आपिशलशिक्षा/चतुर्थोध्यायः

विकिस्रोतः तः
← अध्यायः ३ शिक्षा
आपिशलशिक्षा/अध्यायः ४
अध्यायः ५ →

अन्तःप्रयत्नप्रकरणम्

प्रयत्नो द्विविधः । १ ।

आभ्यन्तरो बाह्यश्च । २ ।

आभ्यन्तरस्तावत् । ३ ।

स्पृष्टकरणाः स्पर्शाः । ४ ।

ईषत्स्पृष्टकरणाः अन्तस्थाः । ५ ।

ईषद्विवृतकरणा ऊष्माणः । ६ ।

विवृतकरणाः स्वराः । ७ ।

तेभ्य ए ओ विवृततरौ । ८ ।

ताभ्यामै औ । ९ ।

ताभ्यामप्याकारः । १० ।

संवृतोऽकारः । ११ ।

इत्येषोऽन्तःप्रयत्नः । १२ ।