क्रमदीपिका/षष्ठः पटलः

विकिस्रोतः तः
← पञ्चमः पटलः क्रमदीपिका
षष्ठः पटलः
[[लेखकः :|]]
सप्तमः पटलः →

अथैवं साधितमन्त्रयोः प्रयोगादीन्दर्शयति

विनियोगानथो वक्ष्ये मन्त्रयोरुभयोः समान् ।
तदर्थकारिणोऽनन्तवीर्यान्मन्त्रांश्च कांश्चन ।। क्रमदीपिका६.१ ।।

अथोऽनन्तरं मन्त्रयोर्दशाष्टादशाक्षरयोः समान्ध्यानविशेषेण विनियोगान्तथा तदर्थकारिणोऽनन्तवीर्यान्बहुफलदातॄन्कांश्चिन्मन्त्रान्वक्ष्ये ।। टीका ६.१ ।।

______________________________

प्रयोगार्थं दशाष्टादशाक्षरयोर्ध्यानं आह

वन्दे तं देवकीपुत्रं सद्योजातं द्युसप्रभं ।
पीताम्बरं करलसच्छङ्खचक्रगदाम्बुजं ।। क्रमदीपिका६.२ ।।

उक्तरूपं प्रसिद्धं देवकीपुत्रं सद्योजातं बालकं द्युसप्रभं आकाशसमानकान्तिं श्यामं पीतवस्त्रं करे लसन्ति शोभमानानि शङ्खचक्रगदापद्मानि यस्य तं वन्दे नमस्करोमि ।। टीका ६.२ ।।

______________________________

एवं ध्यात्वा जपेल्लक्षं मन्त्रं ब्राह्मे मुहूर्तके ।
स्वादुप्लुतैश्च कुसुमैः पलाशैरयुतं हुनेथ् ।। क्रमदीपिका६.३ ।।

एवं अमुना प्रकारेण ब्राह्मे मुहूर्तके उदयात्प्राक्दण्डद्वये दण्डचतुष्टय इति कश्चित्मन्त्रं उभयोरेकलक्षं जपेत् । अनन्तरं पलाशपुष्पैः स्वादुप्लुतैर्घृतमधुशर्करासहितैर्दशसहस्रं जुहुयात् ।। टीका ६.३ ।।

______________________________

फलं आह
मन्वोरन्यतरेणैवं कुर्याद्यः सुसमाहितः ।
स्मृतिं मेधां मतिबलं लब्ध्वा स कविराड्भवेत् ।
स्यान्मनुस्तत्समजपध्यानहोमफलोऽपरः ।। क्रमदीपिका६.४ ।।

मन्वोर्दशाष्टादशाकरयोरन्यतरेण एकेन सुसमाहितः सुसंयतः सन्य एवं कुर्यात्स स्मृतिं स्मरणं मेधां धारणावतीं बुद्धिं मतिं सम्यक्ज्ञानं बलं महाप्राणत्वं एतत्सर्वं प्राप्य कविराट्कविश्रेष्ठो भवति स्यादिति अपरोऽग्रे वक्ष्यमाणमन्त्रः कथितमन्त्रद्वयसमानजपध्यानहोमफलो भवति ।। टीका ६.४ ।।

______________________________

मन्त्रं आह

श्रीमन्मुकुन्दचरणौ सदेति शरणं ततः ।
अहं प्रपद्य इत्युक्तो मौकुन्दोऽष्टादशाक्षरः ।। क्रमदीपिका६.५ ।।

श्रीमन्मुकुन्दचरणौ सदेति स्वरूपं ततस्तदनन्तरं शरणं इति स्वरूपं अहं प्रपद्य इति स्वरूपं इत्यनेन प्रकारेण मौकुन्दो मुकुन्दसम्बन्धी अष्टाद्शाक्षरो मन्त्रः कथितः ।। टीका ६.५ ।।

मन्त्रोद्धारःः श्रीमुकुन्दचरणौ सदा शरणं अहं प्रपद्ये ।

______________________________

ऋष्यादिकं आह

नारदोऽस्य तु गायत्री मुकुन्दश्चषिपूर्वकाः ।
प्रातः प्रातः पिबेत्तोयं जप्तं योऽष्तोत्तरं शतं ।
अनेन षड्भिर्मासैः स भवेच्छ्रुतधरो नरः ।। क्रमदीपिका६.६ ।।

अस्य मन्त्रस्य नारदो मुनिर्गायत्रीछन्दो मुकुन्दो देवता ऋषिपूर्वकाः ऋष्याद्याः ऋषिच्छन्दो देवता इत्यर्थः । ते च नारदादयः । प्रयोगं आहप्रातः प्रत्यहं अष्टोत्तरं शतं जप्तं मन्त्रजप्तं जलं पिबेत् । स नरो अनेन विधानेन षड्भिर्मासैः श्रुतधरो भवेत् ।। टीका ६.६ ।।

______________________________

प्रयोगान्तरं आह

उपसंहृतदिव्याङ्गं पुरोवन्मातुरङ्कगं ।
चलद्दोश्चरणं बालं नीलाभं संस्मरन्जपेथ् ।। क्रमदीपिका६.७ ।।

उपसंहृतदिव्याङ्गं त्यक्तचतुर्बाहुरूपं धृतबाहुद्वयं पुरोवत्यथावसुदेवसद्मनि भीतेन दिव्याङ्गं उपसंहृतं मातुरङ्कगं देवकीक्रोडे स्थितं चलद्दोश्चरणं चञ्चलहस्तपादं बालं शिशुं नीलाभं कं संस्मरेत् ।। टीका ६.७ ।।

______________________________

अयुतं तावदेवाज्यैर्जुहुयाच्च हुताशने ।
स लभेदचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीं ।। क्रमदीपिका६.८ ।।

अयुतं जपेत्तावदेवाग्नावाज्यैर्घृतैर्जुहुयात्यः स स्थिरां परमेश्वरविषयिणीं आराध्यत्वबुद्धिं शुद्धां शास्त्रबोधितेऽर्घेऽवश्यम्भाविनिश्चयात्मिका शान्तिं मोक्षरूपां शाश्वतीं नित्यां प्राप्नोति दशाष्टादशाक्षरयोर्विशेषध्यानं इदं प्रयोगार्थं इति भैरवत्रिपाठिनः ।। टीका ६.८ ।।
______________________________

मन्त्रान्तरं आह

मनुनैतत्समस्तान्ते मरुन्नमितशब्दितः ।
बाललीलात्मने हुं फट्नम इत्यमुनाथवा ।। क्रमदीपिका६.९ ।।

