सामग्री पर जाएँ

गरुडपुराणम्/आचारकाण्डः/अध्यायः २०४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २०३ गरुडपुराणम्
अध्यायः २०४
वेदव्यासः
आचारकाण्डः, अध्यायः २०५ →

श्रीगरुडमहापुराणम् २०४
सूत उवाच ।
एवं धन्वन्तरिः प्राह सुश्रुतायच वैद्यकम् ।
अत नामानि वक्ष्यामि ओषधीनां समासतः ॥ १,२०४.१ ॥

स्थिरा विदारिगन्धा च शालपण्यशुमत्यपि ।
लाङ्गली कलसी चैव क्रोष्टुपुच्छा गुहा मता ॥ १,२०४.२ ॥

पुनर्नवाथ पर्षाभूः कठिल्या कारुणा तथा ।
एरण्डश्चोरुवूकः स्यादामर्दो वर्धमानकः ॥ १,२०४.३ ॥

झषा नागबला ज्ञेया श्वदंष्ट्रा गोक्षुरो मतः ।
शतावरी वरा भीरु पीवरीन्दीवरी वरी ॥ १,२०४.४ ॥

व्याघ्री तु बृहती कृष्णा हंसपादी मधुस्त्रवा ।
धामनी कण्टकारी स्यात्क्षुद्रा सिंही निदिग्धिका ॥ १,२०४.५ ॥

वृश्चिका त्र्यमृता काली विषघ्नी सर्पदंष्ट्रिका ।
मर्कटी चात्मगुप्ता स्यादार्षेयी कपिकच्छुका ॥ १,२०४.६ ॥

मुद्गपर्णो क्षुद्रसहा माषपर्णो महासहा ।
त्यजा परा च महा ज्ञेया दण्डयोन्यङ्कसंज्ञया ।
न्यग्रोधस्तु वटो ज्ञेयः अश्वत्थः कपिलो मतः ॥ १,२०४.७ ॥

प्लक्षोऽथ गर्दभाण्डः स्यात्पर्कटी च कपीतनः ।
पार्थस्तु ककुभो धन्वि विज्ञेयोर्ऽजुननामभिः ॥ १,२०४.८ ॥

नन्दीवृक्षः प्ररोही स्यात्पुष्टिकारीति चोच्यते ।
वञ्जुलो वेतसो ज्ञेयो भल्लातश्चाप्यरुष्करः ॥ १,२०४.९ ॥

लोध्रः सारवको धृष्टस्तिरीटश्चापि कीर्तितः ।
बृहत्फला महाजम्बूर्ज्ञेया बालफला परा ॥ १,२०४.१० ॥

तृतीया जलजम्बूः स्यान्नादेयी सा च कीर्तिता ।
कणा कृष्णोपकुञ्ची च शौण्डी मागधिकेति च ॥ १,२०४.११ ॥

कथिता पिप्पली तज्ज्ञैस्तन्मूलं ग्रन्थिकं स्मृतम् ।
ऊषणं मरिचं ज्ञेयं शुण्ठी विश्वं महौषधम् ॥ १,२०४.१२ ॥

व्योषं कटुत्रयं विद्यात्त्र्यूषणं तच्च कीर्त्यते ।
लाङ्गली हलिनी च स्याच्छेयसी गज पिप्पली ॥ १,२०४.१३ ॥

त्रायन्ती त्रायमाणा स्यादुत्साया सुवहा स्मृता ।
चित्रकः स्याच्छिखी वह्निरग्निसंज्ञाभिरुच्यते ॥ १,२०४.१४ ॥

षड्ग्रन्थोग्रा वचा ज्ञेया श्वेता हैमवतीति च ।
कुटजो वृक्षकः शक्रो वत्सको गिरिमाल्लिका ॥ १,२०४.१५ ॥

कलिङ्गेन्द्रयवारिष्टं तस्य बीजानि लक्षयेत् ।
मुस्तक्तो मेघनामा स्यात्कौन्ती ज्ञेया हरेणुका ॥ १,२०४.१६ ॥

एला च बहुला प्रोक्ता सूक्ष्मैला च तथा त्रुटिः ।
पद्मा भार्ङ्गो तथा काञ्जी ज्ञेया ब्राह्मणयष्टिका ॥ १,२०४.१७ ॥

मूर्वा मधुरसा ज्ञेया तेजनी तिक्तवल्लिका ।
महानिम्बो बृहन्निम्बो दीप्यकः स्याद्यवानिका ॥ १,२०४.१८ ॥

विडङ्गं क्रिमशत्रुः स्याद्रामठं हिङ्गुरुच्यते ।
अजाजी जीरकं ज्ञेया कारवी चोपकुञ्चिका ॥ १,२०४.१९ ॥

विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी ।
तगरं स्यान्नतं वक्रं चोचं त्वचवराङ्गकम् ॥ १,२०४.२० ॥

उदीच्यं बालकं प्रोक्तं ह्रीबेरं चाम्बुनामभिः ।
पत्रकं दलसंज्ञाभिश्चारकं तस्कराह्वयम् ॥ १,२०४.२१ ॥

हेमाभं नागसंज्ञाभिर्नागकेशर उच्यते ।
असृक्कुङ्कुममाख्यातं तथा काश्मीरबाह्लिकम् ॥ १,२०४.२२ ॥

अयो लोहं समुद्दिष्टं यौगिकैर्लोहनामभिः ।
पुरं कुटनटं विद्यान्महिषाक्षः पलङ्कषा ॥ १,२०४.२३ ॥

काश्मरी कट्फला ज्ञेया श्रीपर्णो चेति कीर्तिता ।
शल्लकी गजभक्ष्या च पत्री च सुरभी स्त्रवः ॥ १,२०४.२४ ॥

धात्रीमामलकीं विद्यादक्षश्चैव विभीतकः ।
पथ्याभया च विज्ञेया पूतना च हरीतकी ॥ १,२०४.२५ ॥

त्रिफला फलमेवोक्ता तच्च ज्ञेयं फलत्रिकम् ।
उदकीर्यो दीर्घवृन्तः करञ्जश्चेति कीर्तितः ॥ १,२०४.२६ ॥

यष्टी यष्ट्याह्वयं प्रोक्तं मदुकं मधुयष्टिका ।
धातकी ताम्रपर्णो स्यात्समङ्गा कुञ्जरा मता ॥ १,२०४.२७ ॥

सितं मलयजं शीतं गोशीर्षं सितचन्दनम् ।
विद्याद्रक्तं चन्दनं च द्वितीयं रक्तचन्दनम् ॥ १,२०४.२८ ॥

काकोली च स्मृता वीरा वयस्या चार्कपुष्पिका ।
शृङ्गी कर्कटशृङ्गी च महाघोषा च कीर्तिता ॥ १,२०४.२९ ॥

तुगाक्षीरी शुभा वांशी विज्ञेया वंशलोचना ।
मृद्विका च स्मृता द्राक्षा तथा गोस्तनिका मता ॥ १,२०४.३० ॥

स्यादुशीरं मृणालञ्च सेव्यं लामज्जकं तथा ।
सारञ्च गोपवल्ली च गोपी भद्रा च कथ्यते ॥ १,२०४.३१ ॥

दन्ती कटङ्कटेरी च ज्ञेया दारुनिशेति च ।
हरिद्रा रजनी प्रोक्ता पीतिका रात्रिनामिका ॥ १,२०४.३२ ॥

वृक्षादनी छिन्नरुहा नीलवल्ली रसामृता ।
वसुकोटश्च विज्ञेयो वाशिरः काम्पिल्लो मतः ॥ १,२०४.३३ ॥

पाषाणभेदकोऽरिष्टो ह्यस्मभित्कुट्टभेदकः ।
घण्टाकः शुष्कको ज्ञेयो वचोऽथ सूचको मतः ॥ १,२०४.३४ ॥

सुरसो बीजकश्चैव पीतशालोऽभिधीयेत ।
वज्रवृक्षो महावृक्षः स्नुही स्नुक्च सुधा गुडा ॥ १,२०४.३५ ॥

तुलसीं सुरसां विद्यादुपस्थेति च कथ्यते ।
कुठेरकोऽप्यर्जुनकः पर्णो सौगन्धिपर्णिक्रः ॥ १,२०४.३६ ॥

नीलश्च सिन्धुवारश्च निर्गुण्डीति सुगन्धिका ।
ज्ञेया सुगन्धिपर्णोति वासन्ती कुलजेति च ॥ १,२०४.३७ ॥

कालीयकं पीतकाष्ठं कतकाख्यः पुनः स्मृतः ।
गायत्रीखदिरो ज्ञेयस्तद्भेदः कन्दरो मतः ॥ १,२०४.३८ ॥

इन्दी वरं कुवलयं पद्मं नीलोत्पलं स्मृतम् ।
सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥ १,२०४.३९ ॥

अजवर्णो भवेदूर्जो वाजिकर्णोऽश्वकर्णकः ।
श्लेष्मान्तकस्तथा शेलुर्बहुवारश्च कथ्यते ॥ १,२०४.४० ॥

सुनन्दकः ककुद्भद्रं छत्राकी छत्रसंज्ञका ।
कबरी कुम्भको धृष्टः क्षुद्विधो धनकृत्तथा ॥ १,२०४.४१ ॥

कृष्णार्जकः करालश्च कालमानः प्रकीर्तितः ।
प्राची बला नदीक्रान्ता काकजङ्घाथ वायसी ॥ १,२०४.४२ ॥

ज्ञेया मूषिकपर्णो तु भ्रमन्ती चाखुपर्णिका ।
विषमुष्टिर्द्रावणञ्च केशमुष्टिरुदाहृता ॥ १,२०४.४३ ॥

किंलिहीं कटुकीं विद्यादन्तकश्चाम्लवेतसः ।
अश्वत्था बहुपत्रा च विज्ञेया चामलक्यपि ॥ १,२०४.४४ ॥

अरूषक्रं पत्र शूकं क्षीरी राजादनं मतम् ।
महापत्रं दाडिमं च तमेव करकं वदेत् ॥ १,२०४.४५ ॥

मसूरी विदली शष्पा कालिन्दीति निरुच्यते ।
कण्टकाख्या महाश्यामा वृक्षपादीति वक्ष्यते ॥ १,२०४.४६ ॥

विद्या कुन्ती निकुम्भा च त्रिभङ्गी त्रिपुटी त्रिवृत् ।
सप्तला यवतिक्ता च चर्मा चर्मकसेति च ॥ १,२०४.४७ ॥

शङ्खिनी सुकुमारी च तिक्ताक्षी चाक्षिपीलुकम् ।
गवाक्षी चामृता श्वेता गिरिकर्णो गवादिनी ॥ १,२०४.४८ ॥

काम्पिल्लकोऽथ रक्ताङ्गो गुण्डा रोचनिकेति च ।
हेमक्षीरी स्मृता पीता गौरी वै कालदुग्धिका ॥ १,२०४.४९ ॥

गाङ्गेरुकी नागबला विशाला चेन्द्रवारुणी ।
तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्च रसाञ्जनम् ॥ १,२०४.५० ॥

निर्यासो यश्च शाल्मल्याः स मोचरससंज्ञकः ।
प्रत्यक्पुष्पी खरी ज्ञेया अपामार्गो मयूरकः ॥ १,२०४.५१ ॥

सिंहास्यवृषवासाकमाटरूषकमादिशेत् ।
जीवको जीवशाकश्च कर्बुरञ्च शटीं विदुः ॥ १,२०४.५२ ॥

कट्फलं सोमवृक्षः स्यादग्निगन्धा सुगन्धिका ।
शताङ्गं शतपुष्पा च मिंसिर्मधुरिकामता ॥ १,२०४.५३ ॥

ज्ञेयं पुष्करमूलञ्च पुष्करं पुष्कराह्वयम् ।
यासोऽथ धन्वयासश्च दुष्पर्शोऽथ दुरालभा ॥ १,२०४.५४ ॥

वाकुची सोमराजी च सोमवल्लीति कीर्तिता ।
मार्कवः केशराजश्च भृङ्गराजो निगद्यते ॥ १,२०४.५५ ॥

प्रोक्तस्त्वेडगजस्तज्ज्ञैश्चक्रमर्दकसंज्ञखः ।
सुरङ्गीतगरः स्नायुः कलनाशा तु वायसी ॥ १,२०४.५६ ॥

महाकालः स्मृतो बेलस्तण्डुलीयो घनस्तनः ।
इक्ष्वाकुस्तिक्ततुम्बी स्यात्तिक्तालबुर्निगद्यते ॥ १,२०४.५७ ॥

धामार्गवोऽथ कोषातक्यथ यामिनी ।
विद्यात्कोशतकीभेदं कृतभेदनसंज्ञका ॥ १,२०४.५८ ॥

तथा जीमूतकाख्या च खुड्डाको देवताडकः ।
गृध्रनखी गृध्रनखी हिङ्गुकाकादनी मता ॥ १,२०४.५९ ॥

अश्वारिश्चैव बोद्धव्यः करवीरोऽश्वमारकः ।
सिन्धुः सैन्धवसिन्धूत्थमणिमन्थमुदाहृतम् ॥ १,२०४.६० ॥

क्षारो यवाग्रजश्चैव यवक्षारोऽभिधीयते ।
सर्जिका सर्जिकाक्षारो द्वितीयः परिकीर्तितः ॥ १,२०४.६१ ॥

काशीशं पुष्पकाशीशं विज्ञेयं नेत्त्रभेषजम् ।
धातुकाशीशकाशी च संज्ञेयं तच्च कीर्तितम् ॥ १,२०४.६२ ॥

सौराष्ट्री मृत्तिकाक्षारं काक्षी वै पङ्कपर्पटी ।
विद्यात्समाक्षिकं धातु ताप्यं ताप्युत्थसम्भवम् ॥ १,२०४.६३ ॥

