गरुडपुराणम्/आचारकाण्डः/अध्यायः २०५
← आचारकाण्डः, अध्यायः २०४ | गरुडपुराणम् अध्यायः २०५ वेदव्यासः |
आचारकाण्डः, अध्यायः २०६ → |
श्रीगरुडमहापुराणम् २०५
कुमार उवाच ।
अथ व्याकरणं वक्ष्ये कात्यायन समासतः ।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.१ ॥
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः ।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.२ ॥
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.३ ॥
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.४ ॥
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।
येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.५ ॥
ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके ।
यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १,२०५.६ ॥
पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके ।
यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १,२०५.७ ॥
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ।
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १,२०५.८ ॥
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,२०५.९ ॥
पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे ।
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,२०५.१० ॥
वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती ।
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १,२०५.११ ॥
द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि ।
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १,२०५.१२ ॥
नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,२०५.१३ ॥
तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १,२०५.१४ ॥
स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः ।
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १,२०५.१५ ॥
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १,२०५.१६ ॥
न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके ।
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १,२०५.१७ ॥
भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः ।
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १,२०५.१८ ॥
मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् ।
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १,२०५.१९ ॥
आदेशा इड्बहिमहि धातुतोथ णिजादिवत् ।
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १,२०५.२० ॥
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १,२०५.२१ ॥
लडीरितो वर्तमाने स्मेनातीते च धातुतः ।
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १,२०५.२२ ॥
विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत् ।
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १,२०५.२३ ॥
लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति ।
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १,२०५.२४ ॥
दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः ।
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १,२०५.२५ ॥
सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १,२०५.२६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः