सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
[आदितस्तरङ्गः
कथसरित्सागरः

देवदुन्दुभिनिर्वादस्पर्धयेव जगृम्भिरे । आनन्दतूर्यनिघृषप्रतिशब्दा नभस्तले ॥
प्रणनामाभिषिक्तं तं युवराजं न तत्र कः । स्वप्रभावाहते तेनैवोन्ननाम तदा हि सः ॥
ततो वत्सेश्वरस्तस्य सूनोर्बालसखीन्सतः । स्वमत्रिपुत्रानाहूय सचिवत्वे समादिशत् । ॥
यौगन्धरायणसुतं मन्त्रित्वे मरुभूतिकम् । सेनापत्ये हरिशिखं रुमण्वत्तनयं ततः ॥
वसन्तकसुतं क्रीडासखित्वे तु तपन्तकम् । गोमुखं च प्रतीहारधुरायामित्यकात्मजम् ॥
पौरोहित्ये च पूर्वोक्तावुभौ पिङ्गलिकासुतौ । वैश्वानरं शान्तिसोमें भ्रातुः पुत्रौ पुरोधसः ॥
इत्याज्ञप्तेषु पुत्रस्य साचिव्ये तेषु भूभृता । गगनादुदभूद्वाणी पुष्पवृष्टिपुरःसरा ॥
सर्वार्थसाधका एते भविष्यन्त्यस्य मन्त्रिणः । शरीरादबिभिन्नोऽस्य गोमुखस्तु भविष्यति ॥
इत्युक्तो दिव्यया वाचा हृष्टो वत्सेश्वरश्च सः। सर्वान्संमानयामास वस्त्रैराभरणैश्च तान् ॥
अनुजीविषु तस्मिश्च वसु वर्षति राजनि । दरिद्रशब्दस्यैकस्य नासीत्तत्रार्थसंगतिः ॥
पवनोल्लासिताक्षिप्तपताकापटपङ्किभिः। आहूतैरिव सापूरि नर्तकीचारणैः पुरी ॥
आगाईंद्याधरी साक्षालक्ष्मीस्तस्यैव भाविनी । कलिङ्गसेनाजामातुरुत्सवेऽत्र भविष्यतः ॥
ततो वासवदत्ता च सा च पद्मावती तथा । हर्षेण ननृतुस्तिस्रो मिलिता इव शक्तयः ॥
मारुतान्दोलितलताः प्रनृत्यन्निव सर्वतः । उद्यानतरवोऽप्यत्र चेतनेषु कथैव का ॥
ततः कृताभिषेकः सन्नारुह्य जयकुञ्जरम् । नरवाहनदत्तः स युवराजो विनिर्ययौ ॥
अवाकीर्यत चोत्क्षिप्तैर्नेत्रैर्नालसितारुणैः। पौरस्त्रीभिः स नीलाञ्जलाजपद्मजलिप्रभैः॥
दृष्ट्वा च तत्पुरीपूज्यदेवता बन्दिमागधैः। स्तूयमानः ससचिवः स विवेश स्वमन्दिरम् ॥
तत्र दिव्यानि भोज्यानि तथा पानान्युपाहरत् । कलिङ्गसेना तस्यादौ विभूत्यधिकानि सt ॥
ददौ तस्मै सुवस्त्राणि दिव्यान्याभरणानि च । समत्रिसखिभृत्याय जामातृस्नेहकातरा ॥
एवं महोत्सवेनासावमृतास्वादसुन्दरः। एषां वत्सेश्वरादीनां सर्वेषां वासरो ययौ ॥
ततो निशायां प्राप्तायां सुतोद्वाहविमर्शिनी । कलिङ्गसेना सस्मार तां सा सोमप्रभां सखीम् ॥
एतया स्मृतम।त्रां तां मयासुरसुतां तदा । भख्यां भत महज्ञानी जगाद् नडकूबरः ॥
कलिङ्गसेना त्वामद्य सोल्सुका स्मरति प्रिये । तद्गच्छ दिव्यमुद्यानं कुरु चैतत्सुताकृते ॥
इत्युक्त्वा भावि भूतं च कथयित्वा च तद्तम् । तदैव प्रेषयामास पत्नीं समप्रभां पतिः॥
सा चागत्य चिरोत्कण्ठाकृतकण्ठग्रहां सखीम् । कलिङ्ग सेनां कुशलं पृष्ट्वा सोमप्रभाब्रवीत् ॥
विद्याधरेण तावत्त्वं परिणीता महर्धिना । अवतीर्णा रतिस्ते च सुता शावदनुग्रहात् ॥
कामावतारस्यैषा च वत्सेशाल्लब्धजन्मनः । नरवाहनदत्तस्य पूर्वभार्या विनिर्मिता ॥
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । तस्यैषान्यावरोधानां मूर्ति सान्या भविष्यति॥
त्वं चावतीर्णा भूलोके शक्रशापच्युताप्सराः। निष्पन्नकार्थशेषा च शापमुक्तिमवाप्स्यसि ॥
एतन्मे सर्वमाख्यातं भनें ज्ञानवता सखि । तस्माचिन्ता न ते कार्या भावि सर्व शुभं तव ॥
अहं चेह करोम्येषा दिव्यं त्वत्तनयाकृते । उद्यानं नास्ति पाताले न भूमौ यन्न वा दिवि ॥
इत्युक्त्वा दिव्यमुद्यानं सा निर्माय स्वमायया । कलिङ्गसेनामामत्रय सोकां सोमप्रभा ययौ ॥
ततो निशि प्रभातायामकस्मान्नन्दनं दिवः । भूमाविव च्युतं लोको ददशंद्यानमत्र तत् ॥
बुझ्थ राजा वत्सेशः सभार्यः सचिवैः सह । नरवाहनदत्तश्च सानुगोऽत्र समाययौ ॥
ददृशुस्ते तमुद्यानं सदा पुष्पफलद्रुमम् । नानामणिमयस्तम्भभित्तिभूभागवापिकम् ॥
सुवर्णवर्णविहगं दिव्यसौरभमरुतम् । देवादेशावतीर्ण तखर्गान्तरमिव क्षितौ ॥
दृष्ट्वा तदद्भुतं राजा किमेतदिति पृष्टवान् । कलिङ्गसेनामातिथ्यव्यग्रां वत्सेश्वरस्तदा ॥
सा प्रत्युवाच सर्वेषु शृण्वत्सु नृपतिं च तम् । विश्वकर्मावतारोऽस्ति मयो नाम महासुरः ॥
युधिष्ठिरस्य यश्चक्रे पुरं रम्यं च वङ्गिणः। तस्य सोमप्रभा नाम तनयास्ति सखी मम ॥