव्यक्तनर्माभिलाषं
यान्तं प्रीतिप्रवणमनसामङ्कतोऽर्के नृपाणाम् ।
पुत्रं स्मेराननसरसिजं सादरं पश्यतस्ते
बद्धानन्दाः किमपि दिवसा वत्सराजस्य जग्मुः ॥ ९४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके तीयस्तरङ्गः।


समाप्तथायं नरवाहनदत्तजननलम्बकश्चतुर्थः ।