शिला मनः शिला ज्ञेया नेपाली कुलटीति च ।
आलं मनस्तालकं वा हरितालं विनिर्दिशेत् ॥ १,२०४.६४ ॥

गन्धको गन्धपाषाणो रसः पारद उच्यते ।
ताम्रमौदुम्बरं शुल्बं विद्यान्म्लेच्छमुखं तथा ॥ १,२०४.६५ ॥

अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते ।
माक्षिकं मधु च क्षौद्रं तच्च पुष्परसं स्मृतम् ॥ १,२०४.६६ ॥

ज्येष्ठन्तु सोदकं तत्स्यात्काञ्जिकन्तु सुवीरकम् ।
सीता सितोपला चैव मत्स्यण्डीशर्करा स्मृता ॥ १,२०४.६७ ॥

त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।
नागकेशरसंयुक्तं तच्चतुर्जातमिष्यते ॥ १,२०४.६८ ॥

पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।
कथितं पञ्चकोलञ्च कोलकं कोलसंज्ञया ॥ १,२०४.६९ ॥

प्रियङ्गुः कङ्गुका ज्ञेया कोरदूषश्च कोद्रवः ।
त्रिपुटः पुटसंज्ञश्च कलापो लङ्गको मतः ॥ १,२०४.७० ॥

सतीनो वर्तुलश्चैव वेणुश्चापि प्रकीर्तितः ।
पिचुकं पितलं चाक्षं बिडालपदकं तथा ॥ १,२०४.७१ ॥

विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् ।
पलार्धं शुक्तिमिच्छन्ति तथाष्टौमाषकास्त्विति ॥ १,२०४.७२ ॥

पलं बिल्वञ्च मुष्टिः स्याद्द्वे पले प्रसृतिं वदेत् ।
अञ्जलिं कुडवञ्चैव विद्यात्पलचतुष्टयम् ॥ १,२०४.७३ ॥

अष्टमानं पलान्यष्टौ तच्च मानमिति स्मृतम् ।
चतुर्भिः कुडवैः प्रस्थ प्रस्थाश्चत्वार आढकः ॥ १,२०४.७४ ॥

काशपात्रञ्च संप्रोक्तो द्रोणश्चचतुराढके ।
तुला पलशतं प्रोक्तं भागो विंशत्पलः स्मृतः ॥ १,२०४.७५ ॥

मानमेवं विधं प्रोक्तं प्रस्थद्रव्येषु पण्डितैः ।
द्रवद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तितम् ॥ १,२०४.७६ ॥

भद्रदारु देवकाष्ठं दारु स्याद्देवदारुकम् ।
कुष्ठमामयमाख्यातं मांसीञ्च नलदंशनम् ॥ १,२०४.७७ ॥

शङ्खः शुक्तिनखः शङ्खो व्याघ्रो व्याघ्रनखः स्मृतः ।
पुरं पलङ्कषं विद्यान्महिषाक्षञ्च गुग्गुलुः ॥ १,२०४.७८ ॥

रसो गन्धरसो बोले सर्जः सर्जरसो मतः ।
प्रियङ्गुः फलिनी श्यामा गौरी कान्तेति चोच्यते ॥ १,२०४.७९ ॥

करञ्जौ नक्तमालः स्यात्पूतिकश्चिरबिल्वकः ।
शिग्रुः शोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः ॥ १,२०४.८० ॥

जया जयन्ती शरणी निर्गुण्डी सिन्धुवारकः ।
मोरटा पीलुपर्णो च तुण्डी स्यात्तुण्डिकेरिका ॥ १,२०४.८१ ॥

मदनो गालवो बोधो घोटा घोटी च कथ्यते ।
चतुरङ्गुल सम्पाको व्याधिघाताभिसंज्ञकः ॥ १,२०४.८२ ॥

विद्यादारग्वधं राजवृक्षं रैवतसंज्ञकम् ।
दन्ती काकेन्दुतिक्ता स्यात्कण्टकी च विकङ्कतः ॥ १,२०४.८३ ॥

निम्बोऽरिष्टः समाख्यातः पटोलं कोलकं विदुः ।
वयस्था च विशल्या च च्छिन्ना छिन्नरुहा मता ॥ १,२०४.८४ ॥

वशा दन्त्यमृता चेति गुडूचीनामसंग्रहः ।
किराततिक्तकश्चैव भूनिम्बः काण्डतिक्तकः ॥ १,२०४.८५ ॥

सूत उवाच ।
नामान्येतानि च हरे वन्यानां भेषजां तथा ।
अतो व्याकरणं वक्ष्ये कुमारोक्तञ्च शौनक ॥ १,२०४.८६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चतुरत्तरद्विशततमोऽध्यायः