पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६ ।]
४९१
शशाङ्कवतीलः १२ ।

तदेतदस्मै निजराज्यमूर्जितं समर्थं तीर्थं तपसेऽहमाश्रये ।
परैरनिन्छं चरितं मनस्विनां वयोनुसारोचितमेव शोभते ॥ २२९
इति क्षितीशस्य वचः सुनिश्चितं निशम्य धीराः किल तस्य मत्रिणः ।
क्रमेण देवीप्रमुखाश्च पौरस्तथेति सर्वं प्रतिपेदिरे तदा ॥ २३०
ततः स राजा गणकोक्तलग्ने दिने विविक्ते सहितो द्विजाग्यैः ।
सृगाङ्कदत्तस्य चकार तस्य राज्याभिषेकोत्सवमात्मजस्य ॥ २३१
इतस्ततः क्षत्तृनिदेशधावज्जनाकुलं व्यग्रनियुक्तवर्गम् ।
तदास्य नृत्यद्वारचारणस्त्रि मुदा जुषेणैव गृहं नृपस्य ॥ २३२
तीथदकं भूरि सभार्यकस्य मृगाङ्कदत्तस्य पपात मूर्त्ति ।
जलप्रवाहः पुनरस्य पित्रोः सानन्दयोर्नेत्रयुगान्निरीयुः ॥ २३३
अधिष्ठिते तेन नवेन राज्ञा सिंहासने सिंहपराक्रमेण ।
तद्विद्विषां कोपभयानतानां भूमावसिंहासनमेव मेने ॥ २३४
ततः पिता तस्य दिनानि सप्त ततान सज्जीकृतराजमार्गम् ।
यथार्हसंमानितराजलोकं महोत्सवें सोऽमरत्तभूपः ॥ २३५
दिनेऽष्टमे दारयुतो नगर्या निर्गत्य पुत्रं स मृगाङ्कदत्तम् ।
निबर्यं तं बाष्पमुखं सपौरं वाराणसीं मत्रिसखो जगाम ॥ २३६
तस्यां तु गङ्गाम्बुपरिप्लुताङ्गो राजा त्रिसंध्यं त्रिपुरान्तकस्य ।
कुर्वन्सपर्या फलमूलवृत्तिस्तस्था तपस्यन्मुनिवत्सदारः ॥ २३७
आसाद्य राज्यमथ सोऽपि मृगाङ्कदत्तो भास्वानिवाम्बरतलं विपुलमलं तत् ।
आक्रम्य च क्षितिभृतः करसंनिपातैः प्रावर्तत प्रतपितृ प्रसरत्प्रतापः ॥ २३८
मायाबदुप्रभृतिभिश्च सकर्मसेनैः संभूय सभृतधिभिः सचिवैः स तैः स्वैः ।
सीपमेतदवजित्य चतुर्दिगन्तमेकातपत्रमवनीवलयं शशास ॥ २३९
तस्मिश्च राजनि कथासु निशम्यमानदुर्भिक्षदस्युपरचक्रभयादिदुःखा ।
नित्यप्रहृष्टसुखिता नवरामभद्रसैराज्यसौख्यमसमं वसुधा बभार ॥ २४०
अध्यास्य तैश्च सचिवैः सह तामयोध्यां नानादिगागततृषार्चितपादपद्मः।
सम्राट् समं दयितया स शशाङ्कवस्या भोगानकण्टकमुखान्बुभुजे चिराय ॥ २४१
इति स व्याख्याय कथां मळयवनान्ते मुनिः पिशङ्गजट:।
तं नरवाहनदत्तं राजसुतं विरहिणं जगदे ॥ २४२
तस्मात्सोढक्लेशो मृगाङ्कदत्तो यथा शशाङ्कवतीम् ।
प्राप पुरा पुत्र तथा प्राप्स्यसि तां मदनमङ्कां त्वमपि ॥ २४३
इति तस्मात्स मुनीन्द्राद कण्थं वचोमृतं पिशङ्गजटात् ।
हृदि नरवाहनदत्तो धृतिमाधान्मदनमद्युप्राप्तौ ॥ २४४
तदंतचित्तोऽथ स तं मुनिवरमामद्य हरितां पूर्वम् ।
तत्रानेत्रीं चिन्वन्मळयगिरौ ललितलोचनां व्यचरत् ॥ २४५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षत्रिंशस्तरः।


समाप्तश्चयं शशङ्कवतीलबको द्वादशः ।


_____