पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३०
[ आदितस्तर
कथासरित्सागरः ।

तच्छुत्वा सोऽब्रवीद्राजा सुकुमारतरात्र सा । अस्पृष्टे मुसले यस्याः शब्देनैवोन्नताः किणाः ॥
उपेन्दुकरैः स्परौ वृत्ते त्वितरयोर्घयोः । संजाता व्रणविस्फोटास्तेन तस्या म ते समे ॥
         इति तस्योक्तचतोंऽसाद्राज्ञो भूयो जगाम स स्वपम् ।
         वेतालः स च राजा तथैव तं सुदृढनिश्चयोऽनुययौ ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बकेऽष्टादशस्तरङ्गः ।


_____


एकोनविंशस्तरङ्गः


( द्वादशो वेतालः।)


स त्रिविक्रमसेनोऽथ पुनस्तं शिंशपातरुम् । गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥
प्रतस्थे च तमादाय तूष्णीमेव स पूर्ववत् । ततो भूयस्तमाह स्म बेतालः सोऽसgष्ठतः ॥
राजन्नेवमनुद्विग्नः पर्याप्तमसि मे प्रियः । तदेतां श्रुण्वखेद्य हृद्यामाख्यामि ते कथाम् ॥
अङ्गदेशे यशःकेतुरिति राजाभवत्पुरा । मामाश्रितोऽङ्गुष्यर्थमद्धोऽन्य इव स्मरः ॥
बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च । दीर्घदर्शयन्त्री शक्रस्येव बृहस्पतिः ॥
तस्मिन्मत्रिणि विन्यस्य राज्यं स हतकण्टकम् । शनैः सुखैकसक्तोऽभूद्वयोरूपसदनृपः ॥
तस्थावन्तःपुरे शश्वन्नास्थाने प्रेमदास्पदे । शुश्राव रक्तिमीतं वचनं न हितैषिणाम् ॥
रज्यति स्म च निश्चिन्तो जालवातायनेषु सः । न पुना राजकार्येषु बहुच्छिद्रेषु जात्वपि ॥
दीर्घदर्श तु तद्राज्यचिन्ताभारं समुद्वहन् । अतिष्ठत्स महामी दिवानिशमतन्द्रितः ॥
नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् । मी राज्ञः श्रियं भुकं दीर्घदर्शह सांप्रतम् ॥
इत्युत्पन्ने महस्यत्र जनवादेऽथ गेहिनीम् । स्वैरं मेधाविनीं नाम दीर्घदर्श जगाद सः ॥
प्रिये राज्ञि सुखासक्ते तद्भारं वहतोऽपि मे । राज्यं भक्षितमेतेनेत्युश्पन्नमयशो ॥
लोकवादश्च मिथ्यापि महतामिह दोषकृत् । त्याजितः किं न रामोऽपि जनवादेन जानकीम् ॥
तत्र किं मया कार्यमित्युक्ते तेन मन्त्रिणा । भार्या भेधाविनी धीश सान्वर्था तमभाषत ॥
तीर्थयात्रापदेशेन युक्त्यापृच्छय महीपतिम्। कंचित्कालं विदेशं ते गन्तुं युक्तं महामते ॥
एवं ते निःस्पृहस्यैष जनवादो निवर्यति । त्वय्यस्थिते ततो राज्यमुद्वक्ष्यति नृपः स्वयम् ॥
ततश्चास्य शनैरेतव्यसनं हानिमेष्यति । आगतस्यात्र निर्ग भवित्री मजेत च ते ॥
इत्युक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः कथाप्रसङ्ग तं भूपं यशःकेतुं व्यजिज्ञपत् ॥
अनुजानीहि मां राजन्दिवसान्कांश्चिदप्यहम् । व्रजामि तीर्थयात्रायै धर्मो हि प्रेष्सितः स मे ॥
तच्छुत्वा सोऽब्रवीद्राजा मैवं तीर्थावला परः। दानादिः किं न धर्मेऽस्ति. स्वर्थते स्वगृहेष्वपि ॥
अथवोचत्स मन्त्री तमर्थमुख्यादि मृग्यते । दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥
यावच्च यौवनं राजंस्तावद्गम्यानि धीमता । अविश्वास्ये शरीरे हि संगमस्तैः कुतोऽन्यदा ॥
इति तस्मिन्वत्येव राज्ञि चैवं निषेधति । प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥
योमसरोमध्यमंशुमाली विगाहते । तदुत्तिष्ठत सैषा वः स्नानबैलातिवर्तते ॥
श्रुत्वैतत्सहसा नातुमुदतिष्ठन्महीपतिः। यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥
तत्रावस्थाप्य भार्या तामनुयात्रानिवारिताम् । स प्रतस्थे ततो युक्त्या स्वधूपैरष्यतर्कितः ॥
एकाकी च भ्रमंस्तांस्तान्देशांस्तीर्थानि च व्रजन् । स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥
तत्र पतन एकस्मिन्नदूरेऽब्धेः प्रविश्य सः। एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥
तत्रार्ककरसंतापच्छान्तं दूराध्वधूसरम् । ददर्श निधिदत्ताख्यो वणिग्देवार्चनागतः ॥
स तं तथाविधं दृष्ट्र सोपवीतं सुलक्षणम् । खंभाव्य चोत्तमं विप्रमातिथेयोऽनयद्यम् ॥
तत्र चापूजयस्नानभोजनाचैस्तमुत्तमैः। कः कुतस्त्वं छ यासीति विश्रान्तं च स पृष्टवान् ॥
दीर्घदर्शति विप्रोऽहमङ्गदेशादिहागतः । तीर्थयात्रार्थमित्येव गाम्भीर्यात्सोऽप्युवाच तम् ॥