सामग्री पर जाएँ

सूर्यसिद्धान्तः/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ सूर्यसिद्धान्तः
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः ।
सम्पूज्य भास्करं भक्त्या ग्रहान्भान्यथ गुह्यकान् ॥ १३.०१ ॥

पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् ।
आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान् ॥ १३.०२ ॥

भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम् ।
अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् ॥ १३.०३ ॥

दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम् ।
आधारकक्षाद्वितयं कक्षा वैषुवती तथा ॥ १३.०४ ॥

भगणांशाङ्गुलैः कार्या दलितैस्तिस्र एव ताः ।
स्वाहोरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः ॥ १३.०५ ॥

क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः ।
स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनां अपक्रमात् ॥ १३.०६ ॥

कक्षाः प्रकल्पयेत्ताश्च कर्क्यादीनां विपर्ययात् ।
तद्वत्तिस्रस्तुलादीनां मृगादीनां विलोमतः ॥ १३.०७ ॥

याम्यगोलाश्रिताः कार्याः कक्षाधाराद्द्वयोरपि ।
याम्योदग्गोलसंस्थानां भानां अभिजितस्तथा ॥ १३.०८ ॥

सप्तर्षीणां अगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ।
मध्ये वैषुवती कक्षा सर्वेषां एव संस्थिता ॥ १३.०९ ॥

तदाधारयुतेरूर्ध्वं अयने विषुवद्वयम् ।
विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात् ॥ १३.१० ॥

क्षेत्राण्येवं अजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् ।
अयनादयनं चैव कक्षा तिर्यक्तथापरा ॥ १३.११ ॥

क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन् ।
चन्द्राद्याश्च स्वकैः पातैरपमण्डलं आश्रितैः ॥ १३.१२ ॥

ततो +अपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् ।
उदयक्षितिजे लग्नं अस्तं गच्छच्च तद्वशात् ॥ १३.१३ ॥

लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम् ।
मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयते ॥ १३.१४ ॥

ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम् ।
कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् ॥ १३.१५ ॥

वस्त्रच्छन्नं बहिस्चापि लोकालोकेन वेष्टितम् ।
अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥ १३.१६ ॥

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् ।
गोप्यं एतत्प्रकाशोक्तं सर्वगम्यं भवेदिह ॥ १३.१७ ॥

तस्माद्गुरूपदेशेन रचयेद्गोलं उत्तमम् ।
युगे युगे समुच्छिन्ना रचनेयं विवस्वतः ॥ १३.१८ ॥

प्रसादात्कस्यचिद्भूयः प्रादुर्भवति कामतः ।
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥ १३.१९ ॥

एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि ।
शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा ॥ १३.२० ॥

गुरूपदेशाद्विज्ञेयं कालज्ञानं अतन्द्रितैः ।
तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ॥
ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत् ॥ १३.२१ ॥

पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।
बीजानि पांसवस्तेषु प्रयोगास्ते +अपि दुर्लभाः ॥ १३.२२ ॥

तांरपात्रं अधश्छिद्रं न्यस्तं कुण्डे +अमलाम्भसि ।
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥ १३.२३ ॥

नरयन्त्रं तथा साधु दिवा च विमले रवौ ।
छायासंसाधनैः प्रोक्तं कालसाधनं उत्तमम् ॥ १३.२४ ॥

ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः ।
ग्रहलोकं अवाप्नोति पर्यायेणात्मवान्नरः ॥ १३.२५ ॥