पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । ~~ ~&#e83 पझावती नाम सप्तदशो लम्बकः। -->&8< इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलन पुरा किल कथामृतं हरमुखम्वुधेरुद्गतम् । प्रसह्य रसयन्ति ये विगतविप्रलब्ध→यो धुरं दधति वैखुधीं भुवि भवप्रसादेन ते । < प्रथमस्तरः । देहार्धधूतकान्तो पि तपस्वी निर्गुणोऽपि यः । जगत्स्तुत्यो नमस्तस्मै चित्ररूपाय शंभवे । चलत्कर्णंप्रविक्षिप्तगण्डोड्डीनालिमण्डलम् । धुन्वानं विन्नसंघातमिव विन्नान्तकं नुमः । एवं तत्रासितगिरौ कश्यपस्याश्रमे मुनेः। गोपाळकस्य निकटे मातुलस्य तपस्यतः ।। वर्षाकाळातिवाहय निवसन्सचिवैर्युतः । सर्वविद्याधरेन्ड्रेकचक्रवर्तिपदे स्थितः । । नरवाहनदत्तोऽसौ तैस्तैर्विद्याधराधिपः। अन्वासितः स्वभार्याभिः पञ्चविंशतिभिर्युतः । ब्रुवन्कथाः स मुनिभिः सपत्नीकैरपृच्छयत । यदा मानसवेगेन देवी मदनमञ्चका । माययापहृतैषाभूत्तदा विरहनिःसहम् । व्यनोद्यत्कथं कस्त्वामिति नः कथ्यतां त्वया । इति तैर्मुनिभिः पृष्टस्तद्भार्याभिश्च तत्र सः । नरवाहनदत्तोऽथ वक्तुमेवं प्रचक्रमे । तदा हृतायां मे तस्यां देव्यां पापेन वैरिणा । सानुभूतं दुःखं यत्तत्कियत्कथ्यतेऽधुना । न तत्पुरं न चोद्यानं गृहं वा यत्र नाभ्रमम् । चिन्वन्नहमिमामार्तः सर्वे च सचिवा मम ।। उपविष्टं च सोन्मादमिवोद्याने तरोस्तले । आह स्म लब्धावसरः सान्त्वयन्नोमुखोऽथ माम् ॥ मा गा विलंबतां देवीमचिरास्त्राप्स्यखि प्रभो । देव हि द्युचरैश्वर्यमादिशेतेऽनया सह । तदवश्यं तथा भावि नहि तद्वचनं श्रुषा । धीराश्च सोढविरहाः प्राप्नुवन्तीषुसंगमम् । रामभद्रो नलो राजा तवैव च पितामहः । विषह्य विरहं किं न प्रेयसीभिः समागताः । स मुक्ताफलकेतुश्च चक्रवती क्षुचारिणम् । पझावल्या न किं प्राप वियुक्तः संगमं पुनः । तथा च श्रुणु देवाहं तत्कथां कथयामि ते । इत्युक्त्वा गोमुखो मद्यामिमामथयस्कथाम् । अस्तीह प्रथिता पृथ्व्यां नाम्ना वाराणसी पुरी । धूसरिदूषिता मूर्तिः शांभवीवापवर्गदा । सुरसद्मध्वजपटैमैरुता नमितोद्धतैः । इहैत मोठं यातेति ब्रुवाणेवानिशं जनान् ॥ सितप्रासादशिखरा चन्द्रचूडनिवासभूः। भाति शैवगणाकीर्णं कैलासाद्रिस्थलीव या । तस्यामभूद्ह्मदत्तो नाम राजा पुरा पुरि । शिवैकभक्तो ब्रह्मण्यः शरो दाता क्षमापरः । न दुर्गेष्वपि चस्खाल न ममजाम्बुधिष्वपि । भुवि भ्रमन्ती यस्याज्ञा न द्वीपान्यपि नातरत् । आढ्ददायिनी तस्य चकोरस्येव वल्लभा । आसीत्सोमप्रभा देवी नेत्रपेयास्य साष्यभूत् । शिवभूत्यभिधानश्च मी तस्याभवद्विजः । बृहस्पतिसमो बुद्ध्या सर्वशास्त्रार्थपारगः । स कदाचिन्नृपश्चन्द्रप्रासादे शयने स्थितः । ददर्श हंसयुगलं गगनेनागतं निशि ।