सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आदितस्तर
कथासरित्सागरः

पूर्णचन्द्रमुखी नीलनीरजोत्तमलोचना । मृणालनालललितभुजा पीनस्तनोज्ज्वला ॥

कम्बुकण्ठी प्रबालभरदनच्छशोभिनी । स्मरभूपतिसौन्दर्यमन्दिरे वेन्दिरापरा ॥

ततः कामशरापातनिर्भिन्ने हृद्ये न मे । निशि तस्यामभून्निद्रा तद्विम्बोऽपिपासया ॥

कथंचिलब्धनिद्रोऽहमपश्यं रजनीक्षये । शुक्छाम्बरधरां दिव्यां स्त्रियं सा मामभाषत ॥

पूर्वभार्योपकोशा ते गुणज्ञा नापरं पतिम् । कंचिदिच्छत्यतश्चिन्ता पुत्र कार्यात्र न त्वया ॥

अहं सदा शरीरान्तर्वासिनी ते सरस्वती । त्वदुःखं नोत्सहे द्रष्टुमित्युक्त्वान्तर्हिताभवत् ॥

ततः प्रबुद्धो जातास्थो गत्वातिष्ठमहं शनैः। दयितामन्दिरासनंबाळचूततरोरधः ॥

अथागत्य समाख्यातं तत्सख्या मन्निबन्धनम् । उद्भाढमुपकोशाया नवानङ्गविलुम्भितम्

ततोऽहं द्विगुणीभूततापस्तामेवमब्रवम् । अदत्तां गुरुभिः स्वेच्छमुपकोशां कथं भजे ॥

वरं हि मृत्युर्नाकीर्तिस्तत्सखीहृदयं तव। गुरुभिर्यदि बुध्येत तत्कदाचिच्छिवं भवेत् ॥

तदेतत्कुरु भद्रं त्वं तां सूखीं मां च जीवय । तच्छुत्वा सृ गता सख्या मातृः सर्वं
न्यवेदयत् ॥

तया तत्कथितं भर्तुरुपवर्षस्य तत्क्षणम् । तेन भ्रातुश्च वर्षस्य तेन तच्चाभिनन्दितम्॥

विवाहे निश्चिते गत्वा व्याडिरानयति स्म ताम् । वर्षाचार्यनिदेशेन कौशाम्ब्या जननीं भम

अथोपकोशा विधिवत्पित्रा मे प्रतिपादिता । ततो मात्रा गृहिण्या च समं तत्रावसं सुखम् ॥

अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् । तत्रैकः पाणिनिर्नाम जड़बुद्धितरोऽभवत् ॥

स शुश्रूषापरिक्छिष्टः प्रेषितो वर्षभार्यया । अगच्छत्तपसे खिन्नो विद्याकामो हिमालयम् ॥

तत्र तीर्मेण तपसा तोषितादिन्दुशेखरात् । सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥

ततश्चागत्य मामेव वादायाद्यते स्म सः । प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥

अष्टमेऽह्नि मया तस्मिञ्जिते तत्समनन्तरम् । नभःस्थेन महाघोरो हुंकारः शंभुना कृतः॥

तेन प्रणष्टमैन्द्रं तदस्मव्याकरणं भुवि। जिताः पाणिनिना सर्वे मूर्तीभूता वयं पुनः ॥

अथ संजातनिर्वेदः स्वगृहस्थितये धनम् । हस्ते हिरण्यगुप्तस्य विधाय वणिजो निजम् ॥

उक्त्वा तच्चोपकोशायै गतवानस्मि शंकरम् । तपोभिराराधयितुं निराहारो हिमाळयम् ॥

उपकोशा हि मे श्रेयः काङ्न्ती निजमन्दिरे । अतिष्ठत्प्रत्यहं नान्ती गङ्गायां नियतव्रता ॥

एकदा सा मधौ प्राप्ते क्षामा पाण्डुमनोरमा । प्रतिपचन्द्रलेखेव जनलोचनहारिणी ॥

स्नातुं त्रिपथगां यान्ती दृष्टा राजपुरोधसा । दण्डाधिपतिना चैव कुमारसचिवेन च ॥

तत्क्षणात्ते गताः सर्वे स्मरसायकलक्ष्यताम् । सापि तस्मिन्दिने नान्ती कथमप्यकरोचिरम् ॥

आगच्छन्तीं च सायं तां कुमारसचिवो हठात् । अग्रहीदथ साप्येनमवोचत्प्रतिभावती ॥

अभिप्रेतमिदं भद्र यथा तव तथा मम । किं त्वहं सत्कुलोत्पन्ना प्रवासस्थितभर्तृका ॥

कथमेवं प्रवर्तेय पश्येत्कोऽपि कदाचन । ततश्च ध्रुवमश्रेयस्त्वया सह भवेन्मम ॥

तस्मान्मधूत्सवाक्षिप्तपौरलके गृहं मम । आगन्तव्यं ध्रुवं रात्रेः प्रथमे प्रहरे त्वया ॥

इत्युक्त्वा कृतसंधा सा तेन क्षिप्ता विधेर्वशात् । यावर्किचिद्गता तावन्निरुद्धा सा पुरोधसा ॥

तस्यापि तत्रैव दिने तद्वदेव तया निशि । संकेतकं द्वितीयस्मिन्प्रहरे पर्यकल्प्यत ॥

मुक्कां कथंचित्तेनापि प्रयातां किंचिदन्तरम् । दण्डाधिपो रुणद्धि स्म तृतीयस्तां सुविह्वलाम्


अथ तस्यापि दिवसे तस्मिन्नेव तथैव सा । संकेतकं त्रियामायां तृतीये प्रहरे व्यधात् ॥

दैवान्तेनापि निर्मुक्ता सकम्पा गृहमागता । कर्तव्यां सा स्वचेटीनां संविदं स्वैरमत्रवीत् ॥

वरं पत्यौ प्रवासस्थे मरणं कुछयोषितः। न तु रूपारमल्लोकलोचनपालपात्रता ॥

इति संचिन्तयन्ती च स्मरन्ती मां निनाय सा । शोचन्ती स्वं वपुः साध्वी निराहारैव तां निश ॥

प्रातश्रवणपूजार्थं व्यसजि वाणिजस्तया। चेटी हिरण्यगुप्तस्य किंचिन्मार्गयितुं धनम् ॥

आगत्य सोऽपि तामेवमेकान्ते वणिगब्रवीत् । भजस्व मां ततो भर्तृस्थापितं ते ददामि तत् ॥