पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरङ्गः ३ ।। सुरतमञ्जरीलम्वकः १६ । ५३७ ८० ८७ ८८ तच्छुत्वा निजरूपस्थो भूत्वा शक्रो जगाद तम् । तुष्टोऽस्मि कृतजिज्ञासस्तव तेन वदामि ते ।। ७८ न ते देया पुनः पत्नी चक्रवर्ती च भाव्यसि । विद्याधराणामचिरादित्युक्त्वान्तर्दधे च सः । ७९ अत्रान्तरे स वृद्धोऽपि ब्राह्मणो दक्षिणाजितौ । ताराबलोकतनयौ गृहीत्वा मार्गमोहतः ॥ भ्रमंश्चन्द्रावलोकस्य दैवात्तस्य पुरं प्रभोः । प्राध्यापणे तौ वितुं राजपुत्रौ प्रचक्रमे ॥ ८१ तत्र तौ प्रत्यभिज्ञाय गवैवावेद्य भूपतेः। पौराश्चन्द्रावलोकस्य सद्विजौ निन्युरन्तिकम् । ८२ स तौ दृष्ट्वा निजौ पौत्रौ साधुः पृष्टा च तं द्विजम् । अभूत्तदुक्तवृत्तान्तः सुखदुःखमयश्चिरम् ॥ ८३ • अतः स निजपुत्रस्य सत्वोत्कर्ष विभाव्य तम् । त्यक्तराज्यस्पृहः पौरैरर्यमानोऽपि तौ द्विजात् ॥ ८४ क्रीत्वा तस्माद्धनैः पैत्रौ गृहीत्वा सपरिग्रहः। सूनोस्तारावलोकस्य तस्याश्रमपदं ययौ । ८५ अत्रापश्यच तं बद्धजटं वल्कलधारिणम् । आशागतैर्महावृक्षमिव भुक्तश्रियं द्विजैः । ८६ दूरादाधाव्य पतितं पुत्रं तं पादयोश्च सः । यदारोपयदुत्सङ्गमभिषिच्याथुवारिणा । वेद्याधराधिराज्यार्थमभिषेकपुरःसरे । तस्य सिंहासनारोहे तदेवारम्भतां ययौ । ग्रंथैतत्तनयौ राजा तौ ददौ रामलक्ष्मणौ । सोऽस्मै तारावलोकाय क्रीतावेताविति ब्रुवन् । ८९ कुर्वन्त्यन्योन्यवृत्तान्तकथा यावच्च तत्र ते । तावद्रजश्चतुर्दन्तो लक्ष्मीश्चावातरद्दिवः । संवतीर्थेषु चान्येषु विद्याधरपतिष्वपि । लक्ष्मीस्तारावलोकं सा पद्महस्ता जगाद तम् । ९१ गरुह्य वारणेऽमुष्मिन्नेहि विद्याधरास्पदम् । तत्साम्राज्यश्रियं भुङ्क्ष्व जितां दानप्रभावतः ॥ ९२ त्युक्तवत्या ळक्ष्म्या स साकं भार्यासुतान्वितः । पितुः प्रणम्य चरणौ पश्यत्स्वाश्रमवासिषु ॥ ९३ आरुह्य तं गजं दिव्यं वृतो विद्याधरेश्वरैः। तारावलोको नभसा ययौ वैद्याधरं पदम् । ९४ |त्रोपभुक्तसाम्राज्यश्चिरं विद्याभिराश्रितः । कालेनोत्पन्नवैराग्यस्तपोवनमशिश्रियत् । ९५ एवं ताराबलोकेन मानुषेण सता पुरा । निर्मलैः सुकृतैः प्रापि सर्वविद्याधरेन्द्रता । ९६ अन्ये तु तामवाप्यापि विभ्रष्टाः स्खलितैस्ततः । तद्रक्षेरपचारं त्वं स्वतो वा परतोऽपि वा । ९७ इति नरवाहनदत्तः कश्यपमुनिना कथां समाख्याय । अनुशिष्टः स तथेति प्रतिपेदे चक्रवर्ती तत् । ९८ विद्याधराः श्रुणुत यः कुरुते ममात्र धर्मव्यतिक्रममितः प्रभृति प्रजासु । वध्यः स मे नियतमित्यभितो हराद्विमुद्धोषणां च स ततो भ्रमयांचकार । ९९ अथावनतमस्तकैर्विधृतशासनः खेचरै रुवास विलसद्यशाः सुरतमञ्जरीमोचनात् । स्वमातुळसमीपगोऽसितगिरौ नयन्प्रावृषं स तत्र सपरिच्छदो मुनिवरस्य तस्याश्रमे ॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके तृतीयस्तरः। समाप्तश्चायं सुरतमञ्जरीलम्बकः पोडशः। ०० ६८