क्रमदीपिका/अष्टमः पटलः

विकिस्रोतः तः
← सप्तमः पटलः क्रमदीपिका
अष्टमः पटलः
[[लेखकः :|]]

अथान्तरं वश्यकरः प्रयोगः कथ्यते

अथोच्यते वश्यविधिः पुरोक्त
दशार्णतोऽष्टादशवर्णतश्च ।
स्मृत्यैव यौ सर्वजगत्प्रियत्वं
मनू मनुज्ञस्य सदा विधत्तः ।। क्रमदीपिका८.१ ।।

पूर्वोक्तदशाक्षरस्याष्टदशाक्षरस्य च यौ मन्त्रौ स्मरणमात्रेण साधकस्य सर्वजनवल्लभत्वं सर्वदा कुरुतः ।। टीका ८.१ ।।

______________________________

फुल्लैर्वन्यपसूनैरमुं अरुणतरैरर्चयित्वा दिनादौ
नित्यं नित्यक्रियायां रतमथदिनमध्योक्तक्प्त्या मुकुन्दं ।
अष्टोपेतं सहस्रं दशलिपिं अनुवर्य जपेद्यः स मन्त्री
कुर्याद्वश्यान्यवश्यं मुखरमुखभुवां मण्डलान्मण्डलानि ।। क्रमदीपिका८.२ ।।

पुष्पितैः वनोद्भवपुष्पैरतिलोहितं अमुं मुकुन्दं नित्यं सर्वदा नित्यकर्मानुष्ठाननिष्ठं दिनादौ प्रति प्रत्यहः मध्याह्नोक्तपूजाप्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्रश्रेष्ठं अष्टाधिकं सहस्रं जपेत् । मण्डलादेव पञ्चाशद्दिनादर्वाक्मुखरमुखभुवां विद्वद्ब्राह्मणानां मण्डलानि समूहानवश्यं वश्यानि कुर्याद्वशयतीत्यर्थः ।। टीका ८.२ ।।

______________________________

क्षत्रियवैश्यशूद्रस्यापि प्रयोगत्रयं दर्शयति

जातीप्रसूनैर्वरगोपवेषं
क्रीडारतं रक्तहयारिपुष्पैः ।
नीलोत्पलैर्गीतिरतं पुरोवद्
इष्ट्वा नृपादीन्वशयेत्क्रमेण ।। क्रमदीपिका८.३ ।।

वरगोपवेषं श्रेष्ठगोपरूपधरं श्रीकृष्णं विचिन्त्य जातीपुष्पैः पूर्वोक्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रं अष्टोत्तरसहस्रं जप्त्वा क्षत्रियं वशयेत्क्रीडासक्तं ध्यात्वा रक्तकरवीरपुष्पैः पूर्वोक्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रं अष्टोत्तरं सहस्रं जप्त्वा वैश्यं वशयेत्गीतिरतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रं अष्टोत्तरसहस्रं जप्त्वा शूद्रं वशयेतित्यनेन प्रकारेण नृपादीन्वशयेदित्यर्थः ।। टीका ८.३
 ।।

______________________________

प्रयोगान्तरं आह

सितकुसुमसमेतैस्तण्डुलैराज्यसिक्तैर्
दशशतं अथ हुत्वा नित्यशः सप्तरात्रं ।
कचभुवि च ललाटे भस्म तद्धारयन्ना
वशयति मनुजस्त्रीं सापि नॄंस्तद्वदेव ।। क्रमदीपिका८.४ ।।

श्वेतपुष्पसहितैः श्वेततण्डुलैर्घृतमिश्रितदशाक्षरमन्त्रेण दशशतं हुत्वा नित्यशः सप्तदिनपर्यन्तं तदनु तद्धोम भस्म कच भुवि शिरसि ललाटे च धारयन्ना पुरुषः मनुजस्त्रीं मनुष्यनारीं इति रुद्रधरः । तरुणीं स्त्रियं वशयतीति त्रिपाठितः । सापि स्त्री अनेन प्रयोगेण नॄन्वशयेदित्यर्थः ।। टीका ८.४ ।।

______________________________

प्रयोगान्तरं आह

ताम्बूलवस्त्रकुसुमाञ्जनचन्दनाद्यं
जप्तं सहस्रत्रयं अन्यतरेण मन्वोः ।
यस्मै ददाति मनुवित्सजनोऽस्य मङ्क्षु
स्यात्किङ्करा न खलु तत्र विचारणीयं ।। क्रमदीपिका८.५ ।।

ताम्बूलं वस्त्रं पुष्पं कज्जलं चन्दनं च एतद्यदन्यद्वस्तु मन्वोर्दशाष्टादशाक्षरयोरन्यतरेणैकेन सहस्रत्रयं संजप्तं यस्मै जनाय ददाति साधकः स नरोऽस्य साधकस्य मङ्क्षु शीघ्रं वश्यो भवति । नात्र संशय इत्यर्थः ।। टीका ८.५ ।।

______________________________

प्रयोगान्तरं आह
राजद्वारे व्यवहारे सभाया
द्यूते वादे चाष्टयुक्तं शतं च ।
जप्त्वा वाचं प्रथमां ईरयेद्यो
वर्तेतासौ तत्र तत्रोपविष्टान् ।। क्रमदीपिका८.६ ।।

राजसमीपे क्रयविक्रये सदसि अक्षक्रीडादौ वादे च यो मन्वोरेकं अष्टोत्तरशतं जप्त्वा प्रथमत एव यां वाचं वदति तयैव वाचा तत्र वादादौ उपविष्टानसौ वर्तेत तज्जयी भवतीत्यर्थः ।। टीका ८.६ ।।

______________________________

प्रयोगान्तरं आह
आसीनं मुरमथनं कदम्बमूले
गायन्तं मधुरतरं व्रजाङ्गनाभिः ।
स्मृत्वाग्नौ मधुमिलितैर्मयूरकेध्मैर्
हुत्वासौ वशयति मन्त्रवित्त्रिलोकीं ।। क्रमदीपिका८.७ ।।

कदम्बमूले उपविष्टं मुरमथनं कृष्णं गोपीभिर्मधुरतरं गायन्तं ध्यात्वा वह्नौ मधुस्नुतैर्मयूरकेध्मैरपामार्गसमिद्भिर्हुत्वा असौ साधको लोकत्रयं वशयति ।। टीका ८.७ ।।

______________________________

प्रयोगान्तरं आह
रासमध्यगतं अच्युतं स्मरन्
यो जपेद्दशशतं दशाक्षरं ।
नित्यशो झटिति मासतो नरो
वाञ्छितां अभिवहेत्स कन्यकां ।। क्रमदीपिका८.८ ।।

यो नरः पूर्वोक्तरासमध्यगतं कृष्णं ध्यायन्दशाक्षरं मन्त्रं प्रत्यहं दशशतं जपेत्स मासैकेन शीघ्रं एव वाञ्छितां कन्यां प्राप्नोति ।।८ ।।
ओ)O(

प्रयोगान्तरं आह

तुङ्गकुन्दं अधिरूढं अच्युतं
वा विचिन्त्य दिनशः सहस्रकं ।
साष्टकं जपति सा हि मण्डलाद्
वाञ्छितं वरं उपैति कन्यका ।। क्रमदीपिका८.९ ।।

उच्चकदम्बवृक्षस्थं विचिन्त्य प्रत्यहं अष्टोत्तरसहस्रं दशाक्षरं या कन्यका जपति सा हि निश्चयेन मण्डलादेकोनपञ्चाशद्दिनादर्वाक्वाञ्छितवरं प्राप्नोति ।। टीका ८.९ ।।
______________________________

समानफलं प्रयोगान्तरं आह

नृत्यन्तं व्रजसुन्दरीजनकराम्भोजानि संगृह्य तं
ध्यात्वाष्टादशवर्णकं मनुवरं लक्षं जपन्मन्त्रवित् ।
लाजानं अथवा मधुप्लुततरैर्हुत्वायुतं चूर्णकैर्
उद्धोढुं प्रजपेच्च तावदचिरादाकाङ्क्षितां कन्यकां ।। क्रमदीपिका८.१० ।।

अचिरात्शीघ्रं वाञ्छितां कन्यां परिणेतुं मन्त्रवित्साधकः गोपयुवतीहस्तपद्मानि संगृह्य धृत्वा नृत्यन्तं तं प्रसिद्धं श्रीकृष्णं ध्यात्वा लक्षमात्रपरिमितं अष्टादशाक्षरं मन्त्रश्रेष्ठं जपेत् । अथवा लाजानां चूर्णैर्मधुद्रुततरैर्घृतमधुशर्कराप्रचुरान्वितैः मधुना द्रवीभूतैरिति रुद्रधरः । दशसहस्रं हुत्वा तावदेव संख्यं जपेदित्यर्थः ।। टीका ८.१० ।।

______________________________

प्रयोगान्तरं आह

अष्टादशाक्षरेण द्विजतरुजैस्त्रिमध्वक्तैरयुतं ।
कुशैस्तिलैर्वा सतण्डुलैर्वशयितुं द्विजान्जुहुयाथ् ।। क्रमदीपिका८.११ ।।

द्विजान्ब्राह्मणान्वशयितुं अष्टादशाक्षरमन्त्रेण द्विजतरुजैः पलाशवृक्षसमुद्भवैः समिद्भिस्त्रिमधुराक्तैः घृतमधुशर्करामिश्रितैरयुतं दशसहस्रं जुहुयातथवा त्रिमध्वक्तैः कुशैस्तिलैः तण्डुलैर्वा जुहुयात् ।। टीका ८.११ ।।

______________________________

प्रयोगान्तरं आह

कृतमालभवैर्वशयेन्नृपतीन्
मुकुलैश्च कुरुण्टकजैश्च तथा ।
विशां इक्षुरकैरपि पाटलजैर्
इतरानपि तद्वदथो वशयेथ् ।। क्रमदीपिका८.१२ ।।

कृतमालभवैः राजवृक्षसमुद्भवैः मुकुलैः कलिकाभिः हुत्वा नृपतीन्क्षत्रियान्वशयेन् । कुरुण्टकजैश्च झिण्टीसमुद्भवैः मुकुलैर्हुत्वा वेश्याण्वशयेत् । इक्षुरसैः इक्षुरकैरिति पाठे कोकिलाक्षोमथीनथ इत्यर्थः । पाटलसमुद्भवैः मुकुलैर्वा हुत्वा इतरान्शूद्रान्वशयेत् । अनुक्तसङ्ख्या होमस्य बोद्धव्या तस्या एव प्रकरणत्वादिति ।। टीका ८.१२ ।।

 ______________________________

प्रयोगान्तरं आह

अभिनवैः कमलैररुणोत्पलैः
समधुरैरपि चम्पकपाटलैः ।
प्रतिहुनेदयुतं क्रमशोऽचिराद्
वशयितुं मुखजादिवराङ्गनाः ।। क्रमदीपिका८.१३ ।।

शीघ्रं मुखजादिवराङ्गना ब्राह्मणादिस्त्रियो वशयितुं चतुर्भिर्द्रव्यैः समधुरैर्मधुरत्रयमिलितैः क्रमशः प्रत्येकं सार्धसहस्रद्वयं कृत्वा दशसहस्रं प्रतिहुनेत्जुहुयात् । द्रव्याण्याहनूतनैः श्वेतपद्मैः रक्तोत्पलैश्चम्पकपुष्पैः पाटलपुष्पैः ।। टीका ८.१३ ।।

 ______________________________

प्रयोगान्तरं आह

हयारिकुसुमैर्नवैस्त्रिमधुराप्लुतैर्नित्यशः
सहस्रं ऋषिवासरं प्रतिहुनेन्निशीथे बुधः ।
सुगर्वितधियं हठात्झटिति वारयोषां असौ
करोति निजकिङ्करीं स्मरशिलीमुखैरर्दितां ।। क्रमदीपिका८.१४ ।।

हयारिकुसुमैः करवीरकुसुमैः नूतनैः त्रिमधुरमिश्रितैः प्रत्यहं सहस्रं ऋषिवासरं सप्तवासरं बुधः साधको निशीथे रात्रौ प्रत्यहं प्रतिदिनं जुहुयातसौ अहङ्कारवतीं वारयोषां वेश्याकामवाणैः पीडितां हठात्बलात्झटिति शीघ्रं निजदासीं करोति ।। टीका ८.१४ ।।

