आपिशलशिक्षा/तृतीयोध्यायः

विकिस्रोतः तः
← अध्यायः २ शिक्षा
आपिशलशिक्षा
अध्यायः ४ →

करणप्रकरणम्

करणमपि । १ ।

जिह्व्यतालव्यमूर्धन्यदन्त्यानां जिह्वा करणम् । २ ।

कथमिति । ३ ।

जिह्वामूलेन जिह्व्यानाम् । ४ ।

जिह्वामध्येन तालव्यानाम् । ५ ।

जिह्वोपाग्रेण मूर्धन्यानाम् । ६ ।

जिह्वाग्राधः करणं वा । ७ ।

जिह्वाग्रेण दन्त्यानाम् । ८ ।

शेषाः स्वस्थानकरणाः । ९ ।

इत्येतत् करणम् । १० ।