क्रमदीपिका/सप्तमः पटलः
← षष्ठः पटलः | क्रमदीपिका सप्तमः पटलः [[लेखकः :|]] |
अष्टमः पटलः → |
अनेकमन्त्रकथनार्थं सप्तमपटलं उपक्रामतिवक्ष्य इत्यादिना ।
वक्ष्येऽक्षयधनावाप्त्यै प्रतिपत्तिं श्रियः पतेः ।
सुगुप्तां धननाथाद्यैर्धन्यैर्या क्रियते सदा ।। क्रमदीपिका७.१ ।।
श्रियः पतेर्गोपालस्य प्रतिपत्तिं ध्यानं मन्त्रपूजाध्यानादिप्रकारं वा वक्ष्ये । या प्रतिपत्तिर्धननाथाद्यैः कुबेरप्रभृतिभिर्महाधनैः क्रियते । कस्यै ? अक्षयं अविनाशि यद्धनं तत्प्राप्त्यै । सुगुप्ता नात्यन्तप्रकटितां द्विजैरित्यर्थः ।। टीका ७.१ ।।
______________________________
द्वारवत्यां इत्यादि सप्तश्लोकैर्मध्यकुलकं ।
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ।
अनल्पैः कल्पवृक्षैश्च परीते मण्डपोत्तमे ।। क्रमदीपिका७.२ ।।
अच्युतो ध्येयः कुत्र ? द्वारवत्यां मणिमण्डपे मणिसिंहासनाम्बुजे आसीनो द्वारकानगरीगतमणिमण्डपावस्थितमणिमयसिंहासनोपविष्टः मणिमण्डपे । कीदृशे ? भवनोत्तमैः गृहोत्तमैः कल्पवृक्षैश्च परीते वेष्टिते । किम्भूतैः ? सहस्रसूर्याः तद्वद्भास्वरैर्दीप्तैरनल्पैर्विस्तरैः ।। टीका ७.२ ।।
______________________________
ज्वलद्रत्नमयस्तम्भद्वारतोरणकुड्यके ।
फुल्लस्रगुल्लसच्चित्रवितानालम्बिमौक्तिके ।। क्रमदीपिका७.३ ।।
पुनः कीदृशे ? ज्वलन्ति दीप्तानि यानि रत्नानि तन्मयं तत्प्रधानं स्तम्भः गृहाधारभूतं द्वारतोरणं कुड्यं भित्तिर्यत्र तस्मिन्प्रफुल्ला विकासनीया स्रक्पुष्पमाला उल्लसच्छोबमानं पवित्रं नानाप्रकारं वितानं तत्रालम्बि मौक्तिकं यत्र तत्र ।। टीका ७.३ ।।
______________________________
पुनः कीदृशे मणिमण्डपे ?
पद्मरागस्थलीराजद्रत्ननद्योश्च मध्यतः ।
अनारतगलद्रत्नसुधस्य स्वस्तरोरधः ।। क्रमदीपिका७.४ ।।
पद्मरागमयी या स्थली राजद्देदीप्यमानरत्नमयी च या नदी तयोर्मध्ये स्वस्तरोः पारिजातस्याधः । स्वस्तरोर्किम्भूतस्य ? अनारतं सर्वदा गलन्ती रत्नमयी सुधा अमृतं यस्य तस्य ।। टीका ७.४ ।।
______________________________
पुनः कीदृशे मणिमण्डपे ?
रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे ।
उद्यदादित्यसङ्काशे मणिसिंहासनाम्बुजे ।। क्रमदीपिका७.५ ।।
रत्नप्रदीपावलिभिर्ज्वलद्रत्नैः प्रदीपितं उद्भासितं दिशां अन्तरालं अवकाशो यत्र मणिसिंहासने । किम्भूते ? उद्यत्प्रादुर्भवन्य आदित्यस्तस्य सङ्काशे सदृशे ।। टीका ७.५ ।।
______________________________
अच्युतः किम्भूतह्?
समासीनोऽच्युतो ध्येयो द्रुतहाटकसंनिभः ।
समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः ।। क्रमदीपिका७.६ ।।
द्रुतहाटकसंनिभः द्रवीभूतस्वर्णतुल्यः समानोदिता एकदोद्गता या चन्द्रार्कानां कोटिः तडितां अपि कोटिः तत्समद्युतिर्यस्य सः ।। टीका ७.६ ।।
______________________________
पुनः किम्भूतह्?
सर्वाङ्गसुन्दरः स्ॐयः सर्वाभरणभूषितः ।
पीतवासाश्चक्रशङ्खगदापद्मोज्ज्वलद्भुजः ।। क्रमदीपिका७.७ ।।
सर्वाङ्गेन मुखादिना सुन्दरो रम्यः स्ॐयोऽनुद्धतः सर्वाभरणेना कुण्डलाद्यलङ्कारेण भूषितः । पीतवासाः पीतवाससी यस्य सः । चक्रशङ्खगदापद्मरुज्ज्वला दीप्ता भुजा यस्य सः ।। टीका ७.७ ।।
______________________________
पुनः कीदृशः ?
अनारतोच्छ्लद्रत्नधारौधकलशं स्पृशन् ।
वामपादाम्बुजाग्रेण मुष्णता पल्लवच्छविं ।। क्रमदीपिका७.८ ।।
वामपादाम्बुजाग्रेण अनारतं सर्वदा उच्छलन्ती या रत्नधारा तस्या ओघः प्रवाहो यत्र स चासौ कलसश्चेति कर्मधारयः । तं स्पृशन्वामपादाम्बुजाग्रेण । किम्भूतेन ? पल्लवच्छविं मुष्णता किशलयकान्तिं चोरयता ।। टीका ७.८ ।।
______________________________
अष्टमहिषीध्यानं आह
रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघधारया ।
सिञ्चन्त्यौ दक्षवामस्थे स्वदोःस्थकलशोत्थया ।। क्रमदीपिका७.९ ।।
रुक्मिणीसत्यभामे ध्येये । किम्भूते ? अस्य हरेर्मूर्ध्नि शिरसि रत्नप्रवाहधारया सिञ्चन्त्यौ । कीदृशे ? दक्षवामस्थे । अत्र रुक्मिणी दक्षिणे सत्या वामे । किम्भूतया धारया ? स्वहस्तस्थघटोद्भवया ।। टीका ७.९ ।।
______________________________
नाग्नजितीसुनन्दे च ध्येये । एते कीदृशे ?
नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः ।
ताभ्यां च दक्षवामस्थे मित्रविन्दासुलक्ष्मणे ।। क्रमदीपिका७.१० ।।
तयो रुक्मिणीसत्यभामयोः स्थाने रत्नघटौ दिशन्त्यौ ददत्यौ । कीदृशे ? दक्षवामस्थे । तथा मित्रविन्दासुलक्षणे दक्षिणवामस्थे ध्येये । किम्भूते ? ताभ्यां नाग्नजितीसुनन्दाभ्यां कलशं दिशन्तीभ्यां कलशं ददत्यौ ।। टीका ७.१० ।।
______________________________
रत्ननद्या समुद्धृत्य रत्नपूर्णौ घटौ तयोः ।
जाम्बवती सुशीला च दिशन्त्यौ दक्षवामगे ।। क्रमदीपिका७.११ ।।
तथा दक्षवामे जाम्बवतीसुशीले च ध्येये । किम्भूते ? रत्ननद्या रत्नपूर्णौ घटौ समुद्धृत्य तयोर्सुलक्ष्मणामित्रविन्दयोर्दिशन्त्यौ ।। टीका ७.११ ।।
______________________________
बहिः षोडशसाहस्रसङ्ख्याताः परितः स्त्रियः ।
ध्येयाः सकलरत्नौघधारायुक्कलशोज्ज्वलाः ।। क्रमदीपिका७.१२ ।।
तद्बहिः षोडशसाहस्रसङ्ख्याताः प्रिया ध्येयाः । किम्भूताः ? कनकं सुवर्णं रत्नानि पद्मादीनि तेषां ओघः समूहः । तस्य धारां युनक्तीति तद्युक्यः कलशः तेन दीप्ताः ।। टीका ७.१२ ।।
______________________________
तद्बहिश्चाष्टनिधयो ध्येयाः । कीद्र्शाः ?
तद्बहिश्चाष्टनिधयः पूरयन्तो धनैर्धरां ।
तद्बहिर्वृष्णयः सर्वे पुरोवच्च सुरादयः ।। क्रमदीपिका७.१३ ।।
धरां पृथ्वीं धनैः पूरयन्तः तद्बहिर्वृष्णयो यादवा ध्येयाः । अनन्तरं पुरोवत्दिक्षु स्थिताः सुरादयो देवर्षिसिद्धविद्याधरगन्धर्वप्रभृतयो रत्नाभिषेकं कुर्वन्तो ध्येयाः ।। टीका ७.१३ ।।
______________________________
ध्यात्वैवं परमात्मानं विंसत्यर्णं मनुं जपेत् ।
चतुर्लक्षं हुनेदाज्यैश्चत्वारिंशत्सहस्रकं ।। क्रमदीपिका७.१४ ।।
एवं परमात्मरूपं अशरीरिणं ध्यात्वा विंसत्यक्षरं मन्त्रं चतुर्लक्षं जपेत् । आज्यैर्घृतैश्चत्वारिंशत्सहस्रकं हुनेत्जुहूयात् ।। टीका ७.१४ ।।
______________________________
विंशत्यक्षरमन्त्रं उद्धरति
शक्तिश्रीपूर्वकोऽष्टादशार्णो विंशतिवर्णकः ।
मत्रेणानेन सदृशो मनुर्नहि जगत्त्रये ।। क्रमदीपिका७.१५ ।।
शक्तिर्भुवनेश्वरीबीजं श्रीः श्रीबीजं एतद्बीजद्वयपूर्वकः पूर्वोक्ताष्टादशाक्षरमन्त्र एव विंशत्यक्षरो भवतीत्यर्थः । अनेन मन्त्रेण सदृशो मन्त्र जगत्त्रये नास्ति ।। टीका ७.१५ ।।
______________________________
ऋष्यादिकं दर्शयति
ऋषिर्ब्रह्मा च गायत्रीच्छन्दः कृष्णस्तु देवता ।
पूर्वोक्तवदेवास्य बीजशक्त्यादिकल्पना ।। क्रमदीपिका७.१६ ।।
अस्य मन्त्रस्य बीजशक्त्यादिकल्पना पूर्वोक्तवत्दशाक्षरवत्तथा च दशाक्षरस्य यद्बीजादिकं तदस्यापीत्यर्थः ।। टीका ७.१६ ।।
______________________________
पूजाप्रकारं आह
कल्पः सनत्कुमारोक्तो मन्त्रस्यास्योच्यतेऽधुना ।
पीठन्यासादिकं कृत्वा पूर्वोक्तक्रमतः सुधीः ।। क्रमदीपिका७.१७ ।।
अस्य मन्त्रस्य सनत्कुमारकथितः पूजाप्रकारः सम्प्रति मया कथ्यते । पूर्वोक्तक्रमतः दशाक्षरोक्तप्रकारेण पीठन्यासप्राणायामादिकं कृत्वा ।। टीका ७.१७ ।।
______________________________
करद्वन्द्वाङ्गुलितलेष्वङ्गषट्कं प्रविन्यसेत् ।
मन्त्रेण व्यापकं कृत्वा मातृकां मनुसम्पुटां ।। क्रमदीपिका७.१८ ।।
संहारसृष्टिमार्गेण दशतत्त्वानि विन्यसेत् ।
पुनश्च व्यापकं कृत्वा मन्त्रवर्णास्तनौ न्यसेथ् ।। क्रमदीपिका७.१९ ।।
उभयकराङ्गुलिषु उभयकरतलेषु च षडङ्गानि क्रमान्न्यसेत् । मन्त्रेणेति विंशत्यक्षरमन्त्रेण व्यापकं सर्वतनौ न्यासं कृत्वा मातृकां मातृकान्यासं मनुसम्पुटां विंशत्यक्षरपुटितप्रत्यक्षरां पूर्वोक्तमातृकास्थानेषु विन्यसेत् । प्रयोगश्चह्रीं अं ह्रीं नम इत्यादिः । एवं भपर्यन्तं द्विरावृत्तिः । ततो ह्रीं श्रीं ह्रीं श्रीं नमः । क्लीं क्रीं पं क्लीं क्रीं नम इत्यादिः । संहारसृष्टिमार्गेण
दशतत्त्वानि महीसलिलप्रभृतीनि विन्यसेत् । पुनरपि विंशत्यक्षरमन्त्रेण व्यापकन्यासं कृत्वा विंशतिमन्त्राक्षराणि तनौ स्वशरीरे न्यसेत् ।। टीका ७.१९ ।।
______________________________
अक्षरन्यासस्थानान्याह
मूर्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः कर्णयोर्नसोः ।
आनने चिबुके कण्ठे दोर्मूले हृदि तन्दुके ।। क्रमदीपिका७.२० ।।
नाभौ लिङ्गे तथाधारे कट्योर्जान्वोश्च जङ्घयोः ।
गुल्फयोः पादयोर्न्यसेत्सृष्टिरेषा समीरिता ।। क्रमदीपिका७.२१ ।।
मस्तके भाले ललाटे भ्रूमध्ये इत्यादावेकैकं अक्षरं न्यसेत् । आधारे लिङ्गाधस्त्रिकोणस्थाने एष सृष्टिन्यासप्रकार उक्तः ।। टीका ७.२१ ।।
______________________________
स्थितिर्हृदादिकं सान्ता संहृतिश्चरणादिका ।
विधायैवं पञ्चकृत्वः स्थित्यन्तं मूर्तिपञ्जरं ।
सृष्टिस्थिती च विन्यस्य षडङ्गन्यासं आचरेथ् ।। क्रमदीपिका७.२२ ।।
हृदादिकांसां ता स्थितिः हृदयं आरभ्यांसपर्यन्तन्यासः स्थितिः संहृतिश्चरणादिकापादावारभ्यमूर्धान्तन्यासः विधायेति । एवं पञ्चवारान्स्थित्यन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा पूर्वोक्तमुर्तिपञ्जरन्यासं कृत्वा पुनः सृष्टिस्थिती विन्यस्य सृष्टिस्थितिप्रकारेण मन्त्रवर्णान्विन्यस्य षडङ्गन्यासं आचरेत् ।। टीका ७.२२ ।।
______________________________
षडङ्गानि दर्शयति
गुणाग्निवेदकरणकरणाक्ष्यक्षरैर्मनोः ।
मुद्रां बद्ध्वा किरीटाख्यां दिग्बन्धं पूर्ववच्चरेत् ।
ध्यात्वा जप्त्वार्चयेद्देहे मूर्तिपञ्जरपूर्वकं ।। क्रमदीपिका७.२३ ।।
मनोर्मन्त्रस्य गुणास्त्रयः अग्नयस्त्रयः वेदाश्चत्वारः करणं अन्तःकरणचतुष्टयं । पुनः करणचतुष्टयं अक्षिद्वयं एतैरक्षरैर्मन्त्रसम्भवैः षडङ्गानि कार्याणीत्यर्थः । मुद्रां इति किरीटाख्यां किरीटाभिधां बद्ध्वा कृत्वा किरीटाद्यां इति पाठे कौस्तुभश्रीवत्समुद्रयोः परिग्रहः पूर्ववदस्त्रमन्त्रेण दिग्बन्धनं कुर्यात् ।
आत्मपूजां आहध्यात्वेति । पूर्वोदितं ध्यानं कृत्वा अष्टोत्तरशतं च जप्त्वा मूर्तिपञ्जरपूर्वकं देहे पूजयेत्तथाचाभ्यन्तरे प्रथमं परमेश्वराराधनं तदनु मूर्तिपञ्जरस्य तदनु सृष्टिस्थितिन्यासं तदनु षडङ्गस्येति ।।२३ ।।
______________________________
बाह्यपूजाप्रकारं आह
अथवा ह्येऽर्चयेद्विष्णुं तदर्थं यन्त्रं उच्यते ।
गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेथ् ।। क्रमदीपिका७.२४ ।।
अथात्मपूजानन्तरं बाह्ये विष्णुं पूजयेत् । तत्पूजार्थं पूजास्थानं उच्यते । गोमयजलेन पृथिवीं उपलिप्य तत्र लिप्तस्थाने पीठं पूजाधारप्रियं पात्रं स्थापयेत् ।। टीका ७.२४ ।।
______________________________
विलिप्य गन्धपङ्केन लिखेदष्टदलाम्बुजं ।
कर्णिकायां तु षट्कोणं ससाध्यं तत्र मन्मथं ।। क्रमदीपिका७.२५ ।।
अनन्तरं तत्पीठं चन्दनपङ्केन विलिप्य तत्राष्टदलपद्मं विलिख्य कर्णिकायां पद्मं विलिख्य मध्यस्थाने षट्कोणपुटितं वह्निपुरद्वयं लिखेत् । तत्र षट्कोणमध्ये ससाध्यं कर्मसहितं साध्यनामसहितं मन्मथं कामबीजं लिखेत् । साध्यग्रहणात्धारणार्थं अप्येतद्बोद्धव्यं इति त्रिपाठिनः ।। टीका ७.२५ ।।
______________________________
शिष्टैस्तं सप्तदशभिरक्षरैर्वेष्टयेत्स्मरं ।
प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदं ।। क्रमदीपिका७.२६ ।।
शिष्टैः सप्त सप्तदशभिरक्षरैस्तं कामबीजं वेष्टयेत् । षट्कोणस्य पूर्वनैरृतिवायव्यकोणेषु श्रियं श्रीबीजत्रयं लिखेत् । शिष्टेषु त्रिषु कोणेषु पश्चिमेशानाग्निकोणेषु संविदं भुवनेश्वरीबीजं विलिखेत् ।। टीका ७.२६ ।।
______________________________
षडक्षरं सन्धिषु च केशरेषु त्रिशस्त्रिशः ।
विलिखेत्स्मरगायत्रीं मालामन्त्रं दलाष्टके ।। क्रमदीपिका७.२७ ।।
षड्शः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ।
भूबिम्बं च लिखेद्बाह्ये श्रीमाये दिग्विदिक्ष्वपि ।। क्रमदीपिका७.२८ ।।
सन्धिषु षट्कोणसन्धिषु षडक्षरं कामबीजपूर्वककृष्णाय नम इति षडक्षरं लिखेत् । केशरस्थाने कामगायत्रीं वक्ष्यमाणां त्रिशोऽक्षरत्रयं कृत्वा विलिखेत् । पत्राष्टके वक्ष्यमाणां मालामन्त्रं षड्शः षडक्षराणि कृत्वा विलिख्य पद्मबाह्ये मातृकाक्षरैर्वेष्टयेत् । मातृकावेष्टनबाह्य एव वक्ष्यमाणस्वरूपं भूबिम्बं च लिखेत् । भूबिम्बदिग्विदिक्षु श्रीमाये दिक्षु श्रीबीजं कोणेषु भुवनेश्वरीबीजं
लिखेदित्यर्थः ।। टीका ७.२८ ।।
______________________________
एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ।
साधितं धारयेद्यो वै सोऽर्च्येत त्रदशैरपि ।। क्रमदीपिका७.२९ ।।
एतद्यन्त्रं पूजायां अप्युपयुक्तं यो धारयेत्स देवैरपि पूज्यते । किं कृत्वा ? सुवर्णरजतताम्रादिपट्टेषु यथाकथितद्रव्येणालिख्य पूर्ववद्यः पूजासु । यद्वा, पूर्वमन्त्रवत्कृतप्राणप्रतिष्ठादिक्रियं । कीदृशं ? साधितं यथाकथितप्रकारेण सम्पादितप्रजप्तं च ।। टीका ७.२९ ।।
______________________________
कामगायत्रीं उद्धरति
स्याद्गायत्री कामदेवपुष्पबाणौ च ङेऽन्तकौ ।
विद्महेधीमहियुतौ तन्नोऽङ्गः प्रचोदयात् ।
जप्याज्जपादौ गोपालमनूनां जनरञ्जनीं ।। क्रमदीपिका७.३० ।।
कामदेवपुष्पबाणशब्दौ क्रमेण चतुर्थ्यन्तौ । किम्भूतौ ? विद्महेधीमहिशब्दसहितौ । तदनु तन्नोऽनङ्गः प्रचोदयादिति स्वरूपं । एवं सति कामगायत्री स्याद्भवति । जप्यादिति गोपालमन्त्राणां जपादौ जपोपक्रमे एतां कामगायत्रीं जप्यात् । यत इयं जनरञ्जनीं वश्यकरीं इत्यर्थः ।। टीका ७.३० ।।
______________________________
मालामन्त्रं उद्धरतिनत्यन्त इत्यादिना ।
नत्यन्ते कामदेवाय ङेऽन्तं सर्वजनप्रियं ।
उक्त्वा सर्वजनान्ते तु संमोहनपदं तथा ।। क्रमदीपिका७.३१ ।।
ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्वजनस्य च ।
हृदयं च मम ब्रूयात्वशं कुरुयुगं शिरः ।
प्रोक्तो मदनमन्त्रोऽष्तचत्वारिंशद्भिरक्षरैः ।। क्रमदीपिका७.३२ ।।
नमःशब्दान्ते कामदेवायेति स्वरूपं तदनु चतुर्थ्यन्ते सर्वजनप्रियशब्दं उच्चार्य तदनु सर्वजनशब्दं उक्त्वा संमोहनपदं वदेत् । तदनु ज्वल ज्वल प्रज्वलेति स्वरूपं उक्त्वा सर्वजनस्य हृदयं ममेति स्वरूपं उक्त्वा वशं इति स्वरूपं उक्त्वा कुरु कुरु इति स्वरूपं उक्त्वा शिरः स्वाहा इति वदेत् । एवं च सति अष्टचत्वारिंशदक्षरकैर्मदनमन्त्रः ।। टीका ७.३१३२ ।।
______________________________
विनियोगं दर्शयति
जपादौ मारबीजाद्यो जगत्त्रयवशीकरः ।
भूगृहं चतुरस्रं स्यात्कोणवज्राद्यलङ्कृतं ।। क्रमदीपिका७.३३ ।।
यत्र यथोद्भूत एव जपपूजाहोमादौ तु यदि कामबीजाद्यो भवति तदा जगत्त्रयवशीकरणक्षमः यदाय मन्त्रः स्वतन्त्रेण जप्यते तदेति त्रिपाठिनः । भूगृहं उद्धरतिभूगृहं इति । कोणसंलग्नाष्टवज्रालङ्कृतचतुरस्रं कोणचतुष्टयसहितं भूविलम्बं इति पाठो वा ।। टीका ७.३३ ।।
______________________________
यन्त्रे पूजाप्रकारं आह
पीठं पूर्ववदभ्यर्च्य मूर्तिसङ्कल्प्य पौरषीं ।
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेथ् ।। क्रमदीपिका७.३४ ।।
पूर्ववद्दशाक्षरवत्गुर्वापीठपूजान्तं अभ्यर्च्य तत्र पौरुषीं पुरुषाकृतिं मूर्तिं पारमेश्वरीं विचिन्त्य तत्र मूर्तावच्युतं आवाह्य सकलीकृत्य भक्त्या पूजयेत् । सुषुम्णा प्रवाहनाड्या पुष्पयुक्तं उत्तानपाणीहृदयस्थमूर्तेस्तेजः संयोज्य तेजो देवता ब्रह्मरन्ध्रेण देवशरीरगतं विचिन्त्य स्वस्वमुद्रया बाह्ये संस्थाप्य सन्निधाप्य सण्निरुद्ध्यावगुण्ठ्य देवताङ्गे षडङ्गन्यासं कृत्वा षोडशोपचारैः सम्पूजयेदित्यर्थः ।। टीका ७.३४ ।।
______________________________
आसनादि भूषणान्तं पुनर्न्यासक्रमात्यजेत् ।
सृष्टिस्थिती षडङ्गं च किरीटं कुण्डलद्वयं ।। क्रमदीपिका७.३५ ।।
चक्रशङ्खगदापद्ममालाश्रीवत्सकौस्तुभान् ।
गन्धाक्षतप्रसूनैश्च मूलेनाभ्यर्च्य पूर्ववथ् ।। क्रमदीपिका७.३६ ।।
आसनादि विभूषान्तं यथा स्यादेवं पूजयेतासनं आरभ्य भूषान्तैरुपचारैः पूजयेदित्यर्थः । पुनर्न्यासक्रमात्सृष्ट्यादीन्यजेत् । प्रथमं सृष्ट्यादीनां न्यासं विधाय ततस्तान्पूजयेत् । अथवा न्यासक्रमाद्यथा तेषां न्यासः कृतस्तेन क्रमेणेत्यर्थः ।
गन्धाक्षतेति । अक्षता यवा गन्धाक्षतपुष्पैश्च पूर्ववत्मूलमन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेदित्यर्थः ।। टीका ७.३६ ।।
______________________________
आवरणान्याह
आदौ वह्निपुरद्वन्द्वकोणेष्वङ्गानि पूजयेत् ।
सहृच्छिरः शिखावर्मनेत्रं अस्त्रं इति क्रमाथ् ।। क्रमदीपिका७.३७ ।।
प्रथमं वह्निपुरयुगलसम्बन्धिषट्कोणेषु आग्नेयकोणं आरभ्य षडङ्गानि पूजयेदित्यर्थः । अङ्गान्याहसहृदिति । सहहृदावर्तत इति सहृत्हृदयं शिरः शिखावर्मकवचं नेत्रं अस्त्रं चेति प्रथमावरणं ।। टीका ७.३७ ।।
______________________________
द्वितीयावरणं आह वासुदेव इति
वासुदेवः सङ्कर्षणः प्रद्य्म्नश्चानिरुद्धकः ।
अग्न्यादिदलमूलेषु शान्तिः श्रीश्च सरस्वती ।। क्रमदीपिका७.३८ ।।
रतिश्च दिग्दलेष्वर्च्यास्ततोऽष्तौ महिषीर्यजेत् ।
रुक्मिण्याद्या दक्षसव्ये क्रमात्पत्राग्रकेषु च ।। क्रमदीपिका७.३९ ।।
अग्न्यादिकोणदलमूलेषु केशरस्थानेषु वासुदेवादयः पूज्यास्तथैव पूर्वादिचतुर्दिक्षु दलमूलेषु शान्त्यादयः पूज्या इत्यर्थः । तृतीयावरणं आहततोऽष्टाविति । तदनन्तरं अष्टौ महिष्यः पूज्या इत्यर्थः । ता हि रुक्मिण्याद्या इति । पूजास्थानं आहदक्षसव्ये इति । परमेश्वरस्य दक्षिणभागे चतस्रः वामभागे चतस्रः क्रमेण पूज्या इत्यर्थः ।। टीका ७.३८३९ ।।
______________________________
चतुर्थावरणं आहतत इति ।
ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः ।
इन्द्रनीलमुकुन्दाद्यान्मकरानङ्गकच्छपान् ।। क्रमदीपिका७.४० ।।
पद्मशङ्खादिकांश्चापि निधीनष्टौ क्रमाद्यजेत् ।
तद्बहिश्चेन्द्रवज्राद्ये आवृती सम्प्रपूजयेथ् ।। क्रमदीपिका७.४१ ।।
पूर्वादिदलाग्रेषु षोडशसहस्रं प्रियाः देवपत्नीः सकृदेव एकक्रमेणैवार्चयेत् । पञ्चमं आवरणं आहैन्द्रनीलाद्यानष्टौ निधीन्पूर्वादिक्रमेण पूजयेत् । अत्रेन्द्रादिशब्दानन्तरं प्रत्येकं चतुर्थ्यन्तं निधिपदं देयं । प्रयोगश्चओं इन्द्रनिधये नमः इत्यादिः । षष्ठसप्तमावरणद्वयं आहतद्बहिरिति । तद्बाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् ।। टीका ७.४०४१ ।।
______________________________
आवरणानि सन्दर्श्य नैवेद्यं दर्शयति
इति सप्तावृत्तिवृतं अभ्यर्च्याच्युतं आदरात् ।
प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोऽन्धसा ।। क्रमदीपिका७.४२ ।।
इत्यनेन प्रकारेण सप्तावरणवेष्टितं कृष्णं आदरपूर्वकं सम्पूज्य दधिशर्कराघृतसहितेन पायसेन प्रीणयेदित्यर्थः ।। टीका ७.४२ ।।
______________________________
राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवं ।
उद्वासयेत्स्वहृदये परिवारगणैः सह ।। क्रमदीपिका७.४३ ।।
छत्रचामरादीनि दत्त्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्गपञ्चाङ्गान्यतरेण प्रणम्य परिवारगणैः सह केशवं हृदये उद्वासयेतुत्तोल्य स्थापयेत् ।। टीका ७.४३ ।।
______________________________
न्यस्त्वात्मानं समभ्यर्च्य तन्मयः प्रजपेन्मनुं ।
रत्नाभिषेकध्यानेज्याविंशत्यर्णाश्रितेरिता ।। क्रमदीपिका७.४४ ।।
जपहोमार्चनैर्ध्यानैर्योऽमुं प्रभजते मनुं ।
तद्वेश्म पूर्यते रत्नैः स्वर्णधान्यैरनारतं ।। क्रमदीपिका७.४५ ।।
न्यस्त्वा पूजा पूर्वोक्तं सृष्ट्यादिन्यासं कृत्वा आत्मपूजां विधाय तन्मयः पूज्यदेवस्वरूपो भूत्वा पूजाङ्गमन्त्रं जपेत् । पर्कृतं उपसंहरतिरत्नेति । ध्यानं च इज्या च पूजा च इत्यर्थः । तथा च यस्यां पूजायां कृष्णस्य रत्नाभिषेकध्यानं तत्र कृष्णस्य विंशत्यक्षरोक्ता पूजेयं उक्ता । फलं दर्शयतिजपेति । जपादिभिर्यो अमुं मन्त्रं सेवते तस्य गृहं पद्मरागादिभिः रत्नैः काञ्चनैर्धान्यैश्चानारतं अनवरतं पूर्यते ।। टीका ७.४४४५ ।।
______________________________
पृथ्वी पृथ्वी करे तस्य सवसस्यकुलाकुला ।
पुत्रैर्मित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिं ।। क्रमदीपिका७.४६ ।।
______________________________
प्रयोगं दर्शयति
वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतण्डुलैः ।
आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ।
तस्यान्नादिसमृद्धिः स्यात्तद्वशे सर्वयोषितः ।। क्रमदीपिका७.४७ ।।
यथोक्तप्रकारेणाग्निं आधाय तत्र यथोक्तप्रकारेण गोविन्दं सम्पूज्य घृताक्तैस्तण्डुलसहितैः शुक्लपुष्पैर्दशसहस्राणि हुत्वा होमाग्निभस्म यः पुमान्मूर्धनि धारयेत्तस्य नानासमृद्धिः सम्पत्तिर्भवति सर्वाश्च स्त्रियस्तदायत्ता भवन्ति ।। टीका ७.४७ ।।
______________________________
प्रयोगान्तरं आह
आज्यैर्लक्षं हुनेद्रक्तपद्मैर्वा मधुराप्लुतैः ।
श्रिया तस्यैन्द्रं ऐश्वर्यं तृणलेशायते ध्रुवं ।। क्रमदीपिका७.४८ ।।
घृतैः केवलैः घृतमधुशर्करायुतैः रक्तपद्मैर्वा यो लक्षं जुहोति तस्य साधकस्य श्रिया लक्ष्म्या कृत्वा इन्द्रसम्बन्धि ऐश्वर्यं तृणसमानं भवति ध्रुवं उत्प्रेक्षायां ।। टीका ७.४८ ।।
______________________________
प्रयोगान्तरं आह
शुक्लादिवस्त्रलाभाय शुक्लादिकुसुमैर्हुनेत् । त्रिमध्वक्तैर्दशशतं आज्याक्तैर्वाष्टसंयुतं ।। क्रमदीपिका७.४९ ।।
शुक्लादिवस्त्रप्राप्त्यर्थं घृतमधुशर्करासहितैः शुक्लपुष्पैः घृआक्तैर्वा अष्टधिकदशशतं जुहुयात् ।। टीका ७.४९ ।।
______________________________
प्रयोगान्तरं आह
क्षौद्रसिक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकं ।
हुनेन्नित्यं स षड्मासान्पुरोधा नृपतेर्भवेथ् ।। क्रमदीपिका७.५० ।।
मधुमिश्रितैः शुक्लपुष्पैरष्टाधिकसहस्रं प्रत्यहं यो जुहुयात्स षट्के अतीते राज्ञः पुरोहितो भवति ।। टीका ७.५० ।।
______________________________
दशाष्टादशवर्णोक्तं जपध्यानहुतादिकं ।
विदध्यात्कर्म चानेन ताभ्यां अप्यत्र कीर्तितं ।। क्रमदीपिका७.५१ ।।
दशाष्टादशाक्षरयोरुक्तं जपध्यानहोमादिकं अनेन मन्त्रेण कुर्यात् । अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् ।। टीका ७.५१ ।।
______________________________
मन्त्रान्तरं आह
श्रीशक्तिस्मरकृष्णाय गोविन्दाय शिरो मनुः ।
रव्यर्णो ब्रह्मगायत्रीकृष्णर्ष्यादिरथास्य तु ।। क्रमदीपिका७.५२ ।।
श्रीबीजं शक्तिबीजं स्मरः कामबीजं कृष्णाय गोविन्दायेति स्वरूपं शिरः स्वाहेति स्वरूपं रव्यार्णो मन्त्रः ऋषिरादौ येषां ते ऋष्यादयो ब्रह्मगायत्रीकृष्णा ऋष्यादय इत्यर्थः । अस्य ब्रह्मा ऋषिः गायत्रीच्छन्दः कृष्णो देवता इत्यर्थः । बीजशक्त्यादिपूर्ववत् ।। टीका ७.५२ ।।
______________________________
बीजैस्त्रिवेदयुग्मार्णैरङ्गषट्कं इहोदितं ।
विंशत्यर्णोदितजपध्यानहोमार्चनक्रियाः ।
मन्त्रोऽयं सकलैश्वर्यकाङ्क्षिभिः सेव्यताम्बुधैः ।। क्रमदीपिका७.५३ ।।
इह मन्त्रे अङ्गषट्कं षडङ्गं कथितं कैस्त्रिभिर्बीजैरङ्गत्रयं तथा त्रिवेदयुग्मार्णैः त्रिभिश्चतुर्भिर्द्वाभ्यां चापराङ्गत्रयं इति । विंशेति । अयं मन्त्रः विंशत्यक्षरमन्त्रोक्तजपध्यानहोमपूजासहितः सकलैश्वर्यकामैः पण्डितैरुपास्यतां ।। टीका ७.५३ ।।
______________________________
मन्त्रान्तरं आह
श्रीशक्तिकामपूर्वोऽङ्गजन्मशक्तिरमान्तकः ।
दशाक्षरः सरावादौ स्याच्चेच्छक्तिरमायुतः ।
मन्त्रौ विकृतिरव्यर्णावाचक्राद्यङ्गिनाविमौ ।। क्रमदीपिका७.५४ ।।
श्रीबीजं भुवनेश्वरीबीजं कामबीजं च । एते पूर्वे यस्य दशाक्षरस्य तथाङ्गजन्म कामबीजं शक्तिर्भुवनेश्वरीबीजं रमाश्रीबीजमेते अन्ते यस्य दशाक्षरस्य । एवं भूताद्यन्तविशिष्टो दशाक्षरो षोडशाक्षरमन्तोर्भवति तथा स एव दशाक्षरो मन्त्रः आदौ शक्तिरमायुतः भुवनेश्वरीश्रीबीजसहितश्चेत्तदा द्वादशाक्षरमन्त्रो भवति । एवं च सति इमौ विकृतिरव्यार्णौ षोडशाक्षरद्वादशाक्षरौ मन्त्रौ आचक्राद्यङ्गिनौ दशाक्षरोक्तानि आचक्राद्यङ्गानि ययोस्तादृशौ ज्ञेयौ ।। टीका ७.५४ ।।
______________________________
विंशत्यर्णोक्तयजनविधौ ध्यायेदथाच्युतं ।
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ।
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्ज्वलं ।। क्रमदीपिका७.५५ ।।
विंशत्यक्षरकथितपूजाप्रकारावेतौ अथानन्तरं अच्युतं चिन्तयेत् । कीदृशं ? स्वाङ्कगे स्वक्रोडस्थिते प्रिये लक्ष्मीसरस्वत्यौ । यद्वा, रुक्मिणीसत्यभामे श्लिष्यन्तं आलिङ्गन्तं । काभ्यां ? वरदाभयहस्ताभ्यां वरं ददातीति वरदः । न विद्यते भयं यस्मात्स वरदाभयौ च तौ हस्तौ चेति वरदाभयहस्तौ ताभ्यां इत्यर्थः । प्रिये कीदृशे ? पद्मं सामान्यपङ्कजं उत्पलं नीलपद्मं ते करयोर्ययोस्ते तादृग्विधे । पुनः कीदृशं ? ताभ्यां प्रियाभ्यां श्लिष्टं आलिङ्गितं । पुनः कीदृशं ? शङ्खचक्राभ्यां उज्ज्वलं ।। टीका ७.५५ ।।
______________________________
पुरश्चरणजपादिकं आह
दशलक्षं जपेदाज्यैस्तावत्सहस्रहोमतः ।
सिद्धाविमौ मनू सर्वसम्पत्सौभाग्यदौ नृणां ।। क्रमदीपिका७.५६ ।।
दशलक्षसङ्ख्यं जपेदाज्यैर्घृतैस्तावत्सहस्रहोमतो दशसहस्रहोमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्यसर्वजनप्रियप्रदौ भवतः ।। टीका ७.५६ ।।
______________________________
इदानीं क्रमेण मन्त्रं उद्धरति
मारशक्तिरमापूर्वः शक्तिश्रीमारपूर्वकः ।
श्रीशक्तिमारपूर्वश्च दशार्णो मनवस्त्रयः ।। क्रमदीपिका७.५७ ।।
अन्नाद्यः कामभुवनेश्वरीश्रीबीजपूर्वा दशाक्षरः भुवनेश्वरी श्रीर्मारः पूर्वो यस्येति द्वितीयः श्री भुवनेश्वरीकामबीजपूर्वो दशाक्षर इति तृतीयः ।।
______________________________
एतेषां मनुवर्याणां अङ्गर्ष्यादिदशार्णवत् ।
शङ्खचक्रधनुर्बाणपाशाङ्कुशधरोऽरुणः ।
वेणुं धमन्धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे ।। क्रमदीपिका७.५८ ।।
आद्ये मनौ ध्यानं एवं द्वितीये विंशदर्णवत् ।
दशार्णवत्तृतीयेऽङ्गदिक्पालाद्यैः समर्चना ।। क्रमदीपिका७.५९ ।।
पञ्चलक्षं जपेत्तावदयुतं पायसैर्हुनेत् ।
ततः सिध्यन्ति मनवो नृणां सम्पत्तिकान्तिदाः ।। क्रमदीपिका७.६० ।।
एतेषां इत्यादि सुगमं । दिवाकरे सूर्यमण्डले ।। टीका ७.५८६० ।।
______________________________
स्पष्टं मन्त्रान्तरं उद्धरति
अष्टादशार्णो भारान्तो मनुः सुतधनप्रदः ।
ऋष्याद्यष्टादशार्णोक्तं मारारूढस्वरैः क्रमात् ।
अङ्गान्यस्य मनोरङ्ग दिक्पालाद्यैः समर्चना ।। क्रमदीपिका७.६१ ।।
कामबीजान्तः पूर्वोक्ताष्टादशाक्षरमन्त्रः सुतधनप्रदः मारारूढैर्नपुंसकरहितकामबीजसहितैः दीर्घस्वरषट्कैः क्रां क्रीं इत्यादि षट्कैः क्रमादस्य मनोः षडङ्गानि ।। टीका ७.६१ ।।
______________________________
ध्यानं आह
पाणौ पायसपक्वं आहितरसं बिभ्रन्मुदा दक्षिणे
सव्ये शारदचन्द्रमण्डलनिभं हैयङ्गवीनं दधत् ।
कण्ठे कल्पितपुण्डरीकनखरं उमत्युद्दामदीप्तिं वहन्
देवो दिव्यदिगम्बरो दिशतु वः सौख्यं यशोदाशिशुः ।। क्रमदीपिका७.६२ ।।
पाणौ पायसपक्वं सुपक्वं पायसं सुस्वाद्वित्यर्थः । अत्युद्दामदीप्तिं अत्युद्भटकान्ति । दिव्य इति दिव्यश्चासौ दिगम्बरश्चेति समासः । दिव्यदेवस्वरूप इति ।। टीका ७.६२ ।।
______________________________
दिनशोऽभ्यर्च्य गोविन्दं द्वात्रिंशल्लक्षमानतः ।
जप्त्वा दशांशं जुहुयात्सिताज्येन पयोऽन्धसा ।। क्रमदीपिका७.६३ ।।
सिताज्येन पयोऽन्धसाशर्कराघृतसहितेन परमान्नेन ।। टीका ७.६३ ।।
______________________________
पद्मस्थं देवं अभ्यर्च्य तर्पयेत्तन्मुखाम्बुजे ।
क्षीरेण कदलीपक्वैर्दध्ना हैयङ्गवेन च ।। क्रमदीपिका७.६४ ।।
सुतार्थी तर्पयेदेवं वत्सराल्लभते सुतं ।
यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति ।। क्रमदीपिका७.६५ ।।
क्षीरेणेत्यादिना तर्पणं यदुक्तं तज्जलेनैव क्षीरादिद्रव्यबुद्ध्या कार्यं ।। टीका ७.६४६५ ।।
______________________________
मन्त्रान्तरं उद्धरति
वाग्भवं मारबीजं च कृष्णाय भुवनेश्वरी ।
गोविन्दाय रमा गोपीजनवल्लभङेशिरः ।। क्रमदीपिका७.६६ ।।
वाग्भवं ऐं इति बीजं मारबीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरीबीजं ह्रीं गोविन्दायेति स्वरूपं रमाश्रीबीजं गोपीजनवल्लभ इति स्वरूपं ङे चतुर्थ्येकवचनं शिरः स्वाहा शुक्लः शकारश्चतुर्दशस्वरूपेणोपेत औकारसहितः शुक्र इति पाठे दन्त्यसकारः सं शुक्रात्मने नम इति । न्यासविधानात्सर्गी विसर्गसहितः । तदूर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्यक्षरस्य ऊर्ध्वतः प्रथमबीजं एतदिति रुद्रधरः ।। टीका ७.६६ ।।
______________________________
चतुर्दशस्वरोपेतः शुक्लः सर्गी तदूर्ध्वतः ।
द्वाविंशत्यक्षरो मन्त्रो वागीशत्वस्य साधकः ।। क्रमदीपिका७.६७ ।।
वाग्भवं ऐं इति बीजं मारबीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरीबीजं ह्रीं गोविन्दायेति स्वरूपं रमाबीजं गोपीजनवल्लभ इति स्वरूपं ङे चतुर्थ्येकवचनं शिरः स्वाहा शुक्लः शकारश्चतुर्दशस्वरेणोपेत औकारसहितः शुक्र इति पाठे दन्त्यसकारः सं शुक्रात्मने नम इति । न्यासविधानात्सर्गी विसर्गसहितः तदूर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्यक्षरस्य ऊर्ध्वतः प्रथमबीजं एतदिति रुद्रधरः ।
तदूर्ध्वतःस्वाहाकारोर्ध्वतः इति लघुदीपिकाकारः । अनेन बीजेन सह द्वाविंशत्यक्षरो मन्त्रो भवति । कीदृशोऽयं ? वचनेश्वरत्वदाता ।। टीका ७.६६६७ ।।
______________________________
अष्टादशार्णवत्सर्वं अङ्गर्ष्यादिकं अस्य तु ।
पूजा च विंशत्यर्णोक्ता प्रतिपत्तिस्तु कथ्यते ।। क्रमदीपिका७.६८ ।।
अस्य ऋषिच्छन्दोधिष्टातृदेवताबीजशक्त्यङ्गानि सर्वाणि अष्टादशार्णवत्यथाष्टादशाक्षरमन्त्रे तथात्रापीत्यर्थः । पूजा पुनः विंशत्यक्षरकथिता बोद्धव्या प्रतिपत्तिर्ध्यानं कथ्यते पुनः ।। टीका ७.६८ ।।
______________________________
वामोर्ध्वहस्ते दधतं विद्यासर्वस्वपुस्तकं ।
अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृकामयीं ।। क्रमदीपिका७.६९ ।।
शब्दब्रह्ममयं वेणुं अधःपाणिद्वयेरितं ।
गायन्तं पीतवसनं श्यामलं कोमलच्छविं ।। क्रमदीपिका७.७० ।।
बर्हिवर्हकृतोत्तंसं सर्वज्ञं सर्ववेदिभिः ।
उपासितं मुनिगणैरुपतिष्ठेद्धरिं सदा ।। क्रमदीपिका७.७१ ।।
श्लोकत्रयेणात्रादिकुलकं । हरिं उपतिष्ठेत्ध्यायेत् । वामोर्ध्वहस्ते विद्यासर्वस्वपुस्तकं वेदान्तपुस्तकं धारयन्तं दक्षोर्ध्वे पञ्चाशत्सङ्ख्यमातृकाक्षरसमितां पञाशत्स्फटिकबद्धां अक्षमालां धारयन्तं । पुनः कीदृशं ? अधः स्थितकरद्वयेन ईरितं वादितं शब्दब्रह्ममयं शब्दब्रह्मस्वरूपं वेणुरन्ध्रं दधानं । पुनः कीदृशं ? वेणुनैव गायन्तं । पुनः कीदृशं ? पीतवस्त्रे यस्य तं श्यामवर्णं च । पुनः कीदृशं ? कोमला मनोहरा छविर्यस्य स तथा तं । पुनः कीदृशं
? बर्ही मयूरस्तस्य बर्हं पिच्छं तेन कृत उत्तंसः शिरोभूषणं येन तं । पुनः कीदृशं ? सर्वसाक्षिणं । पुनः कीदृशं ? सर्वदा उपासितं सेवितं । कैः ? सर्ववेदिभिः अतीतानागतज्ञैः मुनिगणैः सनकादिभिः ।। टीका ७.६९७१ ।।
______________________________
पुरश्चरणं आह
ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरं ।
चतुर्लक्षं जपेन्मन्त्रं इमं मन्त्री सुसंयतः ।। क्रमदीपिका७.७२ ।।
एवं पूर्वोक्तं भुवनेश्वरं श्रीकृष्णं प्रमदा स्त्री तस्या वेशः संस्थानविशेषः । तस्य विलास आह्लादो यस्य तं प्रमदारूपधारिणं इत्यर्थः । यद्वा, स्त्रीरूपधरं स्त्रीविलासं च ध्यात्वा इमं मन्त्रं लक्षचतुष्टयं जपेत्सुसंयतः सन्पूर्वोक्तपुरश्चरणवान् ।। टीका ७.७२ ।।
______________________________
होमं आह
पलाशपुष्पैः स्वाद्वक्तैश्चत्वारिंशत्सहस्रकं ।
जुह्यात्कर्मणानेन मनुः सिद्धो भवेद्ध्रुवं ।। क्रमदीपिका७.७३ ।।
घृतमधुशर्करान्वितैः पलाशपुष्पैश्चत्वारिंशत्सहस्रकं जुहुयात् । अनेन विधिना अवश्यं मन्त्रः सिध्यति ।। टीका ७.७३ ।।
______________________________
फलं दर्शयति
योऽस्मिन्निष्णातधीर्मन्त्री वर्तते वक्त्रगह्वरं ।
गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवथ् ।। क्रमदीपिका७.७४ ।।
यो मन्त्री अस्मिन्मन्त्रे निष्णातधीर्दत्तमतिर्वर्तते तस्य साधकस्य वक्त्रगह्वरात्मुखमध्यतो गद्यपद्यमयी वाणी प्रवर्तते गङ्गाप्रवाहवत्विशुद्धानवरतत्त्वेन गङ्गाप्रवाहेणोपमा ।। टीका ७.७४ ।।
______________________________
सर्ववेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः ।
संवित्तिं परमां लब्ध्वा चान्ते भूयात्परं पदं ।। क्रमदीपिका७.७५ ।।
सर्वेषु ऋग्वेदादिषु शास्त्रेषु वेदान्तेषु पण्डितो विवेकबुद्धियुक्तः सन्संवित्तिं उत्कृष्टज्ञानं प्राप्य अन्ते देहावसाने विष्णुलोकं प्राप्नोति ।। टीका ७.७५ ।।
______________________________
मन्त्रान्तरं आह
तारं हृद्भगवान्ङेऽन्तो नन्दपुत्रपदं तथा ।
अनन्दान्ते वपुषेऽस्थ्यग्निं आयान्ते दशवर्णकः ।। क्रमदीपिका७.७६ ।।
अष्टाविंशत्यक्षरोऽयं ब्रुवे द्वात्रिंशदक्षरं ।
नन्दपुत्रपद ङेऽन्तं श्यामलाङ्गं पदं तथा ।
ङेऽन्ता बालवपुः कृष्णगोविन्दा दशवर्णकः ।। क्रमदीपिका७.७७ ।।
तारं प्रणवः हृत्नमः ङेऽन्तश्चतुर्थ्यन्तो भगवान्भगवत इति स्वरूपं नन्दपुत्रं तथा ङेऽन्तं चतुर्थ्यन्तं नन्दपुत्रायेति पदान्ते आनन्द इति शब्दशेषे वपुषे इति स्वरूपं । अस्थि शकारः अग्नी रेफः माया दीर्घईकारः तथा च श्रीबीजं अस्यान्ते दशार्णकः दशाक्षरमन्त्रः एतेनायं मन्त्रः अष्टाविंशत्यक्षरो भवति ।
अधुना द्वात्रिंशमन्त्रं उद्धरतिनन्देति । नन्दपुत्रपदं चतुर्थ्यन्तं श्यामलाङ्गं पदं अपि चतुर्थ्यन्तं बालवपुः कृष्णगोविन्दशब्दाश्च प्रत्येकं चतुर्थ्यन्ताः । अनन्तरं पूर्वोक्तदशाक्षरमन्त्रः । एतेन द्वात्रिंशदक्षरो मन्त्रो भवति ।। टीका ७.७६७७ ।।
विमर्शःओं नमो भगवते नन्दपुत्राय आनन्दवपुषे श्रीं गोपीजनवल्लभाय स्वाहा ।। टीका ७.७६ ।।
नन्दपुत्राय श्यामलाङ्गाय बालवपुषे कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ।। टीका ७.७७ ।।
______________________________
ऋष्यादिकं दर्शयति ।
अनयोर्नारद ऋषिः छन्दस्त्रिष्टुबनुष्टुभौ ।
आचक्राद्यैरङ्गं अङ्गदिक्पालाद्यैश्च पूजनं ।। क्रमदीपिका७.७८ ।।
अनयोर्नारद ऋषिः । यथाक्रमं त्रिष्टुबनुष्टुप्छन्दसी आचक्राद्यैः पूर्वोक्तैरङ्गपञ्चकं अङ्गदिक्पालवज्राद्यैरावरणपूजनं पीठपूजा तु पूर्ववत् ।। टीका ७.७८ ।।
______________________________
ध्यानं दर्शयति
दक्षिणे रत्नचषकं वामे सौवर्णवेत्रकं ।
करे दधानं देवीभ्यां आश्लिष्टं चिन्तयेद्धरिं ।। क्रमदीपिका७.७९ ।।
हरिं चिन्तयेत् । कीदृशं ? दक्षिणहस्ते रत्नपात्रं वामहस्ते सुवर्णघटितवेत्रं दधानं । पुनः कीदृशं ? देवीभ्यां लक्ष्मीसरस्वतीभ्यां रुक्मिणीसत्यभामाभ्यां वा आलिङ्गितं ।। टीका ७.७९ ।।
______________________________
जपेल्लक्षं मनुवरौ पायसैरयुतं हुनेत् ।
एवं सिद्धमनुर्मन्त्री त्रैलोक्यैश्वर्यभाग्भवेथ् ।। क्रमदीपिका७.८० ।।
मन्त्रश्रेष्ठौ प्रत्येकं लक्षं जपेत् । अनन्तरं परमान्नेन दशसहस्रं जुहुयातनेन सिद्धौ मन्त्रो यस्य मन्त्री लोकत्रयिश्वर्यभाजनं भवति ।। टीका ७.८० ।।
______________________________
मन्त्रान्तरं आह
तारश्रीशक्तिबीजाढ्यं नमो भगवते पदं ।
नन्दपुत्रपदङेऽन्तं भूधरो मुखवृत्तयुक् ।
मासान्ते वपुषे मन्त्र ऊनविंशतिवर्णकः ।। क्रमदीपिका७.८१ ।।
तारं प्रणवः श्रीबीजं भुवनेश्वरीबीजं एतद्बीजत्रयाढ्य नमो भगवते इति स्वरूपं ततश्चतुर्थ्यन्तनन्दपुत्रपदं भूधरो बकारः मुखवृत्तं आकारः तद्युक्तः मांसो लकारस्तदन्ते वपुषे इति स्वरूपं एतेन ऊनविंशतिवर्णको मन्त्र उद्धृतो भवति ।। टीका ७.८१ ।।
मन्त्रोद्धारःः ओं श्रीं ह्रीं नमो भगवते नन्दपुत्राय बालवपुषे ।।
______________________________
ऋषिर्ब्रह्मानुष्टुप्छन्दस्तथान्यदुदितं समं ।
अयं च सर्वसम्पत्तिसिद्धये सेव्यताम्बुधैः ।। क्रमदीपिका७.८२ ।।
अस्य मन्त्रस्य ब्रह्मा ऋषिश्छन्दोऽनुष्टुबन्यदुदितं । अन्यत्सर्वं समानं पूर्वोक्तवद्वेदितव्यं इत्यर्थः ।। टीका ७.८२ ।।
______________________________
मन्त्रं उद्धरति
तारं हृत्भगवान्ङेऽन्तो रुक्मिणीवल्लभस्तथा ।
शिरोऽन्तः षोडशार्णोऽयं रुक्मिणीवल्लभाह्वयः ।। क्रमदीपिका७.८३ ।।
तारः प्रणवः हृन्नमः चतुर्थ्यन्तो भगवान्तथा चतुर्थ्यन्तो रुक्मिणीवल्लभशब्दः शिरोऽन्तः स्वाहाशब्दान्तः एतेन रुक्मिणीवल्लभाख्यः षोडशाक्षरो मन्त्रः कथितः ।। टीका ७.८३ ।।
विमर्शः ः ओं नमो भगवते रुक्मिणीवल्लभाय स्वाहा ।।
______________________________
सर्वसम्पत्प्रदो मन्त्रो नारदोऽस्य मुनिः स्मृतः ।
छन्दोऽनुष्टिप्देवता च रुक्मिणीवल्लभो हरिः ।
एकदृग्वेदमुनिदृग्वर्णैरस्याङ्गपञ्चकं ।। क्रमदीपिका७.८४ ।।
अस्य ऋषिर्नारदः अनुष्टुप्छन्दः रुक्मिणीवल्लभो हरिर्देवतेति । एकेति । अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति । कैः ? मन्त्रस्य एकद्विचतुःसप्तद्विवर्णैः ।। टीका ७.८४ ।।
______________________________
ध्यानं आह
तापिच्छच्छविरङ्गगां प्रियतमां सर्वणप्रभां अम्बुज
प्रोद्यद्वामभुजां स्ववामभुजयाश्लिष्यन्सचिन्ताश्मना ।
श्लिष्यन्तीं स्वयं अन्यहस्तविलसत्सौवर्णवेत्रश्चिरं
पायाद्वोऽसनप्रसूनपीतवसनो नानाविभूषो हरिः ।। क्रमदीपिका७.८५ ।।
तापिच्छच्छविस्तमालकान्तिर्हरिर्वो युष्मान्पायात्रक्षतु । किं कुर्वन्? अङ्कस्थां गौराङ्गीं प्रियतमां चिन्तामणिरत्नसहितेन हस्तेन आलिङ्गन् । आत्मानं देवं वा दक्षिणकरेण आश्लिष्यन्तीं आल्लिङ्गन्तीं । कीदृशो हरिः ? आलिङ्गनान्यहस्ते काञ्चनदण्डो यस्य । तथा पुनः कीदृशः ? असनवृक्षपुष्पवत्पीते वस्त्रे यस्य सः । पुनः कीदृशः ? नानाप्रकारोऽलङ्कारो यस्य ।। टीका ७.८५ ।।
______________________________
पुरश्चरणं आह
ध्यात्वैवं रुक्मिणीनाथं जप्याल्लक्षं इमं मनुं ।
अयुतं जुहुयात्पद्मैररुणैर्मधुराप्लुतैः ।। क्रमदीपिका७.८६ ।।
एवं पूर्वोक्तं रुक्मिणीवल्लभं रुक्मिणीनाथं ध्यात्वा इमं मन्त्रं लक्षं एकं जपतु । घृतमधुशर्करासिक्तैः लोहितपद्मैरपि दशसहस्रं जुहुयात् ।। टीका ७.८६ ।।
______________________________
पूजां दर्शयति
अर्चयेन्नित्यं अङ्गैस्तं नारदाद्यैर्दिशाधिपैः ।
वज्राद्यैरपि धर्मार्थकाममोक्षाप्तये नरः ।। क्रमदीपिका७.८७ ।।
पीठपूजा पूर्ववत् । आवरणपूजा तु कथ्यतेप्रत्यहं तं हरिं पूजयेत् । कैरङ्गैराचक्राद्यैः सायाह्नपूजोक्तैः नारदप्रभृतिभिश्च दिशाधिपैरिन्द्राद्यैः तेषां आयुधैर्वज्राद्यैः । कीदृशं ? पुरुषार्थचतुष्टयप्रदं ।। टीका ७.८७ ।।
______________________________
मन्त्रान्तरं उद्धरति
लीलादण्डावधौ गोपीजनसंसक्तदोः पदं ।
दण्डान्ते बालरूपेति मेघश्यामपदं ततः ।। क्रमदीपिका७.८८ ।।
भगवान्विष्णुरित्युक्त्वा वह्निजायान्तको मनुः ।
एकोनत्रिंशदर्णोऽस्य मुनिर्नारद ईरितः ।। क्रमदीपिका७.८९ ।।
छन्दोऽनुष्टुप्देवता च लीलादण्डधरो हरिः ।
मन्वब्धिकरणाग्न्यब्धिवर्णैरङ्गक्रिया मता ।। क्रमदीपिका७.९० ।।
लीलादण्डावधौ लीलादण्डशब्दान्ते गोपीजनसंसक्तदोः पदं अनन्तरं दण्डशब्दान्ते बालरूपेति पदं तदनु मेघश्यामेति पदं ततः शब्दोऽपि काकाक्षिवत्सम्बध्यते । तदनु भगवान्विष्णुः सम्बोधनान्तं उक्त्वा स्वाहाशब्दान्ते एकोनत्रिंशदक्षरो मन्त्र उद्ध्रियतां इत्यर्थः । अस्य मन्त्रस्य नारद ऋषिरनुष्टुप्छन्दो लीलादण्डो हरिर्देवतेति । मन्वब्धीति । अस्य मन्त्रस्याङ्गक्रिया मनुश्चतुर्दशः अब्धिश्चतुष्टयं करणं पञ्च अग्निस्त्रयश्चत्वारोऽब्धिरेतत्सङ्ख्याकैर्मन्त्रवर्णैर्मता संमता पञ्चाङ्गानीत्यर्थः ।। टीका ७.९० ।।
मन्त्रोद्धारः ः लीलादण्डगोपीजनसंसक्तदोर्दण्डबालरूपमेघश्याम भगवन्विष्णो स्वाहा ।
______________________________
ध्यानं आह
संमोहयन्निजकवामकरस्थलीला
दण्डेन गोपयुवतीः सुरसुन्दरीश्च ।
दिश्यान्निजप्रियतमांसगदक्षहस्तो
देवः श्रियं निहतकंस उरुक्रमो वः ।। क्रमदीपिका७.९१ ।।
संमोहयन्निजकवामकरस्थलीलादण्डेन गोपयुवतीः सुरसुन्दरीश्च दिश्यान्निजप्रियतमांसगदक्षहस्तो देवः श्रियं निहतकंस उरुक्रमो वः ।। टीका ७.९१ ।।
______________________________
पुरश्चरणं आह
ध्यात्वैवं प्रजपेल्लक्षं अयुतं तिलतण्डुलैः ।
त्रिमध्वक्तैर्हुनेदङ्गदिक्पालाद्यैः समर्चयेथ् ।। क्रमदीपिका७.९२ ।।
एवं पूर्वोक्तं कृष्णं ध्यात्वा लक्षं एकं जपेत् । तदनु घृतमधुशर्करासहितैस्तिलतण्डुलैर्दशसहस्रं जुहुयात् । अङ्गेति । पीठपूजा पूर्ववदावरणपूजापञ्चाङ्गैरिन्द्राद्यैश्चेति ।। टीका ७.९२ ।।
______________________________
प्रात्याहिकपूजाफलं आह
लीलादण्डं हरिं यो वै भजते नित्यं आदरात् ।
स पूज्यते सर्वलोकैस्तं भजेदिन्दिरा सदा ।। क्रमदीपिका७.९३ ।।
यो मनुष्यः प्रत्यहं लीलादण्डधरं हरिं सेवते स सर्वजनैः पूज्यते । तं इन्दिरा लक्ष्मीः सर्वदा भजते ।। टीका ७.९३ ।।
______________________________
मन्त्रान्तरं उद्धरति
त्रयोदशस्वरयुतैः शार्ङ्गी भेदः सकेशवः ।
तथा मांसयुगं भाय शिरः सप्ताक्षरो मनुः ।। क्रमदीपिका७.९४ ।।
त्रयोदशस्वर ओंकारस्तेन युतः शार्ङ्गी गकारः मेदो वकारः । कीदृशः ? स केशवः अकारसहितः । तथा मांसयुगं लकारद्वयं इति भाय शिरः स्वाहा । अनेन सप्ताक्षरो मन्त्र उक्तः ।। टीका ७.९४ ।।
मन्त्रस्वरूपः ः गोवल्लभाय स्वाहा ।।
______________________________
ऋष्यादिकं आह
आचक्राद्यैरङ्गक्प्तिर्नारदोऽस्य मुनिः स्मृतः ।
छन्द उष्णिग्देवता च गोवल्लभ उदाहृतः ।। क्रमदीपिका७.९५ ।।
आचक्राद्यैः पञ्चाङ्गकरणं । अस्य मन्त्रस्य नारद ऋषिः । उष्णिक्छन्दः । गोवल्लभः कृष्णो देवतेति ।। टीका ७.९५ ।।
______________________________
ध्यानं आह
ध्येयोऽच्युतः स कपिलागणमध्यसंस्थः
ता आह्वयन्दधददक्षिणदोष्णि वेणुं ।
पाशं सयष्टिं अपरत्र पयोदनीलः
पीताम्बरोऽहिरिपुपिच्छकृतावतंसः ।। क्रमदीपिका७.९६ ।।
अच्युतः कृष्णो ध्येयः । कीदृशः ? कपिलागणो गोविशेषसमूहस्तस्याभ्यन्तरवर्ती । किं कुर्वन्? ताः कपिला आह्वयनभिमुखीकुर्वन् । पुनः कीदृशः ? अदक्षिणदोष्णि वामहस्तेन सरन्ध्रं वंशं वहन् । अपरत्र दक्षिणहस्ते दण्डसहितगोबन्धनरज्जुं दधत् । पुनः कीदृशः ? पयोदनीलौ मेघश्यामः पीतवसनः । पुनः कीदृशः ? अहिरिपुर्मयूरः । तस्य पिच्छं शिखण्डः । तेन कृतोऽवतंसः कर्णालङ्कारः शिरोभूषणं वा येन स तथा ।। टीका ७.९६ ।।
______________________________
पुरश्चरणं आह
मुनिलक्षं जपेदेतद्धुनेत्सप्तसहस्रकं ।
गोक्षीररङ्गदिक्पालमध्येऽर्च्ये गोगणाष्टकं ।। क्रमदीपिका७.९७ ।।
इमं मन्त्रं मुनिलक्षं सप्तलक्षं जपेत् । गोदुग्धैः सप्तसहस्रं जुहुयात् । अङ्गपूजानन्त्रं दिक्पालपूजायाः प्राक्गोगणाष्टकं पूजनीयं गोगणाष्टकं च प्रथमादि यथा स्यात् ।
सुवर्णवर्णा कपिला द्वितीया गौरपिङ्गला ।
तृतीया गौरपिङ्गाक्षी चतुर्थी गुडपिङ्गला ।।
पञ्चमी अभ्रवर्णा स्यादेताः स्युरुत्तमा गवां ।
चतुर्थी पिङ्गला षष्ठी सप्तमी खुरपिङ्गला ।
अष्टमी कपिला गोषु विज्ञेयः कपिलागणः ।। इत्यनेनोक्तं ।। टीका ७.९७ ।।
______________________________
प्रयोगान्तरं आह
अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ।
पक्षात्स गोगणैराढ्यो दशार्णेनैष वा विधिः ।। क्रमदीपिका७.९८ ।।
गोदुग्धैः प्रतिदिनं योऽष्ताधिकं सहस्रं जुहुयात्स पञ्चदशदिनाभ्यन्तरे गोसमूहेन सम्पन्नो भवति । एष विधिप्रयोगो दशाक्षरमन्त्रेण वा कार्य इत्यर्थः ।। टीका ७.९८ ।।
______________________________
मन्त्रान्तरं आह
सलवो वासुदेवो हृत्ङेऽन्तं च भगवत्पदं ।
श्रीगोविन्दपदं तद्वत्द्वादशार्णोऽयं ईरितः ।। क्रमदीपिका७.९९ ।।
लवो बिन्दुः । तत्सहितो वासुदेवः ओंकारः अर्थात्प्रणवः । ओं नमः चतुर्थ्यन्तं भगवत्पदं तथा श्रीगोविन्दपदं चतुर्थ्यन्तं । एतेन द्वादशाक्षरो मन्त्र उद्धृतः ।। टीका ७.९९ ।।
मन्त्रस्वरूपः ः ओं नमो भगवते श्रीगोविन्दाय ।।
______________________________
ऋष्यादिकं आह
मनुर्नारदगायत्रीकृष्णर्ष्यादिरथाङ्गकं ।
एकाक्षिवेदभूतार्णैः समस्तैरपि कल्पयेथ् ।। क्रमदीपिका७.१०० ।।
क्वचिन्मुनिरिति पाठो न युक्तः । असमन्वयात्पौनरुकुत्याच्च किन्तु मनुरित्येव पाठः । अयं इति पाठो युक्त्यालभ्यत इति रुद्रधरः ।। टीका ७.१०० ।।
______________________________
ध्यानं आह
वन्दे कल्पद्रुमूलाश्रितमणिमयसिंहासने सन्निविष्टं
नीलाभं पीतवस्त्रं करकमललसच्छङ्खवेत्रं मुरारिं ।
गोभिः सप्रश्रवाभिर्वृतं अमरपतिप्रौढहस्तस्थकुम्भ
प्रच्योतत्सौधधारास्नपितं अभिनवाम्भोजपत्राभनेत्रं ।। क्रमदीपिका७.१०१ ।।
मुरारिं वन्दे । कीदृशं ? कल्पवृक्षमूलावस्थिते पद्मरागमणिघटिते सिंहासने उपविष्टं । पुनः कीदृशं ? नीलाभं श्यामं तथा पीतवस्त्रं तथा हस्तपद्मे शोभमानौ शङ्खवेत्रौ यस्य । तं तथा सप्रश्रवाभिः क्षीरस्तनाभिः गोभिर्वृतं वेष्टितं । तथा अमरपतेरिन्द्रस्य प्रौढो बलिष्ठो यो हस्तस्तदवस्थितो यः कुम्भः घटस्तस्मात्प्रस्रवदमृतधाराभिः स्नपितं तथाभिनवं नूतनं यदम्भोजं पद्मं तस्य पत्रवदाभा कान्तिर्नयनयोर्यस्य तं ।। टीका ७.१०१ ।।
______________________________
पुरश्चरणं आह
ध्यात्वैवं अच्युतं जप्त्वा रविलक्षं हुनेत्ततः ।
दुग्धैर्द्वादशसाहस्रं दिनशोऽमुं समर्चयेथ् ।। क्रमदीपिका७.१०२ ।।
एवं पूर्वोक्तं अच्युतं ध्यात्वा द्वादशलक्षं जप्त्वा दुग्धैर्द्वादशसहस्रं जुहुयात् । प्रत्यहं वा अमुं पूजयेत् ।। टीका ७.१०२ ।।
______________________________
आयतनादिषु पूजाविशेषं दर्शयति
गोष्ठे प्रतिष्ठितं चात्मगेहे वा प्रतिमादिषु ।
समस्तपरिवारार्चास्ताः पुनर्विष्णुपार्षदाः ।। क्रमदीपिका७.१०३ ।।
द्वाराग्रे बलिपीठेऽर्च्याः पक्षीन्द्रश्च तदग्रतः ।
चण्डप्रचण्डौ प्राग्धातृविधातारौ च दक्षिणे ।। क्रमदीपिका७.१०४ ।।
जयः सविजयः पश्चाद्बलः प्रबल उत्तरे ।
ऊर्ध्वं द्वारश्रियं चेष्ट्वा द्वास्थेशान्युग्मशोऽर्चयेथ् ।। क्रमदीपिका७.१०५ ।।
पूज्यो वास्तुपुमांस्तत्र तत्र द्वाःपीथमध्यगः ।
द्वारान्तःपार्श्वयोरर्च्या गङ्गा च यमुना निधी ।। क्रमदीपिका७.१०६ ।।
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेशं अर्चयेत् ।
अर्चयेद्वास्तुपुरुषं वेश्ममध्ये समाहितः ।
देवतार्चानुरोधेन नैरृत्यां वा विचक्षणः ।। क्रमदीपिका७.१०७ ।।
गोष्ठे गोस्थाने प्रतिष्ठितं स्थापितं । तथा आत्मगेहे सुवर्णादिघटित प्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेदिति पूर्वेणान्वयः । ताः पूर्वोक्ता एव समस्तपरिवारपूजाः कार्याः । तथा वक्ष्यमाणाश्च विष्णुपार्षदाः पूर्वादिचतुर्द्वाराग्रभागे बलिदानपीठे द्विशः पूज्या अत्र त्रिपाठिनः ।
द्वादशाक्षरगोविन्दमन्त्रस्य पूजाप्रसङ्गेन पूर्वोक्तदीक्षापूजायां तथाइकालपूजाय्स्वपि पूर्वादिचतुर्द्वारपूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्तपरिवारायाच्युताय नमो नमः । विष्णुपार्षदेभ्यो नमो नमः । अनेन मन्त्रद्वयेन पूर्वादिचतुर्द्वाराग्रभागे बलिदानपीठे पूजयेदित्यर्थः । पक्षीन्द्रो गरुडः । तदग्रतः बलिदानपीठाग्रतः पूज्यः ।
विष्णुपार्षदान्दर्शयतिप्रागिति । चतुरस्रचतुर्द्वारोर्ध्वभागे द्वारश्रियं पूजयित्वा चण्डादीन्द्वौ द्वौ कृत्वा पूजयेत् । अनुक्रमेण पूर्वद्वारं आरभ्य द्वारबलिपीठयोर्मध्ये वास्तुपुरुषाय नम इति पूजयेत् । द्वारान्त इति चतुर्द्वारमध्योभयफलके गङ्गायमुने पूज्ये, तथा शङ्खनिधिपद्मनिधी च पूज्यौ । तदनु मण्डपे प्रविश्याग्नेयादिकोणेषु पुनर्वास्तुपुरुषं संयतः सन्पूजयेत् ।। टीका ७.१०३१०७ ।।
______________________________
अस्त्रं उद्धरति
तारं शार्ङ्गपदं ङेऽन्तं सपूर्वं च शरासनं ।
हुं फट्नतिरित्युक्त्वास्त्रमुद्रयाग्रे स्थितो हरेः ।। क्रमदीपिका७.१०८ ।।
पुष्पाक्षतं क्षिपेद्दिक्षु समासीनासने ततः ।
विधेयं एतत्सर्वत्र स्थापितेषु विशेषतः ।। क्रमदीपिका७.१०९ ।।
तारं प्रणवः । शार्ङ्गपदं ङेऽन्तं चतुर्थ्यन्तं सपूर्वं सशरासनशब्दं चतुर्थ्यन्तं हुं फट्नमः इत्युक्त्वा पुष्पाक्षतं चतुर्दिक्षु अस्त्रमुद्रया छोटिकया निक्षिपेत् । कीदृशः ? हरेरग्रे स्थितः । ततः आसने स्वोचिते उपविशेत् । एतत्सर्वं सर्वपूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर्विशेषतः कर्तव्यं एव ।। टीका ७.१०८१०९ ।।
______________________________
पीठपूजां आह
आत्मार्चनान्तं कृत्वाथ गुरुपङ्क्तिपुरोक्तवत् ।
श्रीगुरून्परमाद्यांश्च महास्मत्सर्वपूर्वकान् ।। क्रमदीपिका७.११० ।।
स्वदेहे पूर्वोक्तस्वरूपेण पीठं आरभ्य सम्पूज्य हृदि भगवन्तं अभ्यर्च्य अनन्तरं बाह्यपीठे पूर्ववत्पूर्वोक्तदीक्षाप्रकरणकथितोत्तरदिग्विभागे इतिवद्गुरुपङ्क्तिं पूजयेत् । गुरुपङ्क्तिं एवाहश्रीगुरूनिति । श्रीशब्दपूर्वान्गुरून्परमगुरून् । प्रयोगश्चश्रीगुरुभ्यो नमः । श्रीअपरमगुरुभ्यो नमः । श्रीमहागुरुभ्यो नमः । श्रीअस्मद्गुरुभ्यो नमः । सर्वगुरुभ्यो नमः ।। टीका ७.११० ।।
______________________________
तत्पादुकानारदादीन्पूर्वसिद्धाननन्तरं ।
ततो भागवतांश्चेष्ट्वा विघ्नं दक्षिणतोऽर्चयेथ् ।। क्रमदीपिका७.१११ ।।
तत्पादुकाभ्यः नारदादिभ्यः पूर्वसिद्धेभ्यः भागवतेभ्य इति लघुदीपिकाकारः । श्रीगुरुपादुकाभ्यो नमः । श्रीपरमगुरुपादुकाआदिगुरुपादुकामहागुरुपादुकाअस्मद्गुरुपादुकासर्वगुरुपादुकाभ्यो नम इति त्रिपाठिनः । एवं गुरुपङ्क्तिपीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत् ।। टीका ७.१११ ।।
______________________________
पूर्ववत्पीठं अभ्यर्च्य श्रीगोविन्दं अथार्चयेत् ।
रुक्मिणीं सत्यभामां च पार्श्वयोरिन्द्रं अग्रतः ।। क्रमदीपिका७.११२ ।।
पृष्ठतः सुरभिं चेष्ट्वा केशरेष्वङ्गदेवताः ।
अर्च्या हृदादिवर्मान्ता दिक्ष्वस्त्रं कोणकेषु च ।। क्रमदीपिका७.११३ ।।
पूर्वोक्तप्रकारेणाधारशक्त्यादिपीठमन्त्रान्तं सम्पूज्य देवं आवाह्य अघ्यादिभिरुपचारैः पूजयेत् । आवरणपूजां आहरुक्मिणीं इति । गोविन्ददक्षिणवामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च सम्पूज्या देवाग्रे च इन्द्रं सम्पूज्य देवपृष्ठे तु सुरभिं पूर्वादिचतुर्दिक्कोणेषु केशरेषु हृदादिवर्मान्ता अङ्गदेवताः पूज्याः । केशरेषु कोणेषु पुनरस्त्रं अङ्गं पूजयेत् ।। टीका ७.११२११३ ।।
______________________________
कालिन्दीरोहिणीनाग्नजित्याद्याः षट्च शक्तयः ।
दलेषु पीठकोणेषु वह्न्याद्यर्च्याश्च किङ्किणीः ।। क्रमदीपिका७.११४ ।।
दामानि यष्टिवेणुश्च पुरः श्रीवत्सकौस्तुभौ ।
अग्रतो वनमालां च दिक्ष्वष्टासु ततोऽर्चयेथ् ।। क्रमदीपिका७.११५ ।।
पाञ्चजन्यं गदां चक्रं वसुदेवं च देवकीं ।
नन्दगोपं यशोदां च सगोगोपालगोपिकाः ।। क्रमदीपिका७.११६ ।।
कालिन्द्याद्याः शक्तयो देवपत्न्यः पत्रेषु पूज्याः । आदिपदेन सुनन्दामित्रविन्दासुलक्ष्मणापरिग्रहः आग्नेयादिपीठकोणेषु किङ्किणिदामादीन्पूजयेत् । तत्र श्रीकृष्णक्षुद्रघण्टिकां अग्निकोणे । गोरक्षणार्थं दामानि नैरृते गोप्रेरणार्थं लकुटं वायौ वंशं ईशानकोणे देवस्याग्रे श्रीवत्सकौस्तुभौ । श्रीवत्सकौस्तुभाग्रतः वनमालां तदुपरि अष्ट दिक्षु पाञ्चजन्यादय इति । पाञ्चजन्याय नमः सगोगोपालगोपिकाभ्यो नम इत्यन्ताः पूज्याः आदिपदेन गदाचक्रवसुदेवदेवकीनन्दयशोदापरिग्रहः ।। टीका ७.११४११६ ।।
______________________________
इन्द्राद्याः कुमुदाद्याश्च विश्वक्सेनं तथोत्तरे ।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।। क्रमदीपिका७.११७ ।।
इन्द्राद्याः स्वस्वदिक्षु पूज्याः तदस्त्राणि वज्रादीन्यादिशब्दग्राह्याणि तथा कुमुदाद्याश्चाष्टगजाः ततुपरि स्वस्वदिक्षु पूज्याः तद्बहिर्देवतोत्तरे विष्वक्सेनं पूजयेत् ।। टीका ७.११७ ।।
______________________________
पूजाफलं आह
एककालं द्विकालं वा त्रिकालं चेति गोष्ठगं ।
श्रीगोविन्दं यजेन्नित्यं गोभ्यश्च यवसप्रदः ।। क्रमदीपिका७.११८ ।।
दीर्घजीवी निरातङ्को धेनुधान्यधनादिभिः ।
पुत्रैर्मित्रैरिहाढोऽन्ते प्रयाति परं पदं ।। क्रमदीपिका७.११९ ।।
गोष्ठगं व्रजगं कृष्णं प्रत्यहं एककालं द्विकालं त्रिकालं पूजयेत् । गोभ्यश्च ग्रासप्रदः सन्निहितलोके चिरायुर्निर्भयो धेनुधान्यसुवर्णादिभिः पुत्रमित्रादिभिश्च सम्पन्नो भवति देहपातान्ते च विष्णुलोकं च गच्छति ।। टीका ७.११८११९ ।।
______________________________
मन्त्रान्तरं आह
ऊर्ध्वदन्तयुतः शार्ङ्गी चक्री दक्षिणकर्णयुक् ।
मांसं नाथाय नत्यन्तो मूलमन्त्रोऽष्तवर्णकः ।। क्रमदीपिका७.१२० ।।
ऊर्ध्वदन्तः ओंकारः तेन सहितः शार्ङ्गी गकारः चक्री ककारः दक्षिणकर्णयुकुकारसहितः मांसी लकारः नाथायेति स्वरूपं नत्यन्तो नमः पदान्तः अयं अष्टाक्षरो मूलमन्त्रसंज्ञकः ।। टीका ७.१२० ।।
______________________________
ऋष्यादिकं आह
ऋषिर्ब्रह्मा च गायत्रीच्छन्दः कृष्णस्तु देवता ।
युगवर्णैः समस्तेन प्रोक्तं स्यादङ्गपञ्चकं ।। क्रमदीपिका७.१२१ ।।
अस्य मन्त्रस्य ब्रह्मा ऋषिः गायत्रीच्छन्दः श्रीकृष्णो देवता च शब्दोऽनुक्तसमुच्चये तेन बीजशक्त्यधिष्ठातृदेवता दशाक्षरवत्तथा अस्य मन्त्रस्य मन्त्रोत्थवर्णानां चतुर्भिर्युग्मवर्णैश्चतुरङ्गसमग्रेण च मन्त्रेणाङ्गपञ्चकं ज्ञेयं ।। टीका ७.१२१ ।।
______________________________
ध्यानं आह
पञ्चवर्षं अतिदृप्तं अङ्गणे
धावमानं अलकाकुलेक्षणं ।
किङ्किणीवलयहारनूपुरैर्
अञ्जितं स्मरत गोपबालकं ।। क्रमदीपिका७.१२२ ।।
गोपशिशुं नमत । कीदृशं ? पञ्चवर्षवयःस्थं तथा अतिबलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी क्षुद्रघण्टिका वलयः कङ्कणः हारो मुक्ताहारः नूपुरस्तुलाकोटिरेतैरञ्जितं भूषितं ।। टीका ७.१२२ ।।
______________________________
पुरश्चरणं आह
ध्यात्वैवं प्रजपेदष्टलक्षं तावत्सहस्रकं ।
जुहुयात्ब्रह्मवृक्षोत्थसमिद्भिः पायसेन वा ।। क्रमदीपिका७.१२३ ।।
एवं पूर्वोक्तं ध्यात्वा अष्टलक्षं मन्त्रं जपेत् । तदनु पलाशवृक्षसमिद्भिः परमान्नेन वाष्टसहस्रं जुहुयात् ।। टीका ७.१२३ ।।
______________________________
पूजाप्रकारं आह
प्रासादे स्थापितं कृष्णं अमुना नित्यशोऽर्चयेत् ।
द्वारपूजादि पीठार्चनान्तं कृत्वोक्तमार्गतः ।। क्रमदीपिका७.१२४ ।।
धवलगृहे स्थापितं कृष्णं अमुना वक्ष्यमाणप्रकारेण प्रत्यहं पूजयेत् । द्वारपूजां आरभ्य पीठपूजापर्यन्तं पूर्वोक्तमन्त्रवर्त्मना कुर्यात् ।। टीका ७.१२४ ।।
______________________________
मध्येऽर्चपद्धरिं दिक्षु विदिक्ष्वङ्गानि च क्रमात् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। क्रमदीपिका७.१२५ ।।
रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवत्यपि ।
दिग्विदिक्ष्वर्चयेदेतानिन्द्रवज्रादिकान्बहिः ।। क्रमदीपिका७.१२६ ।।
पद्ममध्ये हरिं पूजयेत् । पूर्वादिदिक्केशरेषु हृदाद्यङ्गचतुष्टयं । आग्नेयादिविदिक्केशरेषु अस्त्रं अङ्गं पूजयेत् । वासुदेव इति । पूर्वादिदिक्पत्रेषु वासुदेवादीन्पूजयेत् । आग्नेयादिविदिक्पत्रेषु रुक्मिण्याद्याः पूजयेत् । तद्बाह्ये स्वस्वदिक्षु इन्दादीन्, तदनु वज्रादीन्पूजयेदित्यर्थः ।। टीका ७.१२६ ।।
______________________________
फलं आह
योऽमुं मन्त्रं जपेन्नित्यं विधिनेत्यर्चयेद्धरिं ।
स सर्वसम्पत्सम्पूर्णो नित्यं शुद्धं पदं व्रजेथ् ।। क्रमदीपिका७.१२७ ।।
यः पुमानुक्तविधिना हरिं अर्चयेत् । अमुं मन्त्रं जपेत्स सर्वैश्वर्यं सम्पन्नः सन्नित्यं अविनाशि शुद्धं अविद्या तत्कार्यरहितं पदं ब्रह्माख्यं प्राप्नोति ।। टीका ७.१२७ ।।
______________________________
मन्त्रान्तरं आह
तारश्रीशक्तिमारान्ते श्रीकृष्णायपदं वदेत् ।
श्रीगोविन्दाय तस्योर्ध्वं श्रीगोपीजन इत्यपि ।
वल्लभाय ततस्त्रिः श्रीसिद्धिगोपालको मनुः ।। क्रमदीपिका७.१२८ ।।
तारः प्रणवः श्रीः श्रीबीजं शक्तिबीजं कामबीजान्ते श्रीकृष्णायेति स्वरूपं तदनु श्रीगोविन्दायेति स्वरूपं तदनु श्रीगोपीजनवल्लभायेति स्वरूपं श्रीबीजत्रयं इति सिद्धिगोपालको मन्त्र उद्धृतः ।
______________________________
ध्यानं आह
माधवीमण्डपासीनौ गरुडेनाभिपालितौ ।। क्रमदीपिका७.१२९ ।।
दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन्जपेत् ।
चक्री वसुस्वरयुतः सर्ग्येकार्णो मनुर्मतः ।। क्रमदीपिका७.१३० ।।
रामकृष्णौ स्मरन्जपेत् । कीदृशौ ? माधवीलतामण्डपसमुपस्थितौ तथा गरुडेन सेवितौ । एकाक्षरादिगोपालमन्त्रान्दर्शयतिचक्रीति । ककारो वसुस्वरः अष्टमस्वरः ऋकारस्तेन सहित इति लघुदीपिकाकारः । मुनिस्वरः सप्तस्वरस्तेन सहित इति रुद्रधरः । सर्गी विसर्गसहितः इत्येकाक्षरो मन्त्रः ।। टीका ७.१२९१३० ।।
______________________________
कृष्णेति द्व्यक्षरः कामपूर्वस्त्र्यर्णः स एव तु ।
स एव चतुरर्णः स्यात्ङेऽन्तोऽन्यश्चतुरक्षरः ।। क्रमदीपिका७.१३१ ।।
वक्ष्यते पञ्चवर्णः स्यात्कृष्णाय नम इत्यपि ।
कृष्णायेति स्मरद्वन्द्वमध्ये पञ्चाक्षरोऽपरः ।। क्रमदीपिका७.१३२ ।।
कृष्णेति स्वरूपं द्व्यक्षरो मन्त्रः । स एव द्व्यक्षरः कामबीजपूर्वश्चेत्तदा त्र्यक्षरो मन्त्रो भवतिस एव त्र्यक्षरः चतुर्थीविभक्त्यन्तश्चेत्तदा चतुरक्षरो मन्त्रः अन्यः कृष्णायेति स्वरूपं स्मरद्वन्द्वकामबीजद्वयस्य मध्ये यदा भवति तदा अपरः पञ्चाक्षरो मन्त्रो भवति ।। टीका ७.१३११३२ ।।
______________________________
गोपालायाग्निजायान्तः षडक्षर उदाहृतः ।
कृष्णायकामबीजाढ्यो वह्निजायान्तकोऽपरः ।। क्रमदीपिका७.१३३ ।।
षडक्षरः प्रागुदितः कृष्णगोविन्दकौ पुनः ।
चतुर्थ्यन्तौ सप्तवर्णः सप्तवर्णोऽन्यः पुरोऽदितः ।। क्रमदीपिका७.१३४ ।।
गोपालायेति स्वरूपं वह्निजाया स्वाहेति पदद्वयेन षडक्षरः कथितः । कामबीजसहितकृष्णायेति स्वाहेति पदद्वयेन च षडक्षरो मन्त्र उद्धृतस्तयापरः षडक्षरः प्रागेव कथितः स च क्लीं कृष्णाय नमः इति । कृष्णगोविन्दकौ शब्दौ यदि चतुर्थ्यन्तौ भवतस्तदा सप्ताक्षरो मन्त्रोऽपरः सप्ताक्षरः प्रागुदितः स च गोवल्लभाय स्वाहेति ।। टीका ७.१३३४ ।।
______________________________
श्रीशक्तिमारः कृष्णाय मारः सप्ताक्षरोऽपरः ।
कृष्णगोविन्दकौ ङेऽन्तौ स्मराढ्यावष्टवर्णकः ।। क्रमदीपिका७.१३५ ।।
श्रीशक्तिमाराः श्रीभुवनेश्वरीमारबीजानि कृष्णायेति मारान्तोऽपरः सप्ताक्षरो मन्त्रः कृष्णगोविन्दशब्दौ ङेऽन्तौ चतुर्थ्यन्तौ । कीदृशौ ? कामबीजाढ्यौ इति वसुवर्णः अष्टाक्षरो मन्त्रः ।। टीका ७.१३५ ।।
______________________________
दधिभक्षणङेवह्निजायाभिरपरोऽष्तकः ।
सुप्रसन्नात्मने प्रोक्त्वा मम इत्यपरोऽष्तकः ।। क्रमदीपिका७.१३६ ।।
चतुर्थ्यन्तो दधिभक्षणशब्दः वह्निजाया स्वाहा एतैर्वर्णैरपरोऽष्ताक्षरो मन्त्रः सुप्रसन्नात्मने स्वरूपं उक्त्वा नम इति वदेतित्यपरोऽष्ताक्षरो मन्त्रः ।। टीका ७.१३६ ।।
______________________________
प्राक्प्रोक्तो मूलमन्त्रश्च नवार्णः स्मरसंयुतः ।
कृष्णगोविन्दकौ ङेऽन्तौ नमोऽन्तोऽन्यो नवार्णकः ।। क्रमदीपिका७.१३७ ।।
प्रागुक्तश्चाष्टाक्षरो मूलमन्त्रः स्मरसंयुतः कामबीजयुक्तः सन्नवाक्षरो भवति । स च क्लीं गोकुलनाथाय नम इति । कृष्णगोविन्दकौ ङेऽन्तौ चतुर्थ्यन्तौ स्मरसंयुतौ यदि भवतस्तदा नवाक्षरो मन्त्रो भवति । यद्येतावेव नमोऽन्तकौ नमः शब्दान्तौ भवतस्तदा परो नवाक्षरो मन्त्रः ।। टीका ७.१३७ ।।
______________________________
क्लीं ग्ल्ॐ क्लीं श्यामलाङ्गाय नमस्तु स्याद्दशार्णकः ।