 ______________________________
प्रयोगान्तरं आह

पटुसंयुतैस्त्रिमधुरार्द्रतरैर्
अपि सर्षपैर्दशशतं त्रितयं ।
निशि जुह्वतोऽस्य हि शचीदयितोऽप्य्
अवशो वशी भवति किं न्वपरे ।। क्रमदीपिका८.१५ ।।
लवणसंयुतैः कटुसंयुतैरिति पाठे कटुकसंयुतैरित्यर्थः । मधुरार्द्रतरैर्घृतमधुशर्करास्निग्धैः । अपिः समुच्चये सर्षपैर्दशशतं त्रितयं त्रिसहस्रं निशि रात्रौ जुह्वतः पुरुषस्य शचीदयितः इन्द्रोऽपि अवशो वशी भवति किं पुनरन्ये ।। टीका ८.१५ ।।

 ______________________________

प्रयोगान्तरं आह

अथ बिल्वजैः फलसमित्प्रसवच्
छदनैर्मधुद्रुततरैर्हवनात् ।
कमलैः सिताक्षतयुतैश्च पृथक्
कमलां चिराय वशयेदचिराथ् ।। क्रमदीपिका८.१६ ।।

बिल्ववृक्षोद्भवैः फलसमित्पुष्पपत्रैः श्वेतपद्मैरत्यन्तमधुराप्लुतैः सिताक्षतयुतैः शर्करातण्डुलमिश्रितैः सिताज्यसहितैरिति पाठे सिताशर्करा आज्यं घृतं तत्सहितैः पृथकेकैकं वस्तुत्रिसहस्रहोमात्चिरकालं अचिरात्शीघ्रं कमलां लक्ष्मीं वशयेत् । अत्र सङ्ख्यासमनन्तरोक्ता ।। टीका ८.१६ ।।

 ______________________________

प्रयोगान्तरं आह

अपहृत्य गोपवनिताम्बराण्यामा
हृदयैः कदम्बं अधिरूढं अच्युतं ।
प्रजपेत्स्मरन्निशि सहस्रं आनयेद्
द्रुतं उर्वशीं अपि हठाद्दशाहतः ।। क्रमदीपिका८.१७ ।।

हृदयैः अमा सह हठात्गोपयुवतीवस्त्राण्यपहृत्य गृहीत्वा कदम्बवृक्षं अधिरूढं कृष्णं स्मरन्निशि रात्रौ सहस्रं जपेत्स दशाहतो दशदिवसमध्ये हठान्मन्त्रस्य बलातुर्वशीं अपि देववेश्यां अपि वशं आनयेत्निजनिकटं इति शेषः ।। टीका ८.१७ ।।

 ______________________________

मन्त्रयोर्माहात्म्यं आह

बहुना किं अत्र कथितेन मन्त्रयोर्
अनयोः सदृक्न हि परो वशी कृतौ ।
अभिकृष्टिकर्मणि विदग्धयोषितां
कुसुमायुधास्त्रमयवर्ष्मणोरिह ।। क्रमदीपिका८.१८ ।।

अत्र ग्रन्थे बहुना कथितेन किं प्रयोजनं ? अनयोर्दशाष्टादशाक्षरयोः सदृक्समः वशीकरणे इह जगति अपरो नास्ति । किम्भूतयोर्नगरस्त्रीणां आकर्षणकर्मणि कामास्त्रशरीरयोः ।। टीका ८.१८ ।।

 ______________________________

मोक्षसाधकप्रयोगान्तरं आह

वन्दे कुन्देन्दुगौरं तरुणं अरुणपाथोजपत्राभनेत्रं
चक्रं शङ्खं गदाब्जे निजभुजपरिघैरायतैरादधानं ।
दिव्यैर्भूषाङ्गरागैर्नवनलिनलसन्मालया च प्रदीप्तं
प्रोद्यत्पीताम्बराढ्यं मुनिभिरभिवृतं पद्मसंस्थं मुकुन्दं ।। क्रमदीपिका८.१९ ।।

मुकुन्दं वन्दे । कुन्दपुष्पं चन्द्रश्च तद्वत्शुक्लं तथा युवानं तथा रक्तपद्मसदृशलोचनं तथा दीर्घैर्निजबाहुपरिघैर्मुद्गराकारस्वबाहुभिः शङ्खं चक्रं गदां पद्मं च धारयन्तं तथा देवयोग्यालङ्काराङ्गरागैः नवानि यानि पद्मानि तेषां लसन्ती देदीप्यमाना या माला तया च प्रदीप्तं तथा देदीप्यमानहरिद्राभवस्त्रयुक्तं तथा नारदादिभिर्वेष्टितं तथा पङ्कजासीनं ।। टीका ८.१९ ।।

 ______________________________
एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजं आसीनामाद्यं
सान्द्राभोजच्छविं वा द्रुतकनकनिभं वा जपेदर्कलक्षं ।
मन्वोरेकं द्वितारान्तरितमथहुनेदर्कसाहस्रं इध्मैः
क्षीरद्रुत्यैः पयोक्तैः समधुघृतसितेनाथवा पायसेन ।। क्रमदीपिका८.२० ।।

एवंविधं पूर्वोक्तं मुकुन्दं ध्यात्वा प्रफुल्लहृदयपद्मासनोपविष्टं तथा आद्यं प्रथमं सजलजलदश्यामं सान्द्राभोजच्छविं इति पाठे मसृणपद्मकान्तिं वा ध्यात्वा दिव्तारान्तरगं प्रणवद्वयमध्यगतं मन्वोर्दशाष्टादशाक्षरयोरेकं अर्कलक्षं द्वादशलक्षं जपेत् । अथ जपानन्तरं अर्कसहस्रं इध्मैः समिद्भिः क्षीरद्रुत्यैरश्वत्थोदुम्बरप्लक्षन्यग्रोधान्यतमसमुद्भवैः पयोक्तैः दुग्धप्लुतैः अथवा घृतमधुशर्करासहितेन परमान्नेन जुहुयात् ।। टीका ८.२० ।।

 ______________________________

ततो लोकाध्यक्षं धुर्वचितिसदानन्दवपुषं
निजे हृत्पाथोजे भवतिमिरसम्भेदमिहिरं ।
निजैक्येन ध्यायन्मनुं अमलचेताः प्रतिदिनं
त्रिसाहस्रं जप्यात्प्रयजतु सायाह्नविधिना ।। क्रमदीपिका८.२१ ।।

ततस्तदनन्तरं लोकाध्यक्षं लोकस्वामिनं । अविनाशिज्ञानं तत्सुखस्वरूपशरीरं संसारान्धकारविच्छेदसूर्यं अमुं कृष्णं निजहृदयपद्मे निजैक्येन स्वाभेदेन भावयनमलचेताः निर्मलान्तःकरणः प्रतिदिनं त्रिसहस्रं सहस्रत्रयं जुहुयात्तथा पूर्वोक्तसायाह्नपूजाप्रकारेण पूजयतु होमं अपि करोतु ।। टीका ८.२१ ।।

 ______________________________

विधिं योऽमुं भक्त्या भजति नियतं सुस्थिरमतिर्
भवाम्भोधिं भीमं विषमविषयग्राहनिकरैः ।
तरङ्गैरुत्तुङ्गैर्जनिमृतिसमाख्याइः प्रविततं
समुत्तीर्यानन्तं व्रजति परमं धाम स हरेः ।। क्रमदीपिका८.२२ ।।

स स्थिरमतिः पुमानमुं विधिं प्रकारं नियतं सततं भक्त्या भजति सेवते स भवाम्भोधिं संसारसागरं समुत्तीर्य हरेः अनन्यं न विद्यते अन्यो यस्मात्सर्वमयं उत्कृष्टं धाम प्राप्नोति । कीदृशं ? अम्भोधिरिव भयङ्करं कैर्विषमा दुर्निवारा ये विषयाः शब्दादयं अथवा स्रक्चन्दनवनिताद्याः त एव ग्राहरूपा मकरकच्छपाद्यास्तेषां निकरैः समूहैः । तथा जन्ममरणनामधेयैस्तरङ्गैरुत्तुङ्गैर्महद्भिर्विस्तीर्णं ।। टीका ८.२२ ।।

 ______________________________

गृणंस्तस्य नामानि शृण्वंस्तदीयाः
कथाः संस्मरंस्तस्य रूपाणि नित्यं ।
नमंस्तत्पदाम्भोरुहं भक्तिनम्रः
स पूज्यो बुधैर्नित्ययुक्तः स एव ।। क्रमदीपिका८.२३ ।।

स पुरुषः बुधैः प्राज्ञैः पूज्यः स एव च नित्ययुक्तो नित्ययोगभाक् । किं कुर्वन्? अस्य श्रीकृष्णस्य नामानि गृणन्वदन्, तदीयाः कथा आकल्पयन् । तस्य श्रीकृष्णस्य रूपाणि मूर्तीः सर्वदा ध्यायन् । तत्पदाम्भोरुहं श्रीकृष्णपादपद्मं भक्तिनम्रः सेवाऽवनतः अधिकनम्रत्वख्यापनार्थं पौनरुक्त्यं ।। टीका ८.२३ ।।

______________________________
इदानीं परममन्त्रद्वयं कथयति

वक्ष्ये मनुद्वमथातिरहस्यं अन्यत्
संक्षेपतो भुवनमोहननामधेयं ।
ब्रह्मेन्द्रवामनयनेन्दुभिरादिमान्यस्
तत्पूर्वको वियदृषीकयुतेशङेहृथ् ।। क्रमदीपिका८.२४ ।।

अथानन्तरं अन्यत्मन्त्रद्वयं अतिगोप्यं जगन्मोहनसंज्ञकं स्वल्पोक्त्या वक्ष्ये । ब्रह्म ककारः । इन्द्रो लकारः । वामनयनं दीर्घईकारः । इन्दुरनुस्वारः । एतैः संयुक्तः कामबीजरूपः प्रथमो मन्त्र उद्धृतः । तत्पूर्वकः वियत्हकारः ऋषीक इति स्वरूपं ताभ्यां युक्त ईशशब्दः हृषीकेश इति स्वरूपं ङे चतुर्थ्येकवचनं हृन्नमः । क्लीं हृषीकेशाय नमः इति द्वितीयो मन्त्रः । अत्रायं पुरुषोत्तममन्त्र इति भैरवत्रिपाठिनः ।। टीका ८.२४
 ।।

______________________________

ऋष्यादिकं आह

मन्वोस्तु संमोहननारदो मुनिः
छन्दस्तु गायत्रं उदीरितं बुधैः ।
त्रैलोक्यसंमोहनविष्णुरेतयोः
स्याद्देवता वच्म्यधुना षडङ्गकं ।। क्रमदीपिका८.२५ ।।

अनयोर्मन्त्रयोः संमोहननारदो मुनिः । छन्दः पुनर्गायत्रं । मन्त्रज्ञैः कथितं त्रैलोक्यसंमोहनविष्णुर्देवतेति ।। टीका ८.२५ ।।

______________________________

अधुना षडङ्गं वदामि

अक्लीबदीर्घैः सलवैस्तदपि च कलासनारूढैः ।
उक्तं पूर्ववदासनविन्यासान्तं समाचरेदथ तु ।। क्रमदीपिका८.२६ ।।

ऋॠवर्जितषट्दीर्घस्वरैः बिन्दुसहितैः कलेत्यक्षरद्वयसम्बद्धैः क्लां क्लीं क्लूं क्लैं क्ल्ॐ क्लः एभिस्तत्षडङ्गं उक्तं । अथानन्तरं पूर्ववद्दशाक्षरकथितपूजापर्यन्तं कार्यं ।। टीका ८.२६ ।।


 ______________________________

करयोः शाखासु तले न्यस्य षडङ्गानि चाङ्गुलीषु शरान् ।
मनुपुटितमातृकार्णैर्न्यस्याङ्गेऽङ्गानि विन्यसेच्च शरान् ।। क्रमदीपिका८.२७ ।।

