तस्याः स रूपं दृश्चैव विश्वभित नवम् । सव्यामृताया इव तद्राजा कासवशं ययौ ॥
नृत्तान्ते च धनं भूरि तटिपत्रं प्रवितीर्थे सः । प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ॥
ततस्तया स नर्तक्या विहितोद्वाहया सह । लास्यचर्या नृपस्तस्थौ तन्मुखासक्तलोचनः ॥
एकदा स यजुःखामिसंशं प्राह पुरोहितम् । पुत्रो नास्तीह मे तन्वं पुत्रेष्टिं मम कुर्विति ॥
ततस्तथेति विधिवत्तामिष्टं तस्य भूपतेः । पुरोहितः स विधे विद्वद्भिर्गणैः सह ॥
प्राशयन्मात्रपूतं च तद्देवीं तां मनोरमाम् । भाशमभ्यं चोज्यैष्ठां स पूर्वाराधितस्तया ॥
शेषं तस्यै द्वितीयस्यै लास्यवत्यै ददौ च सः। ततश्च तौ तयोः शीलधसख्यधरावुभौ ॥
उभयोरुदरे राश्योः पूर्वोक्तौ संबभूवतुः । प्राप्ते च समये चात्र देवी तस्य महीपतेः ॥
मनोरमा प्रसूते स्म पुत्रं कल्याणलक्षणम् । एष भीमभटो नाम जातः ख्यातयशा नृपः ॥
इत्युच्चचार तत्कालं सुस्पष्टा भारती दिवः । ततोऽन्येद्युः प्रदुषुवे सापि लास्यवती सुतम् ॥
पिता च स नाम्नाकरोपः । अथ तौ कृतसंस्करायवर्धतां शनैः शिश ॥
तं समरभटं
ज्येष्ठो भीमभटस्तं तु कनिष्ठमजथ हूणैः । तत्संघर्षेण चान्योन्यं तयोर्वैरमवर्धत ॥
एकदा बाहुना बाहुयुद्धकेलौ समत्सरः । हन्ति स्म कण्ठे समरभटो भीमभटं हठात् ॥
ततो भीमभटः क्रोधाद्भुजाभ्यां परिवेश तम् । न्यधाद्धक्षिप्य समरभटं चटदितेि क्षितौ॥
स तेनाभिहतो गाढं सर्वद्वारैरसृग्वमन् । समुत्थायान्किं मातुर्जातोऽभून्निजसेवकैः ॥। ॥
सा तं च बुद्ध्वा च वृत्तान्तं स्नेहकातरा । तस्य मूर्धनि मूर्धानमासज्य प्रारु-दृशम् ॥
दृष्ट्वा
तावद्राज्ञा प्रविष्टेन तदृष्टाकुलचेतसा । किमेतदिति पृष्टा सा लास्यबयेवमब्रवीत् ॥
इयं भीमभटेनास्य ऋतावस्था सुतस्य मे । सदा चाभिभवत्यैनं न चाहं देव वच्मि ते ॥
इदं दृष्टः तु जानेऽहं तवैव स्याच्छिवं कथम् । तस्मिन्नेवंविधे पुत्रे विचारयतु वा भवान् ॥
एवं तयोक्तः प्रियया स तमुग्रभटो नृपः । क्रुद्धो भीमभटं स्वात्मसंनिकर्षाभ्यवरथत् ॥
हृतवृत्तिं च कृत्वैनं राजपुत्रशतं व्यधात् । रक्षार्थं तस्य समरभटस्य सपरिच्छदम् ॥
स्वाधीनं चाकरोत्तस्य भाण्डागारं कनीयसः । तं तु भीमभटं ज्येष्ठं सर्वाकारमपाकरोत् ॥
ततो माता तमाहूय सा वक्ति स्म मनोरमा। नर्तकीरगिणा तावत्पित्रा त्वं परिवर्जितः ॥
तन्मातामहशालां त्वं गच्छ पाटलिपुत्रकम् । तत्र मातामहः स्वं ते राज्यं दास्यव्यपुत्रकः ॥
इह त्वां चैष समरभटो हन्याद्रिपुर्बली । इति मातुर्वचः श्रुत्वा तां स भीमभटोऽब्रवीत् ॥
क्षत्रियः सन्न देशं स्वं त्यक्ष्यामि क्लीबवद्भयात् । धीरा भवास्च कः शक्तो बराको मां प्रबाधितुम् ॥
इत्युक्तवन्तं तं माता साश्रवीत्तfर्ह भूयसः । सहायान्कुरू रक्षार्थं सदीयैस्स्वं धनैरिति ॥
ततो भीमभटोऽवादीदेतदम्ब न शोभते । एवं हि सत्यं तातस्य प्रातिपक्ष्यं शृतं भवेत् ॥
तन्मे वदाशिचैव स्याकल्याणं निर्द्रता भव । इत्याश्वस्य स तां भीमभटो निरगमत्ततः ॥
तावच्च तत्र बुङ तत्पौराः सर्वे व्यचिन्तयन् । अनौचित्यं परं राज्ञा कृतं भीमभटस्य तु ॥
नैवास्य राज्यं समरभटो हर्तुं प्रगल्भते । तदैष पूर्वसेवायाः कालो भीमभटस्य नः ॥
इति निश्चित्य गुप्तं ते पौरा भीमभटं धनैः । तथापुष्यन्यथा सोऽत्र सस्थौ भृत्यैः समं सुखम् ॥
कनिष्टः स तु तस्यासीद्धमेव निरूपयन् । पितुः परिच्छदकृतः परिकल्प्य तदाशयम् ॥
तावच्च शङ्कदन्ताख्यो विप्रः शूरो युवा धनी । द्वयोर्वयस्यः समरभटमेत्य तमब्रवीत् ॥
भ्रात्रा वैरं न युक्तं ते नैष धर्मो न च त्वया । ज्यायान्स बाधितुं शक्यः स्यादकीर्तिः परं तव ॥
इति ब्रुवन्नधिक्षिप्य स तेन निरभर्यत । हितोपदेशो मूर्धस्य कोपायैव न शान्तये ॥
ततस्तत्कोपतो गत्वा धीरस्तद्विजिगीषया । शक्तो व्यधादेकसख्यं भीमभटेन सः ॥
अथात्र मणिदत्ताख्यः कोऽपि देशान्तरागतः । आनीतवानश्वरत्नमेकभत्युतमं वणिङ् ॥
शशाङ्कधवलं शुद्धशङ्कादिश्रव्यनिःस्वनम् । दुग्धाब्धेरिव कल्लोळजालमुच्छूितमुत्थितम् ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८
[ आदितस्तरङ्ग
कथासारत्सागरः ।