पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १८।]
शशाङ्कवतीलम्बकः १२

अष्टादशस्तरङ्ग


( एकादशो वेतालः ।


ततो गत्वा पुनः प्राप्य शिंशपातोऽग्रहीत्र्पः। स त्रिविक्रमसेनोऽसे वेतालं तं चचाल च ॥ १
आयान्तं च तमंसस्थो वेतालः सोऽब्रवीदुपम् । राजन्विचित्रामेकां ते वर्णयामि कथां शृणु ॥ २
उजयिन्यामभूत्पूर्व नाम्ना धर्मध्वजो नृपः। तिस्रस्तस्याभवन्भार्या राजपुत्र्योऽतिवल्लभाः॥ ३
एका तास्खिन्दुलेखेति तारावल्यपरा तथा । नाम्ना मृगाङ्कवत्यन्या निःसामान्यवपुर्गुणाः ॥ ४
तभिः स विहरन्राजा राीभिस्तिसृभिः सह । आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ ५
एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे । प्रियाभिः सहितस्ताभिरुद्यानं क्रीडितुं ययौ ॥ ६
तत्रालिमालामौर्वीकाः पश्यन्पुष्पानता लताः चापयष्टीरनङ्गस्य मधुना सज्ञिता इव ॥ ७
शृण्वंश्च तङ्गमाप्रस्थकोकिळोदीरितां गिरम् । संभोगैकरसस्याज्ञामिव मानसजन्मनः ॥ ८
सिपेयेऽन्तःपुरैः साकं स राजा वासवोपमः । पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥ ९
तन्निःश्वाससुगन्धीनि तद्विम्बौष्ठरुचीनि च । प्रियापीतावशेषाणि पिबन्रेमे मधूनि सः ॥ १०
तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् । तस्याः पपात कर्णंप्रादुत्सङ्गं त्वङ्गदुत्पलम् ॥ ११
तेनोरुपृष्ठे सहसा क्षते जातेऽभिघातजे । अभिजाता महादेवी हाहेत्युक्त्वा मुमूर्छ सा ॥ १२
तहृद्वा विह्वलेनाथं राज्ञा परिजनेन च । समाश्वास्यत राक्षी सा शनैः शीताम्बूमारुतैः ॥ १३
ततो नीत्वा स राजा तां राजधानीं भिषकृतैः । प्रियामुपाचरद्दिव्यैरामुक्तस्रणपट्टिकाम् ॥ १४
रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया । ताराबल्या सहारोद्दचन्द्रप्रासादमीश्वरः ॥ १५
तत्र तस्याङ्कसुप्ताया राज्ञस्तस्या हिमत्विषः । करा ज़ळपथैः पेतुरङ्गं चलितवाससि ॥ १६
ततः क्षणादप्रबुद्धा सा हा दग्धास्मीति वादिनी । शयनात्सहसोत्तथैौ तदङ्गपरिमर्शिनी ॥ १७
किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः । उत्थाय राजा विस्फोटानङ्गं तस्या विनिर्गतान् ॥ १८
पृच्छन्तं च राज्ञी तारावली तदा । नग्नाब्रे करैरेतत्कृतं मम सा तं प्राह पतितेरिन्दोः ॥ १९
इत्युक्तवत्याः क्रन्दन्याः सार्तराह्वयति स्म सः । तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ २०
तेनास्याः कारयामास सजलैनलिनीदलैः । शय्यामदापयच्चाझे श्रीखण्डार्द्रविलेपनम् ॥ २१
तावद्वद्धा तृतीयास्य सा मृगाङ्कवती प्रिया । तत्पार्श्वमागन्तुमना निर्ययौ निजमन्दिरात् ॥ २२
निर्गत साश्रुणोत्कापि गृहे धान्यावघातजम् । निःशब्दयां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ २३
श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ। उपाविशद्यथाक्रान्ता मागे सा मृगलोचना ॥ २४
ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा । स्वमेवान्तःपुरं चाळा रुदती शयनेऽपतत् ॥ २५
ददर्श तत्र तस्याश्च चिन्वन्साधुः परिच्छदः। आलीनभ्रमरौ पाविव हस्तौ किणाङ्कितौ ॥ २६
गत्वा च सोऽब्रवीद्राज्ञे राजाप्यागत्य विह्वलः । किमेतदिति पप्रच्छ सोऽथ धर्मध्वजःप्रियाम् ॥ २७
सापि प्रदर्य हस्तैौ तमित्युवाच रुजान्विता । श्रुते मुसळशव्दे मे जातावेतौ किणाङ्कितौ ॥ २८
ततः स दाहशमनं दापयामास हस्तयोः । तस्याश्चन्दनलेपादि राजाद्भुतविषादवान् ॥ २९
एकस्या उत्पलेनापि पतता क्षतमाहितम् । द्वितीयस्याः पुनर्दग्धमी शशिकरैरपि ॥ ३०
एतस्यास्तु तृतीयस्याः श्रुतेनापि विनिर्गताः । कष्टं मुसलशब्देन हस्तयोरीदृशाः किणाः ॥ ३१
अहो युगपदेतासां प्रेयसीनां ममाधुना । गुणोऽप्यत्यभिजातत्वं जातो दोषाय दैवतः ॥ ३२
इति चिन्तयतस्तस्य भ्रमतोऽन्तःपुरेषु च । त्रियामा शतयामेव कृच्छ्ासा नृपतेर्यये ॥ ३३
प्रातश्च स भिषक्छस्यहर्तृभिः सह संव्यधात् । तथा यथाभूदचिरात्स्वस्थान्तःपुरनिर्युतः॥ ३४
एवमेतां कथामुक्त्वा वेतालोऽत्यद्भुतां तदा । स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ ३५
अभिजाततरैतासु राजन्राीपु का वद । पूर्वोक्तः सोऽस्तु शापस्ते जानन्यदि न जल्पसि ॥ ३६