सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
[आदितस्तरंङ्ग २३
कथासरित्सागरः ।

किं च देव विरोधो वा स्नेहो वापीह देहिनाम् । प्रार जन्मवासनाभ्यासवशास्त्रायेण जायते ॥ ३०

तथा च श्रूयतामत्र कथेयं वण्र्यते मया । आसीद्विक्रमचण्डाख्यो वाराणस्यां महीपतिः ॥ ३१

तस्याभूद्वल्लभो भृत्यो नाम्ना सिंहपराक्रमः । यो रणेष्विव सर्वेषु चूतेष्वप्यसमो जयी ॥ ३२

तस्याभवच विकृता वपुषीवाशयेऽप्यलम् । ख्यक्षता कलहकारीति नान्नान्वर्थन गेहिनी ॥ ३३

स तस्याः सततं भूरि राजतो धृततस्तथा । प्राप्य प्राप्य धनं धीरः सर्वमेव समर्पयत् ॥ ३४

सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा । तथापि क्षणमप्येकं न तस्थौ कलहं विना ॥ ३५

बहिः पिबसि भुजे च नैव किंचिद्ददासि नः । इत्यारटन्ती ससुता सा तं नियमतापयत् ॥ ३६

प्रसाद्यमानाप्याहारपानवगैरहर्निशम् । दुरन्ता भोगतृष्णेव भृशं जज्वाल तस्य सा ॥ ३७

ततः क्रमेण तन्मन्युखिनस्त्यक्त्वैव तद्रुहम् । स विन्ध्यवासिनीं द्रष्टुमागार्सिहपराक्रमः ॥ ३८

सा तं स्वप्ने निराहारस्थितं देवी समादिशत् । उत्तिष्ठ पुत्र तमेव गच्छ वाराणसीं पुरीम् ॥ ३९

तत्र सर्वमझनेको योऽस्ति न्यग्रोधपदपः। तन्मूळखन्यमानत्वं स्वैरं निधिमवाप्स्यसि ॥ ४०

तन्मध्यादप्स्यसे चैकं नभःखण्डमिव च्युतम् । पात्रं गरुडमाणिक्यमयं निस्त्रिंशनिर्मळम् ॥ ४१

तत्रार्पितेक्षणो द्रक्ष्यस्यन्तः प्रतिमितामिव । सर्वस्य जन्तोः प्राग्जातिं या स्याज्जिज्ञासिता तव ॥ ४२

तेनैव बुबा भार्यायाः पूर्वजातिं तथादमनः। अवाप्तार्थः सुखी तत्र गतखेदो निवत्स्यसि ॥ ४३

एवमुक्ता देव्याः स प्रबुद्धः कृतपारणः । वाराणसीं प्रति प्रायात्प्रातः सिंहपराक्रमः ॥ ४४

गत्वा च तां पुरीं प्राप्य तस्माद्यत्रोधमूलतः । लेभे निधानं तन्मध्यास्पात्रं मणिमयं महत् ॥ ४५

अपश्यचत्र जिज्ञासुः पात्रे पूर्वत्र जन्मनि । घोरामृक्ष स्वभार्यां तमात्मानं च मृगाधिपम् ॥ ४६

पूर्वजातिमहावैरवासनानिश्चलं ततः । बुद्धा भार्यात्मनोद्धेयं शोकमोहौ मुमोच सः ॥ ४७

अथ बीः परिज्ञातास्तत्र पात्रप्रभावतः । प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ॥ ४८

तुल्यां जन्मान्सरे सिंहीं परिणिन्ये विचिन्त्य सः । भार्या द्वितीयां सिंहश्रीनाम्नीं सिंहपराक्रमः ॥ ४९
कृत्वा कलहकरां च तां स प्रसैकभागिनीम् । निधानप्राप्तिसुखितस्तस्थौ नववधूसखः ॥ ५०

इत्थं दारादयोऽपीह भवन्ति भुवने नृणाम् । प्राक्संस्कारवशायतवैरस्नेहा महीपते ॥ ५१

इत्याकण्थं कथां चित्रां वत्सराजो वसन्तकात् । भृशं तुतोष सहितो देव्या वासवदत्तया ॥ ५२

एवं दिनेषु गच्छत्सु राज्ञस्तस्य दिवानिशम् । अतृप्तस्य लसदंर्भदेवीबीन्दुदर्शने ॥ ५३

मत्रिणामुदपद्यन्त सर्वेषां शुभलक्षणः । क्रमेण तनयास्तत्र भाविकल्याणसूचकाः ॥ ५४

प्रथमं मन्त्रिमुख्यस्य जायते स्म किलात्मजः । यौगन्धरायणस्यैव मरुभूतिरिति श्रुतः ॥ ५५

ततो रुमण्वतो जज्ञे सुतो हरिशिखाभिधः। वसन्तकस्याप्युत्पेदे तनयोऽथ तपन्तकः ॥ ५६

ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः । इत्यकापरसंज्ञस्य पुत्रोऽजायत गोमुखः ॥ ५७

वत्सराजसुतस्येह भाविनश्चक्रवर्तिनः । मन्त्रिणोऽमी भविष्यन्ति वैरिवंशावमर्दनः ॥ ५८

इति तेषु च जातेषु वर्तमाने महोरसवे । तत्र शरीरा नभसो निःससार सरस्वती ॥ ५९

दिवसेष्वथ यातेषु वत्सराजस्य तस्य सा । देवी वासवदत्तादासन्नप्रसवोया ॥ ६०

अध्यास्त सा च तच्चित्रं पुत्रिणीभिः परिष्कृतम् । जातवासगृहं सार्कशमीगुप्तगवाक्षकम् ॥ ६१

रत्नदीपप्रभासङ्गमङ्गलैर्विविधायुधैः। गर्भरक्षाक्षमं तेजो ज्वलयद्भिरिवावृतम् ॥ ६२

मत्रिभिस्तनितानेकमत्रतत्रादिरक्षितम् । जातं मातृगणस्येव दुर्ग दुरितदुर्जयम् ॥ ६३

तत्रासूत च सा काले कुमारं कान्तदर्शनम् । द्यौरिन्दुमिव निर्गच्छदच्छामृतमययुतिम् ॥ ६४

येन जातेन न परं मन्दिरं तत्प्रकाशितम् । यावद्धृदयमप्यस्या मातुर्निःशोकतामसम् ॥ ६५

ततः प्रमोदे प्रसरत्यत्रान्तःपुरवासिनाम् । वरसेशः सुतजन्मैतच्छुश्रावाभ्यान्तराजनात् ॥ ६६

तस्मै स राज्यमपि यस्फीतः प्रियनिवेदिने । न ददौ तदनौचित्यभंयेन न तु तृष्णया ॥ ६७

एल्य चान्तःपुरं सद्यो बद्धौत्सुक्येन चेतसा। चिरात्फलितसंकल्पः स ददर्श सुतं नृपः ॥ ६८