करयोः शाखासु अङ्गुलीषु उभयकरतले च षडङ्गानि विन्यस्य पुनरङ्गुलीषु च कामबाणान्विन्यस्य आद्यन्तस्थितमन्त्रमातृकाक्षैर्मातृकास्थानेषु विन्यस्य दीर्घयुक्तकामबीजैः षडङ्गानि स्वशरीरे विन्यस्य बाणन्यासं च कुर्यात् ।। टीका ८.२७ ।।

 ______________________________

बाणन्यासस्थानान्याह

कास्यहृदयलिङ्गाङ्घ्रिषुकरशाखाभिर्नमोऽन्तकान्ङेऽन्तान् ।
शोषणमोहनसन्दीपनतापनमादनान्क्रमशः ।। क्रमदीपिका८.२८ ।।

शिरोवदनहृदयलिङ्गपादेषु अङ्गुलीभिः अङ्गुष्ठादिकनिष्ठकान्ताभिः एकैकया अङ्गुल्या चतुर्थी नमःपदसहितान्वक्ष्यमाणान्पञ्चबाणान्क्रमेण विन्यसेत् ।। टीका ८.२८ ।।

 ______________________________

बाणनामान्याह

पञ्चैते सम्प्रोक्ता ह्रांह्रींक्लींक्लूं स आदिका बाणाः ।
संमोहनं अथ जगतं ध्यायेत्पुरुषोत्तमं समाहितधीः ।। क्रमदीपिका८.२९ ।।

ह्रांह्रींक्लींक्लूं स एतानि पञ्चबीजानि एकैकानि आदौ येषां एवं एते पञ्चबाणाः शोषणादयः प्रोक्ताः । प्रयोगस्तुह्रां शोषणाय नमः इत्यङ्गुष्ठेन शिरसि ह्रीं मोहनाय नमः इति तर्जन्या मुखे इत्यादि अथानन्तरं । संयतचित्तः त्रिभुवनवश्यकरं पुरुषोत्तमं चिन्तयेत् ।। टीका ८.२९ ।।

 ______________________________

ध्यानं आह

दिव्यतरूद्यानोद्यद्रुचिरमहाकल्पपादपाधस्तात् ।
मणिमयभूतलविलसद्भद्रपयोजन्मपीठनिष्ठस्य ।। क्रमदीपिका८.३० ।।
विश्वप्राणस्योद्यत्प्रद्योतनसमद्युतेः सुपर्णस्य ।
आसीनं उन्नतांसे विद्रुमभद्राङ्गं अङ्गजोन्मथितं ।। क्रमदीपिका८.३१ ।।
चक्रदराङ्कुशपाशान्सुमनोबाणेक्षुचापकमलगदाः ।
दधतं स्वदोर्भिररुणायतविपुलविघूर्णिताक्षियुगनलिनं ।। क्रमदीपिका८.३२ ।।
मणिमयकिरीटकुण्डलहाराङ्गदकङ्कणोर्भिरसनाद्यैः ।
अरुणैर्माल्यविलेपैरादीप्तं पीतवस्त्रपरिधानं ।। क्रमदीपिका८.३३ ।।
निजवामोरुनिषण्णां श्लिष्यन्तीं वामहस्तघृतनलिनां ।
किल्द्यद्योनिं कमलां मदनमदव्याकुलोज्ज्वलाङ्गलतां ।। क्रमदीपिका८.३४ ।।
सुरुचिरभूषणमाल्यानुलेपनांसुसितवसनपरिवीतां ।
निजमुखकमलव्यापृतचटुलासितनयनमधुकरां तरुणीं ।। क्रमदीपिका८.३५ ।।
श्लिष्यन्तं वामभुजादण्डेन दृढं धृतेक्षुचापेन ।
तज्जनितपरनिर्वृतिनिर्भरहृदयं चराचरैकगुरुं ।। क्रमदीपिका८.३६ ।।
सुरदितिजभुजगगुह्यकगन्धर्वाद्यङ्गनाजनसहस्रैः ।
मदमन्मथालसाङ्गैरभिवीतं दिव्यभूषणोल्लसितैः ।। क्रमदीपिका८.३७ ।।
आत्माभेदतयेत्थं ध्यात्वैकाक्षरं अथाष्टवर्णं वा ।
प्रजपेद्दिनकरलक्षं त्रिमधुरसिक्तैस्तु किंशुकप्रसवैः ।। क्रमदीपिका८.३८ ।।

नवश्लोकानां कुलकं । इत्थं एवं वासुदेवं ध्यात्वा एकाक्षरकामबीजं अथवाष्टाक्षरमन्त्रं दिनकरलक्षं द्वादशलक्षं जपेत् । कीदृशं ? ध्यात्वा देवसम्बन्धिवृक्षोद्याने कल्पवृक्षोद्याने उद्यन्वृद्धिं गच्छन्मनोहरो यः पारिजातवृक्षस्तस्य तले गरुडस्योन्नतांसे उपविष्टं । कीदृशस्य गरुडस्य ? पद्मरागादिघटितभूभागशोभमानश्रेष्ठपद्मपीठोपविष्टस्य तथा सकलजीवभूतस्य परमेश्वरस्यांशत्वात्तथा उदितसूर्यसमकान्तेः । कीदृशं वासुदेवं ? प्रवालसुन्दराङ्गं, कामव्याकुलितं स्वदोर्भिः
स्वबाहुभिर्दक्षिणवामक्रमेण चक्रशङ्खाङ्कुशपाशपुष्पशरेक्षुचापपद्मगदाः बिभ्राणं तथा रक्तं दीर्घं बृहद्विघूर्णितं नेत्रद्वयरूपं पद्मं यस्य स तथा तम्, पद्मरागादिमणिघटितशिरोऽलङ्कारकर्णभूषणं उक्ताहारबाहुभूषणकरमूलभूषणमुद्रिकाक्षुद्रघण्टिकाप्रभृतिभिः रक्तमाल्यगन्धैश्च देदीप्यमानं तथा पीते वाससी परिधानं आच्छादनं यस्य स तथा तं तथा धृतेक्षुचापेन वामबाहुदण्डेन दृढं यथा स्यादेवं श्रियं आलिङ्गनं ।

कीदृशीं ? स्वीयवामोरुदेशे उपविष्टां, तथा आलिङ्गन्तीं, तथा वामहस्तगृहीतपद्मां, तथा सरसीभूतगुह्यां तथा कामेन व्याकुलीकृता अनायत्तीकृता अङ्गलता यस्यास्तां मनोहराणि अलङ्कारमालचन्दनानि यस्यास्तां तथा श्वेतवस्त्रपरिधानां तथा कृष्णमुखपद्मे व्यापृतं सम्यग्व्यापारयुक्तं चटुलं मनोहरं चञ्चलं वा असितं श्यामं यन्नेत्रं स एव मधुकरो भ्रमरः यस्यास्तां तथा तरु¸एईं युवतीं । पुनः कीदृशीं ? प्रियालिङ्गनजनितपरमसुखपूर्णहृदयं तथा जगद्गुरुं तथा देवदैत्यसर्पदेवयोनिदेवगायनविद्याधरस्त्रीसहस्रैर्
मदतया कामेन च स्तम्भयुक्तं अङ्गं येषां तैर्देवार्हणभूषणदीप्तैर्वेष्टितं कया युक्त्या आत्मैक्येन ध्यात्वा ।। टीका ८.३०३८ ।।

______________________________

जुहुआत्तरणिसहस्रं विमलैः सलिलैश्च तर्पयेत्तावत् ।
विंशत्यर्णे प्रोक्ते यन्त्रे दिनशोऽमुं अर्चयेत्भक्त्या ।। क्रमदीपिका८.३९ ।।

ध्यानजपानन्तरं घृतमधुशर्करासहितैः पलाशपुष्पैर्द्वादशसहस्रं जुहुयात् । होमानन्तरं निर्मलैर्जलैर्द्वादशसहस्रं तर्पणं कुर्यात् । विंशत्यर्णेति । पूर्वोक्तविंशत्यक्षरोदितपीठविधानेन तन्मन्त्रोद्धृतयन्त्रे अमुं कृष्णं भक्त्या प्रतिदिनं पूजयेत् ।। टीका ८.३९ ।।

 ______________________________

पूजाप्रकारं आह सार्धं चतुःश्लोकेन । गरुडमन्त्रं आह

पीठविधौ पक्ष्यन्ते राजायशिरोऽमुनाभिपूज्याहिरिपुं ।
हरिं आवाह्य स्कन्धे तस्यार्घाद्यैः समर्च्य भूषान्तै ।। क्रमदीपिका८.४० ।।
अङ्गानि च बाणांश्च न्यासक्रमतः किरीटं अपि शिरसि ।
श्रवसोश्च कुण्डलेऽरिप्रमुखानि प्रहरणानि पाणिषु च ।। क्रमदीपिका८.४१ ।।
श्रीवत्सकौस्तुभौ च स्तनयोरूर्ध्वे गले च वनमालां ।
पीतवसनं नितम्बे वामाङ्के श्रियं अपि स्वबीजेन ।। क्रमदीपिका८.४२ ।।
इष्ट्वाथ कर्णिकायां अङ्गानि विदिग्दशासु दिक्षु शरान् ।
कोणेषु पञ्चमं पुनरग्न्यादिदलेषु शक्तयः पूज्याः ।। क्रमदीपिका८.४३ ।।

पूजाविधौ पक्षिशब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अनेन प्रकारेण पीठमध्ये अहिरिपुं गरुडं सम्पूज्य तस्य गरुडस्य पृष्ठे श्रीकृष्णं आवाह्यावाहनादि यथावत्कृत्वार्घाद्यैर्भूषान्तैरुपचारैश्च सम्पूज्य अङ्गानि च सम्पूज्य पञ्चबाणांश्च सम्पूज्य भूषणानि च सम्पूज्य दिग्दलेषु शक्तयः पूज्या इति अनेनान्वयः ।

एतदेव स्पष्टयतिन्यासक्रमत इत्यादिना । यत्र परमेश्वराङ्गे यस्य न्यासः । तस्य पूजा बोद्धव्या तत्र शिरसि किरीटं अपिपादपूरणे श्रोत्रयोः कुण्डले अरिमुखानि चक्रादीनि प्रहरणानि आयुधानि हस्तेषु स्तनयो ऊर्ध्वं हृदि श्रीवत्सकौस्तुभौ गले वनमालां आपादलम्बिनीं पद्ममालां नितम्बे कट्यां हरिद्राभवस्त्रं वामाङ्गे वामभागे लक्ष्मीं च स्वबीजेन श्रीबीजेन इष्ट्वा सम्पूज्य कर्णिकायां दिग्विदिशासु कोणेषु दिक्षु च अङ्गानि पूर्ववत्सम्पूज्य दिक्षु शरानग्न्यादिकोणेषु च पञ्चमं बाणं पूजयेत्पुनरग्न्यादिदलेषु अष्टौ शक्तयः पूज्याः
 ।। टीका ८.४०४३ ।।

______________________________

शक्तिवर्णानाह

लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रतिप्रीत्यौ ।
कीर्तिः कान्तिश्च सिते तुष्टिः पुष्टिश्च मरकतप्रतिमे ।। क्रमदीपिका८.४४ ।।

स्वर्णाभे पीतवर्णे अरुणतरे अतिरक्ते सिते शुक्ले मरकतप्रतिमे हरिद्रावर्णे ।। टीका ८.४४ ।।

______________________________

एताः शक्तयः किम्भूताः ?

दिव्याङ्गरागभूषामाल्यदुकूलैरलङ्कृताङ्गलताः ।
स्मेराननाः स्मारार्ताधृतचामरचारुकरतला एताः ।। क्रमदीपिका८.४५ ।।

देवयोग्यानुलेपनालङ्कारग्रन्थितपुष्पसूक्ष्मवस्त्रैर्भूषितदेहा अङ्गलताशब्दः स्वरूपवाची तथा ईसद्धास्यवदना तथा कामबाणपीडिताः तथा गृहीतचामरमनोहरास्ताः ।। टीका ८.४५ ।।

______________________________

लोकेशा बहिरर्च्याः कथितेत्यर्चा मनुद्वयोद्भूता ।
प्रायः पुरुषोत्तमविधिरेवं हि स नोच्यतेऽत्र बहुलत्वाथ् ।। क्रमदीपिका८.४६ ।।

तद्बहिरिन्द्रादयः वज्रादयश्च पूज्याः इत्येवं पूजा मन्त्रद्वयसम्भवा कथिता प्रायो बाहुल्येन पुरुषोत्तममन्त्रकथितप्रकारोऽप्येवं परं स इह स्पष्टीकृत्य नोच्यते बहुवक्तव्यत्वात्प्रायः पुरुषोत्तमविधेरेवं इहान्यतोऽवगन्तव्यं इति टीकान्तरसम्मतं पाठान्तरं ।। टीका ८.४६ ।।

______________________________

सम्मोहनगायत्रीं आह

त्रैलोक्यमोहनायेत्युक्त्वा विद्मह इति स्मरायेति ।
तत्धीमहीति तन्नोऽन्ते विष्णुस्तदनु प्रचोदयाथ् ।। क्रमदीपिका८.४७ ।।

त्रैलोक्यमोहनायेति स्वरूपं उक्त्वा तदनन्तरं विद्मह इति स्मरायेति तदनु धीमहीति तन्नो विष्णुः प्रचोदयादिति स्वरूपं वदेथ् ।। टीका ८.४७ ।।

______________________________

प्रभावं आह

जप्यैषा हि जपादौ दुरितहरी श्रीकरी जपार्चनहवनैः ।
प्रोक्षयतु शुद्धिविधयेऽर्चायां अनयात्मयागभूद्रव्याणि ।। क्रमदीपिका८.४८ ।।

एषा गायत्री जपात्पूर्वं जपनीया स्वमन्त्रजपपूजाहोमैः पुनः पापनाशिनी लक्ष्मीप्रदा च भवति । अनया गायत्र्या च पूजायां शुद्ध्यर्थं आत्मयागभूद्रव्याणि आत्मानं यागभुवं द्रव्याणि च प्रोक्षयतु ।। टीका ८.४८ ।।

______________________________

मन्त्रद्वयसाधारणतर्पणं आह

मन्वोरेकेन शतं तर्पयेन्मोहनीप्रसूनयुतैर्यः ।
तोयैर्दिनशः प्रातः स तु लभते वाञ्छितानयत्नतः कामान् ।। क्रमदीपिका८.४९ ।।

यः पूर्वोक्तमन्त्रयोरेकेन मोहनीपुष्पमिश्रितैः शक्रासनपद्मासनपुष्पसहितैर्जलैः प्रति प्रत्यहं शतं तर्पयेत् । स वाञ्छितान्कामाननायासेन प्राप्नोति ।। टीका ८.४९ ।।

______________________________

मन्त्रद्वयसम्बन्धिप्रयोगान्तरं आह

हुत्वायुतं हुतशेषसम्पाताज्येन तावदभिजप्तेन ।
भोजयतु स्वामीकं रमणीरमणोऽपि तां स्ववशतां नेतुं ।। क्रमदीपिका८.५० ।।

घृतेन वह्नावयुतं आहुतिशेषघृतेन मन्त्रजप्तेन रमणी स्ववशतां नेतुं प्रापयितुं आत्मीयं कामुकं भोजयतु कामुकः स्त्रियं भोजयतु ।। टीका ८.५० ।।

______________________________

अष्टादशार्णविहिता विधयः कार्या वश्यत आभ्यां ।
मन्वोरनयोः सदृग्भ्यो वैन मनुस्त्रैलोक्यवश्यकर्मणि जगति ।। क्रमदीपिका८.५१ ।।

अष्टादशाक्षरमन्त्रकथिता वश्यकारिणः प्रयोगा आभ्यां मन्त्राभ्यां कार्या हि निश्चयेन जगति सकलजगदायत्तताकार्ये अनयोः समानोऽन्योमन्त्रो नास्ति ।। टीका ८.५१ ।।

______________________________

अत्रैकार्णजपादावथवा कृष्णः सवेणुगतिर्ध्येयः ।
अरुणरुचिराङ्गवेशः कन्दर्पो वा सपाशशृणिचापेषु ।। क्रमदीपिका८.५२ ।।

अत्र समनन्तरोक्तद्वयमध्ये एकाक्षरमन्त्रस्य जपपूजाहोमादौ कृष्णो भावनीयः । कीदृक्? सवेणुगतिरिति वंशोत्थगानपरः । तथा लोहितमनोहरशरीराभरणः । अथवा, अत्रैव मन्त्रजपादौ पाशाङ्कुशधनुर्बाणधरः कामदेवो ध्येयः । मन्त्रस्यादिदेवात्मकत्वादिति भावः ।। टीका ८.५२ ।।

______________________________

प्रकृतं उपसंहरति

यस्त्वेकतरं मनुं एतयोर्विमलधीः सदा भजति मन्त्री ।
सोऽमुत्रापि च सिद्धिं विपुलां इहातितरां एति ।। क्रमदीपिका८.५३ ।।

यो मन्त्री अनयोर्मन्त्रयोरेकं मन्त्रश्रेष्ठं सदा जपादिभिः सेवते, स इह लोकेऽमुत्र च अत्यर्थं विपुलां सिद्धिं प्राप्नोति ।। टीका ८.५३ ।।

______________________________

अथ रुक्मिणीवल्लभमन्त्रं उद्धरति

अथ सत्यशौरि च तृतीयतुर्यकाः
शिखिवामनेत्रशशिखण्डमण्डिताः ।
जयकृष्णयुग्मकनिरन्तरात्मभू
शिखिशक्तिडास्यवृतसक्तवर्णकाः ।। क्रमदीपिका८.५४ ।।

प्रनिमध्यतो मुदितचेतसे ततस्
त्यपरक्तदृग्यगुरुमारुताक्षराः ।
सचतुर्थिकृष्णपदं इक्षुकार्मुको
दशवर्णकश्च मनुवर्यकस्त्वसौ ।। क्रमदीपिका८.५५ ।।

सलवाधर्राचलसुतारमाक्षरैः
पुटितः क्रमो क्रमगतैः समुद्गवत् ।
इति दन्तसूर्यवसुवर्ण उद्धृतः
कवितानुरञ्जनरमाकरोऽघहृथ् ।। क्रमदीपिका८.५६ ।।

सत्यो दकारः । शौरिर्धकारश्च । तृतीयतुर्येति जकारः झकारश्च । एते चत्वारो वर्णाः प्रत्येकं शिखी रेफः वामनेत्रं ईकारः शशिखण्डो बिन्दुः । एतैः शोभनाः सम्बद्धा इत्यर्थः । तथा च, द्रीं ध्रीं ज्रीं झ्रीं इति । तदनु जयकृष्णेति त्रिपाठिगोविन्दमिश्रप्रभृतयः । वस्तुतः जयकृष्णेति पदस्य युग्मं तदनु निरन्तरेति स्वरूपं आत्मभूः ककारः शिखी रेफः शक्तिरीकारः । तथा क्रीस्वरूपं । तदनु डस्वरूपं आस्यवृतं आकारः डास्वरूपं । सक्त इति स्वरूपं प्रनिमध्यतो प्रनीति अक्षरयोर्
मध्ये मुदितचेतसे इति ततो निशब्दान्ते त्येति स्वरूपं तदनु पस्वरूपं । रक्तो रेफः । दृगिकारः प्रथमातिक्रमे कारणाभावात्ह्रस्वैकारो लभ्यते । तथा च, प्रि इति स्वरूपं ततो य इति स्वरूपं गुरुराकारः । या इति स्वरूपं । तदनु मारुतो यकारः । तदनु सचतुर्थिकृष्णपदं कृष्णायेति स्वरूपं । तदनु इक्षुकार्मुकः कामबीजं । तदनु पूर्वोक्तदशाक्षरमन्त्रः । तदनु लवो बिन्दुः तत्सहिता धरा ऐकारः ऐं इति स्वरूपं । अचलः पर्वतः तत्सुता पार्वती भुवनेश्वरीबीजं इत्यर्थः । रमा श्रीबीजं । एभिस्त्रिभिर्बीजैर्मन्त्रान्ते प्रतिलोमपठितैः ऐं ह्रीं
श्रीं अन्ते श्रीं ह्रीं ऐं इति समुद्गवत्सम्पुटवत्पुटितोऽयं द्विपञ्चाशद्वर्णो मन्त्रः सिद्धो भवति ।
मन्त्रवर्णसङ्ख्यां आहैतीति । दन्त = ३२, सूर्य = १२, वसु = ८ । एभिर्मिलितैः सङ्ख्या द्विपञ्चाशद्वर्णात्मको (५२) मन्त्रो भवतीत्यर्थः । कीदृशः ? कवितालोकानुरागलक्ष्मी सम्पादकः तथाघहृत्पापहर्ता ।। टीका ८.५४५६ ।।

मन्त्रस्वरूपमैं ह्रीं श्रीं द्रीं ज्रीं झ्रीं जय कृष्ण जय कृष्ण निरन्तरक्रीडासक्तप्रमुदितचेतसे नित्यप्रियाय कृष्णाय क्रीं गोपीजनवल्लभाय स्वाहा श्रीं ह्रीं ऐं ।।

______________________________

अस्य मन्त्रस्य ऋष्यादिकं इत्याह

मुखवृत्तनन्दयुतनारदो मुनिः
छन्द उक्तं अमृतादिकं विराट् ।
त्रिजगद्विमोहनसमाह्वयो हरिः
खलु देवतास्य मुनिभिः समीरिता ।। क्रमदीपिका८.५७ ।।

मुखवृत्तं आकारः नन्देति स्वरूपं आभ्यां युतो नारदः । तथा च आनन्दनारदऋसिः अमृतादिकं विराट्छन्दस्त्रैलोक्यमोहनो हरिर्देवता नारदादिभिर्मुनिभिः कथिता ।। टीका ८.५७ ।।

______________________________

अङ्गविधिं दर्शयति

वसुमित्रभूधरगजात्मदिङ्मयैर्
ममनुवर्णकैस्त्रिपुटसंस्थितैः पृथक् ।
निजजातियुङ्निगदितं षडङ्गकं
क्रिययैव तत्खलु जनानुरञ्जनं ।। क्रमदीपिका८.५८ ।।

वसुः = ८, मित्रः = १२, भूधरः = ७, गजः = ८, आत्मा = १, दिक्= १० । एतत्सङ्ख्याकैर्मन्त्राक्षरैस्त्रिपुटसंस्थितैः । तथा च ऐं ह्रीं श्रीं द्रीं व्रीं ज्रीं झ्रीं जयकृष्ण ऐं ह्रीं श्रीं हृदयाय नमः । ऐं ह्रीं श्रीं जयकृष्णनिरन्तरक्रीडासक्त ऐं ह्रीं श्रीं शिरसे स्वाहा इत्यादि क्रिययैव षडङ्गक्रिययैव सर्वजनानुरागं जनयति ।। टीका ८.५८ ।।

______________________________

न्यासं आह

अथ संविशोध्य तनुमुक्तमार्गतः
विरचय्य पीठं अपि च स्ववर्ष्मणा ।
करयोर्दशाक्षरविधिक्रमान्न्यसेत्
स षडङ्गसायकं अनङ्गपञ्चकं ।। क्रमदीपिका८.५९ ।।

अथानन्तरं तनुं शरीरं उक्तमार्गतः पूर्वोक्तभूतशुद्ध्याः प्रकारेण संशोध्यानन्तरं स्ववर्ष्मणा स्वशरीरेण पीठं आरचय्य करयोः करयुगले दशाक्षरोक्तप्रकारेण षडङ्गषट्कं सायकान्च शोषणादीन्बाणाननङ्गपञ्चकं कामबीजमन्मथकन्दर्पमकरध्वजमनोभूतसंज्ञकं कामपञ्चकं न्यसेत् ।। टीका ८.५९ ।।

______________________________

इमं एवार्थं विविच्य दर्शयति

मनुना त्रिशो न्यसतु सर्वतस्तनौ
स्मरसम्पुटैस्तदनु मातृकाक्षरैः ।
दशतत्त्वकादिदशवर्णकीर्तितं
त्वथ मूर्तिपञ्जरवसानं आचरेथ् ।। क्रमदीपिका८.६० ।।

मनुना मूलमन्त्रेण पूर्वं शरीरे त्रिव्यापकं कुर्यात् । तदनन्तरं प्रतिवर्णं कामबीजपुटितैर्मातृकाक्षरैः त्रिशो न्यसतु । दशवर्णकीर्तितं दशाक्षरोक्तदशतत्त्वकान्न्यसेत् । तत्त्वन्यासादिमूर्तिपञ्जरान्तं विन्यस्य ।। टीका ८.६० ।।