अथवामुना वक्ष्यमाणमन्त्रेणैतत्प्रयोगजातं साधयेत् । मन्त्रं आहसमस्तेति । स्वरूपं अस्यान्ते मरुन्नमित इति स्वरूपं । एतस्माच्छब्दात्बाललीलात्मने हुं फडिति स्वरूपं नम इति स्वरूपं । अयं अप्यष्टादशाक्षरः दशाष्टादशाक्षरसमानः ।। टीका ६.९ ।।

मन्त्रोद्धारःः समस्तमन्रुन्नमितः बाललीलात्मने हुं फट्स्वाहा ।

______________________________

ऋष्यादीनाह

नलकूवरगायत्रीबालकृष्णा इतीरिताः ।
ऋस्याद्याः सिद्धयः सर्वाः स्युर्जपाद्यैरिहामुना ।। क्रमदीपिका६.१० ।।

अस्य मन्त्रस्य ऋष्याद्याः ऋषिः छन्दो देवता नलकूवरप्रभृतयः । तत्र नलकूवरो मुनिर्गायत्री छन्दः बालकृष्णो देवता इति । इह भुवने जपाद्यैः सर्वाः सिद्धयो भवन्ति ।। टीका ६.१० ।।

______________________________

लम्बितं बालशयने रुदन्तं वल्लवीजनैः ।
प्रेक्ष्यमाणं दुग्धबुद्ध्या तर्पयेत्सोऽश्नुतेऽशनं ।। क्रमदीपिका६.११ ।।

बालशयने आन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं वल्लवीजनैर्गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणं इति पाठे चाल्यमानं इत्यर्थः । दुग्धबुद्ध्या जलेन तर्पयेत् । अशनं भक्ष्यवस्तु अश्नुते प्राप्नोति ।। टीका ६.११ ।।

______________________________

मन्त्रान्तरं आह

अमुना वान्नरूपान्ते रसरूपपदं वदेत् ।
तुष्टरूप नमो द्वन्द्वं अन्नाधिपतये मम ।
अन्नं प्रयच्छ स्वाहेति त्रिंशदर्णोऽन्नदो मनुः ।। क्रमदीपिका६.१२ ।।

अमुना मन्त्रेण पूर्वोक्तं कुर्यात् । मन्त्रं आहान्नरूप इति शब्दान्ते रसरूप इति स्वरूपं तुष्टरूपेति स्वरूपं नमो द्वन्द्वं इति नमो नम स्वरूपं आन्नाधिपतये ममान्नं प्रयच्छ स्वाहेति त्रिंशदक्षरो अन्नदमन्त्रः दशाष्टाडशाक्षरसमानः ।। टीका ६.१२ ।।

मन्त्रोद्धारःः अन्नरूप रसरूप तुष्टरूप नमो नमः अन्नाधिपतये मनान्नं प्रयच्छ स्वाहा ।

______________________________

ऋष्यादीनाह

नारदानुष्टुबन्नाधिपतयोऽस्यर्षिपूर्वकाः ।
भूतबालग्रहोन्मादस्मृतिभ्रंशाद्युपद्रवैः ।
पूतनास्तनपातारं ग्रस्तमूर्ध्नि स्मरन्जपेथ् ।। क्रमदीपिका६.१३ ।।

अस्य मन्त्रस्य नारदो मुनिः, अनुष्टुप्छन्दः, अन्नाधिपतिर्देवता । प्रयोगं आहभूतेति । भूतपिशाचादिर्बालग्रहो रोगविशेषः । उन्मादश्चित्तभ्रमः स्मृतिभ्रंशः सम्मोहः । एतैरुपद्रवैरुपतापैर्ग्रस्तमूर्ध्नि उपतप्तमस्तके पूतनास्तनपायिनं कृष्णं स्मरन्मन्त्रं जपेत् ।। टीका ६.१३ ।।

______________________________

तां पूतनां रुदतीं क्रन्दमानां भावयेत्

सासुचूषणनिर्भिन्नसर्वाङ्गीं रुदतीं च तां ।
आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः ।। क्रमदीपिका६.१४ ।।

पुनः कीदृशीं ? सासुचूषनं सह प्राणेन यत्चूषणं समाकर्षणं तेन निर्भिन्नं अनायतं सर्वाङ्गं यस्याः सा । तथा तां किं भूत्वा जपेत्? आविश्य अहं एव हरिरिति भावयित्वा । अनन्तरं तं ग्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्रं विद्रवन्ति पलायन्ते । अत्र दशाष्टादशाक्षरयोर्विशेषध्यानं इदं प्रयोगार्थं इति त्रिपाठिनः ।। टीका ६.१४ ।।

______________________________

प्रयोगान्तरं आह

जुहुयात्खरमञ्जर्या मञ्जरीभिर्विभावसौ ।
सुस्नातः पञ्चगव्याद्भिः पूतनाहन्तुरानने ।। क्रमदीपिका६.१५ ।।

खरमञ्जर्या अपामार्गस्य मञ्जरीभिरग्रभागैः पञ्चगव्यजलैः सिक्तैर्विभावसौ वह्नौ पूजनाहन्तुः कृष्णस्याननरूपे जुहुयात् ।। टीका ६.१५ ।।

______________________________

प्राशयेच्छिष्टगव्यं तत्कलशेनाभिषेचयेत् ।
साध्यं सहस्रजप्तेन सर्वोपद्रवशान्तये ।। क्रमदीपिका६.१६ ।।

होमावशिष्टं पञ्चगव्यसाध्यं प्राशयेत्सहस्रजप्तेन पूर्वोक्तविधिना साधितेन कलशेन वाभिषेचयेत्सर्वोपद्रनिवृत्त्यर्थं ।। टीका ६.१६ ।।

______________________________

मन्त्रान्तरं आह

अमुनैतद्द्वादशार्णं हुं फट्स्वाहान्तकेन वा ।
ऋष्याद्या ब्रह्मगायत्रीग्रहघ्नहरयोऽस्य तु ।। क्रमदीपिका६.१७ ।।

एतत्पूर्वोक्तप्रयोगद्वयं वक्ष्यमाणमन्त्रेण वा कुर्यात् । मन्त्रं आहद्वादशेतिपूर्वोक्तवासुदेवद्वादशाक्षरान्ते हुं फट्स्वाहेति षोडशाक्षरो मन्त्रः दशाष्टादशाक्षरसमानः । ऋष्यादिकं आहऋष्याद्या इति । ऋषिप्रभृतयो ब्रह्मादयः । तत्र ब्रह्मा ऋषिः । गायत्री च्छन्दः । ग्रहघ्नरूपो हरिर्देवता ।। टीका ६.१७ ।।

मन्त्रोद्धारःः ओं नमो भगवते वासुदेवाय हुं फट्स्वाहा ।

______________________________

निजपादाम्बुजाक्षिप्तशकटं चिन्तयन्जपेत् ।
अयुतं मन्त्रयोरेकं सर्वविघ्नोपशन्तये ।। क्रमदीपिका६.१८ ।।

