॥ श्रीः ॥
महाकविश्रीसोमदेवभट्टविरचितः
कथासरित्सागरः।
***************
मदिरावती नाम त्रयोदशो लम्यकः ।
*****
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना
पुरा किल कथामृतं हरमुखधुधेरुद्रतम् ।
प्रसह्य रसयन्ति ये विगतविन्नलब्धॐयो
धुरं दधति वैखुधीं भुवि भवमसादेन ते ॥
'*****'
प्रथमस्तरङ्गः ।
स वो विनेश्वरः पायान्नमितोन्नमितेव यम् । अनुनृत्यति नृयन्तं संध्यासु भुवनावली ॥
गौरीप्रसाधनालन्नचरणालक्तक्रश्रियः । सखी सुखाय भूयाद्वः शंभोर्भालेक्षणप्रभा ॥
कवीन्द्रमानसाम्भोजनिवासभ्रमरीं नुमः । देवीं सहृदयानन्दशब्दमूर्तेि सरस्वतीम् ॥
ततो विरहसंतप्तो विना मनम झुकाम् । नरवा(हनदत्तः स तेषु वत्सेश्वरात्मजः ॥
मलयाचलपादेषु तदुपान्तवनेषु च । भ्रमन्मधुमनोज्ञेषु नैव प्राप रतिं कचित् ॥
बिभेद तस्य मृदुरष्यापतद्भिः शिीमुखैः । स्मरचापलातेवात्र हृद्यं चूतमञ्जरी ॥
कथं मधुरमभ्यस्य दुनोति स्म च दुःसहम् । मारनिर्भर्सनाबाक्यकङ कोकिलकूजितम् ॥
पुष्परेणुपिशङ्गश्च मदनाग्निरिबापतन् । विदाह तमक्रेषु शीतोऽपि मलयानिलः ॥
ततोऽलिकुलझांकरमुखरैस्तैः स काननैः। निष्काल्यमान इव तं प्रदेशं शनकैर्जहौ ॥
गच्छन्क्रमेण च प्राप कथंचिद्देवतासखः । गङ्गाभिपथाभ्यर्णवनान्तसरसस्तटम् ॥
तरुमूळोपविष्टैौ च तत्र ब्राह्मणपुत्रकौ । उभौ भख्याछूती वैरं कथास क्तौ ददर्श सः ॥
तौ च दृष्ट्वा तमुत्थाय प्रहौ मदनशङ्कया । अवोचतां नमस्तुभ्यं भगवन्कुसुमायुध ॥
ब्रूहि देव किमेकाकी त्यक्तकौसुमकार्मुकः । इतो भ्रमसि सा कुत्र रतिः सहचरी तव ॥
तच्छुत्वा तौ स वत्सेशसुतो विप्रावभाषत । नाहं कामो मनुष्योऽहं नष्टा सत्यं तु मे रतिः ॥
इत्युक्त्वाख्यातवृत्तान्तस्तौ विग्नौ पृष्टवानृपः । कौ युवां कीद्दशी चैषा कथात्र युवयोरिति ॥
ततस्तयोर्विप्रयूनोरेकस्तं विनतोऽब्रवीत् । राज्ञां भवादृशमने रहस्यं कथमुच्यते ॥
तथाष्यात्रानिरोधात्ते कथयामि निशम्यताम् । ऑस्ति शोभावती नाम कलिङ्गविषये पुरी ॥
कलिना न प्रविष्टा सा न स्पृष्टा पापकर्मभिः। न दृष्टा परराष्ट्रेण धात्रा सृथैव तादृशी ॥
तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः। ब्राह्मणोऽभूदभूत्तस्य सम्पनी मेखलेति च ॥
तयोरेकोऽहमुत्पन्नः सुतो वयसि मध्यमे । वर्धितश्श्वोपनीतश्च ताभ्यामस्मि ततः क्रमात् ॥
ततः पठत्यध्ययनं बाले मय्यतिदुस्तरम् । तत्रावृष्टिकृतं देशे दुर्भिक्षमुदपद्यत ॥
तेन तातोऽम्यया साकं मामादाय ततो गतः। विशालां नाम नगरी सधनः सपरिच्छदः ॥
तस्यां लक्ष्मीसरस्वत्योर्वसतौ मुक्तवैरयोः । तातो मित्रेण वणिजा दत्तवासः स्थितिं व्यधात् ॥
१ इयमेव कथा मालतीमाधवप्रकरणस्य मूलभूता.