______________________________

सृजति स्थिती दशषडङ्गसायकान्
न्यसतात्ततोऽन्यदखिलं पुरोक्तवत् ।
प्रविधाय सर्वभुवनैकसाक्षिणं
स्मरतान्मुकुन्दं अनवद्यधीरधीः ।। क्रमदीपिका८.६१ ।।

सृष्टिस्थिती समाचरेत्दशाङ्गानि षडङ्गानि बाणांश्च देहे विन्यसेत् । तदनन्तरं आत्मार्चनाद्यखिलं पूर्ववत्कृत्वा सकललोकद्रष्टारं श्रीकृष्णं स्मरतात्चिन्तयतु, निर्मलास्थिरा बुद्धिर्यस्य स तथा तादृशः साधकः ।। टीका ८.६१ ।।

______________________________

ध्यानं आह

अथ भूधरोदधिपरिष्कृते महो
न्नतशालगोपुरविशालवीथिके ।
घनचुम्ब्युदग्रसितसौधसङ्कुले
मणिहर्म्यविस्तृतकपाटवेदिके ।। क्रमदीपिका८.६२ ।।

अथानन्तरं स्वके पुरे मणिमण्डपे सुरपादपस्य कल्पवृक्षस्याधो मणिमयभूतले परिस्फुरत्पृथुसिंहवक्त्रचरणाम्बुजासने स्थूलसिंहमुखाकारपादान्वितपीठपद्मासने समुपविष्टं अच्युतं अभिचिन्तयेत् । कीदृशे पुरे ? भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृते वेष्टिते तथा महोन्नतः अत्युच्चः शालः प्रकारो गोपुरं बहिर्द्वारं च यत्र तस्मिन्तथा विशाला महती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघस्पर्शि अतिशुद्धधवलगृहव्याप्ते तथा मणिमयगृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृतभूमिर्यत्र तत्र ।। टीका ८.६२
 ।।

______________________________

पुनः कीदृशे पुरे ?

द्विजभूपविट्चरणजन्मनां गृहैर्
विविधैश्च शिल्पिजनवेश्मभिस्तथा ।
इभसप्त्युरभ्रखरधेनुसैर्भच्
छगलालयैश्च लसितैः सहस्रशः ।। क्रमदीपिका८.६३ ।।

सहस्रशो लोकैर्ब्राह्मणक्षत्रियवैश्यशूद्राणां नानाप्रकारगृहैः तथा शिल्पिजनानां गृहस्तथा हस्त्यश्वमेषगर्दभधेनुमहिषच्छगलानां गृहैः शोभिते ।। टीका ८.६३ ।।

______________________________
पुनः कीदृशे ?

विवधापणाश्रितमहाजनाहृत
क्रयविक्रयद्रविणसञ्चयाञ्चिते ।
जनमानसाहृतिविदग्धसुन्दरी
जनमन्दिरैः सुरुचिरैश्च मण्डिते ।। क्रमदीपिका८.६४ ।।

नानाप्रकारविपणिसमाश्रिते महाजनाहृतक्रयविक्रयद्रविणसंचयव्याप्ते । पुनः कीदृशे ? जनानां चित्तापहरणे चतुराः ये वेश्याजनास्तेषां गृहैः शोभमानैरलङ्कृते ।। टीका ८.६४ ।।

______________________________

पुनः कीदृशे पुरे ?
पृथुदीर्घकाविमलपाथसि स्फुरद्
विकचारविन्दमकरन्दलम्पटैः ।
वरहंससारस्रथाङ्गनामभिर्
विहगैर्विघुष्टककुभि स्वके पुरे ।। क्रमदीपिका८.६५ ।।

स्थूलसरोवरनिर्मलोदके देदीप्यमानविकसितकमलमकरन्दाख्यरसलोलुपैः श्रेष्ठहंससारसचक्रवाकसंज्ञकैः पक्षिभिर्ध्वनिता दिशो यस्मिन् ।। टीका ८.६५ ।।
______________________________

पुनः कीदृशे मणिमण्डपे ?

सुरपादपैः सुरभिपुष्पलोलुप
भ्रमराकुलैर्विविधकामदैर्नॄणां ।
शिवमन्दमारुतचलच्छिखैर्वृते
मणिमण्डपे रविसहस्रप्रभे ।। क्रमदीपिका८.६६ ।।

कल्पवृक्षैः सुगन्धिपुष्पलुब्धभ्रमरव्याप्तैर्मनुष्याणां विविधकामदैः शुभमन्दमारुतचलदग्रभागैस्तैर्वेष्टिते । सूर्यसहस्रमानप्रभे ।। टीका ८.६६ ।।

______________________________

पुनः कीदृशे ?

मणिदीपिकानिकरदीपितान्तरे
तनुचित्रविस्तृतवितानशालिनि ।
ललिते पिकस्वरविचित्रदामभिः
सुसुगन्धि गन्धसलिलोक्षितस्थले ।। क्रमदीपिका८.६७ ।।

मणिरेव दीपिका तस्याः समूहे प्रकाशितमध्यभागे । पुनः कीदृशे ? सूक्ष्मविचित्रविस्तीर्णचन्द्रातपयुक्ते । पुनः कीदृशे ? विकसितनानाप्रकारपुष्पमालाभिः शोभिते अतिसुरभिसलिलसिक्तस्थाने ।। टीका ८.६७ ।।

______________________________

पुनः कीदृशे ?

प्रमदाशतैर्मदविघूर्णितेक्षणैर्
मदजालसैः करविलोलचामरैः ।
अभिसेविते स्खलितमञ्जुभाषितैः
स्तनभारभङ्गुरकृशावलग्नकैः ।। क्रमदीपिका८.६८ ।।

स्त्रीशतैर्मदविघूर्णितनेत्रैर्मदजनितालस्यसहितैः हस्तस्थितचञ्चलचामरैरीषत्स्खलितमनोहरवचनैः स्तनभारनम्रसूक्ष्ममध्यप्रदेशैः परितः सेविते ।। टीका ८.६८ ।।

______________________________

कथम्भूतस्य सुरपादपस्य ?

अविरामधारमणिवर्यवर्षिणः
श्रमहानिदामृतरसच्युतोऽप्यधः ।
सुरपादपस्य मणिभूतलोल्लसत्
पृथुसिंहवक्त्रचरणाम्बुजासने ।। क्रमदीपिका८.६९ ।।

अविश्रान्तमणिश्रेष्ठधारावर्षिणः । पुनः कीदृशस्य ? श्रमहानिकरामृतरसश्राविणः ।। टीका ८.६९ ।।

______________________________

कीदृशं अच्युतं ?

अभिचिन्तयेत्सुखनिविष्टं अच्युतं
नवनीलनीररुहकोमलच्छविं ।
कुटिलाग्रकुन्तललसत्किरीटकं
स्मितपुष्परत्नरचितावतंसकं ।। क्रमदीपिका८.७० ।।

नूतननीलोत्पलरम्यकान्तिं । पुनः कीदृशं ? कुटिलाग्रकेशेषु स्फुरत्किरीटं यस्य तं । पुनः कीदृशं ? स्मितं ईषद्विकसितं पुष्पं रत्नानि च ते रचितोऽवतंसो येन तं ।। टीका ८.७० ।।

______________________________

पुनः कीदृशं ?
सुललाटं उन्नसमुदञ्चितभ्रुवं
विपुलारुणायतविलोललोचनं ।
मणिकुण्डलास्रपरिदीप्तगण्डकं
नवबन्धुजीवकुसुमारुणाधरं ।। क्रमदीपिका८.७१ ।।

तथा शोभमानललाटं तथा उच्चनासिकं उद्गच्छद्भ्रूलताकम्, तथा स्थूलारुणवर्णदीर्घचञ्चलनयनं, तथा मणिमयकुण्डलकिरणपरिशोभितगण्डस्थलं यथा नूतनबन्धुजीवपुष्पसदृशारुणाधरं ।। टीका ८.७१ ।।

______________________________

पुनः कीदृशं परमेश्वरं ?

स्मितचन्द्रिकोज्ज्वलितदिङ्मुखं स्फुरत्
पुलकश्रमाम्बुकणमण्डिताननं ।
स्फुरदंशुरत्नगणदीप्तभूषणोत्
तमहारदामभिरुपस्कृतांसकं ।। क्रमदीपिका८.७२ ।।

हासचन्द्रकिरणधवलीकृतदिङ्मुखं तथा स्फुरद्रोमाञ्चजन्यप्रस्वेदबिन्दुशोभितवदनं । पुनः कीदृशं ? स्फुरद्देदीप्यमानकिरणरत्नसमूहप्रकाशमानभूषणश्रेष्ठहारमालाभिः शोभितस्कन्धं ।। टीका ८.७२ ।।

______________________________

पुनः कीदृशं ?
 घनसारकुङ्कुमविलिप्तविग्रहं
पृथुदीर्घषड्द्वयभुजाविराजितं ।
तरुणाब्जचारुचरणाब्जमङ्गलोन्
मथिताङ्गं अङ्कगकराम्बुजद्वयं ।। क्रमदीपिका८.७३ ।।

पुनश्चन्दनकुङ्कुमाभ्यां परिलिप्तशरीरं पुनः स्थूलदीर्घद्वादशहस्तैर्विराजितं तथा नूतनारुणवर्णपद्मसदृशचरणपद्मं पुनः कामपीडितदेहं पुनः स्वाङ्के आरोपितहस्तद्वयं ।। टीका ८.७३ ।।

______________________________

स्वाङ्कस्थभीष्मकसुतोरुयुगान्तरस्थलं
तां तप्तहेमरुचिं आत्मभुजाम्बुजाभ्यां ।
श्लिष्यन्तं आर्द्रजघनां उपगूहमानाम्
आत्मानं आयतलसत्करपल्लवाभ्यां ।। क्रमदीपिका८.७४ ।।

पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरुद्वयाभ्यन्तरे विद्यमानं । पुनस्तां रुक्मिणीं तप्तसुवर्णकान्तिं स्वीयहस्तपद्माभ्यां आलिङ्गन्तं । कीदृशीं तां ? आर्द्रजघनां पुनरात्मानं श्रीकृष्णं दीर्घमनोहरपाणिपल्लवाभ्यां आलिङ्गन्तीं ।। टीका ८.७४ ।।

______________________________

आनन्दोद्रेकनिघ्नां मुकुलितनयनेन्दीवरां स्रस्तगात्रीं
प्रोद्यद्रोमाञ्चसान्द्रश्रमजलकणिकामौक्तिकालङ्कृताङ्गीं ।
आत्मन्यालीनबाह्यान्तरकरणगणां अङ्गकैर्निस्तरङ्गैर्
मज्जन्तीं लीननानामतिं अतुलमहानन्दसन्दोहसिन्धौ ।। क्रमदीपिका८.७५ ।।

पुनः स्वात्मानन्दोद्रेकव्याप्तां । पुनः मुद्रितनयननीलोत्पलां । पुनः प्रोद्यत्तनुपुलकजन्यनिविडप्रस्वेदबिन्दुरूपमौक्तिकशोभितदेहां । पुनः आत्मनि श्रीकृष्णे सम्यग्विलीनबाह्याभ्यन्तरेन्द्रियसमूहां । पुनर्व्यापाररहितैः शरीरऽवयवैरतिशयितमहानन्दसमूहसागरे निमग्नां । पुनः विगतचञ्चलमतिं ।। टीका ८.७५ ।।

______________________________

पुनः कीदृशं परमेश्वरं ?