शिरोऽन्तो बालवपुषे क्लीं कृष्णाय स्मृतो बुधैः ।। क्रमदीपिका७.१३८ ।।
उक्तं छन्दस्तु गायत्री देवता कृष्ण ईडितः ।
कलाषड्गदीर्घकैरङ्गं अथामुं चिन्तयेद्धरिं ।। क्रमदीपिका७.१३९ ।।
क्लीं ग्ल्ॐ क्लीं श्यामलाङ्गाय नम इति दशवर्णको मन्त्रः शिरोऽन्तः स्वाहान्तः बालवपुषे इति पदं क्लीं कृष्णायेति एकादशाक्षरो मन्त्रः बुधैः स्मृतः । उक्तानां ऋष्यादिकं आहएतेषां एकाक्षरं आरभ्यैकादशाक्षरपर्यन्तानां द्वाविंशति मन्त्राणां ऋषिर्नारदः गायत्रीछन्दः श्रीकृष्णो देवता । अङ्गान्याहकलेति । ककारलकाराभ्यां षड्दीर्घकैर्नपुंसकरहितषड्दीर्घस्वरैः क्लां क्लीं क्लूं क्ल्ॐ कलः
एभिरित्यर्थः ।। टीका ७.१३९ ।।
______________________________
ध्यानं आह
अव्याद्व्याकोपनीलाम्बुजरुचिररुणाम्भोजनेत्राम्बुजस्थो ।
बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः ।
दोर्भ्यां हैयङ्गवीणं दधदतिविमलं पायसं विश्ववन्द्यो
गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः ।। क्रमदीपिका७.१४० ।।
अव्याद्व्याकोपनीलाम्बुजरुचिररुणाम्भोजनेत्राम्बुजस्थो बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः दोर्भ्यां हैयङ्गवीणं दधदतिविमलं पायसं विश्ववन्द्यो गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः ।। टीका ७.१४० ।।
______________________________
एतेषां पुरश्चरणं आह
ध्यात्वैवं एकं एतेषां लक्षं जप्यान्मनुं ततः ।
सर्पिःसितोपलोपेतैः पायसैरयुतं हुनेथ् ।। क्रमदीपिका७.१४१ ।।
यथोक्तं ध्यानं कृत्वा एतेषां मध्ये एकं मन्त्रं लक्षं जपेत् । तदनु घृतखण्डसारयुक्तैः परमान्नैर्दशसहस्रं जुहुयात् ।। टीका ७.१४१ ।।
______________________________
तर्पयेत्तावदन्येषां मनूनां हुतसङ्ख्यया ।
तर्पणं विहितं नित्यं योऽर्चयेत्सुसमाहितः ।। क्रमदीपिका७.१४२ ।।
वह्न्यादीशान्तं अङ्गानि हृदादिकवचान्तकं ।
अर्चयेत्पुरतो नेत्रं अस्त्रं दिक्षु वह्निः पुनः ।। क्रमदीपिका७.१४३ ।।
इन्द्रवज्रादयः पूज्याः सपर्यैषा समीरिता ।
इत्येकं एषां मन्त्राणां भजेद्यो मनुवित्तमः ।। क्रमदीपिका७.१४४ ।।
करप्रचेयाः सर्वार्थात्तस्यासौ पूज्यतेऽमरैः ।
सद्यः फलप्रदं मन्त्रं वक्ष्येऽन्यं चतुरक्षरं ।। क्रमदीपिका७.१४५ ।।
स प्रोक्तः मारयुग्मान्तरस्थकृष्णपदेन तु ।
ऋष्याद्यं अङ्गषट्कं च प्रागुक्तं प्रोक्तं अस्य तु ।। क्रमदीपिका७.१४६ ।।
तदनु तावद्दशसहस्रं तर्पयेत् । एवं प्रकारेणैकस्मिन्मन्त्रे सिद्धे जाते तदन्येषां सकृत्पुरश्चरणानां एकविंशति मन्त्राणां जपहोमसङ्ख्यया विनैव हुतायुतेन तर्पणं एव पुरश्चरणं विहितं करणीयं । एतेषां मन्त्राणां होमसङ्ख्यया अयुतेनैव तर्पणं विहितं ।
पूजां आहनित्यं इति । नित्यं सर्वदा सुसमाहितः संयतः सन्पूजयेत् । वह्न्यादीशान्तं आग्नेयकोणं आरभ्य ईशानकोणपर्यन्तहृदादिकवचपर्यन्तं अङ्गचतुष्टयं पूजयेत्पुरतोऽग्रे नेत्रं अस्त्रं पूजयेत् ।
पूर्वादिचतुर्दिक्षु इन्द्रादीन्पूजयेत् । तदनुवज्रादीनिति उपसंहरति । एषां मन्त्राणां सपर्या पूजा कथिता ।
फलं आहैत्येकं इति । अमुना प्रकारेण यः साधकोत्तम एषां मन्त्राणां मध्ये एकं मन्त्रं भजेतुपासीत तस्य सर्वे पुरुषार्था हस्तप्राप्याः देवैश्चासौ पूज्यते ।
मन्त्रान्तरं आहसद्य इति । तात्कालिकफलदायकं अपरं चतुरक्षरमन्त्रं वक्ष्ये सचतुरक्षरः कामबीजद्वयमध्यस्थेन कृष्णपदेन कथितः ।
ऋष्यादिकं अस्य ऋषिश्छन्दो दैवतं अङ्गषट्कं च प्रागुक्तं पूर्वमन्त्रसमुहे कथितं बोद्धव्यं ।। टीका ७.१४२१४६ ।।
______________________________
ध्यानं आह
श्रीमत्कल्पद्रुमूलोद्गतकमललसत्कर्णिकासंस्थितो यस्
तच्चाख्यालम्बिपद्मोदरविगलदसङ्ख्यातरत्नाभिषिक्तः ।
हेमाभः स्वप्रभाभिस्त्रिभुवनं अखिलं भासयन्वासुदेवः
पायाद्वः पायसादोऽनवरतनवनीतामृताशी वशी सः ।। क्रमदीपिका७.१४७ ।।
वासुदेवो वो युष्मान्पायात् । कीदृशः ? यः श्रीयुक्तकल्पवृक्षमूलोद्गतपद्मे शोभमाना या कर्णिका तत्रोपविष्टः । तथा कल्पद्रुमशाखालम्बि यत्पद्मं तस्योदरं ततो विगलन्ति प्रसरन्ति यानि असङ्ख्यातानि रत्नानि तैरभिषिक्तः । तथा सुवर्णगौरः तथावकान्तिभिः समस्तं त्रैलोक्यं भासयन्क्षीरान्नाशी तथा स्वकान्तिभिः समस्तं त्रैलोक्यं भासयन्क्षीरान्नाशी तथा अनवरतं अनुवेलं नूतनं नवनीतं एवामृतं तदश्नातीति ।। टीका ७.१४७ ।।
______________________________
पुरश्चरणं आह
ध्यत्वैवं प्रजपेल्लक्षं चतुष्कं जुहुयात्ततः ।
त्रिमध्वक्तेर्बिल्वफलैश्चत्वारिंशत्सहस्रकं ।। क्रमदीपिका७.१४८ ।।
यथोक्तं ध्यानं कृत्वा लक्षचतुष्टयं जपेत् । तदनु घृतमधुशर्करायुतैर्बिल्वफलैश्चत्वारिंशत्सहस्रं जुहुयात् ।। टीका ७.१४८ ।।
______________________________
पूजां आह
अङ्गैर्निधिभिरिन्द्राद्यैर्वज्राद्यैरर्चनोदिता ।
तर्पयेद्दिनशः कृष्णं स्वादुत्रयधिया जलैः ।। क्रमदीपिका७.१४९ ।।
षडङ्गैर्निधिभिरिन्द्राद्यष्टनिधिभिरिन्द्राद्यैर्वज्राद्यैश्चानीलार्चना पूजा कथिता । तर्पणं आहतर्पयेदिति । प्रतिदिनं स्वादुत्रयधिया घृतमधुशर्कराबुद्ध्या जलैः कृष्णं पूजयेत् ।। टीका ७.१४९ ।।
______________________________
मन्त्रान्तरं आह
मारयोरस्य मांसाधोर्रक्तं चेदपरो मनुः ।
षडङ्गान्यस्य कलषट्दीर्घैर्मन्त्रशिखामणेः ।। क्रमदीपिका७.१५० ।।
अस्य पूर्वोक्तचतुरक्षरमन्त्रस्य मारयोराद्यन्तकामबीजयोर्मांसाधो लकारस्याधस्तात्चेद्यदि रक्तं रेफो भवति तदापरश्चतुरक्षरः क्लीं कृष्ण क्लीं इति मन्त्रः । अस्य मन्त्रशिखामणे मन्त्रशिरो रत्नस्य कलषट्दीर्घ कला षडङ्गानि कुर्यादिति शेषः ।। टीका ७.१५० ।।
मन्त्रस्वरूपमः क्लीं क्लूं क्लें क्लों क्ल्ॐ क्लः ।।
______________________________
ध्यानं आह
आरक्तोद्यानकल्पद्रुमशिखरलसत्स्वर्णदोलाधिरूढं
गोपाभ्यां प्रेङ्ख्यमानं विकसितनवबन्धूकसिन्दूरभासं ।
बालं नीलालकान्तं कटितटविलुठत्क्षुद्रघण्टावटाढ्यं
वन्दे शार्दूलकामाङ्कुशललितगलाकल्पदीप्तं मुकुन्दं ।। क्रमदीपिका७.१५१ ।।
मुकुन्दं वन्दे । कीदृशं ? आरक्तं अरुणं यदुद्यानं तत्र यः कल्पवृक्षस्तस्य शिखरं अग्रं तत्र लसन्ती या शोभमाना सुवर्णमयी दोला तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेङ्ख्यमानं दोलायमानं विकसितं प्रफुल्लं नवीनं यद्बन्धुजीवपुष्पं सिन्दूरं तयोरिव भावं यस्य तं तथा बालं शिशुं तथा कृष्णकेशं तथा कटितटे इतस्ततो गच्छन्ती या क्षुद्रघण्टिका घण्टाक्षुद्रघण्टिका समूहस्तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य कामाङ्कुशेन शोभमानं यत्कण्ठाभरणं
तेन शोभमानं ।। टीका ७.१५१ ।।
______________________________
एवं
ध्यत्वैवं पूर्वक्प्त्यैनं जप्त्वा रक्तोत्पलैर्नवैः ।
मधुत्त्रयप्लुतैर्हुत्वाप्यर्चयेत्पूर्ववद्धरिं ।। क्रमदीपिका७.१५२ ।।
पूर्वोक्तं मुकुन्दं ध्यात्वा एनं मन्त्रं पूर्वोक्तसङ्ख्यं एव जप्त्वा रक्तपद्मैर्नूतनैर्घृतमधुशर्करायुतैः पूर्वोक्तसङ्ख्यं एव हुत्वा पूर्वोक्तप्रकारेण हरिं पूजयेत् ।। टीका ७.१५२ ।।
______________________________
आरादुक्तं मन्त्रयोः प्रयोगं दर्शयति
मधुरत्रयसंयुक्तामारक्तां शालिमञ्जरीं ।
जुहुयान्नित्यशोऽष्टार्धं शतं एकेन मन्त्रयोः ।। क्रमदीपिका७.१५३ ।।
तस्य मण्डलतः पृथ्वी पृथ्वीसस्यकुलाकुला ।
स्याच्छालिपुञ्जपूर्णं च तद्वेश्माशु प्रजायते ।। क्रमदीपिका७.१५४ ।।
घृतमधुशर्करामिश्रितां लोहितां हैमन्तिकधान्यमञ्जरीं अष्टोत्तरशतमतयोर्मन्त्रयोर्मध्ये एकेन मन्त्रेण प्रत्येकं प्रत्यहं यो जुहुयात्तस्य पुंसः मण्डलतः एकोनपञ्चाशद्दिनादर्वाक्षड्विंशतिदिनादिति लघुदीपिकाकारः । पञ्चचत्वारिंशद्दिनानन्तरं इति रुद्रधरः । महती पृथिवी धान्यादिसमूहव्याप्ता भवति तथा तद्गृहं शालिधान्यसमूहव्याप्तं शीघ्रं भवति ।। टीका ७.१५३१५४ ।।
______________________________
फलं आह
यस्त्वेतयोर्नियतं अन्यतरं भजेत
भव्नोर्जपार्चनहुताद्रिभिराप्तभक्तिः ।
श्रीमान्स मन्मथ इव प्रमदासु वाग्मी
भूयात्तनोर्विपदि तच्च महोच्युताख्यं ।। क्रमदीपिका७.१५५ ।।
यः पुमानेतयोरेकं नियतं नियतो भजेत साधयेत् । कैः ? जपपूजाहोमादिभिः । कीदृशः ? प्राप्तभक्तिः स लक्ष्मीयुक्तः स्त्रीषु कामदेववतुत्कृष्टवचनभाग्भवति । तनोर्विपदि शरीरपातानन्तरं विष्णुलोकं च गच्छति ।। टीका ७.१५५ ।।
______________________________
इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां सप्तमः पटलः ।