सूर्यसिद्धान्तः/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ सूर्यसिद्धान्तः
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ।
भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः ।। १२.०१ ।।

भगवन्किम्प्रमाणा भूः किं आकारा किं आश्रया ।
किंविभागा कथं चात्र सप्तपातालभूमयः ।। १२.०२ ।।

अहोरात्रव्यवस्थां च विदधाति कथं रविः ।
कथं पर्येति वसुधां भुवनानि विभावयन् ।। १२.०३ ।।

देवासुराणां अन्योन्यं अहोरात्रं विपर्ययात् ।
किं अथ तत्कथं वा स्याद्भानोर्भगणपूरणात् ।। १२.०४ ।।

पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम् ।
तदेव किल सर्वत्र न भवेत्केन हेतुना ।। १२.०५ ।।

दिनाब्दमासहोराणां अधिपा न समाः कुतः ।
कथं पर्येति भगणः सग्रहो +अयं किं आश्रयः ।। १२.०६ ।।

भूमेरुपर्युपर्यूर्ध्वाः किं उत्सेधाः किं अन्तराः ।
ग्रहर्क्षकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः ।। १२.०७ ।।

ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः ।
कियती तत्करप्राप्तिर्मानानि कति किं च तैः ।। १२.०८ ।।

एवं मे संशयं छिन्धि भगवन्भूतभावन ।
अन्यो न त्वां ऋते छेत्ता विद्यते सर्वदर्शिवान् ।। १२.०९ ।।

इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यं अस्य हि ।
रहस्यं परं अध्यायं ततः प्राह पुनः स तम् ।। १२.१० ।।

शृणुष्वैकमना भूत्वा गुह्यं अध्यात्म संज्ञितम् ।
प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ।। १२.११ ।।

वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः ।
अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परो +अव्ययः ।। १२.१२ ।।

प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः ।
सङ्कर्षणो +अपः सृष्ट्वादौ तासु वीर्यं अवासृजत् ।। १२.१३ ।।

तदण्डं अभवद्धैमं सर्वत्र तमसावृतम् ।
तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः ।। १२.१४ ।।

हिरण्यगर्भो भगवानेष छन्दसि पठ्यते ।
आदित्यो ह्यादिभूतत्वात्प्रसूत्या सूर्य उच्यते ।। १२.१५ ।।

परं ज्योतिस्तमः पारे सूर्यो +अयं सवितेति च ।
पर्येति भुवनानेष भावयन्भूतभावनः ।। १२.१६ ।।

प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः ।
ऋचो +अस्य मण्डलं सामान्युस्त्रामूर्तिर्यजूंषि च ।। १२.१७ ।।

त्रयीमहो +अयं भगवाण् कालात्मा कालकृद्विभुः ।
सर्वात्मा सर्वगः सूक्ष्मः सर्वं अस्मिन्प्रतिष्ठितम् ।। १२.१८ ।।

रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् ।
छन्दांस्यश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा ।। १२.१९ ।।

त्रिपादं अमृतं गुह्यं पादो +अयं प्रकटो +अभवत् ।
सो +अहङ्कारं जगत्सृष्ट्यै ब्रह्माणं असृजत्प्रभुः ।। १२.२० ।।

तस्मै वेदान्वरान्दत्त्वा सर्वलोकपितामहम् ।
प्रतिष्ठाप्याण्डमध्ये +अथ स्वयं पर्येति भावयन् ।। १२.२१ ।।

अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् ।
मनसश्चन्द्रमा जज्ञे सूर्यो +अक्ष्णोस्तेजसां निधिः ।। १२.२२ ।।

मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।
गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ।। १२.२३ ।।

अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः ।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ।। १२.२४ ।।

पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम् ।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ।। १२.२५ ।।

ततश्चराचरं विश्वं निर्ममे देवपूर्वकम् ।
ऊर्ध्वमध्याधरेभ्यो +अथ स्रोतोभ्यः प्रकृतीः सृजन् ।। १२.२६ ।।

गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् ।
विभागं कल्पयामास यथास्वं वेददर्शनात् ।। १२.२७ ।।