सत्याजाम्बवतीभ्यां
दिव्यदुकूलानुलेपनाभरणाभ्यां ।
मन्मथशरमथिताभ्यां
मुखकमलचञ्चललोचनभ्रमराभ्यां ।। क्रमदीपिका८.७६ ।।

सत्यभ्हामाजाम्बवतीभ्यां आलिङ्गनं । कथम्भूताभ्यां ? उत्कृष्टानि पट्टवस्त्रानुलेपनाभरणानि ययोस्ताभ्यां । पुनः कामशरपीडिताभ्यां । पुनः कृष्णमुखविषयकचञ्चलनेत्रभ्रमराभ्यां ।। टीका ८.७६ ।।

______________________________

भुजगयुगलाश्लिष्टाभ्यां
श्यामारुणललितकोमलाङ्गलताभ्यां ।
आश्लिष्टं आत्मदक्षिण
वामगताभ्यां करोल्लसत्कमलाभ्यां ।। क्रमदीपिका८.७७ ।।

पुनः परमेश्वरस्य भुजयुगलेनालिङ्गिताभ्यां । यथाक्रमनीलारुणवर्णे मनोहरे कोमले चाङ्गलते ययोस्ताभ्यां । पुनः परमेश्वरस्य दक्षिणवामगताभ्यां । पुनः पाणिस्फुरितपद्माभ्यां ।। टीका ८.७७ ।।

______________________________

पुनः कीदृशं ?
पृष्टगया कलिन्दसुतया करकमलयुजा
सम्परिरब्धं अञ्जनरुचा मदनमथितया ।
पद्मगदारथाङ्गदरभृद्भुजयुगलं
दोर्द्वयसक्तवंशविलसन्मुखसरसिरुहं ।। क्रमदीपिका८.७८ ।।

परमेश्वरपृष्ठदेशवर्तिन्या यमुनया हस्तधृतकमलया समालिङ्गितं । किम्भूतया श्यामया ? पुनः कामपीडितया । पुनः कीदृशं परमेश्वरं ? पद्मगदाशङ्खचक्रयुक्तहस्तचतुष्टयं हस्तद्वयधृतवंशविलसन्मुखकमलं ।। टीका ८.७८ ।।
______________________________

दिक्षु बहिः सुरर्षियतिभिः खेचरपरिवृढैर्
भक्तिभरावनम्रतनुभिः स्तुतिमुखरमुखैः ।
सन्ततसेव्यमानं अमनोवचनविषयकम्
अर्थचतुष्टयप्रदं अमुं त्रिभुवनजनकं ।। क्रमदीपिका८.७९ ।।

तृतीयपटलोक्तक्रमेणेत्यर्थः । पुनः बहिर्दिक्षु देवर्षियतिभिः खेचरमुख्यैर्भक्त्यतिशयनम्रदेहैः । परिवृढैः प्रधानैः स्तुतिभिः वाचालवदनैर्निरन्तरं सेवितं पुनः मनसो वाचां अगोचरं पुनर्धर्मार्थकाममोक्षफलचतुष्टयप्रदं पुनस्त्रैलोक्यजनकं ।। टीका ८.७९ ।।
______________________________

सान्द्रानन्दमहाब्धिमग्नं अमलधाम्नि स्वकेऽवस्थितं
ध्यात्वैवं परमं पुमांसं अनघात्सम्प्राप्य दीक्षां गुरोः ।
लब्ध्वामुं मनुं आदरेण सितधीर्लक्षं जपेद्योषितां
वार्ताकर्णनदर्शनादिरहितो मन्त्री गुरूणां अपि ।। क्रमदीपिका८.८० ।।

पुनर्निविडानन्दमहासमुद्रमग्नं । स्वीये निर्मले तेजसितद्रूपेणावस्थितं एवं उक्तरूपं परमेश्वरं विचिन्त्य निष्पापात्गुरोर्दीक्षामन्त्रोपदेशविधिं प्राप्यामुं मन्त्रं लब्ध्वा तीक्ष्णबुद्धिः आदरात्लक्षं एकं जपेत् । कीदृशः साधकः ? स्त्रीणां वृद्धानां अपि कथाश्रवणनिरीक्षणपराङ्मुखः ।। टीका ८.८० ।।

______________________________

होमं सेवां चाह

जुहुयाच्च दशांशकं हुताशे
ससिताक्षौद्रघृतेन पायसेन ।
प्रथमोदितपीठवर्यकेऽमुं
पर्यजेन्नित्यं अनित्यताविमुक्तये ।। क्रमदीपिका८.८१ ।।

हुताशे वह्नौ दशांशकं । अयुतं एकं शर्करामधुघृतयुक्तेन परमान्नेन जुहुयात् । किं च पूर्वोक्तदशाष्टादशाक्षरकथिते पीठश्रेष्ठे नित्यं अमुं यजेत् । किं अर्थं ? अनित्यः संसारस्तस्य परिहरणाय ।। टीका ८.८१ ।।

______________________________

आरभ्याथ विभूतिन्यासक्रमतः शरान्तं अभ्यर्च्य ।
मूर्त्याद्यङ्गान्तं चात्मानं विंशत्यर्णोदितयन्त्रवरे ।। क्रमदीपिका८.८२ ।।
मध्यबीजं परितो वरुणेन्दुयमेन्द्रदिक्षु संलिख्य ।
बीजचतुष्कं तदपि चत्वारिंशद्भिरक्षरैर्द्व्यधिकैः ।। क्रमदीपिका८.८३ ।।
शिष्टैः प्रवेष्ट्य शिवहरिवस्वाद्यश्रिष्वथ क्रमाद्विलिखेत् ।
वाङ्मायाश्रीमन्त्रास्तद्वद्रक्षोऽम्बुपानिलाश्रिषु च ।। क्रमदीपिका८.८४ ।।
शेषं पूर्वोदितवद्विधाय पीठं यथावदभ्यर्च्य ।
सङ्कलय्य मूर्तिं अत्रावाह्याभ्यर्चयतु मध्यबीजे तं ।। क्रमदीपिका८.८५ ।।

आरभ्येत्यादि विभूतिपञ्जरं आरभ्य न्यासक्रमेण बाणपर्यन्तं पूजयित्वा मूर्तिन्यासं आरभ्याङ्गन्यासपर्यन्तं चात्मरूपं सम्पूज्य पूर्वोक्तविंशत्यक्षरमन्त्रोक्तं यन्त्रश्रेष्ठकर्णिकामध्यस्थितवह्निपुरयुगमध्ये मध्यमबीजमध्ये बीजं इति पाठस्वरसात्हल्लेखाबीजं इति रुद्रधरगोविन्दमिश्रप्रभृतयः । परस्तह्मध्यमबीजं इति पाठे कामबीजं विलिख्य तत्परितश्च पश्चिमोत्तरपूर्वदक्षिणदिक्षु बीजचतुष्कं द्रीं त्रीं जीं झ्रीं इति बीजचतुष्टयं विलिख्य तदपि बीजचतुष्टयं द्विचत्वारिंशत्जपादिस्वाहान्तैः शिष्टैर्
मन्त्राक्षरैरुपरि वेष्टयेत् । अनन्तरं शिव ईशानः हरिरिन्द्रः पूर्वादि दिगित्यर्थः । वसुरग्निः आग्नेयादिक एवं नैरृतीवारुणीवायवीदिगेतेषु कोणेषु क्रमेण वाग्भवभुवनेश्वरीश्रीबीजानि त्रिरावृत्य विलिखेत् ।

अवशिष्टं पीठविधानं पूर्ववत्समाप्य पीठं यथावत्पूजयित्वा तत्र पीठे कर्णिकामध्यस्थितकामबीजे रुक्मिणीवल्लभमूर्तिं सङ्कल्प्य ध्यात्वा तं आवाह्य पूजयेत् ।। टीका ८.८२८५ ।।

______________________________

मुखदक्षसव्यपृष्ठगबीजेष्वर्च्यास्तु शक्तयः क्रमशः ।
रुक्मिण्याद्याः षट्स्वथ कोणेष्वङ्गानि केशरेषु शरान् ।। क्रमदीपिका८.८६ ।।

अनन्तरं देवस्य सन्मुखदक्षिणवामपृष्ठप्रदेशगतेषु बीजचतुष्टयेषु रुक्मिण्याद्याः शक्तयः पूज्याः षट्कोणेषु अङ्गानि केशरेषु शरान्पूजयेत् ।। टीका ८.८६ ।।

______________________________

लक्ष्म्याद्या दलमध्येष्वग्न्यादिषु तद्बहिर्ध्वजप्रमुखान् ।
अग्रे केतुं श्याम पृष्ठे विपं अरुणं अमलरक्तरुची ।। क्रमदीपिका८.८७ ।।
पार्श्वद्वये निधीशौ सन्ततधाराभिवृष्टधनपुञ्जौ ।
हेरम्बशास्तृदुर्गाविष्वक्सेनान्विदिक्षु वह्न्यादि ।। क्रमदीपिका८.८८ ।।
विद्रुममरकतदूर्वास्वर्णाभान्बहिरथेन्द्रवज्राद्यान् ।
यजनविधानं इतीरितं आवृतिसप्तकयुतं मुकुन्दस्य ।। क्रमदीपिका८.८९ ।।

अग्न्यादिपत्रमध्येषु लक्ष्म्याद्या पूज्याः । तत्र बहिर्भागे ध्वजप्रभृतीन्पूजयेत् । अनन्तरं देवस्य सन्मुखे श्यामवर्णकेतुनामानं गणं पूजयेत् । देवपृष्ठभागे अरुणवर्णं गरुडं पूजयेत् । देवपार्श्वद्वये निर्मलरक्तरुचीर्निधीश्वरौ पूज्यौ कीद्र्शौ ? निरन्तरधाराभिर्वृष्टधनसमूहौ ।

वह्न्यादिविदिक्षु हेरम्बादीन्प्रवालादिवर्णान्पूजयेत् । अनन्तरं बहिर्दिक्षु इन्द्रादिलोकपालान्तथा वर्जार्द्यायुधानि पूजयेत् । इति पूर्वोक्तप्रकारेण मुकुन्दस्य श्रीकृष्णस्यावरणसप्तकं पूजाविधानं कथितं इति ।। टीका ८.८७८९ ।।

______________________________

इत्यर्चयन्नच्युतं आदरेण
योऽमुं भजेन्मन्त्रवरं जितात्मा ।
सोऽभ्यर्च्य दिव्यजनैर्जनानां
हृन्नेत्रपङ्केरुहतिग्मभानुः ।। क्रमदीपिका८.९० ।।

इति अमुना प्रकारेण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयनमुं मन्त्रश्रेष्ठं सेवते स पुरुषः सुरैरपि पूज्यते । कीदृशः ? लोकानां हृदयपद्मलोचनपद्मयोः सूर्यः सर्वजनवशीकरणमन्त्रः समर्थ इत्यपि पाठः ।। टीका ८.९० ।।

______________________________

सितशर्करोत्तरपयःप्रतिपत्त्या
परितर्पयेद्दिनमुखे दिनशस्तं ।
सलिलैः शतं शतमखश्रियं एष
स्वविभूत्युदन्वति करोत्युदबिन्दुं ।। क्रमदीपिका८.९१ ।।

सितशर्कराप्रधानप्रतिपत्त्या दुग्धबुद्ध्याः जलैरेव दिनमुखे प्रातःकाले प्रतिदिनं शतकृत्वस्तं तर्पयेत् । अनन्तरं साधकः स्वाधिपत्यसमुद्रे इन्द्रस्य लक्ष्मीं जलबिन्दुवत् ।। टीका ८.९१ ।।

______________________________

विदलहलैः सुमनसः सुमनोभिर्
घनसारचन्दनबहुद्रवमग्नैः ।
मनुनामुना हवनतोऽयुतसङ्ख्यं
त्रिजगत्प्रियः स मनुवित्कविराट्स्याथ् ।। क्रमदीपिका८.९२ ।।

अनेन मन्त्रेण सुमनसो जातीमालतीनां अधेयस्य सुमनोभिः पुष्पैः विकसि । तैः कर्पूरयुक्तचन्दनस्य बहुद्रवव्याप्तैरयुतसङ्ख्यं हवनतोऽयुतहोमे न स मन्त्री त्रैलोक्यस्य प्रियः कविश्रेष्ठश्च भवति ।। टीका ८.९२ ।।

______________________________

ध्यानादेवास्य सद्यस्त्रिदशमृगदृशोर्वश्यतां यान्त्यवश्यं
कन्दर्पार्ताजपाद्यैः किं अथ न सुलभं मन्त्रतोऽस्मान्नरस्य ।
स्पर्धां उद्धूय चित्रं महदिदं अपि नैसर्गिकीं शश्वदेनं
सेवेते मन्त्रिमुख्यं सरसिजनिलया चापि वाचां अधीशा ।। क्रमदीपिका८.९३ ।।

