गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ८

विकिस्रोतः तः
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ७ गरुडपुराणम्
अध्यायः ८
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ९ →

श्रीगरुडमहापुराणम् ८
क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर ।
नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ ३,८.१ ॥

मित्र उवाच ।
नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे ।
वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ ३,८.२ ॥

अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः ।
मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् ।
अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ ३,८.३ ॥

एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग ।
तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ ३,८.४ ॥

तारोवाच
अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ ३,८.५ ॥

त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च ।
तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ ३,८.६ ॥

तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो ।
तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥ ३,८.७ ॥

निरृतिरुवाच ।
योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च ।
आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥ ३,८.८ ॥

चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् ।
अतो मां पाहि दयया सदा तारासमं प्रभो ।
तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥ ३,८.९ ॥

प्रवाह्युवाच ।
सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च ।
या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥ ३,८.१० ॥

भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव ।
सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥ ३,८.११ ॥

कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया ।
चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥ ३,८.१२ ॥

तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर ।
प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः ।
वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥ ३,८.१३ ॥

विष्वक्सेन उवाच ।
भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि ।
यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥ ३,८.१४ ॥

तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु ।
तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥ ३,८.१५ ॥

तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज ।
संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥ ३,८.१६ ॥

एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो ।
तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः ।
मित्रादहं न्यून एव नात्र कार्या विचारणा ॥ ३,८.१७ ॥

इति श्रीगा म उ तृ ध विष्णुस्तुतिर्देवतारम्यादि अष्टमोऽध्यायः