ग्रहनक्षत्रतारानां भूमेर्विश्वस्य वा विभुः ।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् ।। १२.२८ ।।

ब्रह्माण्डं एतत्सुषिरं तत्रेदं भूर्भुवादिकम् ।
कटाहद्वितयस्येव सम्पुटं गोलकाकृति ।। १२.२९ ।।

ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते ।
तन्मध्ये भ्रमणं भानां अधो +अधः क्रमशस्तथा ।। १२.३० ।।

मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः ।
परिभ्रमन्त्यधो+अधःस्थाः सिद्ध्हविद्याधरा घनाः ।। १२.३१ ।।

मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
बिभ्रानः परमां शक्तिं ब्रह्मणो धारणात्मकाम् ।। १२.३२ ।।

तदन्तरपुटाः सप्त नागासुरसमाश्रयाः ।
दिव्यौषधिरसोपेता रम्याः पातालभूमयः ।। १२.३३ ।।

अनेकरत्ननिचयो जाम्बूनदमयो गिरिः ।
भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः ।। १२.३४ ।।

उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः ।
अधस्तादसुरास्तद्वद्द्विषन्तो +अन्योन्यं आश्रिताः ।। १२.३५ ।।

ततः समन्तात्परिधिः क्रमेणायं महार्णवः ।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ।। १२.३६ ।।

समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः ।
द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः ।। १२.३७ ।।

भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता ।
भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ।। १२.३८ ।।

याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी ।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ।। १२.३९ ।।

उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः ।। १२.४० ।।

भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः ।
ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः ।। १२.४१ ।।

तासां उपरिगो याति विषुवस्थो दिवाकरः ।
न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ।। १२.४२ ।।

मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते ।
निरक्षदेशसंस्थानां उभये क्षितिजाश्रये ।। १२.४३ ।।

अतो नाक्षत्रोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः ।
नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा । १२.४४ ।।

मेषादौ देवभागस्थे देवानां याति दर्शनम् ।
असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः ।। १२.४५ ।।

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः ।
देवभागे सुराणां तु हेमन्ते मन्दतान्यथा ।। १२.४६ ।।

देवासुरा विषुवति क्षितिजस्थं दिवाकरम् ।
पश्यन्त्यन्योन्यं एतेषां वामसव्ये दिनक्षपे ।। १२.४७ ।।

मेषादावुदितः सूर्यस्त्रीन्राशीनुदगुत्तरम् ।
सञ्चरन्प्रागहर्मध्यं पूरयेन्मेरुवासिनाम् ।। १२.४८ ।।

  • कर्क्यादीन्सञ्चरंश्तद्वदह्नः पश्चार्धं एव सः ।(C कर्कादीन्)

तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम् ।। १२.४९ ।।

अतो दिनक्षपे तेषां अन्योन्यं हि विपर्ययात् ।
अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ।। १२.५० ।।

दिनक्षपार्धं एतेषां अयनान्ते विपर्ययात् ।
उपर्यात्मानं अन्योन्यं कल्पयन्ति सुरासुराः ।। १२.५१ ।।

अन्ये +अपि समसूत्रस्था मन्यन्ते +अधः परस्परम् ।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ।। १२.५२ ।।

सर्वत्रैव महीगोले स्वस्थानं उपरि स्थितम् ।
मन्यन्ते खे यतो गोलस्तस्य क्वोर्धवं क्व वाधः ।। १२.५३ ।।

अल्पकायतया लोकाः स्वस्थानात्सर्वतो मुखम् ।
पश्यन्ति वृत्तां अप्येतां चक्राकारां वसुन्धराम् ।। १२.५४ ।।

सव्यं भ्रमति देवानां अपसव्यं सुरद्विषाम् ।
उपरिष्टाद्भगोलो +अयं व्यक्षे पश्चान्मुखः सदा ।। १२.५५ ।।

अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा ।
हानिवृद्धी सदा वामं सुरासुरविभागयोः ।। १२.५६ ।।

मेषादौ तु सदा वृद्धिरुदगुत्तरतो +अधिका ।
देवांशे च क्षपाहानिर्विपरीतं तथासुरे ।। १२.५७ ।।

तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे ।
देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम् ।। १२.५८ ।।

भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् ।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः ।। १२.५९ ।।

परमापक्रमादेवं योजनानि विशोधयेत् ।
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः ।। १२.६० ।।

अयनान्ते विलोमेन देवासुरविभागयोः ।
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन्सकृत्तथा ।। १२.६१ ।।

तदन्तरे +अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः ।
परतो विपरीतो +अयं भगोलः परिवर्तते ।। १२.६२ ।।

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः ।
धनुर्मृगस्थः सविता देवभागे न दृश्यते ।। १२.६३ ।।

तथा चासुरभागे तु मिथुने कर्कटे स्थितः ।
नष्टच्छाया महीवृत्तपादे दर्शनं आदिशेत् ।। १२.६४ ।।

एकज्यापक्रमानीतैर्योजनैः परिवर्जिते ।
भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः ।। १२.६५ ।।

धनुर्मृगालिकुम्भेषु संस्थितो +अर्को न दृश्यते ।
देवभागे +असुराणां तु वृषाद्ये भचतुष्टये ।। १२.६६ ।।

मेरौ *मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् ।(ड्चकार्धे)
सकृदेवोदितं तद्वदसुराश्च तुलादिगम् ।। १२.६७ ।।

भूमण्डलात्पञ्चदशे भागे देवे +अथ वासुरे ।
उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः ।। १२.६८ ।।

तदन्तरालयोश्च्छाया याम्योदक्सम्भवत्यपि ।
मेरोरभिमुखं याति परतः स्वविभागयोः ।। १२.६९ ।।

भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः ।
रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा ।। १२.७० ।।

भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् ।
मध्योदयार्धरात्र्यस्तकालान्कुर्यात्प्रदक्षिणम् ।। १२.७१ ।।

ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः ।
निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ।। १२.७२ ।।

भचक्रं ध्रुवयोर्बद्धं आक्षिप्तं प्रवहानिलैः ।
पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ।। १२.७३ ।।

सकृदुद्गतं अब्दार्धं पश्यन्त्यर्कं सुरासुराः ।
पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ।। १२.७४ ।।

  • उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च ।(C उपरिष्ठस्य)

महत्या कक्षया भागा महान्तो +अल्पास्तथाल्पया ।। १२.७५ ।।

कालेनाल्पेन भगणं भुङ्क्ते +अल्पभ्रमणाश्रितः ।
ग्रहः कालेन महता मण्डले महति भ्रमन् ।। १२.७६ ।।

स्वल्पयातो बहून्भुङ्क्ते भगणान्शीतदीधितिः ।
महत्या कक्षया गच्छन्ततः स्वल्पं शनैश्चरः ।। १२.७७ ।।

मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः ।
वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्तिताः ।। १२.७८ ।।

ऊर्ध्वक्रमेण शशिनो *मासानां अधिपाः स्मृताः ।(ड्मसानाम्)
होरेशाः सूर्यतनयादधो+अधः क्रमशस्तथा ।। १२.७९ ।।

भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम् ।
सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम् ।। १२.८० ।।

कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया ।
आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः ।। १२.८१ ।।

सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् ।
कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता ।। १२.८२ ।।

भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा ।
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका ।। १२.८३ ।।

कक्षा भूकर्णगुणिता महीमण्डलभाजिता ।
तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताः ।। १२.८४ ।।

खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः ।(३२४३०
ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस्तथा ।।(१०४३२०९) १२.८५ ।।

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः ।(२६६४६३७)
ततो +अर्कबुधशुक्राणां खखार्थैकसुरार्णवाः ।।(४३३१५००) १२.८६ ।।

कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः ।(८१४६९०९)
चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः ।।(३८३२८४८४) १२.८७ ।।

कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः ।(५१३७५७६४)
स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः ।।(८०५७२८६४) १२.८८ ।।

पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः ।(१२७६६८२५५)
भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः ।।(२५९८००१२) १२.८९ ।।

खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः ।(१८७१२०८०८६४००००००)
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः ।। १२.९० ।।