अस्य रुक्मिणीवल्लभस्य ध्यानात्शीघ्रं त्रिदशमृगदृशः देवाङ्गना अवश्यं वश्यतां आयात्ततां प्राप्नुवन्ति । कथम्भूताः ? कामपीडिता । अथानन्तरं जपहोमादिनास्मात्मन्त्रात्साधकस्य किं न सुलभं । अपि तु सर्वं एव सुलभं इत्यर्थः । किं च, इदं अपि महच्चित्रं यत्सरसिजनिलया लक्ष्मीः वाचां अधीशा सरस्वती च स्वाभाविकीं असूयां त्यक्त्वा नित्यं एनं साधकश्रेष्ठं सेवेते ।। टीका ८.९३ ।।

______________________________

आधिव्याधिजरापमृत्युदुरितैर्भूतैः समस्तैर्विषैर्
दौभाग्येन दरिद्रतादिभिरसौ दूरं विमुक्तश्चिरं ।
सत्पुत्रैः सुसुतासुमित्रनिवहैर्जुष्टोखिलाभिः सदा
सम्पद्भिः परिजुष्ट ईडितयशा जीवेदनेकाः समाः ।। क्रमदीपिका८.९४ ।।

किं च मनोदुःखरोगजरापमृत्युशोकशून्यः सकलप्राणिभिर्विषैः तथा दुरदृष्टेन तथा दरिद्रतादिभिरतिशयेन परित्यक्तो बहुकालं व्याप्यविशिष्टपुत्रसमेतः सत्पुत्रीमित्रसमूहेन सेवितः सदा समृद्धः ईदितयशाः स्तुतयशाः असौ साधकः अनेकाः समा हायनानि जीवेत् ।। टीका ८.९४ ।।

______________________________

मन्त्रान्तरेभ्योऽस्यातिशयित्वं आह

अखिलमनुषु मन्त्रा वैष्णवा वीर्यवन्तो
महिततरफलाढ्यास्तेषु गोपालमन्त्राः ।
प्रबलतर इहैषोऽमीषु संमोहनाख्यो
मनुरनुपमसम्पत्कल्पनाकल्पशाखी ।। क्रमदीपिका८.९५ ।।

सर्वेषु मन्त्रेषु वैष्णवमन्त्रा अतिशयेन सवीर्याः तेष्वपि वैष्णवमन्त्रेषु गोपालमन्त्रा अतिपूजितफलयुक्ताः तेष्वपि गोपालमन्त्रेषु एष संमोहनाख्यमन्त्रः प्रबलतरः प्रकृष्टबलयुक्तः । पुनः निरुपमैश्वर्यदानैककल्पवृक्षः ।। टीका ८.९५ ।।

______________________________

मनुं इमं अतिहृद्यं यो भजेद्भक्तिनम्रो
जपहुतयजनाद्यैर्ध्यानवान्मन्त्रिमुख्यः ।
त्रुटितसकलकर्मग्रन्थिरुद्बुद्धचेताः
व्रजति स तु पदं तन्नित्यशुद्धं मुरारेः ।। क्रमदीपिका८.९६ ।।

यो मन्त्रिमुख्यः साधकश्रेष्ठः ध्यानयुक्तः भक्त्या आराध्यत्वज्ञानेन इमं मन्त्रं मनोहरं जपध्यानहोमादिभिर्भजेत्स मुरारेस्तत्प्रसिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्या नाशकस्य पदं । कीदृशं पदं ? अविनाशि सर्वकालुष्यरहितं । स कीदृशः ? विनाशितसकलकर्मबन्धनः । पुनः कीदृशः ? उद्बुद्धचेता वस्तुग्रहणोन्मुखचित्तः ।। टीका ८.९६ ।।

______________________________

अथ योगं आह

अङ्गीकृत्यैकं एषां मनुं अथ जपहोमार्चनाद्यैर्मनूनाम्
अष्टाङ्गोत्सारितारिः प्रमुदितपरिशुद्धप्रसन्नान्तरात्मा ।
योगी युञ्जीत योगान्समुचितविहृतिस्वप्नबोधा हृतिः स्यात्
प्रागास्यश्चासने स्वे सुमृदुनि समुखं मीलिताक्षो निविष्टः ।। क्रमदीपिका८.९७ ।।

एषां मनूनां मन्त्राणां मध्ये एकं मनुं मन्त्रजपहोमादिभिः स्वीकृत्य वशीकृत्य अष्टाङ्गेन यमनियमप्राणायामप्रत्याहारध्यानधारणासमाधिलक्षणेन उत्सारितास्त्यक्ताः कामक्रोधादयोऽरयो येन स तथा हर्षितनिर्मलप्रसन्नचित्तो योगी प्राग्वदनः सन्योगान्चित्तवृत्तिनिरोधादीन्करोतु । कीदृशो योगी ? यथोचितविहारनिद्राप्रबोधाहारः । पुनः स्वकीये सुकोमले आसने समुपविष्टः । पुनः कीदृशः ? सुखेनानायसेन संमीलिते मुद्रिते अक्षिणी येन सः ।।९७ ।।

______________________________

विश्वं भूतेन्द्रियान्तःकरणमयमिनेन्द्वग्निरूपं समस्तं
वर्णात्मैतत्प्रधाने कलनयनमये बीजरूपे ध्रुवेण ।
नीत्वा तत्पुंसि बिन्द्वात्मनि तं अपि परात्मन्यथो कालतत्त्वे
तं वै शक्तौ चिदात्मन्यपि नयतु च तां केवले धाम्नि शान्ते ।। क्रमदीपिका८.९८ ।।

एतद्वर्णात्मकं समस्तं विश्वं भूतेन्द्रियान्तःकरणरूपं सूर्येन्द्वग्निरूपं प्रधाने प्रकृतिरूपे कामबीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत्कामबीजं बिन्द्वात्मनि प्रसिद्धेऽनुस्वाराख्ये तं अपि बिन्द्वात्मानं नादाख्ये कालतत्त्वे परमात्मनि संहरेत्तं अपि कालतत्त्वं चिद्रूपायां शक्तौ संहरेत्तां अपि शक्तिं केवले तेजोमये स्वप्रकाशे धाम्नि तेजसि शान्ते सर्वोपद्रवरहिते नयतु ।। टीका ८.९८ ।।

______________________________

कीदृशे ?

निर्द्वन्द्वे निर्विशेषे निरतिशयमहानन्दसान्द्रेऽवसाना
पेतेऽर्थे कृष्णपूर्वमलरहितगिरां शाश्वते स्वात्मनीत्थं ।
संहृत्याभ्यस्य बीजोत्तमं अथ शनकैर्लीननिश्वासचेताः
प्रक्षीणापुण्यपुण्यो निरुपमपरसंवित्स्वरूपः स भूयाथ् ।। क्रमदीपिका८.९९ ।।

निर्द्वन्द्वे शीतोष्णादिद्वन्द्वविशेषरहिते विशेषो वैधर्म्यं तद्रहिते अत्यन्तानन्दघने अनन्ते कृष्णगोविन्दादिनिर्मलशब्दानां प्रतिपाद्ये आत्मस्वरूपे इत्थं अमुना प्रकारेण संहृत्य संहारं कृत्वा कामबीजं जपन् । अथानन्तरं स्वयं एव निश्चलश्वासचित्तो भूत्वा प्रक्षीणपापपुण्यश्च भूत्वा स योगी निरुपमः परमसंविन्मयो भवति ।। टीका ८.९९ ।।

______________________________

मूलाधारे त्रिकोणे तरुणतरणिभाभास्वरे विभ्रमन्तं
कामं बालार्ककालानलजठरकुरङ्गाङ्ककोटिप्रभासं ।
विद्युन्मालासहस्रद्युतिरुचिरहसद्बन्धुजीवाभिरामं
त्रैगुण्याक्रान्तबिन्दुं जगदुदयलयैकान्तहेतुं विचिन्त्य ।। क्रमदीपिका८.१०० ।।

त्रिकोणात्मके मूलाधारे उद्यदादित्यवत्प्रकाशमाने भ्रममाणं कामबीजं नूतनादित्यप्रलयकालीनवह्निचन्द्रकोटितुल्यकान्तिं पुनस्तडिन्मालासहस्रकान्तिं पुनः नूतनपुष्पितबन्धुकवन्मनोहरं सत्त्वादिगुणत्रयेण व्याप्तोऽनुस्वारसंज्ञको बिन्दुर्येन तं पुनः विश्वोत्पत्तिनाशैककारणं ।। टीका ८.१०० ।।

______________________________

तस्योर्ध्वे विस्फुरन्तीं स्फुटरुचिरतडित्पुञ्जभाभास्वराभाम्
उद्गच्छन्तीं सुषुम्णासरणिं अनुशिखां आललाटेन्दुबिम्बं ।
चिन्मात्रां सूक्ष्मरूपां कलितसकलविश्वां कलां नादगम्यां
मूलं या सर्वधाम्नां स्मरतु निरुपमां हुङ्कृतोदञ्चितेरः ।। क्रमदीपिका८.१०१ ।।

तस्य कामबीजस्य उपरि बिद्नुगतकुण्डलिनीं शक्तिं दीप्यमानां चिन्तयतु । किम्भूतां ? प्रव्यक्तमनोहरविद्युत्सहस्रवत्प्रकाशमानकान्तिं, पुनः ललाटचन्द्रबिम्बान्तं सुषुम्णारन्ध्रं यान्तीं, पुनः अनु अनुगता बीजगतबिइम्बात्मके वह्निशिखा ज्वाला यस्यां सा तथा तां । पुनः किम्भूतां ? चित्स्वरूपां । पुनः दुर्लक्षां । पुनराप्तसकलविश्वां । पुनः कलारूपां । पुनः नादानुमेयां । पुनः सर्वतेजसां मूलभूतां । कीदृशोऽधिकारी ? हुङ्कारेण उदञ्चित ऊर्ध्वं उत्पाटित इरो वायुरपानाख्यो येन स तथा ।। टीका ८.१०१ ।।

______________________________

नीत्वा ता शनकैरधोमुखसहस्रारारुणाब्जोदर
द्योतत्पूर्णशशाङ्कबिम्बं अमुतः पीयूषधारासृतिं ।
रक्तां मन्त्रमयीं निपीय च सुधानिस्यन्दरूपां विशेद्
भूयोऽप्यात्मनिकेतनं पुनरपि प्रोत्थाय पीत्वा विशेथ् ।। क्रमदीपिका८.१०२ ।।

तां कुण्डलिनीं शक्तिं शनकैर्यथा स्यादेवं अधोमुखसहस्रदलारुणकमलमध्यद्योतमानपूर्णचन्द्रमण्डलं नीत्वा अस्माच्चन्द्रबिम्बादमृतधारावृष्टिं रक्तवर्णां वर्णात्मिकां अमृतस्रवरूपां पाययित्वा आत्मनिकेतनं मूलाधारे प्रवेशयेत् । भूयोऽनन्तरं अपि तथैव तां उत्थाप्य तथा कृत्वा पुनस्तथा निजस्थानं प्रापयेदिति ।। टीका ८.१०२ ।।

______________________________

एतादृशाभ्यासस्य फलं आह

योऽभ्यस्यत्यनुदिनं एवं आत्मनोऽन्तं
बीजेशं दुरितजरापमृत्युरोगान् ।
जित्वासौ स्वयं इव मूर्तिमाननङ्गः
संजीवेच्चिरमलिनीलकेशपाशः ।। क्रमदीपिका८.१०३ ।।

यः प्रत्यहं अनेन प्रकारेण शरीरमध्ये कामबीजं अभ्यस्यत्यात्मनोऽन्तं मनोलयान्तं इदं अभ्यस्यतीति क्रियाविशेषणं असौ साधकः दुरितजरापमृत्युरोगान्पराभूय स्वयं एव देहधारिकन्दर्पो भूत्वा चिरकालं जीवति । कीदृशः ? भ्रमरवर्णवत्श्यामकेशसमूहः ।। टीका ८.१०३ ।।

______________________________

स्फुटमधुरपदार्णश्रेणिरत्यद्भुतार्था
झटितिवदनपद्माद्विस्फुरत्यस्य वाणी ।
अपि च सकलमन्त्रास्तस्य सिध्यन्ति मङ्क्षु
व्युपरमघनसौख्यैकास्पदं वर्तते सः ।। क्रमदीपिका८.१०४ ।।