निजचरणकमलनिक्षिप्तशकटं हरिं चिन्तयेत् । मन्त्रयोः पूर्वमन्त्रापरमन्त्रयोरेकं अयुतं जपेत् । किमर्थं ? सकलविघ्नोपशमनार्थं दशाष्टादशाक्षरयोरेव सर्वविघ्नशान्त्यर्थं विशेषध्यानं इति त्रिपाठिनः ।। टीका ६.१८ ।।

______________________________

अङ्गान्यमीषां मन्त्राणां आचक्रादिभिरर्चना ।
अङ्गैरिन्द्रादिवज्राद्यैरुदिता सम्पदे सदा ।। क्रमदीपिका६.१९ ।।

अमीषां कथितमन्त्राणां आचक्रादिभिर्दशाक्षरकथितैरङ्गानि कार्याणि अर्चना पूजास्तु अङ्गैस्तथेन्द्राद्यैस्तदायुधैश्चेति सम्पत्त्यर्थं सदा कथिता ।। टीका ६.१९ ।।

______________________________

मृत्युञ्जयविधिं दर्शयति

बालो नीलतनुर्दोर्भ्यां दध्युत्थं पायसं दधत् ।
हरिर्वोऽव्याद्द्वीपिनखकिङ्किणीजालमण्डितः ।। क्रमदीपिका६.२० ।।

दशाष्टादशाक्षरयोर्वारोग्यार्थं विशेषध्यानं आहबाल इत्यादिनेति त्रिपाठिनः । हरिर्वो युष्मान्रक्षतु । कीदृशो बालः ? पञ्चवर्षीयः । पुनः कीदृशः ? नीलतनुः । पुनः कीदृशः ? हस्ताभ्यां दध्युत्थं नवनीतं पायसं परमान्नं च धारयेत् । पुनः कीदृशः ? व्याघ्रनखक्षुद्रघण्टिकासमूहाभ्यां अलङ्कृतः ।। टीका ६.२० ।।

______________________________

ध्यात्वैवाग्नौ जुहुयात्शतवीर्याङ्कुरत्रिकैः ।
पयःसर्पिःप्लुतैर्लक्षं एकं तावज्जपेन्मनुं ।। क्रमदीपिका६.२१ ।।

एवम्भूतं हरिं ध्यात्वा वह्नौ शतवीर्याङ्कुरैर्दुर्वाङ्कुरैस्त्रिभिः । कीदृशैः ? पयो दुग्धं सर्पिघृतं ताभ्यां प्लुतैः सिक्तैः एकं लक्षं जुहुयात्लक्षं एकं जपेत् ।। टीका ६.२१ ।।

______________________________

गुरवे दक्षिणां दत्त्वा भोजयेद्द्विजपुङ्गवान् ।
स ह्यब्दानां शतं जीवेन्न रोगो नात्र संशयः ।। क्रमदीपिका६.२२ ।।

अनन्तरं गुरवे दक्षिणां दत्त्वा ब्राह्मणान्भोजयेच्च स वर्षाणां शतं रोगरहितः सन्जीवेतत्र संशयो नास्ति ।। टीका ६.२२ ।।

______________________________

मन्त्रान्तरं आह

अत्रापरो मनुर्द्वादशार्णान्ते पुरुषोत्तम ।
आयुर्मे देहि सम्भाष्य विष्णवे प्रभविष्णवे ।। क्रमदीपिका६.२३ ।।
नमोऽन्तो द्व्यधिकत्रिंशदर्णोऽस्यार्षिस्तु नारदः ।
छन्दोऽनुष्टुप्देवता च श्रीकृष्णोऽङ्गान्यतो ब्रुवे ।। क्रमदीपिका६.२४ ।।

एतादृशे कार्येऽपरो मन्त्रोऽस्ति । मन्त्रं आहद्वादशाक्षरवासुदेवमन्त्रान्ते पुरुषोत्तम इति स्वरूपं आयुर्मे देहीति स्वरूपं विष्णवे प्रभविष्णवे इति स्वरूपं । नम इत्यन्तो द्व्यधिकत्रिंशदर्णो द्वात्रिंशदक्षरो मन्त्रः कथितस्तु । पुनरस्य मन्त्रस्य नारद ऋषिरनुष्टुप्छन्दो देवता श्रीकृष्णः इति अतोऽनन्तरं अङ्गानि ब्रुवे वदामि ।। टीका ६.२३२४ ।।

मन्त्रोद्धारःः ओं नमो भगवते वासुदेवाय पुरुषोत्तं आयुर्मे देहि विष्णवे प्रभविष्णवे नमः ।

______________________________

रविभूतेन्द्रियवसुनेत्रार्णैश्चात्मने युतैः ।
महानन्दपदज्योतिर्मायाविद्यापदैः क्रमाथ् ।। क्रमदीपिका६.२५ ।।

द्वादशपञ्चपञ्चाष्टद्विसङ्ख्यातैर्मन्त्राक्षरैरात्मनेपदान्तैर्महानन्दादिपदैः सह क्रमेण पञ्चाङ्गानि । सहानन्देत्यपि क्वचित्पाठः ।। टीका ६.२५ ।।

______________________________

एतस्य पुरश्चरणादिं आह

जप्त्वा लक्षं इमं मन्त्रं अयुतं पायसैर्हुनेत् ।
पूर्ववद्दूर्वया जुह्वदायुर्दीर्घतरं लभेथ् ।। क्रमदीपिका६.२६ ।।

इमं मन्त्रं लक्षं जप्त्वा पायसैरयुतं हुनेत्जुहुयात् । एवं मन्त्रं संसाध्य पूर्ववद्दूर्वयाङ्कुरकैः दुग्धघृतमिलितैर्लक्षं एकं जुहुयात् । जपैश्च दीर्घतरं अतिशयं आयुः प्राप्नोति ।। टीका ६.२६ ।।

______________________________

दारयन्तं बकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः ।
स्मरन्शिशूनां आतङ्के स्पृष्ट्वाऽयतरं अभ्यसेत् ।
तज्जप्ततिलजाभ्यङ्गाद्भवेयुः सुखिनश्च ते ।। क्रमदीपिका६.२७ ।।

शिशूनां बालानां आतङ्के भये समुपस्थिते तान्बालान्स्पृष्ट्वा कृष्णं स्मरनन्यतरं उक्तेष्वेकं मन्त्रं अभ्यसेज्जप्यात् । कीदृशं कृष्णं ? कराभ्यां तुण्डयोः संगृह्य बकनामानं असुरं विदारयन्तं । तन्मन्त्रजप्ततैलाभ्यङ्गात्ते बालाः सुखिनो भवन्ति । स्मरन्निति शुशुनामानं कृष्णं स्मरन्, के शिरसि स्पृष्ट्वा जप्यादिति बोद्धव्यमन्त्रदशाष्टादशाक्षरयोर्विशेषध्यानं इति त्रिपाठिनः ।। टीका ६.२७ ।।
______________________________

अस्मिन्नेव बालरक्षार्थेऽन्योऽपि मन्त्रोऽस्तीत्याह

अत्राप्यन्यो मनुर्बालवपुषे वह्निवल्लभा ।
गोरक्षायां क्वणद्वेणुं चारयन्तं पशूंस्तथा ।। क्रमदीपिका६.२८ ।।

बालवपुषे इति स्वरूपं वह्निवल्लभेति स्वाहा अस्मिन्नर्थे गोरक्षायां च विशेषध्यानं आहक्वणदिति । वेणुवादनपरं पशूंश्चारयन्तं कृष्णं स्मरन्जप्यात् ।। टीका ६.२८ ।।

______________________________
अस्मिन्नेव बालरक्षार्थे गोरक्षायां च मन्त्रान्तरं आह

उक्त्वा गोपालकपदं पुनर्वेशधराय च ।
वासुदेवाय वर्मास्त्रशिरांस्यष्टादशाक्षर ।। क्रमदीपिका६.२९ ।।

गोपालक इत्युक्त्वा पुनर्वेशधराय इत्युक्त्वा वासुदेवायेति वदेत्वर्म हुं अस्त्रं फडिति शिरः स्वाहा एतानि वदेत् । एवं सति अष्टादशाक्षरो भवति ।। टीका ६.२९ ।।

मन्त्रोद्धारःः गोपालकवेशधराय वासुदेवाय हुं फट्स्वाहा ।

______________________________

मनोर्नारदगायत्रीकृष्णर्ष्यादिरनेन वा ।
कुर्याद्गोपालसंरक्षां आचक्राद्यङ्गिना बुधः ।। क्रमदीपिका६.३० ।।

अस्य पूर्वोक्तस्य च मनोर्नारदो मुनिर्गायत्रीच्छन्दः श्रीकृष्णो देवता अनेन वा मन्त्रेण उक्तद्रव्यादिना वा गोपालरक्षां कुर्यात् । कीदृशेन ? आचक्राद्यङ्गयुक्तेन ।। टीका ६.३० ।।

______________________________

विषहरणप्रयोगं आह
कुम्भीनसादिक्ष्वेडार्तौ दष्टमूर्ध्नि स्मरन्हरिं ।
नृत्यन्तं कालियफणारङ्गेऽन्यतरं अभ्यसेथ् ।। क्रमदीपिका६.३१ ।।
दृशा पीयूषवर्षिण्या सिञ्चन्तं तत्तनुं बुधः ।
तर्जयन्वामतर्जन्या तं द्राङ्मोचयते विषाथ् ।। क्रमदीपिका६.३२ ।।

कुम्भीनसादिक्ष्वेडार्तौ सर्पविषपीडायां । कुम्भीनसास्तु ते सर्पा ये स्युर्दृष्टिविषोल्बणाः इति धरणिः । आदिपदाद्वृश्चिकादिसङ्ग्रहो दष्टमूर्ध्नि आर्तमस्तके स्पृष्ट्वा कालियो नागविशेषस्तस्य फणा सैवा रङ्गभूमिस्तत्र नृत्यन्तं स्मरनन्यतममन्त्रं अभ्यसेत्जपेत् । कीदृशं ? हरिं तत्तनुं शरीरं अमृतवर्षिण्या दृष्ट्या सिञ्चन्तं । किं कुर्वन्? स्मरेत्वामतर्जन्यातर्जयन् । एवं सति तं दष्टं मन्त्री द्राक्शीघ्रं विषान्मोचयेत् । अत्र दशाष्टादशाक्षरयोर्विशेषध्यानं इति त्रिपाठिनः ।। टीका ६.३१३२
 ।।

______________________________

प्रयोगान्तरं आह

आपूर्वकलशं तोयैः स्मृत्वा कालियमर्दनं ।
जप्त्वाष्टशतं आसिञ्चेद्विषिणं स सुखी भवेथ् ।। क्रमदीपिका६.३३ ।।

कलशं तोयैरापूर्यानन्तरं कालियमर्दनं देवं स्मृत्वाष्टाधिकं शतं जप्त्वा तेन कलशेन विषयुक्तं आसिञ्चेत् । अनन्तरं विषात्सुखी भवति ।। टीका ६.३३ ।।

______________________________

कालियमर्दनमन्त्रं आह

काव्यमध्ये लियस्यान्ते फणामध्येदिवर्णकान् ।
उक्त्वा पुनर्वदेन्नृत्यं करोति तं अनन्तरं ।। क्रमदीपिका६.३४ ।।
नमामि देवकीपुत्र इत्युक्त्वा नृत्यशब्दतः ।
राजानं अच्युतं ब्रूयादिति दन्तलिपिर्मनुः ।। क्रमदीपिका६.३५ ।।

काव्य इत्यक्षरद्वयोर्मध्ये लियस्येति स्वरूपं एतस्यान्ते फणामध्यादि इति स्वरूपं इत्यन्तान्वदेदनन्तरं नृत्यं करोति तं इति । अनन्तरं नमामि देवकीपुत्रं इति वदेत् । अनन्तरं नृत्यशब्दतः नृत्यशब्दान्ते राजनं अच्युतं इति ब्रूयादित्यनेन प्रकारेण दन्तलिपिर्द्वात्रिंशदक्षरो मन्त्रः कथितः ।। टीका ६.३४३५ ।।

मन्त्रोद्धारःः
कालियव्यफणामध्ये इति नृत्यं करोति तं ।
देवकीपुत्रं नमामि नृत्य राजानं उच्यतं ।।

______________________________

अस्य मन्त्रस्य अङ्गादीनि दर्शयति

अस्याङ्गान्यङ्घ्रिभिर्न्यस्तैः समस्तैर्नारदो मुनिः ।
छन्दोऽनुष्टुब्देवता च कृष्णः कालियमर्दनः ।। क्रमदीपिका६.३६ ।।

अस्य मन्त्रस्य व्यस्तैरेकैकं अङ्घ्रिभिश्चतुर्भिः पादैः समस्तैर्मन्त्रात्मकैश्चाङ्गानि पञ्चाङ्गानि कथितानि मुनिः नारदः छन्दोऽनुष्टुप्कालीयमर्दनः कृष्णो देवता ।। टीका ६.३६ ।।

______________________________

पुरश्चरणं आह

जप्यो लक्षं मनुरयं होतव्यं सर्पिषायुतं ।
अङ्गदिक्पालवज्राद्यैरर्चनास्य समीरिता ।। क्रमदीपिका६.३७ ।।

अयं मन्त्रः लक्षं जप्यः सर्पिषा घृतेन पुनरयुतं होतव्यं । अङ्गदिक्पालवज्राद्यैस्त्रिभिरावरणैरर्चना पूजा कथिता ।।

______________________________

प्रयोगं आह

क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वं ईरिता ।
सदृशोऽनेन जगति नहि क्ष्वेडहरो मनुः ।। क्रमदीपिका६.३८ ।।

पूर्वमन्त्रकथिता विषघ्नी सर्वा क्रिया अमुनैव मन्त्रेण कर्तव्या हि यतः जगति संसारे अनेन मन्त्रेण सदृशः समानः क्ष्वेडहरः विषहरो नास्ति ।। टीका ६.३८ ।।

______________________________

विषघ्नं प्रयोगान्तरं आह

अङ्गैः शुकतरोः पिष्टैर्गुलिका धेनुवारिणा ।
आननस्याञ्जनालेपैर्विषघ्नी साधितामुना ।। क्रमदीपिका६.३९ ।।

शुकतरोः करञ्जवृक्षस्येति भैरवत्रिपाठिनः । किंशुकवृक्षस्येति लघुदीपिकाकारः । अङ्गैस्त्वग्भिरिति रुद्रधरः । पञ्चाङ्गैरिति त्रिपाठिनः । धेनुवारिणा सवत्सा गोमूत्रेण पिष्टैः सम्पादिता गुलिका अमुना मन्त्रेण साधिता सती विषघ्नी भवति कैराननस्याञ्जनालेपप्रकारैः ।। टीका ६.३९ ।।

______________________________

अधुना प्रयोगान्तरं दर्शयति

उद्दण्डवामदोर्दण्डधृतगोवर्धनाचलं ।
अन्यहस्ताङ्गुलीव्यक्तस्वरवंशार्पिताननं ।। क्रमदीपिका६.४० ।।
ध्यायन्हरिं जपन्मन्वोरेकं छत्रं विना व्रजेत् ।
वर्षवाताशनिभ्यः स्याद्भयं तस्य नहि क्वचिथ् ।। क्रमदीपिका६.४१ ।।

उत्तालितो यो वामबाहुदण्डस्तेन धृतो गोवर्धनाचलो येन तं अन्यहस्ताङ्ग्कुलिभिः व्यक्तस्वरो यस्य वंशस्य तत्रार्पितं आननं येन तं एवम्भूतं हरिं चिन्तयन्मन्वोर्दशाष्टादशाक्षरयोरेकं जपन्छत्रं विना व्रजेत्यस्तस्य वृष्टिवायुवज्रादिभ्यो भयं क्वापि न विद्यते ।। टीका ६.४०४१ ।।

______________________________

प्रयोगान्तरं आह

मोघमेघौघयत्नापगतेन्द्रं तं स्मरन्हुनेत् ।
लवणैरयुतसङ्ख्यातैरनावृष्टिर्न संशयः ।। क्रमदीपिका६.४२ ।।

मोघो निष्फलो यो मेघसमूहस्तस्य यत्नः तेनापगतः इन्दोर्यस्मात्तं एतादृशं हरिं चिन्तयनयुतसङ्ख्यातैर्लवणैर्जुहुयातनन्तरं अनावृष्टिर्भवति नात्र संशयः ।। टीका ६.४२ ।।

______________________________

प्रयोगान्तरं आह

क्रीडन्तं यमुनातोये मज्जनप्लवनादिभिः ।
तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ।। क्रमदीपिका६.४३ ।।
ध्यात्वायुतं पयःसिक्तैर्हुनेद्वानीरतर्पणैः ।
वृष्टिर्भवत्कालेऽपि महती नात्र संशयः ।। क्रमदीपिका६.४४ ।।

यमुनाजले मज्जनोन्मज्जनैः क्रीडन्तं क्रीडां कुर्वन्तं । पुनः कीदृशं ? प्रियाजनै रुक्मिणीप्रभृतिभिस्तच्छीकरजलासारैः य्ॐनाजलधारारूपैः सिच्यमानं एवम्भूतं कृष्णं ध्यात्वा वानीरतर्पणैः वेतससमिद्भिः पयःसिक्तैर्दुग्धोक्षितैरयुतं जुहुयात् । एवं सति अकालोऽपि महतीवृष्टिर्भवति नात्र संशयः ।। टीका ६.४३४४ ।।

______________________________

अनेनैव ध्यानेन प्रयोगान्तरं आह

अमुं एव स्मरन्मूर्ध्नि विषस्फोटज्वरादिभिः ।
सदाहमोहैरार्तस्य जपेच्छान्तिर्भवेत्क्षणाथ् ।। क्रमदीपिका६.४५ ।।

दाहमोहसहितैर्वुषस्फोटज्वरादिभिरार्तस्य मूर्ध्नि मस्तके अमुं एव पूर्वोक्तरूपं ध्यात्वा जपेतनन्तरं तस्य पीडितस्य क्षणाद्शान्तिः स्वास्थ्यं भवति ।। टीका ६.४५ ।।

______________________________
एतस्यां एवार्तौ प्रकारान्तरं आह

अथवा गरुडारूढं बलप्रद्युम्नसंयुतं ।
निजज्वरविनिष्पिष्टज्वराभिष्टुतं अच्युतं ।। क्रमदीपिका६.४६ ।।
ध्यात्वा ज्वराभिभूत्यस्य मूर्ध्न्यन्यतरं अभ्यसेत् ।
शान्तिं व्रजेदसाध्योऽपि ज्वरः सोपद्रवः क्षणाथ् ।। क्रमदीपिका६.४७ ।।

अथवा ज्वराभिभूत्यस्य मस्तकेऽच्युतं ध्यात्वा अन्यतरं द्वयोर्मध्ये एकं मन्त्रं अभ्यसेत्जपेत् । कीदृशं ? अच्युतं गरुडारूढं । पुनः कीदृशं ? बलप्रद्युम्नाभ्यां संयुतं । पुनः कीदृशं ? निजज्वरेण वैष्णवज्वरेण शीताख्येनायुधरूपेण विनिष्पिष्टश्चूर्नितो यो रौद्रज्वर उष्णाख्यायुधरूपस्तेन स्टुतं । अनन्तरं अस्यासाध्योऽपि ज्वरः शीघ्रं एव नाशं गच्छति । कीदृशो ज्वरः ? उपद्रवो गात्रपीडादि तत्सहितः ।। टीका ६.४७ ।।

______________________________

अनेनैव ध्यानेन प्रयोगान्तरं आह

ध्यात्वैवं अग्नावभ्यर्च्य पयोक्तैश्चतुरङ्गुलैः ।
जुहुयादमृताखण्डैरयुतं ज्वरशान्तये ।। क्रमदीपिका६.४८ ।।

एवं पूर्वोक्तरूपं कृष्णं ध्यात्वा वह्नौ सम्पूज्य ज्वरशान्त्यर्थं चतुरङ्गुलपरिमितैर्दुग्धासिक्तैरमृताखण्डैर्गुड्चीखण्डैरयुतं जुहुयात् ।। टीका ६.४८ ।।
______________________________

प्रयोगान्तरं आह

निशातशरनिर्भिन्नभीष्मतापनुदं हरिं ।
स्मृत्वा स्पृशन्जपेदार्तं पाणिभ्यां रोगशान्तये ।। क्रमदीपिका६.४९ ।।

निशातस्तीक्ष्णो यः शरस्तेन निर्भिन्नो बिद्धो यो भीष्मस्तस्य यस्तापस्तं हरति । एवम्भूतं हरिं ध्यात्वा आर्तं ज्वरादिपीडितं पाणिभ्यां स्पृष्ट्वा ज्वरनाशार्थं मन्वोरेकतरं जपेत् ।। टीका ६.४९ ।।

______________________________

प्रयोगान्तरं आह

अपमृत्युविनाशाय सान्दीपनिसुतप्रदं ।
ध्यात्वामृतलताखण्डैः क्षीराक्तैरयुतं हुनेथ् ।। क्रमदीपिका६.५० ।।

सान्दीपनिः कृष्णगुरुः । तस्य सुतप्रदं कृष्णं ध्यात्वा अमृतलताखण्डैः गुड्चीखण्डैः क्षीराक्तैर्दुग्धसिक्तैरयुतं हुनेत्जुहुयात् । कस्मै ? अपमृत्युरकालमरणं तस्य विनाशाय निवृत्तये ।। टीका ६.५० ।।

______________________________

प्रयोगान्तरं आह

मृतपुत्राय ददतं सुतान्विप्राय सार्जुनं ।
ध्यात्वा लक्षं जपेदेकं मन्वोः सुतविवृद्धये ।। क्रमदीपिका६.५१ ।।

मृतपुत्राय विप्राय पुत्रान्ददतं सार्जुनं अर्जुनसहितं ध्यात्वा मन्वोरेकं लक्षं जपेत् । किमर्थं ? सुतवृद्धिनिमित्तं ।। टीका ६.५१ ।।

______________________________

प्रयोगान्तरं आह

पुत्रजीवेन्धनयुते जुहुयादनलेऽयुतं ।
तत्फलैर्मधुराक्तैः स्युः पुत्रा दीर्घायुषोऽस्य तु ।। क्रमदीपिका६.५२ ।।

जीवापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते सम्पादिते वह्नौ तत्फलैः पुत्रजीवाफलैर्मधुराक्तैस्त्रिमध्वक्तैर्मन्वोरेकेनायुतं जुहुयात् । अनन्तरं अस्य होमकर्तुः पुत्ताः दीर्घायुषो भवन्ति ।। टीका ६.५२ ।।

______________________________

प्रयोगान्तरं आह

क्षीरद्रुक्क्वाथसम्पूर्णं अभ्यर्च्य कलशं निशि ।
जप्त्वायुतं प्रगे नारीं अभिषिञ्चेद्द्विषट्दिनं ।। क्रमदीपिका६.५३ ।।
सा बन्ध्यापि सुतान्दीर्घजीविनो गदवर्जितान् ।
लभते नात्र सन्देहस्तज्जप्ताज्याशिनी सती ।। क्रमदीपिका६.५४ ।।

कलशपूरणविधानेन क्षीरवृक्षक्वाथेन सम्पूर्णं कलशं निशि रात्रौ सम्पूज्यायुतं जप्त्वा प्रगे प्रातःकाले पुत्रार्थिनीं स्त्रियं द्विषट्दिनं द्वादशदिनानि व्याप्याभिषिञ्चेत् । अनन्तरं साभिषिक्ता बन्ध्यापि अपत्यजननसमययोग्या अजनितापत्योऽपि पुत्रान्दीर्घायुषो रोगरहितान्प्राप्नोति । किम्भूता सती ? मन्त्रजप्ताज्यभोजिनी सती । अत्रार्थे सन्देहो नास्ति ।। टीका ६.५३५४ ।।

______________________________

प्रयोगान्तरं आह

प्रातर्वाचंयमा नारी बोधिच्छदपुटे जलं ।
मन्त्रयित्वाष्टोत्तरशतं पिबेत्पुत्रीयती ध्रुवं ।। क्रमदीपिका६.५५ ।।

प्रातःकाले वाचंयमा मौनिनी पुत्रीयती आत्मनः पुत्रं इच्छन्ती बोधिच्छदपुटे पिप्पलपत्रपुटे जलं मन्वोरन्यतरेणाष्टोत्तरशतं जप्तं मासं व्याप्य पिबेत् । अनन्तरं पुत्रं प्राप्नोतीति शेषः । जलपानमन्त्रं आहदेवकीपुत्रेति । अत्र प्रसङ्गातस्मिन्ग्रन्थे अनुक्तोऽपि सन्तानगोपालमन्त्रः कथ्यते । तद्यथा
देवकीपुत्र गोविन्द वासुदेव जगद्गुरो ।
देहि मे तनयं कृष्ण त्वां अहं शरणं गतः ।।

अस्य मन्त्रस्य नारदो मुनिरनुष्टुप्छन्दः सन्तानप्रदो गोपालकृष्णो देवता पदैर्व्यस्तैर्वा पञ्चाङ्गानि । ध्यानं यथा
शङ्खचक्रधरं कृष्णं रथस्थं च चतुर्भुजं ।
सर्वाभरणसन्दीप्तं पीतवाससं अच्युतं ।।
मयूरपिच्छसंयुक्तं विष्णुतेजोपबृंहितं ।
समर्पयन्तं विप्राय नष्टानानीय बालकान् ।
करुणामृतसम्पूर्णदृष्ट्येक्षन्तं च तं द्विजां ।। इति ।। टीका ६.५५ ।।

______________________________

प्रयोगान्तरं आह

प्रहितां काशिराजेन कृत्यां छित्वा निजारिणा ।
तत्तेजसा तन्नगरीं दहन्तं भावयन्हरिं ।। क्रमदीपिका६.५६ ।।
स्वस्नेहाक्तैर्हुनेद्रात्रौ सर्षपैः सप्तवासरं ।
कृत्या कर्तारं एवासौ कुपिता नाशयेद्ध्रुवं ।। क्रमदीपिका६.५७ ।।

प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकर्तीं निजारिणा निजचक्रेण छित्वा अनन्तरं तत्तेजसा तस्य काशीश्वरराजस्य नगरीं दहन्तं कृष्णं भावयन्स्वस्नेहाक्तैर्सर्षपतैलयुक्तैः सर्षपैः सप्तदिनानि व्याप्य रात्रौ मन्वोरेकतरेण जुहुयात् । अथानन्तरं असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारं एव नाशयेत् ।। टीका ६.५७ ।।

