पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरङ्गः १।] पझावतीलम्बकः १७ ॥ ५४१ इति संचिन्त्य यावतं छागं संस्कुरुतोऽनले । तावदाजग्मतुः पश्चाद्धावन्तौ मातुलैौ तयोः ॥ १०३ ताभ्यां छागं पचन्तौ तौ दृष्टावुस्थाय संभ्रमात् । दूरत्तद्दर्शनत्रस्तौ पलाय्य ययतुस्ततः । १०४ युवाभ्यां मांस चुक्षुभ्यां राक्षसं कर्म यत्कृतम् । भविष्यथस्ततो ब्रह्मराक्षसौ पिशिताशनौ । १०५ इति तौ मातुलौ क्रुद्धौ तयोः शापं वितेरतुः । अभूतां द्विजपुत्रौ च सद्यस्तौ ब्रह्मराक्षसौ । १०६ दंष्ट्राविशङ्कटमुखौ दीप्तकेशौ बुभुक्षितौ । प्राणिनः प्राप्य खादन्ताबटव्यां श्रेमतुश्च तौ। १०७ एकदा तापसं हन्तुं योगिनं तावधावताम् । तत्प्रापतुः पिशाचत्वं शप्तौ तेन प्रतिज्ञता ।। १०८ पिशाचत्वेऽपि तौ हन्तुं हरन्तौ ब्राह्मणस्य गाम् । तन्मत्रभनौ तच्छापाचण्डालत्वमवापतुः । १०९ धनुष्पाणी भ्रमन्तौ क्षुन्निपीडितौ । कदाचिच्चौरपी तां प्रापतुर्भाजनार्थिनौ । ११ तत्र दृष्टैव तद्ररक्षकाश्चौरशङ्कया । चौरा वष्टभ्य तौ चक्षुश्छिन्नश्रणनासिकौ । १११ तथाविधौ च तौ बद्धौ निन्युस्ते तस्करास्ततः । पार्श्व प्रधानचौराणां लगुडाहतिताडितौ । ११२ तत्र पृष्टौ प्रधानैस्तौ चौरैस्तैर्भयविर्बौ । क्षुदुःखावाप्तसंज्ञेशं स्ववृत्तान्तमशंसताम्। ११३ ततस्ते कृपया मुख्यचौरा बन्धाद्विमुच्य तौ । ऊचुस्तिष्ठतमीतमिह मा भूद्यं च ११४ अष्टम्यामश्च सेनानीपूजनावसरे युवाम् । अस्माकमतिथी प्राप्तौ संविभागमिहार्हथः । ११५ इत्युक्त्वार्चितदेवीकाश्चौरास्ते स्वामभोजिते । तत्यजुनैव तौ दैवदुत्पन्नप्रीतयोऽन्तिकात् ११६ क्रमेण कुर्वाणौ चौर्यं तैर्दस्युभिः सह । महासेनापती तेषां संवृत्तैौ तौ स्वशौर्यतः ॥ ११७ एकदा चौरचारोक्तं शैवक्षेत्रं सहपुरम् । सेनापती तौ भुषितुं ससैन्यौ जग्मतुर्निशि ।। ११८ अनिमित्तेऽपि दृष्टे तावनिवृत्तावचार्य तत् । लुण्ठयामासतुः कृतं सदेवभुवनं पुरम् । ११९ ततस्तद्वासिभिर्देवः क्रन्दितः शरणार्थिभिः । चौरांस्तान्विकलानन्धांश्वका १२२ तदकस्माद्विलोक्यैव मत्वा शार्वमनुग्रहम् । पैौराः संभूय दस्यूस्तान्निजघुर्जुगुडाश्मभिः । १२१ अदृश्यमानाश्च गणाश्चौराश्वश्रेष्ववक्षिपन् । कांश्चिकांश्चिदमृतूंश्च निहत्य भुवि तस्कराम् । १२२ तौ च सेनापती यावज्जनो हgा जिघांसति । तावत्तौ सम्पद्येतां श्वानौ पुच्छविनाकृतौ । १२३ तथाभूतैौ च तौ स्मृत्वा पूर्वजातिमशङ्कितम् । नृत्यन्तौ शंकरस्याने तमेव शरणं श्रितौ । १२४ तदृष्ट्वा विस्मिताः सर्वे सविप्रवणिजो जनाः । गतचौरभया हृष्टा हसन्तः स्वगृहान्ययुः ॥ १२५ शान्तमोहौ प्रबुद्धौ च श्वानौ तौ शापशान्तये । त्यक्ताहरावथोद्दिश्य शिवं शिश्रियतुस्तपः । १२६ प्रातः कृतोत्सवास्तत्र पैरास्ते पूजितेश्वराः ध्यानस्थौ ददृशुः श्वानौ दत्तेऽप्यन्ने पराङ्मुखौ १२७ तथैव दृश्यमानौ तैर्यावी दिवसान्बहून् । श्वानौ स्थितौ गणास्तावदेवं शंभु व्यजिज्ञपन् । १२८ देव शप्ताविमैौ देव्या पिनेश्वरगुहेश्वरौ। बहुकालं गणौ क्लिष्ट तत्कृपामेतयोः कुरु ॥ १२९ तच्छुत्वोवाच भगवानिदानीं सारमेयताम् । परित्यज्य गणावेतौ वायसौ भवतामिति १३० ततस्तौ वायसीभूतौ बल्यन्नकृत्तपारणौ । गणौ जातिस्मरौ सुष्टु शिवैकाग्नौ बभूवतुः । १३१ कालेन भक्तितुष्टस्य निदेशाच्छंकरस्य तौ । भासावभूतां प्रथमं ततोऽपि च शिखण्डिनौ । १३२ ततोऽपि हंसतां प्राप्तौ तौ कालेन गणेश्वरौ । तत्रापि परया भक्त्या तावाराधयतां हरम् ॥ १३३ तीर्थस्नानैनैतैर्यानैः पूजनैस्तोषितेश्वरौ । हेमरत्नमयौ तौ च संजातौ ज्ञानिनौ तथा १३४ तावावां पार्वतीशापप्राप्तकुंशपरम्परौ । विद्येतौ हंसतां प्राप्तौ पिधैश्वरगुहेश्वरौ । १३५ जयात्मजाभिलाषी यो मणिपुष्पेश्वरो गणः । देव्या शप्तः स जातस्त्वं ब्रह्मदत्तो नृपो भुवि ।। १३६ जयासुता सा जातेयं भार्या सोमप्रभा तव । धूर्जटः स च जातोऽयं मन्त्री ते शिवभूतिकः । १३७ अत एव च संप्राप्तज्ञानाभ्यामम्बिकाछुतम् । स्मृत्वा शापान्तमावाभ्यां दत्तं ते निशि दर्शनम् ॥ १३८ तदुपायक्रमात्सर्वे मिलिताः स्म इमेऽधुना । आवां चैव प्रदास्यावो युष्मभ्यं ज्ञानमुत्तमम् ॥ १३९ आयात तन्निशीलगतं व्रजामः क्षेत्रं यथार्थमचलेन्द्रसुतापतेस्तत् । सिीश्वरं विदधिरे किल यत्र देवा विद्युद्वजासुरविनाशकृते तपांसि ।। १४०