सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ [ आदितस्तरङ्ग ततो विरहसोद्वेगा क्रुद्धा देवी जगाद सा । देवस्यासंनिधौ सुषु स्मरेप्रेक्षणकं कृतम् । एताभ्यां हासशीलायां हसितं प्रेक्ष्य सुष्टु च । तन्मर्ययोनौ कामान्धौ स्त्रीपुंसौ पततामिमौ ॥ तत्रैव दंपती चेतावविनीतौ भविष्यतः। हासशीलाविमौ छेशान्प्राप्स्यतस्तु बहून्भुवि । ब्राह्मणौ दुःखिनौ पूर्वं तदनु ब्रह्मराक्षसौ। ततः पिशाचकौ पश्चाचण्डालौ तस्करौ ततः । छिन्नपुच्छौ ततः श्वनौ विविधौ च ततः खगैौ। भविष्यतो गणावते परिहासापराधिनौ । आभ्यां हि स्वस्थचित्ताभ्यामेष दुर्विनयः कृतः । इत्यादिष्टवतीं देवीं धूर्जटाख्योऽवदद्दणः ॥ अत्ययुक्तमिदं देवि न खल्वेते गुणोत्तमाः । इयन्तं शापमर्हन्ति स्वल्पादेवापराधतः । तच्छुत्वैवात्रवीत्कोपादेवी तमपि धूर्जटम् । मर्ययोनावनात्मज्ञ भवानपि पतत्विति ॥ तशापप्रतापां तां प्रतीहारी जयाम्बिकाम् । जननी चन्द्रलेखायाः पालना व्यजिज्ञपत् । प्रसीद देवि शपान्तं कुर्वस्या दुहितुर्मम । एतेषां च स्वभृत्यानामज्ञानविहितागसाम् । विज्ञप्तेति प्रतीहार्या जयया गिरिजात्रचीत् । यदा सर्वे मिलिष्यन्ति ज्ञानप्राप्तिवशात्क्रमात् । ब्रह्मादीनां तपःक्षेत्रे दृष्ट्वा सिद्धीश्वरं तदा। एष्यन्ति पदमस्माकं मुक्तशापा इमे पुनः । मानुष्ये चन्द्रधेयमेतकान्तः स धूर्जटः । सुखिनोऽमी भविष्यन्ति त्रयो द्वौ दुःखिनाविमौ । इत्युक्त्वा विरता यावत्सा देवी तावदाययौ । तत्रासुरः किल ज्ञातहरासंनिधिरन्धकः स देवीं प्रेप्सुरुत्सिक्तस्तत्परिच्छदभत्सितः । गत विज्ञाय देवेन ज्ञात्वा तत्कारणं हतः ।। छुतकाऽन्तिकायातस्तुष्टामुक्तान्धकागमाम् । सोऽथ देवो जगादैवं गिरिजां गिरिजापतिः । मानसः पूर्वपुत्रस्ते सोऽन्धकोऽद्य हतो मया । त्वगस्थिशेषो भृङ्गी च भविष्यत्यधुनेह सः ॥ इत्युक्त्वा स समं देव्या तत्रासीद्विहरन्हरः। मणिपुष्पेश्वराद्याश्च पञ्च तेऽवातरन्भुवि ।। तत्र तावडूयो राजंस्तस्य पित्रेश्वरस्य च । गुहेश्वरस्य चोदन्तं चित्रायतमिमं यण् । अस्ति यज्ञस्थलाख्योऽस्मिन्नप्रहारो महीतले । तत्राभूद्यज्ञसोमाख्यो ब्राह्मणो धनवान्गुणी । तस्य द्वावुदपद्येतां पुत्रौ वयसि मध्यमे । हरिसोमस्तयोज्यैष्ठः कनिष्ठो देवसोमकः । तयोस्तस्य समुत्तीर्णबाल्ययोरुपनीतयोः । विप्रस्यादौ धनं क्षीणं सभार्यस्यायुषा ततः । ततस्तौ तत्सुतौ दीनौ पितृहीनाववृत्तिकौ। हृताप्रहारौ दायादैर्मत्रयामासतुर्मिथः । भिनैकवृत्ती जातौ स्खो न च भिक्षामबाभुवः । तदूरमपि गच्छावो वरं मातामहं गृहम् । भ्रष्टौ यद्यपि नौ कोऽत्र श्रद्दध्यास्वयमागतौ । तथापि यावः किं कुर्वे नह्यन्यास्यावयोर्गतिः । इति संमत्र्य ययतुर्भक्षमाणौ क्रमेण तौ । तमप्रहारं तद्यत्र मातामहगृहं तयोः तत्र तं सोमदेवाख्यं मृतं मातामहं जनात् । पृच्छन्तौ तावबुध्येतां मन्दभाग्यौ सभार्यकम् ॥ ततश्च तौ यज्ञदेवऋतुदेवाभिधानयोः। रजोरूक्षौ विविशतुर्विंशौ मातुळयोगृहम् । तत्रादृत्य समाश्वास्य ताभ्यां कप्ताशनाम्बरौ । सद्विप्राभ्यामधीयानौ यावत्तौ तत्र तिष्ठतः तावत्तावप्युपक्षीणधनीभूतावधूयकौ । मातुले भागिनेयौ तौ प्रीतिपूर्वमवोचताम् । पुत्र दरिद्रीभूतानामस्माकं पशुपाळकम् । कतै नास्यद्य सामथ्ये तद्युवां रक्षतं पशून् । इत्युक्तौ मातुलाभ्यां तौ बाष्पकण्ठौ तथेति तत् । इरिसोमदेवसोमौ तद्वचोऽभ्युपजग्मतुः ।। ततोऽटव्यां पशून्नीत्वा सततं तौ ररक्षतुः । परिश्रान्तौ च सायं तावादायाजग्मतुर्गेहम् । तथा तयोः पाशुपाल्यं कुर्वतोर्देवशप्तयोः। अहार्यत पशुः कश्चित्कश्चिद्ध्यानैरभक्ष्यत । ततस्तौ मातुलैौ यावदुद्विग्नौ तावदेकदा । धेनुश्छागश्च यज्ञार्थं द्वौ तयोः कापि नेशतुः । तद्भयात्तान्गृहं नीत्वैषान्यानसमये पशून् । पलायितौ तौ चिन्वन्तौ दूरं विविशतुर्वनम् ॥ तत्र व्याघ्रधजग्धं तं छागं ददृशतुर्निजम् । शोचित्वोपहतात्मानावेवं जगदतुश्च ते । छागोऽयं मातुलाभ्यां नौ यज्ञार्थं पर्यकल्प्यत । तस्मिन्नष्टे च दुर्वारस्तयोः कोपो भविष्यति ।। तदस्य मांसं संस्कृत्य वह्नौ भुक्वा हतक्षुध । शेषमादाय गच्छावः काप्यावां भैक्ष्यजीविनैौ ।