तरङ्गः १।] पद्मावतीलम्बकः १७ ५३९ २८ दीप्तजाम्बूनदमयं राजहंसावलीवृतम् । अभ्रगङ्गाजलोक्षिप्तमिव हेमाम्बुजद्वयम् । २५ गते दृष्टिपथात्तस्मिन्नत्याश्चर्यं स भूपतिः । पर्यतप्यत सोत्कण्ठः पुनस्तद्दर्शनं विना २६ अनिद्र एव नीत्वा तां निशां प्रातः स मत्रिणम् । यथा दृष्टं तथाख्याय शिवभूतिमुवाच तम् ।। २७ तद्यथेष्टं न तौ हेमहंसौ पश्याम्यहं यदि । तत्किमेतेन राज्येन जीवितेनापि वा मम । इति राज्ञोदिते मी शिवभूतिर्जगाद तम् । अस्युपायोऽत्र कश्चित्तं श्रुणु देव वदामि ते । २९ विचित्रकर्मयोगेन संसारेऽस्मिन्प्रजापतेः । विचित्रो भूतसर्गोऽयमपरिच्छेद्य एव यः ।। तत्र दुःखमये मोहांदुल्घत्सुखबुद्धयः । निबासाहारपानादिरसाद्रज्यन्ति जन्तवः । ३१ तेषां चाहारपानादि निवासं च पृथग्विधम् । स्वस्वजात्यनुरूपेण प्रीतिदं विदधे विधिः । ३२ तदेव कारय महउँसानमाश्रयं सरः । कमलोत्पलसंछन्नं निर्बधं रक्षिरक्षितम् । ३३ पक्षिप्रियं च तञ्जानं प्रक्षेपय सदा तटे । यावदायान्ति तत्राशु नानादिग्भ्योऽप्युपक्षिणः ३४ तन्मध्ये न चिरादत्र तैौ हंसावष्णुपैष्यतः ततो द्रक्ष्यस्यजस्त्रं तौ मा IT कृथा दुर्मनस्कताम् ३५ इत्युक्ते मत्रिणा तेन स राजा तदकारयत् । यथोक्तं क्षणसंपन्नं ब्रह्मदत्तो महासरः । ३६ हंससारसचक्राह्वसंश्रिते तत्र कालतः । आगत्य पखण्डं तद्भसयुग्मदुपावशत् ।। ३७ तदुपेत्य स विज्ञप्तस्तत्सरोरक्षिभिर्युपः । आगादेतत्सरो हृष्टः सिद्धं मत्वा मनोरमम् । ३८ ददर्श हेमहंसौ च तत्र तौ दूरतोऽर्चयन्। आश्वासयच्च निक्षिप्य सक्षीशञ्शालितण्डुलान् । ३९ विशुद्धकलधौताङ्गौ मुक्तामणिमयेक्षणं । प्रवालचधुचरणौ ताक्ष्यैरतअपक्षती ॥ विस्रम्भोपगतौ तौ स हंसौ राजा विभावयन् । मुदा सद्वसीत्या तत्रैव सरसस्तटे । ४१ एकदा चैकदेशेऽत्र सरोरोधसि पर्यटन् । अम्लायिपुष्परचितां पूजां राजा ददर्श सः ॥ ४२ केन पूजा कृतैषेति पप्रच्छात्र स रक्षिणः । ततस्ते तं सरःपाळा नृपमेवं व्यजिज्ञपन् ॥ ४३ त्रिसंध्यं सरसि स्नात्वा हंसावेतौ हिरण्मयौ । इह नित्यमिमां पूजां कृत्वा ध्यानेन तिष्ठतः । ४४ तन्न विमो महाराज किमेतन्महदद्भुतम् । एतच्छुत्वा स रक्षिभ्यश्चिन्तयामास भूपतिः ४५ क हंसौ केदृशी चर्या ध्रुवमस्त्यत्र कारणम् । तत्करिष्ये तपस्तावद्यावद्वेत्स्यामि काविमौ ॥ ४६ इति संचिन्त्य नृपतिस्त्यक्ताहरः स भार्यया । मङ्गिणा च समं चक्रे हरध्यानपरस्तपः ॥ ४७ अथ तौ दिव्यहंसौ तं द्वादशाहसुपोषितम् । उपेत्य व्यक्तया वाचा स्वप्ने राजनमूचतुः ॥ ४८ राजन्नन्तिष्ठ वक्ष्यावः सभार्यासचिवस्य ते । प्रातः सर्वं यथातत्त्वं विजने पारणे कृते । ४९ इत्युक्त्वा तौ तिरोभूतौ हंसौ राजा प्रबुध्य च । भार्यामत्रियुतः प्रातश्चकारोत्थाय पारणम् । ५० भुक्तोत्तरं च तत्राम्बुलीलागेहान्तरे स्थितम् । नृपं सभार्यामायं तं हंसौ तावभ्युपेयतुः ।। ५१ कौ युवां घृतमित्युक्तौ तेनाभ्यच्चैव भूभुजा । क्रमात्तस्मै स्ववृत्तान्तमेघमाचख्यतुश्च तौ । ५२ मन्दर इत्यद्रिराजो जगति विश्रुतः। विहरत्युरसंघातविराजद्रत्नकाननः । ५३ यस्यामृतेन सिक्तेषु मथितक्षीरवारिधेः । जरामृत्युहरं पुष्पफलमूलाम्बु सानुषु ॥ ५४ कैलासाधिककान्तस्य यस्य ऽङ्गाप्रभूमयः । नानासद्रत्नरचिता लीलोद्यानानि धूर्जटेः । ५५ तत्र जातु छूतक्रीडो देवोऽवस्थाप्य पार्वतीम् । देवकार्यानुरोधेन केनाप्यन्तर्दधे हरः ।। ५६ ततस्तद्विरहाक्रान्ता तत्क्रीडाकेतनेषु सा । बभ्रामाश्वास्यमानात्र पार्वती देवतान्तरैः । ५७ एकदा च मधुप्राप्तिसोद्वेगा सा गणैर्युता । देवी तरुतले यावत्प्रियचिन्ताकुळ स्थिता । ५८ तावज्जयासुतां तत्र देव्याश्चामरधारिणीम् । कुमारी चन्द्रलेखाख्यां साभिलाषावलोकिनीम् । ५९ समानरूपतारुण्यो निकटस्थो गुणोत्तमः । मणिपुष्पेश्वरो नाम साभिलाषो व्यलोकयत् । तद्वंद्वान्यौ गणौ नाम्ना पिजेश्वरगुहेश्वरौ। बभूवतुः स्मितमुखावन्योन्याननदर्शिनौ । ६१ तौ चालोक्य तथाभूतौ कस्येतौ हतोऽपदे । इयन्तः कुपिता देवी ददौ दृष्टिमितस्ततः । ६२ सावत्तावत्र चान्योन्यमुखे स्मेरार्पितेक्षणौ । ददर्श चन्द्रलेखां तां मणिपुष्पेश्वरं च तम् ॥ ६३
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४१
दिखावट