सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तस्मै तथैव चाशंसत्तत्पुरीदर्शनं सृपा। तेनापि सत्कृत्य ततो राजान्तिकमनीयत ॥ ६४

राजानेऽप्यविकल्पः संस्तथैव च तदत्रवीत् । चूततान्तस्य किं नाम कितवस्य हि दुष्करम् ॥ ६५

राजापि निश्चयं ज्ञातुं ब्राह्मणं तं विसृष्टवान् । तस्याः कनकरेखाया दुहितुर्निकटं तदा॥ ६६

तया च स प्रतीहारमुखाज्ज्ञात्वान्तिकागतः । कश्चित्त्वया सा कनकपुरी हृष्टेत्यपृच्छथत ॥ ६७

बाढ मया सा नगरी दृष्टा विद्यार्थिना सता। भ्रमता भुवमित्येवं सोऽपि तां प्रत्यभाषत ॥ ६८

केन मार्गेण तत्र त्वं गतवान्कीदृशी च सा । इति भूयस्तया पृष्टः स विप्रोऽयैवमब्रवीत् ॥ ६९

इतो हरपुरं नाम नगरं गतवानहम् । ततोऽपि प्राप्तवानस्मि पुरीं वाराणसीं क्रमात् ॥ ७०

वाराणस्याश्व दिवसैर्नगरं पौण्ड्रवर्धनम् । तस्मात्कनकपुर्याख्यां नगरीं तां गतोऽभवम् ॥ ७१

दृष्टा मया च सा भोगभूमिः सुकृतकर्मणाम् । अनिमेषेक्षणास्वाद्यशोभा शक्रपुरी यथा ॥ ७२

तत्राधिगतविद्यश्च कालेनाहमिहागमम् । इति तेनास्मि गतवान्पथा सापि पुरीदृशी ॥ ७३

एवं विरचितोक्तौ च धूर्ते तस्मिन्द्विजन्मनि । शक्तिदेवे सहसं सा व्याजहार नृपात्मजा ॥ ७४

अहो सत्यं महद्भदान्दृष्टा सा नगरी त्वया । श्रुहि श्रूहि पुनस्तावकेनासि गतवान्पथा ॥ ७५

तच्छुत्वा स यदा धाट्यै शक्तिदेवोऽकरोत्पुनः । तदा तं राजपुत्री सा चेटीभिर्निरवासयत् ॥ ७६

निर्वासिते ययौ चास्मिन्पितुः पार्श्व तदैव सा । किं सत्यमाह विनोऽसाविति पित्राप्यष्टच्छयत ॥ ७७

ततश्व सा राजसुता जनकं निजगाद तम् । तात राजापि भूत्वा त्वमविचार्येव चेष्टसे ॥ ७८

किं न जानासि धूर्ता यद्वधूयन्ते जनानृजून् । स हि मिथ्यैव विप्रो मां प्रतारयितुमीहते ॥ ७९

न पुनर्नगरी तेन दृष्टा सालीकवादिना । धूतैरनेककाराश्च क्रियन्ते भुवि वञ्चनाः ॥ ८०

शिबमाधववृत्तान्तं तथाहि शृणु वच्मि ते । इत्युक्त्वा राजकन्या सा व्याजहार कथामिमाम् ॥ ८१

5 अस्ति रत्नपुरं नाम यथार्थं नगरोत्तमम् । शिवमाधवसंज्ञौ च धूर्ता तत्र बभूवतुः ॥ ८२

परिवारीकृतानेकधूर्ता तैौ चतुश्चिरम्। मायाप्रयोगनिःशेषमुषिताढयजनं पुरम् ॥ ८३

एकदा द्वौ च तावेवं मन्त्रं विदधतुर्मिथः। इदं नगरमावाभ्यां ऋतं तावद्विलुण्ठितम् ॥ ८४

अतः संप्रति गच्छामो वस्तुमुजयिनीं पुरीम् । तत्र तु भूयते राज्ञः पुरोधाः सुमहधनः ॥ ८५

शंकरस्वामिनामा च तस्माद्युक्त्या हृतेधेनेः मालवीविलासानां यास्यामोऽत्र रसज्ञताम् ॥ ८६

आस्कन्दी दक्षिणार्धस्य स तत्र भृकुटीमुखः । सप्तकुम्भीनिधानो हि कीनाशो गीयते द्विजैः ॥ ८७

कन्यारत्नं च तस्यास्ति विप्रस्यैकमिति श्रुतम् । तदप्येतत्प्रसन्नेन ध्रुवं तस्मादवाप्स्यते ॥ ८८

इति निश्चित्य कृत्वा च मिथः कर्तव्यसंविदम्। शिवमधवधूतौ तु पुरांप्रययतुस्ततः ॥ ८९

शनैश्चोज्जयिनीं प्राप्य माधवः सपरिच्छदः। राजपुत्रस्य वेषेण तस्थौ ग्रामे कचिद्वहिः॥ ९०

शिवस्वविकलं कृत्वा वर्णिवेधं विवेश ताम् । नगरीमेक एवाने बहुमायाविचक्षणः॥ ९१

तत्राध्युवास सिप्राया मठिकां तीरसीमनि । दृश्यस्थापितमृद्दर्भभिक्षाभाण्डमृगाजिनाम् ॥ ९२

स च प्रभातकाळेषु घनयाक्रे मृदालिपत् । अवीचिकर्दमालेपसूत्रपातमिवाचरन् ॥ ९३

सरित्तोये च स चिरं निमज्ज्यासीदवाङ्मुखः। कुकर्मजामिवाभ्यस्यन्भविष्यन्तीमधोगतिम् ॥ ९४

ननोथितोऽर्काभिमुखस्तस्थावूर्वं चिरं च सः। शैलाधिरोपणौचित्यमात्मनो दर्शयन्निव ॥ ९५

ततो देवाग्रतो गत्वा कुशकूर्चकरो जपन् । आस्त पद्मासनासीनः सदम्भचतुराननः ॥ ९६

अन्तरा हृदयानीव साधूनां कैतवेन सः । स्वच्छान्याहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ॥ ९७

कृतपूजश्च भूयोऽपि मिथ्या जपपरोऽभवत् । दत्तावधानः कुसृतिष्विव ध्यानं ततान सः ॥ ९८

अपरदं च भिक्षार्थी कृष्णसाराजिनाम्बरः । पुरि तद्वञ्चनामायाकटाक्ष इव सोऽभ्रमत् ॥ ९९

आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः । सदण्डाजिनकश्चक्रे ध्रिः सत्यमिव खण्डशः ॥ १००

भागं ददौ च काकेभ्यो भागमभ्यागताय च । भागेन दम्भबीजेन कुक्षिभन्नमपूरयत् ॥ १०१

पुनः स सर्वपापानि निजानि गणयन्निव । जपन्नावर्तयामास चिरं मिथ्याक्षमालिकाम् ॥ १०२