अस्य साधकस्य मुखकमलान्शीघ्रं सरस्वती प्रभवती । किम्भूता ? प्रव्यक्तमनोहरपदवर्णसमूहात्मिका अत्याश्चर्यविषया किन्तु अस्य साधकस्य मङ्क्षु अन्येऽपि मन्त्राः सिध्यन्ति किं च स साधकः अविश्रान्तनिविडसुखमात्रस्थानं भूत्वा तिष्ठति ।। टीका ८.१०४ ।।

______________________________

भ्राम्यन्मूर्तिं मूलचक्रादनङ्ग
स्वाभिर्भाभीरक्तपीयूषयुग्भिः ।
विश्वाकाशं पूरयन्तं विचिन्त्य
प्रत्यावेश्यास्तत्र वश्याय साध्याः ।। क्रमदीपिका८.१०५ ।।

नार्यो नरो वा नगरी सभापि वा
प्रवेशितास्तत्र निशातचेतसा ।
स्युः किङ्करास्तस्य झटित्यनारतं
चिराय तन्निघ्नधियो न संशयः ।। क्रमदीपिका८.१०६ ।।

मूलचक्रान्मूलाधारे अत्र सप्तम्यर्थे पञ्चमी भ्रमणमूर्तिं कामबीजं स्वकीयाभिर्दीप्तिभिर्लोहितामृतयुक्ताभिर्ब्रह्माण्डमध्यप्रदेशे पूर्यमाणं ध्यात्वा निशातचेतसा तीक्ष्णमतिना तत्र नारीप्रभृतयः साध्यावश्यार्थं प्रत्यावेश्याः प्रक्षेप्तव्या । अनन्तरं तत्र प्रवेशिताः प्रवेशप्रापिताः स्त्रीप्रभृतयस्तन्निमग्नधियस्तेन हृतचित्ताः । तस्य साधकस्य शीघ्रं चिरकालं आज्ञाकारिणो भवन्ति नात्र सन्देहः ।। टीका ८.१०५१०६ ।।

______________________________

तरणिदलसनाथे शक्रगोपारुणे यो
रविशशिशिखिबिम्बप्रस्फुरच्चारुमध्ये ।
हृदयसरसिजेऽमुं श्यामलं कोमलाङ्गं
सुसुखं उपनिविष्टं तं स्मरेद्वासुदेवं ।। क्रमदीपिका८.१०७ ।।

तद्द्वादशदलयुक्ते हृदयकमले इन्द्रगोपाख्यो रक्तकीटविशेषः तद्वदरुणे सूर्यवह्निचन्द्रमण्डलशोभितचारुमध्यप्रदेशे अमुं श्यामवर्णं कोमलाङ्गं सुकुमाराङ्गं सुखप्रकारेणोपविष्टं वासुदेवं चिन्तयेत् ।। टीका ८.१०७ ।।

______________________________

पादाम्भोजद्वयेऽङ्गुल्यमलकिशलयेष्वाबलौ सन्नखानां
सत्कूर्मोदारकान्तौ प्रपदयुजि लसज्जङ्घिकादण्डयोश्च ।
जान्वोरूर्वोः पिशङ्गे नववसनवरे मेखलादाम्नि नाभौ
रोमावल्यां उदारोदरभुवि विपुले वक्षसि प्रौढहारे ।। क्रमदीपिका८.१०८ ।।

आदिपुंसः श्रीकृष्णस्य पादाम्भोजं आरभ्य हसितान्तेषु स्थानेषु वक्ष्यमाणेषु शनैर्यथा स्यात्तथा इति क्रमतः स्थानक्रमतः स्थानक्रमेण स्वीयं मनः स्थापयतु । तथा पादपद्मद्वये प्रथमं मनः स्थापयेत् । तदनन्तरं पूर्वं पूर्वं अपोह्यापरस्थानेषु मनो निदध्यादङ्गुल्य एवामलकिशलया निर्मलपल्लवास्तेषु । तदनु नखानां शोभमानपङ्क्तौ तदनु प्रपदयुजि पादद्वये । कीदृशे ? कूर्मपृष्ठवदुपरिभागे उन्नते । तदनु देदीप्यमानजङ्घाद्वये । तदनु जानुद्वये ऊरुद्वये पीतवर्णे नूतनवस्त्रयोः श्रेष्ठे
क्षुद्रघण्टिकामालायां नाभिप्रदेशे तन्निष्ठरोमपङ्क्तौ च विपुलोदरस्थाने महाहारयुक्ते विस्तीर्णे वक्षसि ।। टीका ८.१०८ ।।

______________________________

श्रीवत्से कौस्तुभे च स्फुटकमललसद्बद्धहृद्दाम्नि बाह्वोर्
मूले केयूरदीप्ते जगदवनपटौ दोर्द्वये कङ्कणाढ्ये ।
पाणिद्वन्द्वाङ्गुलिस्थेऽतिमधुररवसंलीनविश्वे च वेणौ
कण्ठे सत्कुण्डलोस्रस्फुटरुचिरकपोलस्थद्वन्द्वके च ।। क्रमदीपिका८.१०९ ।।

श्रीवत्से विप्रपादावघाततर्जन्योर्ध्वरोमात्मके कौस्तुभे हृदयनिविष्टमणिविशेषे विकसितपद्ममालायां केयूरशोभितबाह्वोर्मूले संसाररक्षणदक्षे कङ्कणयुक्ते बाहुद्वये हस्तद्वयाङ्गुलिनिष्ठे अतिमधुरशब्देन मग्नं जगत्त्रयं येन एवम्भूते वेणौ । तदनु कण्ठे रम्यकुण्डलकिरणप्रकाशितमनोहरकपोलस्थयुगले ।। टीका ८.१०९ ।।

______________________________

कर्णद्वन्द्वे च घोणे नयननलिनयोर्भ्रूविलासे ललाटे
केशेष्वालोलबर्हेष्वतिसुरभिमनोज्ञप्रसूनोज्ज्वलेषु ।
शोणे विन्यस्तवेणावधरकिशलये दन्तपङ्क्त्यां स्मिताख्ये
ज्योत्स्नायां आदिपुंसः क्रम इति च शनैः स्वं मनः संनिधत्तां ।। क्रमदीपिका८.११० ।।

कर्णद्वये नासायुगले नेत्रपद्मद्वये भ्रूविक्षेपे ललाटे चञ्चलमयूरपुच्छयुक्तेषु अतिसुगन्धितमनोहरपुष्पोज्ज्वलेषु केशेषु शोणवर्णे आरोपितवेणौ अधरपल्लवे दन्तपङ्क्त्यां स्मितं आख्या नाम यस्या तस्यां ज्योत्स्नायां चन्द्रकान्तौ ज्योत्स्नातुल्ये स्मिते ।। टीका ८.११० ।।

______________________________

यावन्मनोविलयं एति हरेरुदारे
मन्दस्मितेऽभ्यसतु तावदनङ्गबीजं ।
अष्टादशार्णं अथवापि दशार्णकं वा
मन्त्री शनैरथ समाहितमातरिश्वा ।। क्रमदीपिका८.१११ ।।

हरेरुदारे शोभमाने मन्दस्मिते मनो यावद्विलयं विशेषतो लयं एति तावदनङ्गबीजं अष्टादशार्णं दशार्णं वा प्रजपतु । किम्भूतः ? समाहितमातरिश्वा प्रत्याहरीकृतः प्राणवायुः ।। टीका ८.१११ ।।

______________________________

आरोप्यारोप्य मनः पदारविन्दादिमन्दहसितान्तं ।
तत्र विलाप्य क्षीणे चेतसि सुखचित्सदात्मको भवति ।। क्रमदीपिका८.११२ ।।

मनः पदारविन्दं आरभ्य ईसद्हास्यपर्यन्तं समारोप्यानन्तरं । तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्धे चित्ते सति सुखज्ञानसदात्मको भवति साधकः ।। टीका ८.११२ ।।

______________________________

न्यासजपहोमपूजातर्पणमन्त्राभिषेकविनियोगानां ।
दीपिकयैव मयोद्भाषितः क्रमः कृत्स्नमन्त्रगणकथितानां ।। क्रमदीपिका८.११३ ।।

कृष्णमन्त्रसमूहकथितानां न्यासजपादीनां क्रमदीपिकयैव क्रमः प्रकाशितः ।। टीका ८.११३ ।।

______________________________

संशयतिमिरच्छिदुरा सैषा क्रमदीपिका करेण सद्भिः ।
करदीपिकेव धार्या सस्नेहं अहर्निशं समस्तसुखाप्त्यै ।। क्रमदीपिका८.११४ ।।

सैषा क्रमदीपिका साधुजनैः सस्नेहं यथा स्यात्तथा करदीपिकेव धार्या । किम्भूता ? संशयरूपान्धकारच्छेदयित्री अन्यापि तैलादिस्नेहसहितं यथा स्यात्तथा धार्यते अन्धकारनाशिनी भवति । किं अर्थं धार्या ? समस्तसुखप्राप्त्यर्थं ।। टीका ८.११४ ।।

______________________________

जगदिदं अनुबिद्धं येन यस्मात्प्रसूते
यदनु ततं अजस्रं पाति चाधिष्ठिता यं ।
यदुरु मह उदर्चिर्यं विधत्ते च गोपी
तं अमृतसुखबोधज्योतिषं न्ॐइ कृष्णं ।। क्रमदीपिका८.११५ ।।

जगदिदं अनुविद्धं अनुस्यूतं येन ज्योतिषा यस्मात्परमेश्वरातिमं जनलोकं संसाराख्यं प्रसूते प्रसूतिं प्रानोतीत्यर्थः । यस्मिन्नित्यपि पाठः । तथा परमेश्वरं अधिष्ठातारं आश्रिता सती अनुततं विस्तृतं जगतजस्रं सर्वदा पाति रक्षति यस्य परमेश्वरस्य ऊरु विपुलं महः तेजः ततुदर्चिस्तत्तेजसा उदितदीप्तिः सती यं प्रतिबिम्बरूपेण धत्ते तं उक्तानन्दं स्वप्रकाशं न्ॐइ स्त्ॐइ ।। टीका ८.११५ ।।

______________________________

यश्चक्रं निजकेलिसाधनं अधिष्ठानस्थितोऽपि प्रभुर्
दत्तं मन्मथशत्रुणावनकृते व्यावृत्तलोकात्तिकं ।
धत्ते दीप्तनवेन शोभनं अघापेतात्तमायं ध्रुवं
वन्दे कायविमर्दनं वधकृतां भुञ्जद्द्युकं यादवं ।। क्रमदीपिका८.११६ ।।

यः परमेश्वरः श्रीकृष्णः वक्ष्यमाणलक्षणं चक्रं धत्ते तं वन्दे इत्यन्वयः । कथम्भूतं चक्रं ? निजकेलिसाधनं निजयुद्धक्रीडाकरणं । कीदृशः परमेश्वरः ? अधिष्ठानस्थितोऽपि समाधिस्थितोऽपि । यद्वा, बाह्यस्थितोऽपि प्रभुः स्वामी । पुनः कीदृशैः ? मन्मथशत्रुणा महादेवेन अवने अवनकृते सर्वलोकरक्षार्थं दत्तं । पुनर्दूरीकृतातिवृष्ट्यनावृष्ट्याद्यपद्रवं, पुनः दीप्तनवेन इव शोभनं देदीप्यमानं । किं भूतं कृष्णं ? पापरहितं
स्वीकृतमायं पुनर्ध्रुवं अविनाशिनं पुनर्वधकृतां उपद्रवकारिणां कायविमर्दनं शरीरनाशकं पुनः भुञ्जद्द्युकं भुञ्जत्स्वर्गलोकं पुनर्जात्यायादवं इत्यर्थः । अत्र पद्ये चक्रबन्धे ग्रन्थकर्ता स्वनाम प्रक्षिप्तवानिति बोध्यं ।। टीका ८.११६ ।।


इति श्रीमन्महामहोपध्यायश्रीकेशवकाश्मीरिभट्टगोस्वामिविरचितायां
क्रमदीपिकायां अष्टमः पटलः ।।।८ ।।


समाप्तोऽयं ग्रन्थः