गरुडपुराणम्/आचारकाण्डः/अध्यायः २०६
← आचारकाण्डः, अध्यायः २०५ | गरुडपुराणम् अध्यायः २०६ वेदव्यासः |
आचारकाण्डः, अध्यायः २०७ → |
श्रीगरुडमहापुराणम् २०६
सूत उवाच ।
सिद्धोदाहरणं वक्ष्ये संहितादिपुरः सरम् ।
विप्राः स्वसागता वीदं सुत्तमं स्यात्पितॄषभः ॥ १,२०६.१ ॥
ळकारो विश्रुता सेवं लाङ्गलीषा मनीपया ।
गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥ १,२०६.२ ॥
शीतार्तश्च तवल्कारः सैन्द्री सौकार इत्यपि ।
वध्वासनञ्च पित्रर्थो लनुबन्धो नये जयेत् ॥ १,२०६.३ ॥
नायको लवणं गावस्त एते न त ईश्वराः ।
देवीगृहमथो अत्र अ अवेहि पटू इमौ ॥ १,२०६.४ ॥
अमी अश्वाः षडस्येति तन्न वाक्षड्दलानि च ।
तच्चरेत्तल्लु नातीति तज्जलं तच्छ्मशानकम् ॥ १,२०६.५ ॥
सुगन्नत्र पचन्नत्र भवांश्छादयतीति च ।
भवाज्झनत्करश्चैव भवांस्तरति संस्मृतम् ॥ १,२०६.६ ॥
भवांल्लिखति ताञ्चक्रे भवाञ्शेतेऽप्यनीदृशः ।
भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्चनम् ॥ १,२०६.७ ॥
कश्चरेत्कष्टकारेण क कुर्यात्क फले स्थितः ।
कःशेते चैव कःषण्डः कस्को याति च गौरवम् ॥ १,२०६.८ ॥
क इहात्र क एवाहुर्देवा आहुश्च भो व्रज ।
स्वभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूर्पतिः ॥ १,२०६.९ ॥
अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति ।
कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः ॥ १,२०६.१० ॥
समासाः षट्समाख्याताः स द्विजः कर्मधारयः ।
द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः ॥ १,२०६.११ ॥
तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम् ।
ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी ॥ १,२०६.१२ ॥
भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः ।
तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः ॥ १,२०६.१३ ॥
देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता ।
ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि ॥ १,२०६.१४ ॥
हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः ।
आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली ॥ १,२०६.१५ ॥
विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा ।
बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ १,२०६.१६ ॥
कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके ।
जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि ॥ १,२०६.१७ ॥
भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः ।
वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा ॥ १,२०६.१८ ॥
द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम् ।
गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते ॥ १,२०६.१९ ॥
शुक्लकीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।
पटुः कमलभूः कर्ता सुमतो बहवः सुनौः ॥ १,२०६.२० ॥
सत्या नाग्न्यस्तथा पुंसो ह्यभक्षयत दीर्घपात् ।
सर्वविश्वोभ ये चोभौ एकोन्यान्यतराणि च ॥ १,२०६.२१ ॥
डतरो डतमो नेमस्त्वः समोऽथ सिमेतरौ ।
पूर्वश्चैवाधरश्चैव दक्षिणश्चोत्तरावरौ ॥ १,२०६.२२ ॥
परश्चान्तरमप्येतद्यत्त्यत्किमदसस्त्विदम् ।
युष्मदस्मत्तत्प्रथमचरमाल्पतयार्धकाः ॥ १,२०६.२३ ॥
तथा कतिपयो द्वौ चेत्येवं सर्वादयस्तथा ।
शृणोत्याद्या जुहोतिश्च जहातिश्च दधात्यपि ॥ १,२०६.२४ ॥
दीप्यतिः स्तूयतिश्चैव पुत्त्रीयति धनीयति ।
त्रुट्यति म्रियते चैव चिचीषति निनीषति ॥ १,२०६.२५ ॥
सर्वे तिष्ठन्ति सर्वस्मै सर्वस्मात्सर्वन्तो गतः ।
सर्वेषां चैव सर्वस्मिन्नेवं विश्वादयस्तथा ॥ १,२०६.२६ ॥
पूर्वे पूर्वाश्च पूर्वस्मात्पूर्वस्मिन्पूर्व ईरितः ।
सूत उवाच ।
सुप्तिङन्तुं सिद्धरूपं नाममात्रेण दर्शितम् ।
कात्यायनः कुमारात्तु श्रुत्वा विस्तरमब्रवीत् ॥ १,२०६.२७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचारदृ नाम षडुत्तरद्विशततमोऽध्यायः