सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः १।]
९५
चतुर्दारिकालम्बकः ५

चैव कन्यका मोहादपात्रे प्रतिपादिता । यशसे न न धर्माय जायेतानुशयाय तु ॥ २६

कस्मै दीयते थेषा मया नृपतये सुता । कोऽस्याः समः स्यादिति मे देवि चिन्ता गरीयसी ॥ २७

श्रुत्वा सा विहस्यैवं बभाषे कनकप्रभा । त्वमेवमात्थ कन्या तु नेच्छत्युद्वाहमेव सा ॥ २८

चैव नर्मणा सा हि कृतकृत्रिमपुत्रका । वत्से कदा विवाहं ते द्रक्ष्यामीत्युदिता मया ॥ २९

तच्छुत्वैव साक्षेपमेवं मां प्रत्यवोचत । मा मैवमम्म दातव्या नैव कस्मैचिदप्यहम् ॥ ३०

ढंयोगो न चादिष्टः कन्यैवृस्मि सुशोभना । अन्यथा मां मृतां विद्धि किंचिदस्त्यत्र कारणम् ॥ ३१

t तयोक्ता त्वत्पार्श्व राजन्विग्नाइमागता । तन्निषिद्धविवाहायाः का वरस्य विचारणा ॥ ३२

के राज़ीमुखाच्छुत्वा समुद्धान्तः स भूपतिः। कन्यकान्तःपुरं गत्वा तामवादीत्तदा सुताम् ॥ ३३

`यन्तेऽपि तपसा यं सुरासुरकन्यकाः। भर्तुलाभः कथं वदसे स निषिद्धः किल स्वया ॥ ३४

त्पितुर्वचः श्रुत्वा भूतलन्यस्तलोचना। तदा कनकरेखा सा निजगाद नृपात्मजा ॥ ३५

। नैवेप्सितस्तावद्विवाहो मम सांप्रतम् । तत्तातस्यापि किं तेन कार्यं कश्चात्र वो ग्रहः ॥ ३६

मुक्तः स तया राजा दुहित्रा धीमतां वरः। परोपकारी स पुनरेवमेतामभाषत ॥ ३७

यादानादृते पुत्रि किं स्यात्किल्बिषशान्तये । न च बन्धुपराधीना कन्या स्वातन्त्र्यमर्हति ॥ ३८

तेव हि परस्यार्थे कन्यका नाम रक्ष्यते । बाल्यादृते विना भर्तुः कीदृक्तस्याः पितुर्गुदम् ॥ ३९

उमयां हि कन्यायां बान्धवा यान्त्यधोगतिम्। वृषी सा वरश्चास्या वृषलीपतिरुच्यते ॥ ४०

| तेनोदिता पित्रा राजपुत्री मनोगताम् । वाचं कनकरेखा सा तत्क्षणं समुदैरयत् ॥ ४१

एवं तात तवेन विप्रेण क्षत्रियेण वा । दृष्टा कनकपुर्याख्या नगरी कृतिना किल ॥ ४२

मे त्वयाहं दातव्या स मे भतो भविष्यति । नान्यथा तात मिथ्यैव कर्तव्या मे कदर्थना ॥ ४३

तयोक्ते सुतया स राजा समचिन्तयत् । दियोद्वाहस्य तत्तावत्प्रसङ्गोऽङ्गीकृतोऽनया ॥ ४४

च कारणोत्पन्ना देवीयं कापि मद्रुहे । इयकथं विजानाति बाला भूस्वान्यथा ह्यसौ ॥ ४५

संचिन्स्य तत्कालं तथेत्युक्त्वा च तां सुताम् । उत्थाय दिनकर्तव्यं स चकार महीपतिः ॥ ४६

येथुरास्थानगतो जगाद स च पार्श्वगान् । दृष्टा कनकपुर्याख्या पुरी युष्मासु केनचित् ॥ ४७

दृष्टा च सा तस्मै विप्राय क्षत्रियाय वा । मया कनकरेखा च यौवराज्यं च दीयते ॥ ४८

पि नैव सास्माभिर्दर्शने देव का कथा । इति ते चावदन्सर्वे अन्योन्याननदर्शिनः॥ ४९

राजा प्रतीहारमानीयादिशति स्म सः। गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ॥ ५०

हि यदि केनापि दृष्टा सा नगरी न वा । इत्यदिष्टः प्रतीहारः स तथेति विनिर्ययौ ॥ ५१

त्य च समादिश्य तत्क्षणं राजपूरुषान् । भ्रमयामास पटहं कुतश्रवणकौतुकम् ॥ ५२

विप्रः क्षत्रयुबा वा कनकपुरीं योऽत्र दृष्टवान्नगरीम् ।
वदतु स तस्मै राजा ददाति तनयां च यौवराज्यं च ॥ ५३

चेतस्ततस्तत्र नगरे दत्तविस्मयम् । उदघोष्यत सर्वत्र पटहानन्तरं वचः ॥ ५४

पुरेऽस्मिन्कनकपुरीनामाद्य घोष्यते । या वृद्धेरपि नास्माभिर्देष्टा जातु न च श्रुता ॥ ५५

में चावदन्पौराः श्रुत्वा तां तत्र घोषणाम् । न पुनः कश्चिदेकोऽपि मया दृष्टेत्यभाषत ॥ ५६

च तन्निवास्येकः शक्तिदेव इति द्विजः। बलदेवतनूजस्तामणोत्तत्र घोषणाम् ॥ ५७

युवा व्यसनी सद्यो घृतेन विधनीकृतः। अचिन्तयद्राजसुताप्रदानकर्णनोन्मनः ॥ ५८

शरितनिःशेषवित्सस्य मम नाधुना । प्रवेशोऽस्ति पितुर्गेहे नापि पण्याङ्गनागृहे ॥ ५९

दगतिकस्तावद्वरं मिथ्या ब्रवीम्यहम् । मया सा नगरी दृष्टेत्येवं पटहघोषकान् ॥ ६०

मां प्रत्येत्यविज्ञानं केन दृष्टा कदाहि सा। स्यादेवं च कदाचिन्मे राजपुत्र्या समागमः ॥ ६१

संचिन्त्य गत्वा तान्स राजपुरुषस्तदा । शक्तिदेवो मया दृष्टा सा पुरीत्यवदन्मृषा ॥ ६२

। तर्हि प्रतीहारपार्श्वमेहीति तत्क्षणम्। उक्तवद्भिश्च तैः साकं स प्रतीहारमभ्यगात् ॥ ६३