______________________________

प्रयोगान्तरं आह

आसीनं आश्रमे दिव्ये बदरीषण्डमण्डिते ।
स्पृशन्तं पाणिपद्माभ्यां घण्टाकर्णकलेवरं ।। क्रमदीपिका६.५८ ।।
ध्यात्वाच्युतं तिलैर्लक्षं हुनेत्त्रिमधुराप्लुतैः ।
मुक्तये सर्वपापानां शान्तये कान्तये तनोः ।। क्रमदीपिका६.५९ ।।

बदरीषण्डो बदरीसमूहस्तेन मण्डिते शोभिते दिव्ये उत्कृष्टे आश्रम आसीनं उपविष्टं तथा हस्तपङ्कजाभ्यां घण्टाकर्णस्य महादेवमूर्तेः कस्यचित्महादेवभक्तस्य वा कलेवरं शरीरं स्पृशन्तं अच्युतं ध्यात्वा तिलैस्त्रिमधुराप्लुतैर्घृतमधुशर्करामिश्रितैर्मन्वोरेकेन लक्षं जुहुयात् । किमर्थं ? मोक्षाय तथा सकलपापानां विनाशार्थं तथा तनोर्देहस्य कान्तये दीप्त्यर्थं ।। टीका ६.५८५९ ।।

______________________________

प्रयोगान्तरं आह

द्वेषयन्तं रुक्मिबलौ द्यूतासक्तौ स्मरन्हरिं ।
जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ।। क्रमदीपिका६.६० ।।

द्यूतासक्तौ द्यूतकर्म कुर्वन्तौ रुक्मिबलभद्रौ द्वेषयन्तं परस्परं द्वेषं उत्पादयन्तं हरिं स्मरन्गोमयोत्पन्ना गुलिका मन्वोरेकेन जुहुयात् । अत्र सहस्रहोमो बोद्धव्यः । अनुक्तायां तु सङ्ख्यायां सहस्रं तत्र निर्दिशेतिति वचनात् । किमर्थं ? इष्टयोर्मित्रयोर्द्विष्ट्यै विद्वेषणार्थं ।। टीका ६.६० ।।


______________________________
प्रयोगान्तरं आह

ज्वलद्वह्निमुखैर्बाणैर्वर्षन्तं गरुडध्वजं ।
धावमानं रिपुगणं अनुधावन्तं अच्युतं ।। क्रमदीपिका६.६१ ।।
ध्यात्वैवं अभ्यसेन्मन्वोरेकं सप्तसहस्रकं ।
उच्चाटनं भवेदेतद्रिपूणां सप्तभिर्दिनैः ।। क्रमदीपिका६.६२ ।।

ज्वलन्देदीप्यमानो यो वह्निस्तद्वन्मुखं येषां तैर्बाणैर्वर्षन्तं ताडयन्तं तथा गरुडारूढं तथा धावमानं शत्रुसमूहं अनुपश्चाद्धावन्तं हरिं ध्यात्वा मन्वोर्दशाष्टादशाक्षरयोरेकं सप्तसहस्रकं अभ्यसेत्जपेत् । एवं कृते सति एतस्य शत्रूणां सप्तभिर्दिनैरुच्चाटनं भवति स्वदेशादपयानं भवति ।। टीका ६.६२ ।।

______________________________

प्रयोगान्तरं आह

उत्क्षिप्तवत्सकं ध्यायन्कपित्थफलहारिणं ।
अयुतं प्रजपेत्साध्यं उच्चाटयति तत्क्षणाथ् ।। क्रमदीपिका६.६३ ।।

उत्क्षिप्त ऊर्ध्वं क्षिप्तो वत्सो वत्सरूपो वत्सकासुरो येन तथा कपित्थस्य फलं हरतीति कृष्णं ध्यात्वा मन्वोर्मध्ये एकं अयुतं जपेत् । अनन्तरं तत्क्षणात्शीघ्रं एव साध्यं उच्चाटनीयं उच्चाटयति ।। टीका ६.६३ ।।

______________________________
प्रयोगान्तरं आह

आत्मानं कंसमथनं ध्यात्वा मञ्चान्निपातितं ।
कंसात्मानं अरिं कर्षन्गतासुं प्रजपेन्मनुं ।। क्रमदीपिका६.६४ ।।
अयुतं जुहुयाद्वास्य जन्मोडुतरुतर्पणैः ।
अपि सेवितपीयूषो मिर्यतेऽरिर्न संशयः ।। क्रमदीपिका६.६५ ।।

आत्मानं कंसमथनं कृष्णं ध्यात्वा कंसमथनात्मनोरैक्यं विचिन्त्य तथा रिपुं कंसस्वरूपं अपगतप्राणं ध्यात्वा रिपुकंसयोरभेदं विचिन्त्येति भावः । मञ्चादधःकृतं आकर्षयनाकर्षणं भावयन्मन्वोरेकं अयुतं जपेत् । अस्य रिपोः जन्मोडुतरुतर्पणैः समिद्भिर्जुहुयाच्च ।

कारस्करोऽथ धात्री स्यादुदुम्बरतरुः पुनः ।
जम्बूखदीरकृष्णाख्या वंशपिप्पलसंज्ञकौ ।।
नागरोहितनामानौ पलाशप्लक्षसंज्ञकौ ।
अम्बष्ठबिल्वार्जुनाख्यं विकङ्कतमहीरुहः ।।
बहलः सवलः खर्जुर्भण्डिलः पनसार्ककौ ।
शमीकदम्बाम्रनिम्बमधुका ऋक्षशाखिनः ।।

इति सप्तविंशतिनक्षत्राणां वृक्षाः । जन्मनक्षत्रवृक्ष एवं कृते सेइव्तपीयूषोऽपि म्रियते नात्र संशयः ।। टीका ६.६४६५ ।।

______________________________

इदं प्रयोजनं प्रकारान्तरेणापि भवतीति दर्शयति

अथवा निम्बतैलाक्तैर्हुनेदधोभिरक्षजैः ।
अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणाथ् ।। क्रमदीपिका६.६६ ।।

निम्बतैलसिक्तैरक्षजैः विभीतकसमिद्भिः प्रयतः पवित्रः सन्रात्रौ मन्वोरेकेन अयुतं हुनेत् । किमर्थं ? शत्रोः शीघ्रविनाशाय ।। टीका ६.६६ ।।

______________________________

अस्मिन्नेवार्थे प्रयोगान्तरं आह

दोषारिष्टदलव्योषकार्पासास्थिकणैर्निशि ।
हुनेदेरण्डतैलाक्तैः स्मशानस्थोऽरिशान्तये ।। क्रमदीपिका६.६७ ।।

