आपिशलशिक्षा/पञ्चमोध्यायः

विकिस्रोतः तः
← अध्यायः ४ शिक्षा
आपिशलशिक्षा
अध्यायः ६ →

बाह्यप्रयत्नप्रकरणम्

अथ बाह्यः । १ ।

वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयजिह्वामूलीयोपध्मानीया यमौ च ।३।

प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः । ४ ।

वर्गयमानां प्रथमेऽल्पप्राणा इतरे सर्वे महाप्राणाः । ५ ।

वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च
तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः । ६ ।

वर्गयमानां तृतीया अन्तस्थाश्चल्पप्राणा इतरे सर्वे महाप्राणाः । ७ ।

यथा तृतीयास्तथा पञ्चमाः । ८ ।

आनुनासिक्यमेषामधिको गुणः । ९ ।

कादयो मावसानाः स्पर्शाः । १० ।

यादयोऽन्तस्थाः । ११ ।

शादय ऊष्माणः । १२ ।

सस्थानेन द्वितीयाः । १३ ।

हकारेण चतुर्थाः । १४ ।

एष बाह्य प्रयत्नः । १५ ।