दोषा हरिद्रा अरिष्टदलं विभीतकपत्रं इति रुद्रधरः । भल्लातकपत्रं इति रुद्रधाः । निम्बपत्रं इति भैरवत्रिपाठिनः । व्योषं त्रिकटुकं कार्पासास्थि कार्पासाबीजं कणं पिप्प्लई एतैर्मिलितैरेरण्डतैलसिक्तैः स्मशानस्थः मृतसंस्कारस्थानस्थः सन्निशि रात्रौ मन्वोरेकेन जुहुयात् । किमर्थं ? शत्रुनाशार्थं ।। टीका ६.६७ ।।

______________________________

रागान्मारणप्रयोगे प्रायश्चित्तं आह

न शस्तं मारणं कर्म कुर्याच्चेदयुतं जपेत् ।
हुनेद्वा पायसैस्तावत्शान्तये शान्तमासः ।। क्रमदीपिका६.६८ ।।

मारणं कर्म शिष्टजनस्य न प्रशस्तं तथापि यदि वा रागात्कुर्यात्तदा मन्वोर्मध्ये एकं मन्त्रं अयुतं जपेत्परमान्नेन वा अयुतं जुहुयात् । शान्तये पापनाशाय शान्तमानसो निर्मत्सरः ।। टीका ६.६८ ।।

______________________________

प्रयोगान्तरं आह

जयकामो जपेल्लक्षं पारिजातहरं हरिं ।
स्मरन्पराजयस्तस्य न कुतश्चिद्भविष्यति ।। क्रमदीपिका६.६९ ।।

जयकामः पुमान्बलादिन्द्रसकाशात्स्वर्गस्थपारिजातापहारिणं कृष्णं भावयन्मन्वोरेकं लक्षं जपेत् । एवं कृते तस्य भङ्गः कस्मादपि न भविष्यतीति ।। टीका ६.६९ ।।

______________________________

प्रयोगान्तरं आह

पार्थे दिशन्तं गीतार्थं व्याख्यामुद्राकरं हरिं ।
रथस्थं भावयन्जप्याद्धर्मवृद्ध्यै शमाय च ।। क्रमदीपिका६.७० ।।

पार्थेऽर्जुने गीतार्थं दिशन्तं कथयन्तं तथा व्याख्यामुद्रां करे यस्य तं उत्तानतर्जन्यङ्गुष्ठयुता व्याख्यामुद्रा तथा रथारूढं हरिं भावयन्मन्वोरेकं लक्षं जपेत् । किमर्थं ? धर्मोत्पत्त्यर्थं मोक्षार्थं च ।। टीका ६.७० ।।

______________________________

प्रयोगान्तरं आह

लक्षं पलाशकुसुमैर्हुनेद्यो मधुराप्लुतैः ।
व्याख्याता सर्वशास्त्राणां स कविर्वादिराड्भवेथ् ।। क्रमदीपिका६.७१ ।।

यः पलाशपुष्पैर्घृतमधुशर्करामिश्रैर्मन्वोरेकेन लक्षं जुहुयात्स सकलशास्त्राणां व्याख्याता कविराट्कविश्रेष्ठश्च भवेत् ।। टीका ६.७१ ।।

______________________________

प्रयोगान्तरं आह

विश्वरूपधरं प्रोद्यद्भानुकोटिसमद्युतिं ।
द्रुतचामीकरनिभं अग्निसोमात्मकं हरिं ।। क्रमदीपिका६.७२ ।।
अर्काग्निद्योतदास्याङ्घ्रिपङ्कजं दिव्यभूषणं ।
नानायुधधरं व्याप्तविश्वाकाशावकाशकं ।। क्रमदीपिका६.७३ ।।
राष्ट्रपूर्ग्रामवास्तूनां शरीरस्य च रक्षणे ।
प्रजपेन्मन्त्रयोरेकतरं ध्यात्वैवं आदराथ् ।। क्रमदीपिका६.७४ ।।

विश्वरूपधरं एतद्व्याचष्टे उद्यदादित्यकोटिसमानकान्तिं तथा द्रवीभूतसुवर्णतुल्यं तथा अग्निसोमस्वरूपं । सूर्यसोमात्मकं इति त्रिपाठिनः । तथा सूर्याग्निवदुज्ज्वलं मुखं पादपद्मं यस्य । तथा चारुभूषणं तथा विविधशस्त्रधरं तथा व्याप्तसंसाराकाशाभ्यन्तरम्, एतादृशं हरिं ध्यात्वा आदरात्मन्त्रयोरेकं जपेत् । किमर्थं ? राष्ट्रौ देशे पूर्नगरं ग्रामोऽल्पजनवासस्थानं वास्तु एकगृहस्वामिवासः । क्षेत्रं इति गोविन्दमिश्राः । वस्त्विति पाठे हिरण्यादि । एतेषां शरीरस्य च रक्षणे रक्षानिमित्तम्
 ।। टीका ६.७२७४ ।।

______________________________

प्रयोगान्तरं आह

अथवा व्यस्तसर्वाङ्घ्रिरचिताङ्गार्जुनर्षिकं ।
त्रिष्टुप्छन्दसिकं विश्वरुपविष्ण्वधिदैवतं ।। क्रमदीपिका६.७५ ।।
जपेद्गीतामनुं स्थाने हृषीकेशाद्यं आज्यकैः ।
हुनेद्वा सर्वरक्षायै सर्वदुःखोपशान्तये ।। क्रमदीपिका६.७६ ।।

अथवा स्थाने हृषीकेशाद्यं गीतामनुं जपेत् । किम्भूतं मनुं ? व्यस्तं एकैकं सर्वे समस्ता ये अङ्घ्रयः पादचतुष्टयं तैः रचितं अङ्गं पञ्चाङ्गं । अर्जुनः ऋषिर्यत्र तं व्यस्तसर्वाङ्घ्रिरचिताङ्गश्चार्जुन ऋषिकश्चेति द्वन्द्वः तं त्रिष्टुप्छन्दो यत्र तं विश्वरूपो विष्णुरधिदेवता यस्य तं । आज्यकैर्घृतैर्हुनेद्वा वाशब्दः समुच्चये हुनेत् । टीकान्तरे उक्तप्रयोगेषु यत्र जपहोमयोः सङ्ख्या न उक्ता तत्र संनिधानोक्ता गृह्यते तदभावेऽष्तोत्तरं सहस्रं शतं वा अष्टौ सहस्राणीत्य्
एके । जगन्मोहनाख्यतन्त्रे

लक्षं वाप्ययुतं वापि सहस्रं शतं एव च ।
कार्याणां गौर्वान्मन्त्री तत्तद्धोमं समाचरेत् ।। टीका ६.७५७६ ।।

इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां
षष्ठः पटलः ।